राष्ट्रध्वजं नमामि
राष्ट्रध्वजं नमामि ।
मरुता प्रकम्पमानं उच्चैर्विराजमानं
रुचिरं त्रिवर्णकान्तं ॥ ध्रु. ॥ राष्ट्रध्वजं नमामि
शशिकिरणधवलवर्णः विमलं यशोवितन्ते
रवितुरग हरितकान्तिः भुविभाग्यदो विजयते
अरुणः प्रभा प्रमोदं चित्ते न कस्य कुरुते
चक्राङ्कितं सुचिह्नम् ॥ १॥ राष्ट्रध्वजं नमामि
कवयत् तवत् तवार्थं प्रतिभां समर्पयन्ति
वीरात् तवागरार्थं प्राणानपि त्यजन्ति
तव मान रक्षणार्थं सर्वे सदा यतन्ते
त्वां स्फूर्तिदं चलान्यम् ॥ २॥ राष्ट्रध्वजं नमामि
अकुतो भयं मनो मे त्वयि नित्यमेव रमतां
सत्यं शिवं च हृद्यं लब्धुं सदा प्रयततां
जगतीह बन्धुभावं गुरुतां जयं च लभतां
मम राष्ट्र मानचिह्नम् ॥ ३॥ राष्ट्रध्वजं नमामि