रुद्रयामलमङ्गलानि
ओङ्कारः सकलागम-प्रसृमर-ब्रह्मोपमः सर्वदा
स्वच्छन्दः श्रुति-सार-सम्भृत-वर-स्वारस्य-सन्तर्पितः ।
ओमादि-त्रितयेन यः स्वरयुतः सव्यञ्जनो यामलः
स्वान्तर्नाद-निनादितः स दिशतु श्रेयः सदा बिन्दुयुक् ॥ १॥
बिन्दोः पश्चात् त्रिकोणं यदतिरुचिकरं राजते यन्त्रराजे
तस्मिन् दिव्यं गुरूणां त्रितयमपि लसत्यञ्जसैवौघरूपम् ।
अस्य प्राप्य प्रसादं तरति भुवि जनः सागरं संसृतेः स्राग्
दिव्याद्योघत्रयं तत्सुचरणसरणिः सन्निधत्तां हृदब्जे ॥ २॥
हृद्यानां सर्वविद्यानां, विद्योतन-पटीयसी ।
सच्चिदानन्द कलिका, चिदुद्याने विकासताम् ॥ ३॥
तन्त्राणांसकलाऽपि वाङ्मयसरिद् यस्याननान्निःसृता
भूलोकं पुरुषार्थ-साधनविधौ सम्प्रेरयन्ती सुखम् ।
सा मन्त्रोर्जित-यन्त्र-तन्त्र-निचिता योगक्रियाऽऽयोजिता
नानाऽर्चा-विधि-राजिताऽमृतमयी विश्वं सदा सिञ्चति ॥ ४॥
योऽवातीतरदत्र यामलमयं तन्त्रं स्वतन्त्रं दिशन्
विश्वेषां निगमागमोदितशुभज्ञानक्रमाणां निधिम् ।
लोकानां हितसाधनाय भुवने प्रासारयत् सर्वतो
भूयाद् भूतिविभूषणः सः भगवान् रुद्रः सदा श्रेयसे ॥ ५॥
अनेक-तत्त्व-सङ्कुलं, विभिन्न-मार्ग-मञ्जुलं
शिवा-शिवोक्तिजं फलं, पवित्रयच्च भूतलम् ।
उपासना-विधेर्बलं प्रवर्धितुं सुनिश्चलं
मलं हरद् धियामलं चकास्तु ``रुद्रयामलम्'' ॥ ६॥
यद् भैरवी-भैरव-भाव-भूषितं
तन्त्राङ्गगणे कल्पतरूपमं स्थितम् ।
पुष्पैः फलैः सर्वसमोहितप्रदं
राराजतां तद् भुवि ``रुद्रयामलम्'' ॥ ७॥
इति रुद्रदेव त्रिपाठिनः विरचितं रुद्रयामल-मङ्गलानि समाप्ता ।
Proofread by Aruna Narayanan