संस्कृत लावनी
कुञ्ज कुञ्ज सखि सत्वरम् ।
चल चल दयितः प्रतीक्षते त्वां तनोति बहु आदरम् ।
सर्वा अपि सङ्गताः ।
नो दृष्ट्वा त्वां तासि प्रियसखिहरिणा हं प्रेषिता ।
मानं तज वल्लभे ।
नास्ति श्रीहरिसदृशो दयितो वच्मि इदं ते शुभे ।
गतिर्भिन्ना ।
परिधेहि निचोलं लघु ।
जायते बिलम्बो बहु ।
सुन्दरि त्वरां त्वं कुरु ।
श्रीहरि मानसे वृणु ।
चल चल शीघ्रं नोचेत्सव निष्यन्तिहि सुन्दरम् ।
अन्यद्वन मन्दिरं चल चल दयितः ॥ १॥
सॄणु वेणुनादमागतम् ।
त्वदर्थमेव श्रीहरिरेषः समानयत्स्त्रीशतम् ।
त्वय्येव हरिं सद्रतम् ।
तवैतार्थीमह प्रमदाशतकं प्रियेण विनियोजितम् ।
शृण्वन्यमृतां संरुतम् ।
आकरायन्ति सर्वे समाप्यहरिणोमधुरं मतम् ।
बिभिन्नगतिः ।
दिशति ते प्रियतमसन्देशम् ॥
ग्रहीत्वा मदनः पिकवेशम् ।
जनयति मनसि स्वावेशम् ॥
समुत्साहयतरेतिलेशम् ।
न कुरु विलम्बं क्षणमपि मत्वा दुर्ल्लभमौल्याकारम् ॥
ॠणु वचनं मे हितभरम् ।
चल चल दयितः ॥ २॥
सूर्योप्यरतङ्गतः ।
गोपिगोपयितुमभिसरणं तव अन्धकारैहततः ॥
दृश्यते पश्यनोमुखम् ।
कस्यापिहि जीवस्य प्रणयिन्यभिसरणौत्सुखम् ॥
ब्रज ब्रजेन्द्र कुलनन्दनम् ।
करोतियत्स्मृनिरपि सखि सकलव्याधेः सुनिकन्दनम् ।
गतिः ॥
चन्द्रमुखि चन्द्रंरवे समुदितम् ॥
करैस्त्वामालाम्बितुमुद्यतम् ।
आलि अवलोक्य तारावृतम् ॥
भाति बिष्टयं चन्द्रिकायुतम् ।
चकोरायितश्चन्द्रस्त्यत्वा स्थलमपि रत्नाकरम् ॥
मुखं ते दृष्टुं सखि सुन्दरम् ।
चल चल दयितः ॥ ३॥
परित्यज चञ्चलमञ्जीरम् ।
अवगुण्ठय चन्द्राननसिंह सखि धेहि नील चीरम् ॥
रमय रसिकेश्वरमाभीरम् ।
युवतीशतसङ्ग्रामसुरतरमचमेकवीरम् ॥
भयं त्यज हृदि धारय धीरम् ।
शोभयस्वमुखकान्तिविराजितरवितनया तीरम् ॥
गतिः ॥
मुञ्चमानं मानय वचनम् ॥
विलम्बं मा कुरु कुरु गमनम् ॥
प्रियाङ्के प्रिये रचय शयनम् ॥
सुतनुतनु सुखमयमालिजनम् ।
दासौ दामोदर हरिचन्दौ पार्थयतस्तेवरम् ॥
वरय राधे त्वं राधावरम् ।
चल चल दयितः प्रतीक्षते त्वां तनोति बहु आदरम् ॥ ४॥
इति भारतेन्दु हरिश्चन्द्रविरचिता संस्कृत लावनी ।