संस्कृतमहत्त्वम्

संस्कृतमहत्त्वम्

(विश्वसंस्कृतशताब्दिग्रन्थान्तर्गतम् लेखनम्) संस्कृतमहत्त्वं ग्रन्थोपक्रमश्च देवासुरदैत्यदानवराक्षसाद्यखिलदेवयोनिनिर्विशेषसमादृतम्, निखिलमानवमङ्गलप्रदम्, सनातनजैनबौद्धचार्वाकदैशिकवैदेशिकसकल- वैदिकावैदिकमतमतान्तरानुयायिजनमनोमोदकं संस्कृतं हि सुसंस्कृतानामार्याणां जीवनसर्वस्वम्, सर्वादिजगद्गुरोर्ब्रह्मणो मुखेभ्यः स्वयं प्रवृत्ता वाक्, देवानां सर्वव्यवहारप्रसूर्दिव्या चामोघा च गीः, वेदोपवेदब्राह्मणारण्यकोपनिषत्स्मृतिपुराणोपपुराणशिक्षाकल्प- व्याकरणनिरुक्तच्छन्दोज्यौतिषन्यायवैशेषिकसाख्ययोगमीमांसावेदान्तादि- सर्वदर्शनकोषकाव्यनाटकाख्यानकाख्यायिकालडूआरचतुःषष्टिकला- सङ्गीतचतुर्वर्गगजगवाश्वपुरुषलक्षणचिकित्साग्रन्थेतिहासाङ्गसूत्र- जातकभाष्यवार्तिकव्याख्याद्यखिलवाड्मय-जन्मभूः, निखिलविश्वभाषाऽऽदिजननी, मानवजीवनस्यादिमध्यावसानेषु सदा समपेक्षिता वाणी । अथवा संस्कृतभाषाया वयं कान् गुणान् गायाम ? गायन्तोऽपि च कथं तेषां पारमासादयाम ? इयं हि भाषाऽस्मासु भारतीयत्वं जागरयति, भारतीयेष्वेकतां सञ्चारयति, न केवल भारतीयाः प्रादेशिकीरेव, यावद् वैदैशिकीरपि भाषाः परिष्करोति, मानवमात्रस्य मस्तिष्कं संस्करोति, तत्र ज्ञानविज्ञानप्रभां प्रसारयति, तद्धृदये सर्वदाऽऽनन्दसन्दोहमारोहयति, सत्पथप्रवृत्तिं जनयति, सद्गुणगौरवं प्रकटयति, विश्वबन्धुतां विस्तारयति, सर्वभूतेष्वेकत्वं प्रदर्शयति, सर्वतः शान्तिं संस्थापयति, त्यागं, तपः, सन्तोषं, सेवां च शिक्षयति, विश्वकल्याणभावनामुद्भावयति, पञ्चशीलपरिशीलनमाविर्भावयति, ज्ञानविज्ञानयोः समन्वयमातनोति, भुक्तिं मुक्तिं चाविरोघेनोद्वेलयति, धर्मार्थकाममोक्षांश्चतुरोऽपि पुरुषार्थानू साध्यतया समुपस्थापयति, ऐहिकमामुष्मिकं चेत्युभयविधमप्युत्कर्षं सम्पादयति, कर्मणि, ज्ञाने, भक्तौ च सममनुयुनक्ति, सत्यं, शिवं, सुन्दरं तत्किमपि तत्त्वं सन्निधापयति, वाचि लालित्यं सिञ्चति, माधुर्यधाराभिः कर्णौ कृतार्थयति, विश्वस्यापि विश्वस्य चेतश्चमत्करोति, पूर्वेषामपि पूर्वजानां यशश्च संस्मारयति । किं बहुना, इयं कल्पलतेव नः किं किं न साधयति ? एषा च भारते समुद्भूतापि गङ्गेव सर्वत्र जेगीयते, सर्वानेव च पावयति । भारते वैदिका अवैदिकाश्चेत्युभयेऽपि सम्प्रदायाः स्वस्वविचारपरिपाटीप्रबन्धेषु भाषान्तराणि स्वीकुर्वाणा अपि यद्यत् स्थास्नुतां, स्पष्टतां, मान्यतां च निनीषन्ति, तत्तदस्यामेव भाषायां प्रतिनिबध्नन्ति । स्वस्वाभिमतं च मतं सर्वजनसंवेद्यतां नेतुं जैनाः, बौद्धा अपीमामेव भाषां पुरा संश्रयन्ते । चार्वाका लोकायताश्चापि स्वस्वदर्शनान्यस्यामेव भाषायां प्रबध्नन्ति । यावद् बहिरपि भारताद् दूरदूरतरेषु देशेषु संस्कृतसाहित्यं सर्वतोऽप्रतिहतप्रसरं प्रविशति । वेदेषु, दर्शनेषु, पुराणेषु, काव्येषु, तथाविधेषु चान्येषु विषयेषु पाश्चात्यैर्विद्वद्भिः कृता गवेषणास्तेषां संस्कृतभाषाभिरुचेः प्रबलानि प्रमाणानि सन्ति । यस्मिन् कस्मिंश्चिद्देशे, यस्यां कस्याञ्चिच्च जातौ जातेन येन केनापि मानवेन संस्कृतभाषाया अध्ययनाध्यापनादिना, सम्पादनप्रकाशनादिना वा सेवा सम्पादिता, स सर्वोऽपि मानवोऽस्माकं माननीयः, श्लाघनीयश्चास्ति । तथाप्यनादिकालात्प्रवृत्ताया अस्याः संस्कृतभाषायाः सार्वकालिकः सेवाविधेरितिहासश्चतुराननादपि चतुरतरेण केनचन कविना कोविदेन वा न सम्पादयितुं शक्यते इति गतामेव शताब्दीमाश्रित्यायं ग्रन्थः सन्दृभ्यते । तत्रापि कालो यथा निरवधिः, पृथिव्यपि तथा विपुलेति पृथिव्यां भारतं वर्षं, भारते वर्षे च तदीयमुक्तमाङ्गं जम्बूसमेतं काश्मीरमेवावालम्ब्यायं समुपक्रमः । समस्तस्याप्यस्य देशस्य प्रदेशोऽयं मौलिभूतोऽप्यद्यावद्यैर्नरैरुत्थापिताभिर्विपद्भिरभिभूयमानोऽस्तीत्यस्मै स्वस्तये, एनं प्रति भारताभिजन-जन-भावनाजागरणाय चेत् एवायं शुभारम्भः । क्रमशस्तु कृत्स्नाया अपि सुरसरस्वतीसेवापरिपूतमृत्स्नाया भुवोऽस्यां संस्कृतोपहार्याणां कार्याणां तत्कार्यकराणां चायं विशद इतिहासः प्रस्तूयमान एवास्ति । इति Encoded and proofread by Shankara shankara underscore 2000 at yahoo.com
% Text title            : Greatness of Sanskrit
% File name             : saMskRRitamahattvam.itx
% itxtitle              : saMskRRitamahattvam
% engtitle              : saMskRRitamahattvam
% Category              : article, misc, sAhitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara shankara underscore 2000 at yahoo.com
% Proofread by          : Shankara shankara underscore 2000 at yahoo.com
% Description-comments  : vishvasaMskRitashatAbdigranthAntargatam lekhanam
% Latest update         : May 28, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org