संस्कृतवर्गः - गीतम्
स्वज्ञानं वर्धयस्व । परमानन्दं लभस्व ।
आगच्छ संस्कृतवर्गं त्वम् । भीतिः मास्तु, भीतिः मास्तु ।
गृहे भवेत् युद्धम् । कार्यालये भवेच्च कष्टम् ।
सर्वं दुःखं शमयति अस्माकं संस्कृतस्य वर्गः ।
शृणु शृणु शृणु पुत्रक शृणु ।
संस्कृतपठनं त्वं नित्यं कुरु ।
बुद्दिर्यस्य बलं तस्य । किमर्थं त्वं न करोषि?
भीतिः मास्तु, भीतिः मास्तु ।
शास्त्रं नाटकं काव्यं सर्वं पठितुं शक्नोषि ।
यो वर्गं आगच्छति तस्य चित्तविकासः भवति ।
दासः अथवा स्वामी, नेता अथवा कर्ता
राजा अथवा सैनिकः सर्वे संस्कृतं पठन्ति ।
--- रचयित्री - उषा जयरामन् ।
Composed, encoded, and proofread by Usha Jayaraman