अमरसंवादः संस्कृतारतयः

अमरसंवादः संस्कृतारतयः

॥ श्रीः ॥ ॥ संस्कृतम् भद्रमण्ड्नम् ॥ ॥ अमरसंवादः॥ (संस्कृतारतयः) देवानां भाषया कुर्महे देवानाम् आरतिम् । भक्त्या सह संस्कृते संस्कृतौ वयमिच्छामो रतिम् ॥ आरतिकारः वसन्तः शंकरसुतः नानिवडेकरः । % The Amarasanvada or Sanskrit Arati is a collection of prayers in Sanskrit by Mr. Vasant Shankar Nanivadekar. Some of these are translated from Marathi preserving the meaning, metre, tune, and context intact. Mr Nanivadekar has established an organization Sanskrit-Parimalam for promoting Sanskrit. It takes active part in teaching Sanskrit through publications and camps for children and adults. He can be reached at Mr. V. S. Nanivadekar 1/18 Goregaonkar Chawl, Near Central Cinema, Girgaon, Mumbai 400004 India Nanivadekar Shahiri Sangam Prakashan Mumbai, Shri Ganeshachaturthi, 29-8-1995 Publication Sanskrit Day, 10-8-1995 RakShabandhan Fee: 10 Rupees (or commitment to read) च्opyright The copyrights of the publication are with the author. नीराजना अस्माकं नानिवडेकर-शाहिरि-संगम-संस्था संस्कृत-सेवा-प्रकल्पम् संचालयति संस्कृत-परिमलम् नाम । संस्कृत-परिमल-प्रकल्पान्तर्गतानि संस्कृतपरिमल-शिबिराणि, छात्रजगति विद्यार्थिप्रियाणि सन्ति । संस्कृतम् अस्माकम् संस्कृतेः भाषा, विश्वस्य सनातनी भाषा च । तस्याः रुचिम् जनेषु वृद्धिम् नेतुम् अस्माकम् प्रयत्नाः चलन्ति । एतादृशेषु प्रयत्नेषु अन्यतमः अयम् अपि `देवानाम् भाषया देवानाम् आरतीः' गातुम् अमर-संवादः नाम कश्चित् यत्नः । एतासु आरतिषु लोकेषु प्रचलिताः सर्वजनविदिताः च पूर्वसूरीणाम् मराठी-हिन्दी-भाषा-विरचिताः आरतयः संस्कृतवेषम् धारयित्वा अत्र यथा प्रस्तुताः तथैव नवविरचितम् अपि आरतिद्वयम् विद्यते । पुस्तके आवश्यकतानुसारम् सन्धिराहित्यम् अनुसृतम् अस्ति । अस्माकं पूर्वप्रकाशनानाम् इव अस्य अपि प्रकाशनस्य स्वागतं सर्वत्र सोत्साहम् भवेत् इति आशास्महे राष्ट्रदेवस्य चरणयोःच प्रसूनम् इदम् भक्तिपुरःसरम् अर्पयामहे । मुम्बयाम् । श्रीगणेशचतुर्थी २९-८-१९९५ संस्कृतदिन-प्रकाशनम् १०-८-१९९५ रक्षाबन्धनदिनम् वसन्तः शंकरसुतो नानिवडेकरः । कार्यवाहः नानिवडेकर-शाहिरी-संगमस्य । १/१८ गोरेगांवकर चाळ, सेण्ट्रल-सिनेमा-समीपम्, गिरगांव, मुंबई ४००००४ नानिवडेकर शाहिरी संगम प्रकाशनम् ॥ ॥ मूल्यम् दश रूप्यकाणि (अथवा पठनम्) ॥ च्opyright सर्वे अधिकाराः लेखकाधीनाः सन्ति
(१) ॥ श्री गणपतेः आरतिः ॥ (मूलमराठी- सुखकर्ता दुखहर्ता) जय देव जय देव जय मंगलमूर्ते । श्रीमंगलमूर्ते । जय मंगलमूर्ते । दर्शनमपि ते सकलान् कामान् पूरयते ॥ धृ.॥ ॥ जय देव जय देव ॥ सौख्यकरो दुःखहरो वार्ताम् विघ्नस्य निःशेषयति च कुरुते प्रेम कृपा यस्य । सैन्दूरः सर्वांगे सुन्दरलेपोऽस्य कण्ठे विलसति माला मुक्तानां यस्य ॥ १॥ ॥ जय देव जय देव ॥ सरत्न-पिप्पलपत्रं गौरीनन्दन ते चन्दनलेपः केशर-कुंकुम-युक्तस्ते । हीरक-मण्डित-मुकुटं शीर्षमलंकुरुते नूपूरे किंकिण्यः क्वणन्ति पदयोस्ते ॥ २॥ ॥ जय देव जय देव ॥ लम्बोदर पीतांबर फणिवरबन्धन हे सरलशुण्ड हे वक्रतुण्ड (हे) त्रीक्षण हे । दासो रामस्य त्वाम् प्रतीक्षते स्वगृहे संकटेषु पाहि त्वं, निर्वाणे रक्ष त्वं, सुरवरवन्दित हे ॥ ३॥ ॥ जय देव जय देव ॥ ॥ ॐ गँ गणपतये नमः ॥
(२) ॥ श्रीगजाननस्य आरतिः ॥ (मूलहिन्दी- जय जय जी गणराज विद्यासुखदाता) जय जय हे गणराज, विद्यासुखदातः । त्वद्दर्शनधन्योऽहम् त्वत्पद-रत-चित्तः ॥ ॥ जय देव जय देव ॥ धृ.॥ सिन्दूर-रक्तदेहम् सुभगम् गजवदनम् विलसत्-तुन्दिलकायम् गौरीहर-तनयम् । धृत-गुडलड्डुकहस्तम् देवेश्वरनाथम् अवर्ण्य-गुणमहिमानम् प्राप्तोऽहम् शरणम् ॥ १॥ अणिमादि-सिद्धयोऽष्टौ दास्यो विघ्नारेः समर्थ-विघ्नहरस्य श्रीमंगलमूर्तेः । कोटि-दिवाकर-सदृशम् तव तेजः प्रखरम् गण्डस्थल-मदशीर्षम् विहरत् शशिभालम् ॥ २॥ भावेन कोऽपि भक्त्या त्वां गच्छतु शरणम् सन्तति-सम्पत्-प्रमुखम् विन्देत् निजमिष्टम् । एवम् महाराज त्वम् रोचसेऽति मह्यम् गोस्वामिनः सुतस्त्वाम् गायति दिनरात्रम् ॥ ३॥ ॥ जय जय गणराज ॥ अभीप्सितार्थसिद्ध्यर्थम् पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
(३) ॥ श्री शंकरस्य आरतिः ॥ (मूल मराठी- लवथवती विक्राळा) जय देव जय देव शिवशंकर जय हे । त्वाम् कर्पूरसुगौरम् वयम् आर्ताः स्तुमहे ॥ धृ.॥ ॥ जय देव जय देव ॥ लम्बन्ते विकराला ब्रह्माण्डे मालाः विषेण कण्ठः श्यामो विलोचनात् ज्वालाः । जह्नोर्लावण्ययुता शिरसि धृता बाला जलप्रवाहो मन्दम् वहति यति विमलः ॥ १॥ ॥ जय देव जय देव ॥ मुग्धो विशालनयनः कर्पूरसुगौरः अर्धांगिनी च गिरिजा गलेऽस्ति सुमहारः । उद्धूलनं विभूतेर्नीलः शितिकण्ठः एवम् विलसति शंकर एष उमादयितः ॥ २॥ ॥ जय देव जय देव ॥ कृतं सुरासुरवृन्दैरम्भोधेर्मथनम् हालाहलम् च सहसा तस्माद् उद्भूतम् । सहसा त्वम् च सलीलम् कृतवान् विषपानम् ततो नीलकण्ठ इति त्वन्नाम प्रथितम् ॥ ३॥ ॥ जय देव जय देव ॥ व्याघ्राम्बरः फणिधरः सुन्दर-मदनारिः पंचाननो मनोहर ऋषिजन-सुखकारी । शतकोटी-जपबीजे रामनाम्नि रमते रघुकुलतिलको रामो रामदास-चित्ते ॥ ४॥ ॥ जय देव जय देव ॥ ॥ ॐ नमः शिवाय ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
(४) ॥ श्री दुर्गायाः आरतिः ॥ (मूल मराठी- दुर्गे दुर्घट भारी) दुर्गे सुदुर्गमोऽस्ति त्वदृते संसारः अनाथनाथे अम्बे अस्तु कृपाप्रसरः । वारय वारय जननम् मरणम् वारय मे अस्मि विपत्तिषु पतितो मातस्तारय मे ॥ १॥ ॥ जय देवि जय देवि ॥ जय देवि जय देवि महिषासुरमथिनि । सुरवर-ईश्वर-वरदे संजीवनि तारिणि ॥ धृ.॥ त्रिभुवन-भुवने नाऽन्या भजते त्वत्साम्यम् वेदचतुष्कम् श्रान्तम् त्वाम् स्तोतुम् अशक्तम् । विवदत् प्रवाहपतितम् षट्शास्त्राधारम् किन्तु त्वम् भक्तेषु प्रसीदसि क्षिप्रम् ॥ २॥ ॥ जय देवि जय देवि ॥ प्रसन्न-वदने दासे प्रसीदसि त्वरितम् क्लेशान् मोचय मातश्छेदय भवपाशम् । अम्बे त्वदृते को माम् कुर्यात् पूर्णाशम् नरहरि-मन आस्ते तव पदपंकजलीनम् ॥ ३॥ ॥ जय देवि जय देवि ॥ ॥ जय जय दुर्गे जगदम्बे ॥ भक्तान् तारय हे अम्बे ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
(५) ॥ श्री विठ्ठलस्य आरतिः ॥ (मूल मराठी- युगें अठ्ठावीस) जय देव जय देव, पाण्डुरंग जय हे । रुक्मिण्या वल्लभ हे, श्रीराहीवल्लभ हे, प्रसीद मत्प्रिय हे ॥ जय देव जय देव ॥ धृ.॥ तिष्ठत्यष्टाविंशति युगानीष्टिकायाम् रुक्मिणी च वामांगे, पश्यत बहुशोभाम् । परब्रह्म पुण्डलिकम् द्रष्टम् स्वयम् एति वहति पदाभ्याम् भीमा जगत् समुद्धरति ॥ १॥ ॥ जय देव जय देव ॥ तुलसीमाला-कण्ठम् कटि-विन्यस्त-करम् धृतपीताम्बर-वसनम् कस्तूरिललाटम् । मिलितुम् सुरवरदेवा आयान्त्यनुदिवसम् गरुडो हनुमान् पुरतः तिष्ठन्तौ नित्यम् ॥ २॥ ॥ जय देव जय देव ॥ धन्यो वेणुरवोऽसौ अनुक्षेत्रपालः सुवर्णकमलानि कण्ठे वनमाला । राही च रुक्मिणी सा सकला अपि राज्ञ्यः श्यामल-विठ्ठलराजम् नीराजयन्ति ताः ॥ ३॥ ॥ जय देव जय देव ॥ आरतीश्च `कुर्वण्डीः' दर्शयितुम् प्राप्ताः जले चन्द्रभागायाः मुञ्चन्ते ननु ताः । नृत्यन्ति ध्वजहस्तास्ते वैष्णवभक्ताः पण्ढरि-कीर्ति-स्तवने रसनाऽपि श्रान्ता ॥ ४॥ ॥ जय देव जय देव ॥ आषाढी-कार्तिक्योर्मिलन्ति भक्तजनाः जले चन्द्रभागायाः स्नानम् कुर्वाणाः । दर्शन-कटाक्षमात्रम् मोक्षम् आप्नुवन्ति भावेन नामदेवः केशवम् अर्चयति ॥ ५॥ ॥ जय देव जय देव ॥
(६) ॥ एहि हे विठ्ठले ॥ (मूल मराठी- येई हो विठ्ठले) एहि हे विठ्ठले सदये शीघ्रम् मम मातः । प्रतिपालयति जनोऽयम् मातर्निटिल-निहितहस्तः ॥ धृ.॥ गच्छताऽऽगच्छता सार्धम् ददामि सन्देशम् । तिष्ठति पण्ढरपुर्याम् माता पिता स मे नूनम् ॥ १॥ सुभगम् पीताम्बरम् गगने पुष्यति निजशोभाम् । खगमारोहन् गरुडम् विष्णुस्त्रातुम् प्राप्तो माम् ॥ २॥ नित्यम् दीपावलिरस्माकम् विठ्ठलस्य राज्यम् । विष्णोर्दासो नामा कुरुते भावेनाऽर्तिक्यम् ॥ ३॥ भावः स्याद् वा न स्याद् अथवा मनसि किलाऽस्माकम् । पण्ढरपुरप्रभो हे सततम् पश्याऽस्मान् सकृपम् ॥ ४॥ ॥ विठ्ठले मातः ॥ त्वमेव मे तातः ॥ ॥ विठ्ठल विठ्ठल ॥ वत्सल वत्सल ॥ ॥ पण्ढरीनाथ ॥ विठ्ठल विठ्ठल ॥ ॥ निवृत्ते ज्ञानदेव सोपान अयि मुक्ताइ ॥ ॥ एकनाथ नामदेव तुकाराम ॥ ॥ विठ्ठलऽ विठ्ठलऽ ॥ वदत रे ॥ विठ्ठलऽ विठ्ठलऽ ॥ ॥ ज्ञानेश्वर तुकाराम ॥ वद जिह्वे पावननाम ॥
(७) ॥ श्रीदत्तस्य आरतिः ॥ (मूल मराठी- त्रिगुणात्मक त्रैमूर्ती) जय देव जय देव दत्त गुरो जय हे । नष्टा मे भवचिन्ता कृते तवाऽर्तिक्ये ॥ जय देव जय देव ॥ धृ.॥ त्रिगुणात्मकः त्रिमूर्तिः ज्ञेयोऽयम् दत्तः त्रिगुणात्मकावतारः त्रैलोक्यत्राता । नेति च नेति च शब्दैः अनुमानं न गतः सुरवर-मुनिजन-योगसमाधिः नाकलितः ॥ १॥ ॥ जय देव जय देव ॥ व्याप्नोष्यन्तर्बाह्यम् दत्त त्वम् तत्त्वम् वेत्तु कथम् दुर्भाग्यो महद् इदम् आश्चर्यम् । यतः पराऽपि निवृत्ता तत्र च हेतुः कः अभवत् जन्म-मरणयोः अन्तः शाश्वतिकः ॥ २॥ ॥ जय देव जय देव ॥ दत्तः प्रीतो `भगवान्' अवतीर्णः पुरतः भक्त्याऽहम् तत्पुरतः साष्टांगम् प्रणतः । आशीर्वादः तेन प्रसन्नेन दत्तः जन्म-मरणयोः सकृपम् नाहित आवार्तः ॥ ॥ जय देव जय देव ॥ `दत्त' `श्रीदत्त' इति ध्यानम् मम चित्ते तल्लीनम् भूत्वा मे मन उन्मन आस्ते । अस्मद्-युष्मद्-भावो निर्गमनम् कुरुते `एका' जनार्दनगुरौ श्रीदत्ते रमते ॥ ४॥ ॥ जय देव जय देव ॥ ॥ श्रीगुरु शरणं मम ॥ दत्तगुरुः शरणं मम ॥
(८) ॥ श्रीरामस्य आरतिः ॥ (मूल मराठी- उत्कट साधुनि) निजबोध श्रीराम त्वम् जय जय देव । जय जय जय देव । परमार्थेनाऽर्तिक्यम् सद्भावेनाऽर्तिक्यम् । पूरितकाम तव । जय देव जय देव । जय जय हे देव ॥ धृ.॥ सेतुम् बबन्ध लब्ध्वा बृहत्-शिलाखण्डान् लिंगदेहलंकापुरम् उद्ध्वस्तम् कृतवान् । कामक्रोधादीन् तान् निषूदयन् असुरान् `देहोऽहम्'-मतिभावम् दशवदनम् हतवान् ॥ १॥ ॥ जय देव जय देव ॥ प्रथमम् हनुमान् सीताम् अन्वष्टुम् गतवान् लंकादहनम् कृतवान् अक्षम् मारितवान् । जम्बुमालिनम् हतवान् भुवि आस्फालितवान् आनन्दस्य सुवार्ताम् गृह्णन् आगतवान् ॥ २॥ ॥ जय देव जय देव ॥ स्वबलेन च स्वशक्तिः विमोचिता सीता अत आगच्छद् अयोध्या-नगरम् रघुनाथः । अवहत् विरक्तिपूरे सानन्दम् भरतः आरतिहस्ताऽऽगच्छत् कौसल्या माता ॥ ३॥ ॥ जय देव जय देव ॥ सानुहुतध्वनयः प्लवगा गर्जन्ति अष्टादश-पद्ममिता बुभुः स्म कुर्वन्ति । दशरथतनयोऽयोध्याम् एष समायातः आनन्दश्च नगर्याम् अतीव संजातः ॥ ४॥ ॥ जय देव जय देव ॥ सिंहासने सलीलम् रघुवीरो राजा `तत्त्वम्'- भावस्तस्मै उपचारः पूजा । सहजानाम् आर्तिक्यम् वाद्य-निनादोऽयम् माधवदास-स्वामिन् स्मर, मा विस्मर तम् ॥ ५॥ ॥ जय देव जय देव ॥ ॥ श्रीराम रघुवीर ॥ जय जय राम रघुवीर ॥
(९) ॥ श्रीमारुतेः आरतिः ॥ (मूल मराठी- सत्राणें उड्डाणें) जय देव जय देव जय हनुमन् जय हे । तव प्रसादात् क्वाऽपि न भयम् कृतान्तात् मे ॥ जय देव जय देव ॥ धृ.॥ उड्डयनम् सावेशम् मुखेन हुंकरणम् भूमण्डलम् सकम्पम् नभोगम् उदधिजलम् । सनिनादम् ब्रह्माण्डम् सभयम् त्रैलोक्यम् सुरवर-नर-नक्तचरैः पलायनम् च कृतम् ॥ १॥ ॥ जय देव जय देव ॥ न्यनदन् पातालानि प्रतिशब्दो जातः धरणीधरः सकम्पः खिन्नत्वम् प्राप्तः । गिरयः सर्वे भग्नाः उडुगण उद्घ्वस्तः रामो रामदासस्य खलु शक्तिस्रोतः ॥ २॥ ॥ जय देव जय देव ॥ ॥ श्रीरामं संस्मरामः ॥ श्रीहनुमन्तं प्रणमामः ॥ ॥ वज्रबलिन् हनुमन् अस्ति विजयते ॥ मनोजवन् हनुमन् अस्ति विजयते ॥ ॥ मरुद्वेग हनुमन् अस्ति विजयते ॥ विजितेन्द्रिय हनुमन् अस्ति विजयते ॥ ॥ धीमद्वर हनुमन् अस्ति विजयते ॥ वातात्मज हनुमन् अस्ति विजयते ॥ ॥ कपिप्रमुख हनुमन् अस्ति विजयते ॥ रामदूत हनुमन् अस्ति विजयते ॥ ॥ मम शरण्य हनुमन् अस्ति विजयते ॥ जनशरण्य हनुमन् अस्ति विजयते ॥
(१०) ॥ छत्रपतेः श्रीशिवराजस्य आरतिः ॥ जय जय जय शिवराज पुनस्ते जयघोषो भवतात् । जयघोषेण समम् राष्ट्रेऽस्मिन् चैतन्यम् स्फुरतात् ॥ धृ.॥ ॥ जय जय जय शिवराज ॥ महंमदीयैः समदैर्भारत-भूरियम् आक्रान्ता आतंकात् त्रातुम् नाऽदृश्यत् हिन्दूनाम त्राता । तदा गृहीता त्वया `भवानी' स्वकरे खड्गलता यवनमर्दनम् कृतम् जनेभ्यो दत्ता निर्भयता ॥ १॥ अस्माकम् पूजास्थानानि श्रेष्ठ-मन्दिराणि मूर्तिभंजकैः क्रूरैर्यवनैः सहसोद्ध्वस्तानि । समुच्छ्रित्य खलु `मावळ'-वीरैः स्वखड्ग-पत्राणि तवाऽज्ञया निजदेशरिपूणाम् शिरांसि लूनानि ॥ २॥ खड्गम् ते निष्कोषितम् आसीत् आर्तत्राणार्थम् स्त्री-गो-विप्राणाम् अवनार्थम् घोरम् व्रतम् धृतम् । नित्यम् अश्वम् आरुह्य यतितवान् स्वराज्यनिर्मितये परिणत आसीत् तव संकल्पो भव्यराष्ट्रविजये ॥ ३॥ प्रतिपच्चन्द्रसमा वर्धिष्णुः सर्वविश्वमान्या भद्रकारिणी मुद्रा तव नृप शहाजि-सुत धन्या । कर्तव्य-प्रेरणाम् च ददती दिशतु च नः सुपथम् शिवगुणकथने वाग् अस्माकम् रमताम् अनवरतम् ॥ ४॥ ॥ भारतमाता विजयताम् ॥ श्रीशिवराजो विजयताम् ॥ ॥ अस्माकम् पौरुषम् विजयताम् ॥ शिवसंकल्पो विजयताम् ॥
(११) ॥ श्री-अक्कलकोट-स्वामिनः आरतिः ॥ १ जय देव जय देव, स्वामिन् जय जय हे ॥ जगद्गुरो जय हे ॥ आर्तिक्यम् तव पदयोः दासोऽहम् कुर्वे ॥ जय देव जय देव ॥ धृ.॥ जन्म गृहीत्वा मानवयोनौ गुरुवर्य प्रीत्या भक्तत्राणम् त्वं कृतवान् आर्य । उत्तुंगभव्यमूर्ते दिव्यप्रभसूर्य आजानुबाहुमूर्ते, हे सद्गुरुवर्य ॥ जय देव जय देव ॥ १॥ क्व जन्म जातम् क्व च वा दीक्षा ते जाता कस्ते जनिता, रत्नप्रसवा वा माता । त्वम् भक्तकामधेनुः नित्यकृपाच्छाया जानीयत् त्वाम् जननीम् कथम् अज्ञस्तनयः ॥ जय देव जय देव ॥ २॥ अक्कलकोट-ग्रामे निवससि भक्तार्थम् (साध्वर्थम्) बाळाप्पाः प्रियभक्तम् त्वाम् गतवान् शरणम् । बहुशिष्येभ्यः कथयन् भक्तिरहःसारम् (भक्तेः सर्वस्वम्) उध्दृतवान् पूर्णाशान् कृत्वा लोकाँस्त्वम् ॥ जय देव जय देव ॥ ३॥ आत्मानम् मनुते यः तव शिष्यम् भक्तम् परीक्षसे दत्त! गुरो! तस्याऽन्तःकरणम् । दर्शयसि स्वाम् लीलाम् योग्यतानुसारम् निश्चलभक्तिम् दृष्ट्वा स्वामिन् तुष्टस्त्वम् ॥ जय देव जय देव ॥ ४॥ मन्वानः कलिकलुषात् इहयात्रापूर्तिम् समाधिम् अंगीकुर्वत्, त्यजन् इमाम् जगतीम् । अमृतम् भवान् प्रयच्छति भक्तेभ्योऽद्याऽपि स्वामिपदाभ्याम् रमते न गणेशः क्वाऽपि ॥ जय देव जय देव ॥ ५॥ ॥ श्रीस्वामिन् समर्थ ॥ जय स्वामिन् समर्थ ॥
(१२) ॥ श्री-अक्कलकोट-स्वामिनः आरतिः ॥ २ जय देव, जय देव जय नाथ, स्वामिन् । त्रिभुवननाथ अगम्या लीला ते स्वामिन् ॥ धृ.॥ जय देव जय देव ॥ तव दर्शनात् सुदूरम् प्रयान्ति पापानि स्पर्शात् तथैव विलयम् बत भवदुरितानि । शिरश्चरणयोः नत्वा स्पष्टम् ज्ञातव्यम् इतःपरम् न भवेत् किल वैकुण्ठे सौख्यम् ॥ जय देव जय देव ॥ १॥ सुगन्धकेशरतिलकः तथा शिरस्त्रधरः कुण्डलशोभितकर्णो वक्षःस्थितहारः । त्वत्पदशरेणभ्यः खलु कालो भयभीतः सेवामहोत्सवम् तव कुर्वन्ति च भक्ताः ॥ जय देव जय देव ॥ २॥ मानवशरीरधारी दृष्टोऽस्माभिः त्वम् कृतवान् अक्कलकोटे यतिवेषो वासम् । अवतारमगृह्णीथाः पूर्णब्रह्म त्वम् अवगच्छति परम् अज्ञो भावम् विपरीतम् ॥ जय देव जय देव ॥ ३॥ त्वम् निर्गुणोऽविकारो व्याप्नोषि हि विश्वम् व्याप्य स्थिरचरम् एकः स्वामिन् स्थितवाँस्त्वम् । बहुमायारूपाणि त्वम् धरसे नित्यम् त्वद्गुणवर्णनकथने विधिशब्दैः श्रान्तम् ॥ जय देव जय देव ॥ ४॥ अनन्त-जन्मसु राशिः संचितसुकृतानाम् तेन हि लाभो जातो मे गुरुचरणानाम् । स्वर्णस्तबके निहितम् पूर्णामृतपात्रम् पश्य कृपादृष्ट्या माम् शरणागतदीनम् ॥ जय देव जय देव ॥ ५॥ ॥ श्रीअक्कलकोट-स्वामिन् ॥ जय अक्कलकोट-स्वामिन् ॥
(१३) ॥ मातृभूमेः आरतिः ॥ जयतु मातृभूमिः मम पुण्यम् राष्ट्रम् । तत्-सेवायाम् रमताम् सदैव मम चित्तम् ॥ धृ.॥ ॥ जयतु राष्ट्रम् ॥ पुण्य राष्ट्रम् ॥ उदितो यत्र प्रथमम् ज्ञानरविः साक्षात् सर्वज्ञः परमात्मा श्रुतिरूपम् अगृह्णात् । अन्वभवन्तो धन्या ऋषयो ज्ञानार्कम् पूता सिन्धुः दृष्ट्वा ज्ञानरवेरुदयम् ॥ १॥ अधर्म-परिहारार्थम्, धर्म-रक्षणार्थम् साधूनाम् अवनार्थम्, खलनिर्दलनार्थम् । प्रेषयति स्वान् दूतान् प्रभुरन्यत् स्थानम् अत्र स्वयम्, आगच्छति भगवान् सानन्दम् ॥ २॥ देव-निवासात् नूनम् पुण्या भूमिरियम् धन्यो योऽस्या कुरुते स्वशिरसि शुभरजसम् । प्रभोऽस्तु भूम्याम् अस्याम् सुखम् पुनर्जननम् वदने विलसतु सततम् भारत-गुणगानम् ॥ ३॥ ॥ जयतु जयतु भारतदेशः ॥ स एव मे श्रीपरमेशः ॥ ॥ भारतमाता विजयताम् ॥ विजयताम् भारतमाता ॥
(१४) ॥ भूमौ लुठेयम् ॥ (मूल मराठी- घालीन लोटांगण) भूमौ लुठेयम्, पदौ नमेयम्, निरूपयेयम् स्वरूपकम् । त्वत् स्वरूपकम् । प्रीत्याऽऽश्लिषेयम्, मुदाऽर्चयेयम् नीराजयेयम् नुते नामा ॥ त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वम् मम देव देव ॥ १॥ कायेन वाचा मनसेन्द्रियैर्वा, बुद्ध्याऽऽत्मना वा प्रकृतिस्वभावात् । करोमि यद् यत् सकलम् परस्मै नारायणायेति समर्पयामि ॥ २॥ अच्युतं केशवं, राम-नारायणं, कृष्ण-दामोदरं वासुदेवं हरिम् । श्रीधरं माधवं, गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ ३॥ हरे राम, हरे राम, राम राम, हरे हरे । हरे कृष्ण, हरे कृष्ण, कृष्ण कृष्ण, हरे हरे ॥ ४॥
(१५) ॥ मन्त्रपुष्पांजलिः ॥ ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचंत । यत्र पूर्वे साध्याः संति देवाः ॥ ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्या ईस्यात् सार्वभौमः सार्वायुष आंतादापरार्धात् । पृथिव्यै समुद्रपर्यंताया एकराळिति । तदप्येषश्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ श्लोकाः एकदन्तायविद्महे । वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् । वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ अपि स्वर्णम्यी लंका न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥ प्रेरकमन्त्रो एक एव `ॐ राष्ट्राय स्वाहा' । ` राष्ट्राय स्वाहा' - `राष्ट्राय इदं न मम' ॥
ॐ ॥ संस्कृताष्टकम् ॥ अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥ संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् । प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥ वेदान्तानां पुराणानां शास्त्राणां च तथैव च । मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥ रामायणं महाकाव्यं महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥ भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥ प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥ यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा । संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥ श‍ृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा । स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥ ॥ जयतु संस्कृतम् ॥ जयतु संस्कृतिः ॥ ॥ जयतु अमरसंस्कृतारतिः ॥
च्opyright Copyrights are with the composer Mr. Vasant Shankar Nanivadekar
% Text title            : amarasa.nvaada Sanskrit Arati translated from Marathi
% File name             : sanskritaarati.itx
% itxtitle              : amarasa.nvAdaH sa.nskRitAratayaH
% engtitle              : amarasa.nvAdaH Sanskrit Prayer Arati Collection
% Category              : AratI, misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Vasant Shankar Nanivadekar
% Language              : Sanskrit
% Subject               : kaavya/religion
% Transliterated by     : N
% Proofread by          : N
% Indexextra            : (Sanskrit Arati Prayer collection)
% Latest update         : October 8, 2001
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org