शृङ्गाररसाष्टकम्
अविदितसुखदुःखं निर्गुणं वस्तु किञ्चित्
जडमतिरिह कश्चित् मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारल्यघूर्णन्
मदकलमदिराक्षीणीविमोक्षो हि मोक्षः ॥ १॥
कदा कान्तागारे परिमलमिलत्पुष्यशयने
शयानः कान्तायाः कुचयुगमहं वक्षसि वहन् ।
अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने
प्रसीदेति क्रोशन् निमीषमिव नेष्यामि दिवसान् ॥ २॥
सायं नायमुदेति वासरमणिश्चन्द्रो न चण्डद्युति-
र्दावाग्निः कथमम्वरे किमशनिः स्वच्छान्तरीक्षे स्थितः ।
हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया
धावद्घोरविभावरी विषधरी भोगस्य भीमो मणिः ॥ ३॥
आयाति याति पुनरेव जलं प्रयाति
पद्माकराणि विधुनोति धुनोति पक्षौ ।
उन्मत्तवद्धमति कूजति मन्दमन्दं
कान्तावियोगविधुरो निशि चक्रवाकः ॥ ४॥
भङ्का भोक्तुं न भुङ्क्त कुटिलविसलता खण्डमिन्दोर्वितर्कात्
ताराकारास्तृषार्तो न पिवति पयसां विग्रुषः पचसंस्थाः ।
छायामम्भोजिनीनामलिकुलसवलां वीक्ष्य सन्ध्यामसन्ध्यां
कान्ताविश्लेषभीरुर्दिनमपि रजणीं मन्यते चक्रवाकः ॥ ५॥
गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या चपलमधुपः पुष्यमध्ये पपात ।
अन्धीभूतः कुसुमरजसा कण्ठकलनपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ६॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
र्निक्षेपणव पदमुद्धृतमर्पयन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ ॥ ७॥
का कावला निधुवनश्रमपीडिताङ्गी
निद्रां गता दयितवाहुलतानुवड्वा ।
सा सा तु यातु भवनं मिहिरोहमीयं
सङ्केतवाक्यमिति काकचया वदन्ति ॥ ८॥
इति महाकविकालिदासविरचितं शृङ्गाररसाष्टकं समाप्तम् ।
Encoded and proofread by Aaditya Kalyanaraman