श्रीसम्प्रदायगुरुपरम्परास्तोत्रम्
श्रीअग्रदास उवाच -
शुभासने समासीनमनन्तानन्दमच्युतम् ।
कृष्णदासो नमस्कृत्य पप्रच्छ गुरुसन्ततिम् ॥ १॥
श्रीकृष्णदास उवाच -
भगवन् यमिनां श्रेष्ठ प्रपन्नोऽस्मि दयां कुरु ।
ज्ञातुमिच्छाम्यहं सर्वां पूर्वेषां सत्परम्पराम् ॥ २॥
मन्त्रराजश्च केनादौ प्रोक्तः कस्मै पुरा विभो ।
कथञ्च भुवि विख्यातो मन्त्रोऽयं मोक्षदायकः ॥ ३॥
श्रीअग्रदास उवाच -
कृष्णदासवचः श्रुत्वाऽनन्तानन्दो दयानिधिः ।
उवाच श्रूयतां सौम्य वक्ष्यामि तद् यथाक्रमम् ॥ ४॥
श्रीअनन्तानन्द उवाच -
परधाम्नि स्थितो रामःपुण्डरीकायतेक्षणः ।
सेवया परया जुष्टो जानक्यै तारकं ददौ ॥ ५॥
श्रियः श्रीरपि लोकानां दुखोद्धरणहेतवे ।
हनूमते ददौ मन्त्रं सदा रामाङ्घ्रिसेविने ॥ ६॥
ततस्तु ब्रह्मणा प्राप्तो मुह्यमानेन मायया ।
कल्पान्तरे तु रामो वै ब्रह्मणे दत्तवानिमम् ॥ ७॥
मन्त्रराजजपं कृत्वा धाता निर्मातृतां गतः ।
त्रयीसारमिमं धातुर्वसिष्ठो लब्धवान् परम् ॥ ८॥
पराशरो वसिष्ठाच्च सर्वसंस्कारसंयुतम् ।
मन्त्रराजं परं लब्ध्वा कृतकृत्यो बभूव ह ॥ ९॥
पराशरस्य सत्पुत्रो व्यासः सत्यवतीसुतः ।
पितुः षडक्षरं लब्ध्वा चक्रे वेदोपबृंहणम् ॥ १०॥
व्यासोऽपि बहुशिष्येषु मन्वानः शुभयोग्यताम् ।
परमहंसवर्य्याय शुकदेवाय दत्तवान् ॥ ११॥
शुकदेवकृपापात्रो ब्रह्मचर्यव्रतेस्थितः ।
नरोत्तमस्तु तच्छिष्यो निर्वाणपदवीं गतः ॥ १२॥
स चापि परमाचार्यो गङ्गाधराय सूरये ।
मन्त्राणां परमं तत्त्वं राममन्त्रं प्रदत्तवान् ॥ १३॥
गङ्गाधरात् सदाचार्यस्ततो रामेश्वरो यतिः ।
द्वारानन्दस्ततो लब्ध्वा परब्रह्मरतोऽभवत् ॥ १४॥
देवानन्दस्तु तच्छिष्यः श्यामानन्दस्ततोऽग्रहीत् ।
तत्सेवया श्रुतानन्दश्चिदानन्दस्ततोऽभवत् ॥ १५॥
पूर्णानन्दस्ततो लब्ध्वा श्रियानन्दाय दत्तवान् ।
हर्यानन्दो महायोगी श्रियानन्दाङ्घ्रिसेवकः ॥ १६॥
हर्यानन्दस्य शिष्यो हि राघवानन्ददेशिकः ।
यस्य वै शिष्यतां प्राप्तो रामानन्दः स्वयं हरि ॥ १७॥
तस्माद् गुरुवारल्लब्ध्वा देवानामपि दुर्लभम् ।
प्रादात्तुभ्यमहन्तात गुह्यं तारकसंज्ञकम् ॥ १८॥
एवं परम्परा सौम्य प्रोक्ता श्रीसम्प्रदायिनाम् ।
मन्त्रराजस्य चाख्यातिर्भूम्यामेवमवातरत् ॥ १९॥
श्रीअग्रदास उवाच -
कृष्णदासस्तु तच्छ्रुत्वा लेभे परमहर्षताम् ।
साष्टाङ्गं प्रणतिं कृत्वा वचनं चेदमब्रवीत् ॥ २०॥
श्रीकृष्णदास उवाच -
पीत्वा श्रीमुखवाक्यजन्यममृतं तापत्रयोद्धारकं
श्रुत्वा वेदनिगूढतत्त्वजनिकां वाणीं समुल्लासिनीम् ।
हित्वा मोक्षदरामतारकमिमं जाने न सारं परं
नीत्वा कालमहं सुसाधकधिया वक्तुं न शक्नोम्यलम् ॥ २१॥
श्रीअग्रदास उवाच -
यः पठेच्छ्रद्धया नित्यं पूर्वाचार्यपरम्पराम् ।
मन्त्रराजरतिं प्राप्य सद्यो रामपदं व्रजेत् ॥ २२॥
इति श्रीअग्रदेवाचार्यविरचितं श्रीसम्प्रदायगुरुपरम्परास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey