श्रीसुखानन्दाचार्यप्रणीता श्रुतिसिद्धान्तदीपिका
नमस्कृत्य परं ब्रह्म सीतया सह राघवम् ।
आनन्दभाष्यकृद्रामानन्दाचार्यं समाश्रये ॥ १॥
पादपद्मं गुरोर्नत्त्वा संसारार्णवतारकम् ।
कुर्वे सिद्धान्तबोधाय श्रुतिसिद्धान्तदीपिकाम् ॥ २॥
विशिष्टाद्वैतनामा हि सिद्धान्तः श्रुतिसम्मतः ।
``सदेव सोम्येदमग्रे'' इत्येतछ्रुतिमानतः ॥ ३॥
तत्र चिदचिदीशेतिभेदात् तत्त्वं त्रिधा मतम् ।
``क्षरं प्रधानमि ``त्येतच्छ्रुतेस्तत्र प्रमाणता ॥ ४॥
तत्र ज्ञानस्वरूपोऽणुश्चिदर्थो जीव उच्यते ।
परागथाजडं नित्यं विभु ज्ञानं हि तद्गुणः ॥ ५॥
संयोगगतिमत्त्वाच्च द्रव्यत्वमुभयोर्मतम् ।
परेण ज्ञानवेद्योऽपि स्वात्मा स्वेनापि गृहृते ॥ ६॥
विकारिता मता ज्ञाने नात्मनि सा हि सम्मता ।
सङ्कोचश्च विकासश्च विकारौ सम्मतौ मतौ ॥ ७॥
``अहं जानामि'' इत्येषा प्रतीतिः सर्वसम्मता ।
ज्ञानाश्रयस्ततश्चात्मा ज्ञानं गुणस्तथात्मनः ॥ ८॥
आत्मतज्ज्ञानयोश्चाथ प्रकाशभूतयोस्तथा ।
आधाराधेयभावो हि दीपतत्प्रभयोरिव ॥ ९॥
विषयाणां प्रकाशस्य काले ज्ञानं प्रकाशते ।
प्रकाशते सदा चात्मा धर्मिभूतः सनातनः ॥ १०॥
अनुकूलस्तथा चैकः स्फुरत्यात्मा सदैव हि ।
ज्ञानं चाप्यनुकूलत्वात् सुखरूपं मतं बुधैः ॥ ११॥
``अहं सुखं किलास्वाप्समि'' त्थम्भूतप्रतीतितः ।
आत्मा सुखस्वरूपोऽत्र स्वस्मै च स्वप्रकाशता ॥ १२॥
ज्ञाने नित्यविभूतौ च परस्मै स्वप्रकाशता ।
स्वान्यनिर्वाहकत्वेन दीपवत् तत्र सा मता ॥ १३॥
अणुत्वेऽप्यात्मनस्तस्य ज्ञानं विभु यतस्ततः ।
सुखदुःखोपलब्धिर्हि भालादौ सम्मता बुधैः ॥ १४॥
एककाले तथाऽनेककायग्रहश्च योगिनाम् ।
श्रुतं ज्ञानस्य नित्यत्वं ``न विज्ञातु'' रितिश्रुतौ ॥ १५॥
उत्क्रान्तिगमनादिभ्यश्चात्माऽणुर्न विभुर्मतः ।
``एषोऽणुरात्मा'' इत्येवमणुत्वं चात्मनः श्रुतम् ॥ १६॥
बालस्य स्तन्यपाने हि प्रवृत्तेर्नित्यताऽऽत्मनः ।
``अजो नित्यः शाश्वतोऽयम्'' प्रमाणं तत्र विद्यते ॥ १७॥
मध्यमपरिमाणत्वे त्वात्माऽनित्यो भवेत् किल ।
सावयवत्वहेतोर्हि लोके घटपटादिवत् ॥ १८॥
कृन्तस्य विप्रणाश्चाकृतस्यागमनं खलु ।
अनित्यत्वे मते जीवे स्यातां दोषौ दुरुद्धरौ ॥ १९॥
आत्मा शरीरतो भिन्नो ``मम देहः'' प्रतीतितः ।
जीवे तादृक्प्रतीतेश्च प्राणधीन्द्रियभिन्नता ॥ २०॥
शेषत्वाणुत्वधर्मेभ्यो जीवो ब्रह्मविलक्षणः ।
बद्धः स कर्मभिर्बद्धो मुक्तो मुक्तश्च कर्मभिः ॥ २१॥
प्रारब्धमुपभुज्याथ देहं त्यक्त्वाऽर्चिरादिना ।
साकेतेऽष्टगुणैर्युक्तो मुक्तो रामानुभावकः ॥ २२॥
श्रीरामस्य प्रपत्त्या वा भक्तया मुक्तो भवेन्नरः ।
जीवाः परस्परं भिन्नाः सुखिदुःखिव्यवस्थया ॥ २३॥
``नित्यो नित्यानामि'' त्येवं श्रुत्यां नाना हि ते श्रुताः ।
ब्रह्मणो रूपहीनत्वात् प्रतिबिम्बा न तस्य ते ॥ २४॥
अचेतनमचित्तत्त्वं चतुर्धा सम्प्रकीर्त्तितम ।
कालश्च प्रकृतिः शुद्धसत्त्वं ज्ञानं तथैव च ॥ २५॥
कालो जडो विभुर्द्रव्यं खण्डाखण्डेतिभेदतः ।
द्विविधः स निमेषादिः खण्डोऽनित्यः प्रकीर्त्तितः ॥ २६॥
भूतादिव्यवहाराणां कारणं काल एव हि ।
नित्यस्त्वखण्डकालो हि नित्यधाम्नि न स प्रभुः ॥ २८॥
सत्वादित्रिगुणाधारः प्रकृतिः परिकीर्त्तिता ।
अचेतना परार्था सा नित्या सततविक्रिया ॥ २८॥
अनात्मनि शरीरे सा चात्मबुद्धिविधायनी ।
आत्मनि परतन्त्रे सा स्वातन्त्र्यबुद्धिकारिणी ॥ २९॥
पुरुषार्थत्वबुद्धिं सा त्वैश्वर्यादौ करोति हि ।
आत्मन्यनीश्वरे चापि सा करोतीशतामतिम् ॥ ३०॥
रामशेषेषु जीवेषु बोधयत्यन्यशेषताम् ।
करोत्युपायबुद्धिं च साऽनुपाये तथैव हि ॥ ३१॥
सत्वं रजस्तम इति गुणेषु प्रकृतेरथ ।
वैषम्याच्च भवन्तीह विकारा महदादयः ॥ ३२॥
चतुविंशतिरूपा तत् प्रकृतिः परिकीर्त्तिता ।
प्रकृतेश्च महास्तस्मादहङ्कारस्त्रिधा ततः ॥ ३३॥
सात्विकादिन्द्रियाणि स्युरेकादशविधानि हि ।
ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा, तत्रादिमानि तु ॥ ३४॥
मनः श्रोत्रं च चक्षुश्च त्वग्घ्राणरसनानि च ।
वाक्पाणिपादपायूपस्थाख्यान्यन्त्यानि पञ्च हि ॥ ३५॥
तामसाहङ्कृतेश्चाथ शब्दतन्मात्रकोद्भवः ।
ततो व्योम ततः स्पर्शस्ततो वायुश्च वायुतः ॥ ३६॥
रूपतन्मात्रकं जातं तस्मात् तेजो रसस्ततः ।
रसादापस्तथा चाद्भ्यो गन्धो गन्धाद् वसुन्धरा ॥ ३७॥
राजसाहङ्कृतिः प्रोक्ता तूभयोः सहकारिणी ।
पञ्चीकृत्य च भूतेभ्यो रामो जगत् करोति हि ॥ ३८॥
श्रोत्रादिविषयास्तत्राद्रव्यशब्दादयो गुणाः ।
परिणामो जगत् सत्यं सद्वारको हि ब्रह्मणः ॥ ३९॥
``तमसः परस्तादे'' वं श्रुतिभिः परिवर्णितम् ।
शुद्धसत्त्वाश्रयो द्रव्यं शुद्धसत्त्वं प्रकीर्त्तितम् ॥ ४०॥
नित्यनामथ मुक्तानामीश्वरस्य तथैव च ।
कालावश्यं च नित्यं च भोगस्थानादि तन्मतम् ॥ ४१॥
प्राप्यते तद्धि भक्त्या च प्रपत्त्या चार्चिरादिना ।
रामाधीनं च तद्धाम यद् गत्वा न निवर्त्तते ॥ ४२॥
ज्ञानं निरूपितं चाथ राम ईशो निरूप्यते ।
यस्य भक्त्या प्रपत्त्या च सायुज्यं प्राप्यते ध्रुवम् ॥ ४३॥
श्रीरामोऽस्ति परब्रह्म विभूतिद्वयनायकः ।
उपादानं निमित्तं च जगतोऽस्य मतः श्रुतौ ॥ ४४॥
विकारः सम्मतो यस्माच्चिदचितोः प्रकारयोः ।
प्रकारिणि ततो रामे चाक्षता निर्विकारता ॥ ४५॥
सर्वशक्तिरदोषोऽथ रामो दिव्यगुणार्णवः ।
आर्त्तादिभिश्चतुर्भिश्चोपास्यो मोक्षप्रदायकः ॥ ४६॥
जगज्जन्मादिलीलश्च भगवान् विभुरव्ययः ।
सच्चिदानन्दरूपश्च सीतानाथः परेश्वरः ॥ ४७॥
आराध्यः फलदश्चाथ जनानां सर्वकर्मणाम् ।
दिव्यदेहोऽतिरम्यश्च योगिध्येयश्च सर्ववित् ॥ ४८॥
परो व्यूहस्तथाऽन्तःस्थो विभवोऽर्चावतारकः ।
पञ्चधैवं स्थितः सर्वशेषी सर्वशरीरकः ॥ ४९॥
चिदचिद्भ्यां विशिष्टत्वाद् विशिष्टं ब्रह्म मन्यते ।
ब्रह्मणो देह रूपत्वाच्चिदचितोः प्रकारता ॥ ५०॥
सूक्ष्माभ्यां चिदचिद्भ्यां हि विशिष्टं ब्रह्म कारणम् ।
स्थूलाभ्यां चिदचिद्भ्यां तद् विशिष्टं कार्यमुच्यते ॥ ५१॥
एकत्वं हि श्रुतौ यस्मात् कार्यकारण ब्रह्मणोः ।
विशिष्टाद्वैतसिद्धान्तस्ततोऽदोषश्च वैदिकः ॥ ५२॥
रामानन्दार्यसच्छिष्यसुखानन्दार्यनिर्मिता ।
सिद्धान्तबोधिनी भूयाच्छ्रुतिसिद्धान्तदीपिका ॥ ५३॥
इति श्रीसुखानन्दाचार्यप्रणीता श्रुतिसिद्धान्तदीपिका सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey