शुचिपर्यावरणम्
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् ।
शुचिपर्यावरणम् ॥ ध्रु.॥
महानगरमध्ये चलदनिशं कालायसचक्रम् ।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम् ॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् ॥ १॥ शुचिपर्यावरणम्
कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् ॥ २॥ शुचिपर्यावरणम्
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम् ।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ।
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् ॥ ३॥ शुचिपर्यावरणम्
कञ्चित् कालं नय मामस्मान्नगराद् बहुदरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम् ।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम् ॥ ४॥ शुचिपर्यावरणम्
हरिततरूणां ललितलतानां माला रमणीया ।
कुसमावलिः समीरचालिता स्यान्मे वरणीया ।
नवमालिका रसालं मिलिता रुचिरं सङ्गमनम् ॥ ५॥ शुचिपर्यावरणम्
अयि चल बन्धो ! खगकुलकलरव गुञ्जितवनदेशम्।
परकलरव सम्भ्रमितजनेभ्यो धृतसखसन्देशम् ॥
चाकचिक्यजालं नो कर्याज्जीवितरसहरणम् ॥ ६॥ शुचिपर्यावरणम्
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।
मानवाय जीवनं कामये नो जीवन्मरणम् ॥ ७॥ शुचिपर्यावरणम्
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् ।
शुचि पर्यावरणम् ॥