श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः

श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः

साकेताधीश्वरः श्रीमज्जानाकीवल्लभो विभुः । अव्याच्छाश्वतं रामो भक्ताभीष्टप्रदो हरिः ॥ १॥ प्रपन्नानां गतिं ह्येकां जनसन्तारणोत्सुकाम् । वात्सल्यरसपूर्णाङ्गीं रामकान्तां सदा भजे ॥ २॥ मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् । हनूमन्तं सदा वन्दे राममन्त्रप्रवर्त्तकम् ॥ ३॥ रक्षकं श्रुतिशास्त्राणां यमदुःखस्य भक्षकम् । तक्षकं म्लेच्छयूथानां रामानन्दं समाश्रये ॥ ४॥ सीतानाथसमारम्भां श्रीबोधायनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५॥ धर्ममार्गच्युता मूर्खा अज्ञानध्वान्तपीडिताः । प्राप्नुवन्त्वचिरान्मार्गं लब्ध्वा सिद्धान्तदीपकम् ॥ ६॥ आनन्दभाष्यकार श्रीरामानन्दजगद्गुरोः । सिद्धान्तो वैदिको मान्यो विशिष्टाद्वैतनामकः ॥ ७॥ शास्त्रश्रुतेश्च सत्सङ्गादात्मप्रबोधनादपि । स्वभावदूषिता लोका न शुध्यन्ति कदाचन ॥ ८॥ प्रीतिर्नैसर्गिकी कार्या ह्युत्तमश्लोकवल्लभे । विषयासक्तजीवानां नानुरक्तिः कदाचन ॥ ९॥ पूरयेदष्टगन्धेन सिञ्चयेत् पुष्पवारिणा । खलवदुग्रगन्धं च पलाण्डुर्नैव मुञ्चति ॥ १०॥ लौकिकीनां हि वृत्तीनां दैहिकीनां च सिद्धये । उदासीनेन चित्तेनेतरेषामल्पसङ्गतिः ॥ ११॥ स्वाध्यायव्रतसत्तीर्थदानयज्ञतपांसि हि । विषयातुरजीवानां कुर्वन्त्यात्मविशोधनम् ॥ १२॥ किन्त्वात्मशोधने ह्येते न स्वतन्त्राः कदाचन । भगवत्कृपया युक्ताः शक्ताः स्युरात्मशुद्धये ॥ १३॥ निगमागमसारज्ञा भक्ताः श्रीरामनिर्भराः । शरणागतिमेवैकां गृह्णन्त्यात्मप्रसादिनीम् ॥ १४॥ सकृदेव प्रपन्नाय कृता श्रीरामयाचना । सर्वाभयविधात्री स्यात् सत्यं श्रीमुखभाषणम् ॥ १५॥ ईश्वरप्रणिधानाच्च भगवद्धर्मपालनात् । आचार्यसंश्रयाच्चैव जीवो बन्धाद्विमुच्यते ॥ १६॥ भगवद्धर्मतत्त्वज्ञाः पञ्चसंस्कारसंस्कृताः । प्रपन्ना निर्भरा रामे वैष्णवा भुवि दुर्लभाः ॥ १७॥ रामात् परतरं तत्त्वं श्रुतिसिद्धान्तगोचरम् । तत्त्वज्ञा नैव पश्यन्ति तमेव शश्वदाश्रयेत् ॥ १८॥ इदं हि सर्वशास्त्राणां सारभूतं रहस्यकम् । सर्वान्तर्यामिणं रामं ज्ञात्वा सेवेत शुद्धधीः ॥ १९॥ भगवद्भक्तिहीनानां द्वेषिणां च गुरोः सताम् । न श्रोतव्यं न मन्तवयं वाक्यं भक्तिविवर्जितम् ॥ २०॥ ममताशून्यचेतस्कः पद्मपत्रमिवाम्भसा । प्रारब्धभोगपर्यन्तं देहकार्याणि साधयेत् ॥ २१॥ कायेन वाचा मनसा धनेन च जनेन च । रामसेवा सदा कार्या भवपाशविमोचिनी ॥ २२॥ वात्सल्याज्जानकीदेव्याः साधुसद्गुरुसेवनात् । शश्वच्छ्रीरामचन्द्रो हि कृपापूर्णो भवेज्जने ॥ २३॥ अधिष्ठात्रीं हि लोकानां सर्वशक्तिशिरोमणिम् । ज्ञात्वा सीतां महादेवीं नान्यां काञ्चिद् भजेद् बुधः ॥ २४॥ राम एव परं ब्रह्म तत्समोऽभ्यधिकश्च कः । लौकिके वैदिके ध्येयः पूज्यश्च स हि कर्मणि ॥ २५॥ भगवच्छक्तिसम्पन्ना ससुरासुरमानवाः । तेन त्यक्तेन भुञ्जीथा यत्किञ्च भुवने सदा ॥ २६॥ ज्ञानयोगात् क्रियायोगाद्भक्तियोगाच्च सर्वथा । दैन्यादात्मार्पणं श्रेष्ठं प्रोक्तं श्रीरामतोषकम् ॥ २७॥ श्रवणद्वारमित्याहुर्भगवत्तत्त्वबोधकम् । उत्तमश्लोकवीर्याणि नामानि श‍ृणुयात्तत्तः ॥ २८॥ प्रिया भागवता येषां तेषां किञ्चिन्न दुर्लभम् । वशीभूतो हरिर्येषां हृदयाब्जान्न सर्पति ॥ २९॥ देशान् समाश्रयेत् पुण्यान् भगवद्भक्तिवर्धकान् । हरेरर्चाश्रिताँश्चैव साधुभिः सेविताञ्छुभान् ॥ ३०॥ अर्चयेत् परया भक्त्या राममूर्तिं मनोहराम् । ससीतां सानुजाश्चैव सपार्षदां च सायुधाम् ॥ ३१॥ भगवच्छेषनिर्माल्यं नैवेद्यं चरणोदकम् । दुर्लभं ब्रह्मरुद्राद्यैरुपास्यं भक्तिवर्धकम् ॥ ३२॥ सेवनीयं सदा विज्ञैर्वैष्णवै रामवल्लभैः । साधुसद्गुरुपादाब्जतीर्थं परमपावनम् ॥ ३३॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्भक्तिपरायणैः । स्त्रिया सहैव कर्त्तव्यं सदा श्रीरामपूजनम् ॥ ३४॥ प्रतिबन्धो न विद्येत हरेराधने क्वचित् । सर्वपूज्यः सदा पूज्यो रामो भुवनपावनः ॥ ३५॥ सूतके मृतके चापि न त्याज्यं रामपूजनम् । दीक्षितेन विशेषेण चोर्ध्वपुण्ड्रादिकं क्वचित् ॥ ३६॥ आत्मरूपं सदा निन्त्यं सच्चिदानन्दरूपकम् । सेवासुखप्रदं शश्वद्रामाधीनं निरामयम् ॥ ३७॥ साकेतनायको रामो जगतः कारणं परम् । क्रियाः सांसारिकाः सर्वास्तदधीना हि निश्चिताः ॥ ३८॥ देहान्ते चिन्मयं रूपं श्रीरामस्य परात्परम् । ध्यात्वा रसनया जल्पन् रामनामैव मोक्षदम् ॥ ३९॥ प्राकृतं देहमुत्सृज्य भित्त्वा भानोश्च मण्डलम् । गत्वा श्रीरामसान्निध्यं प्राप्नुयाद्धि कृतार्थताम् ॥ ४०॥ मायातीते महादिव्ये साकेते रामवल्लभे । नित्या स्थितिः सदा भाव्या स्वात्मनो योगिदुर्लभा ॥ ४१॥ जनानां भ्रान्तमार्गाणामज्ञानध्वान्तशान्तये । श्रुतिशास्त्रगुहाविष्टतत्त्वरत्नप्रकाशकः ॥ ४२॥ सिद्धान्तदीपकश्चायमनन्तानन्ददीपितः । भूयाद्भक्तजनानन्ददायकस्तत्त्वदीप्तये ॥ ४३॥ इति श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Anantanandacharyapranitah Siddhantadipakah
% File name             : siddhAntadIpakaH.itx
% itxtitle              : siddhAntadIpakaH (anantAnandAchAryapraNItaH)
% engtitle              : siddhAntadIpakaH
% Category              : misc, rAmAnanda, advice, upadesha
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : anantAnandAchArya 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org