सुप्रभातश्लोकानि
श्रीगणेश प्रातःस्मरणम् -
प्रातर्भजाम्यभयदं खलुभक्तशोकं
दावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाह-
मुत्साहवर्धनमहं सुतमीश्वराय ॥ १॥
श्रीविष्णोर्प्रातःस्मरणम् -
त्रैलोक्यचैतन्यमयादि देव
श्रीनाथविष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥ २॥
विविध कार्य के लिए स्मरण (विष्णोषोडशनामस्तोत्रम्) -
औषधेचिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ ३॥
युद्धे चक्रधरन्देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ ४॥
दुःस्वप्नेषु च गोविन्दं सङ्कटे मधुसूदनम् ।
कानने नरसिंहं च पावके जलशायिनम् ॥ ५॥
जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ६॥
एतानि विष्णुनामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ७॥
सङ्कट नाश के लिए (हकारादि पञ्चदेवस्तुतिः)
हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् ।
पञ्चकं वै स्मरेन्नित्यं घोरसङ्कटनाशनम् ॥ ८॥
आपन्निवारणार्थम् -
प्रभाते यस्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् ।
आपदस्तस्य नश्यन्तितमसूर्योदये यया ॥ ९॥
आयु प्राप्ति के लिए -
अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषणः ।
कृपः परशुरामशच सप्तै ते चिरजीविनः॥ १०॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितम् ॥ ११॥ (जीवेद्वर्षशतं सोपि)
कलिनाशकम् -
कर्कोटकस्य नागस्य दमयान्त्यानलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ १२॥
नष्ट वस्तु प्राप्ति के लिए (कार्तवीर्य द्वादशनाम स्तोत्रम्)
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य सङ्कीर्तयेन्नाम कल्य उत्थाय मानवः ।
न तस्यवित्तनाशस्यानष्टं च लभते पुनः ॥ १३॥
वस्तु चोरी से रक्षा -
तिस्त्रोभार्याकफल्लस्यदायिनीमोहिनी सती । (दाहिनीमोहिनी)
तासां स्मरणमात्रेण चौरो गच्छति निष्फलः ॥ १४॥
सर्पभयनाशार्थम् -
सर्पापसर्पं भद्रं ते दूरं गच्छ महाविषः ।
जनमेजयस्य यज्ञान्ते आस्तिकः वचनस्मर ॥ १५॥
सुखशयनार्थम् -
जले रक्षतु वाराह स्थले रक्षतु वामनः ।
अटव्यां नारसिंहञ्च सर्वतोऽवतु केशव ॥ १७॥
क्लेश क्षयार्थम् -
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ॥ १८॥
भोजन प्राप्त्यर्थम् -
गच्छ गौतम शीघ्रं च ग्रामेषु नगरेषु च ।
आसनं भोजनं यानं सर्वं मे परिकल्पय ॥ १९॥
॥ इति सुप्रभातम् ॥
Encoded and proofread by Vishwesh G. M.