स्वच्छभारतगीतम्
स्वप्नो मम बृहत्तमः क्षुद्रे नयने
भावना मे नव-नवा सुखवाचने
ग्रामाद् वै नगरं देशाद् हि विदेशं
कुर्मः शपथं
स्वच्छं भारतं मे स्वच्छं भारतम् ॥ ध्रुवम्॥
परिवेशे सुरक्षिते स्वास्थ्यं संपदं
गान्धिमतं समीचीनं स्मृतिसम्मतं
वयं पालयामः
परं शिक्षयामः
कुर्मः शपथं
स्वच्छं भारतं मे स्वच्छं भारतम् ॥ १॥
देशप्रेम समायाति स्वच्छमानसं
विदेशेषु भावमूर्त्तिः भवेत् जाग्रतं
आयात श्रमिकाः
आयात कृषकाः
कुर्मः शपथं
स्वच्छं भारतं मे स्वच्छं भारतम् ॥ २॥
स्वप्नो मम बृहत्तमः क्षुद्रे नयने
भावना मे नव-नवा सुखवाचने
ग्रामाद् वै नगरं देशाद् हि विदेशं
कुर्मः शपथं
स्वच्छं भारतं मे स्वच्छं भारतम् ॥
अनुवादकः- डाॅ प्रदीप्तकुमारः नन्दः
केन्द्रापडा, ओडिशा
Translated from Odia song to Sanskrit, encoded, proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com