तीर्थस्तुतिः
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥
कुरुक्षेत्र -गया -गङ्गा -प्रभास -पुष्कराणि च ।
एतानि पुण्यतीर्थानि स्नानकाले भवन्त्विह ॥ २॥
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
याचितं देहि मे तीर्थं तीर्थराज! नमोऽस्तु ते ॥ ३॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ ४॥
विष्णु -पादाव्ज-सम्भूते गङ्गे त्रिपथगामिनि ।
धर्मद्रवेति विख्याते पापं मे हर जाह्नवि! ॥ ५॥
गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णलोकं स गच्छति ॥ ६॥
इति तीर्थस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com