उद्धव! मथुरापतिसन्देशम्
उद्धव! मथुरापतिसन्देशम् ॥
विरहानलसन्तप्तमानसं रसयति नहि सविशेषम् ।
उद्धव! मथुरापतिसन्देशम् ॥
श्रोत्रं मधुररसायनमात्रं प्रियसन्देशं पातुम् ।
निरतमीहते मनसि नैव शक्तो योगोऽस्ति प्रयातुम् ।
उद्धव! मथुरापतिसन्देशम् ॥
चित्ते हालाहलति योगसन्देशो दहति विशेषम् ।
कथय कथं शृणुयाम विषमयं निष्ठुरजनसन्देशम् ।
उद्धव! मथुरापतिसन्देशम् ॥
द्वैते योगी भवति जानतेऽभिज्ञाः प्रेमाद्वैते ।
व्रजबाला मनुते च विश्वसिति निरतं प्रेमाद्वैते ।
उद्धव! मथुरापतिसन्देशम् ॥
कर्णे हृदये चापि मधुस्यति सन्देशेपेयत्वम् ।
मन्यामहे वयं सम्मूढा याहि कथय योगेशम् ।
उद्धव! मथुरापतिसन्देशम् ॥
विरहानलसन्तप्तमानसं रसयति नहि सविशेषम् ।
उद्धव! मथुरापतिसन्देशम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com