उत्कलप्रदेशे स्वामिनिगमानन्दः

उत्कलप्रदेशे स्वामिनिगमानन्दः

लेखकः - नन्दप्रदीप्तकुमारः स्वामिनिगमानन्दः भारतवर्षस्य चत्वारि धामानि सप्तखण्डानि च परिव्राजकरूपेण परिभ्रम्य सर्वशेषे भोगक्षेत्रं पुरीधाम प्रत्यागतवान् । ख्रीष्टतः चतुर्विंशत्यधिकोनविंशतिशतकादारभ्यचतुर्चत्वारिंशदधिकोनविंशतिशतकपर्यन्तमसौ महात्मा प्रायतः पुर्यां नीलाचलकुटीरेऽवस्थानं चकार । दशाधिकोनविंशतिशतकस्य वैशाखे मासे महात्मा निगमानन्दः प्रथमतः दुर्गापुरनामकाश्रमात् कतिपयैः शिष्यैः सार्द्धं पुरीमागतवान् । तत्पश्चात्तस्य मनसि पुर्यावस्थानं बलवत्तरं संजातम् । स एकविंशत्यधिकोनविंशतिशतके स्वामिस्वरूपानन्देन सह पुरीमागत्य अश्विनीकुमारमहाभागस्य कमलकुटीरे भाटकरूपेण कति मासान् स्थित्वा वंगदेशं प्रत्यागत्य पुनः द्वाविंशत्यधिकोनविंशतिशतके पुरीमागत्य ``गोयेंका'' इति धर्मशालायां कियद्दिनानि उषित्वा चतुर्विंशत्यधिकोनविंशतिशतकेऽनेन महानुभावेन नीलाचलकुटीरस्य गृहप्रवेशः कृतः । उत्कलावस्थानसमये स्वामिनिगमानन्दः उत्कलस्य बहुविधस्थानानि परिभ्रम्य तत्रत्यधर्मप्राणमानवानां मनसि स्वकीयामृतवचनस्य गंगाप्रवाहं कृत्वा आसनमन्दिरादीन् प्रतिष्ठाप्य गुरुगतभक्तानामन्तःकरणसिंहासने ``शंकरस्य मतं चैतनस्य पन्थाः'' इति तत्त्वं समुपस्थाप्य लोकप्रियो बभूव । तन्त्रज्ञानयोगप्रेमसाधनचतुष्टयसंपन्न -निगमानन्दमतस्यालौकिकता उत्कलभूमौ महत्वपूर्णस्थानं भजते इति न विसंम्बादः । यतो हि तद्दर्शनं मुख्यतया प्रत्यक्षवादोपरि सुप्रतिष्ठितमासीत् । इदं निगमानन्ददर्शनं न केवलं मननशास्त्रमपितु अनुभूतेः विद्युत्तरंगरूपम् । अस्मिन् दर्शने संशयस्य नास्ति किमपि स्थानं येन संशेत । मनसि तर्कः । भौतिके ग्लानिः, किन्तु बोधिराज्ये कुतो वा संशयः कुतो वा विपर्ययः ? निगमशब्दः वेदप्रतिपादकः, सुतरामपौरुषेयः । अतीन्द्रियज्ञानपरिप्लुतः । मन्त्रद्रष्टृणामसौ संक्षिप्तवार्ता । एतस्मात् कारणात् निगमसिद्धसाधकस्य स्वामिनिगमानन्ददर्शनस्य विचारधारायाः पुंखानुपुंखगवेषणं मत्कृते निःसन्देहं दुर्बोधम्, तथापि तस्योत्कलावस्थानविषये किमपि याथातथ्यं कथयामि । उत्कलभूमौ स्वामिनिगमानन्दस्य प्रभावः सर्वोपरि श्रीदुर्गाचरणमहान्ति उपरि निपतितः । यद्यपि तदानीं परमहंसस्य अन्ये बहवो मन्त्रशिष्याः यथा- सर्वश्रीचैतन्य चरण दास-वनमालिदाश-दामोदरदास-ईश्वरचन्द्रसाहु-हरप्रसाद-गोविन्दचन्द्रपट्टनायक-श्रीगुरुदास-नृपाल एकादशी-हरिचन्दन-क्षीरोदसिंह-वंशीधरवेहेरा-अश्विन्यादयश्च आसन् एतेषु दुर्गाचरणेन निगमानन्दभावधारायाः पृष्ठपोषकता समाचरिता । एतस्मात् सः नीलाचलसारस्वतसंघस्य परिचालकत्वेन नियुक्तः । असौ पूतात्मा उत्कले स्वामिनिगमानन्दमतस्य बीजवपनकर्ता आसीत् । अस्य प्रचेष्टया हि निगमानन्द दर्शनसम्बधीय वंगीयग्रन्थाः उत्कलभाषयाऽनुवादिताः, विस्तारिताश्च । स्वामिनिगमानन्द आसीदुत्कलीयानां कृते शाश्वतपुरुषः । तस्य सुललितं योगाग्निमयशरीरं दृष्ट्वाऽमृतलिप्तवाणीं च श्रुत्वा बहवोत्रत्यजनाः तस्य शिष्यत्वेन परिणताः सन्तः तं स्वकीयं गुरुरूपेण स्थापयामासुः । तत्त्वतो निगमानन्द-जीवनधारा आसीदलौकिकी । तज्जीवनदर्शनमपि अमावास्यायां चन्द्रप्रकाशरूपम् । भारतीयसाधना निगमानन्ददर्शने तरंगायिता । तत्त्वपिपासूनां हृदयकमले अद्यावधि चिरन्तनी । तस्यादेश उपदेशश्च औत्कलीयानामन्तःकरणे अनिर्वचनीय अलंघनीयः । यच्चोक्तं परमर्षिणा- ``वत्स ! अहं सद्गुरुः । जगद्गुरोरिच्छा हि मयि लीलायिता । युष्माकं मुक्तिमार्गं प्रदर्शयितुं मम विकाशः । ये मयि पूर्णनिर्भरास्तानहं हस्ते धृत्वा मुक्तिधाम नेष्यामि'' । शिष्यभक्तान् प्रति महात्मनः स्नेह आसीदनाविलः । असौ महात्मा वारम्बारं स्वशिष्यान् आत्मसमर्पणकर्तुंमुपदिदेश । तथाहि- ``वत्स! मम निर्देशः युष्माकं पक्षे न कष्टतरः । यतो हि साधनदशायां मया सकलं कृच्छ्रमंगीकृतम् । अधुना युष्माकं पृथक् साधनायाः नास्ति काचित् आवश्यकता । मम प्राणेषु तव प्राणान् ममेच्छायां तवेच्छां च संयोजयन् मदुपदिष्ट-जगद्धितकरकार्येषु रतो भव । मम साधनायाः सकलं फलं लप्स्यते'' । असौ आत्मसमर्पणयोगः । इयमेव युष्माकं कृते बलिष्ठा साधना । निगमानन्दजीवनदर्शनं परमं तथा चरममासीत् तच्छिष्यानां कृते । तन्मते शिष्यस्य भक्तिमाध्यमेन हि गुरौ गुरुत्वस्याविर्भावः । यत्र भक्तिर्नास्ति तत्र निरसशुष्कज्ञानमाध्यमेन ब्रह्मावगतिरसम्पूर्णा । प्रेम्णा चेतस उत्कर्षः । उत्कृष्टे चेतसि भगवतः प्रतिविम्बः स्पष्टः । भगवन्तं वशीकर्तुं भक्तिं विना नान्यत्किमपि कारणान्तरम् । उत्कलभूमौ निगमानन्दस्य प्रभावो बलवत्तर आसीत् । यदिवा निगमानन्द आत्मानमीश्वरावतार इति कुत्रापि नोक्तस्तथापि कतिपयाऽन्तरंगा भक्ता तमीश्वररूपेण अद्यावधि पूजयन्ति स्म । पारमार्थिके इदं निगमानन्ददर्शनं द्वैतवादोपरि पर्यवसितमित्यलं विवादेन । ॐ शान्तिः । --- लेखकः - नन्दप्रदीप्तकुमारः सहायकग्रन्थाः १- ज्ञानिगुरुः २- योगिगुरुः ३- तान्त्रिकगुरुः ४- प्रेमिकगुरुः ५- ब्रह्मचर्यसाधनम् ६- ठाकुरेर चिठि Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Svami Nigamananda in Utkalapradesh
% File name             : utkalapradeshesvAminigamAnandaH.itx
% itxtitle              : utkalapradeshesvAminigamAnandaH (lekhaH)
% engtitle              : utkalapradeshesvAminigamAnandaH
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org