उत्कलप्रदेशे स्वामिनिगमानन्दः
लेखकः - नन्दप्रदीप्तकुमारः
स्वामिनिगमानन्दः भारतवर्षस्य चत्वारि धामानि सप्तखण्डानि च परिव्राजकरूपेण परिभ्रम्य सर्वशेषे भोगक्षेत्रं पुरीधाम प्रत्यागतवान् । ख्रीष्टतः चतुर्विंशत्यधिकोनविंशतिशतकादारभ्यचतुर्चत्वारिंशदधिकोनविंशतिशतकपर्यन्तमसौ महात्मा प्रायतः पुर्यां नीलाचलकुटीरेऽवस्थानं चकार ।
दशाधिकोनविंशतिशतकस्य वैशाखे मासे महात्मा निगमानन्दः प्रथमतः दुर्गापुरनामकाश्रमात् कतिपयैः शिष्यैः सार्द्धं पुरीमागतवान् । तत्पश्चात्तस्य मनसि पुर्यावस्थानं बलवत्तरं संजातम् । स एकविंशत्यधिकोनविंशतिशतके स्वामिस्वरूपानन्देन सह पुरीमागत्य अश्विनीकुमारमहाभागस्य कमलकुटीरे भाटकरूपेण कति मासान् स्थित्वा वंगदेशं प्रत्यागत्य पुनः द्वाविंशत्यधिकोनविंशतिशतके पुरीमागत्य ``गोयेंका'' इति धर्मशालायां कियद्दिनानि उषित्वा चतुर्विंशत्यधिकोनविंशतिशतकेऽनेन महानुभावेन नीलाचलकुटीरस्य गृहप्रवेशः कृतः ।
उत्कलावस्थानसमये स्वामिनिगमानन्दः उत्कलस्य बहुविधस्थानानि परिभ्रम्य तत्रत्यधर्मप्राणमानवानां मनसि स्वकीयामृतवचनस्य गंगाप्रवाहं कृत्वा आसनमन्दिरादीन् प्रतिष्ठाप्य गुरुगतभक्तानामन्तःकरणसिंहासने ``शंकरस्य मतं चैतनस्य पन्थाः'' इति तत्त्वं समुपस्थाप्य लोकप्रियो बभूव ।
तन्त्रज्ञानयोगप्रेमसाधनचतुष्टयसंपन्न -निगमानन्दमतस्यालौकिकता उत्कलभूमौ महत्वपूर्णस्थानं भजते इति न विसंम्बादः । यतो हि तद्दर्शनं मुख्यतया प्रत्यक्षवादोपरि सुप्रतिष्ठितमासीत् ।
इदं निगमानन्ददर्शनं न केवलं मननशास्त्रमपितु अनुभूतेः विद्युत्तरंगरूपम् । अस्मिन् दर्शने संशयस्य नास्ति किमपि स्थानं येन संशेत । मनसि तर्कः । भौतिके ग्लानिः, किन्तु बोधिराज्ये कुतो वा संशयः कुतो वा विपर्ययः ?
निगमशब्दः वेदप्रतिपादकः, सुतरामपौरुषेयः । अतीन्द्रियज्ञानपरिप्लुतः । मन्त्रद्रष्टृणामसौ संक्षिप्तवार्ता । एतस्मात् कारणात् निगमसिद्धसाधकस्य स्वामिनिगमानन्ददर्शनस्य विचारधारायाः पुंखानुपुंखगवेषणं मत्कृते निःसन्देहं दुर्बोधम्, तथापि तस्योत्कलावस्थानविषये किमपि याथातथ्यं कथयामि ।
उत्कलभूमौ स्वामिनिगमानन्दस्य प्रभावः सर्वोपरि श्रीदुर्गाचरणमहान्ति उपरि निपतितः । यद्यपि तदानीं परमहंसस्य अन्ये बहवो मन्त्रशिष्याः यथा- सर्वश्रीचैतन्य चरण दास-वनमालिदाश-दामोदरदास-ईश्वरचन्द्रसाहु-हरप्रसाद-गोविन्दचन्द्रपट्टनायक-श्रीगुरुदास-नृपाल एकादशी-हरिचन्दन-क्षीरोदसिंह-वंशीधरवेहेरा-अश्विन्यादयश्च आसन् एतेषु दुर्गाचरणेन निगमानन्दभावधारायाः पृष्ठपोषकता समाचरिता । एतस्मात् सः नीलाचलसारस्वतसंघस्य परिचालकत्वेन नियुक्तः । असौ पूतात्मा उत्कले स्वामिनिगमानन्दमतस्य बीजवपनकर्ता आसीत् । अस्य प्रचेष्टया हि निगमानन्द दर्शनसम्बधीय वंगीयग्रन्थाः उत्कलभाषयाऽनुवादिताः, विस्तारिताश्च ।
स्वामिनिगमानन्द आसीदुत्कलीयानां कृते शाश्वतपुरुषः । तस्य सुललितं योगाग्निमयशरीरं दृष्ट्वाऽमृतलिप्तवाणीं च श्रुत्वा बहवोत्रत्यजनाः तस्य शिष्यत्वेन परिणताः सन्तः तं स्वकीयं गुरुरूपेण स्थापयामासुः ।
तत्त्वतो निगमानन्द-जीवनधारा आसीदलौकिकी । तज्जीवनदर्शनमपि अमावास्यायां चन्द्रप्रकाशरूपम् । भारतीयसाधना निगमानन्ददर्शने तरंगायिता । तत्त्वपिपासूनां हृदयकमले अद्यावधि चिरन्तनी । तस्यादेश उपदेशश्च औत्कलीयानामन्तःकरणे अनिर्वचनीय अलंघनीयः । यच्चोक्तं परमर्षिणा-
``वत्स ! अहं सद्गुरुः । जगद्गुरोरिच्छा हि मयि लीलायिता । युष्माकं मुक्तिमार्गं प्रदर्शयितुं मम विकाशः । ये मयि पूर्णनिर्भरास्तानहं हस्ते धृत्वा मुक्तिधाम नेष्यामि'' । शिष्यभक्तान् प्रति महात्मनः स्नेह आसीदनाविलः । असौ महात्मा वारम्बारं स्वशिष्यान् आत्मसमर्पणकर्तुंमुपदिदेश । तथाहि- ``वत्स! मम निर्देशः युष्माकं पक्षे न कष्टतरः । यतो हि साधनदशायां मया सकलं कृच्छ्रमंगीकृतम् । अधुना युष्माकं पृथक् साधनायाः नास्ति काचित् आवश्यकता । मम प्राणेषु तव प्राणान् ममेच्छायां तवेच्छां च संयोजयन् मदुपदिष्ट-जगद्धितकरकार्येषु रतो भव । मम साधनायाः सकलं फलं लप्स्यते'' । असौ आत्मसमर्पणयोगः । इयमेव युष्माकं कृते बलिष्ठा साधना । निगमानन्दजीवनदर्शनं परमं तथा चरममासीत् तच्छिष्यानां कृते । तन्मते शिष्यस्य भक्तिमाध्यमेन हि गुरौ गुरुत्वस्याविर्भावः । यत्र भक्तिर्नास्ति तत्र निरसशुष्कज्ञानमाध्यमेन ब्रह्मावगतिरसम्पूर्णा । प्रेम्णा चेतस उत्कर्षः । उत्कृष्टे चेतसि भगवतः प्रतिविम्बः स्पष्टः । भगवन्तं वशीकर्तुं भक्तिं विना नान्यत्किमपि कारणान्तरम् ।
उत्कलभूमौ निगमानन्दस्य प्रभावो बलवत्तर आसीत् । यदिवा निगमानन्द आत्मानमीश्वरावतार इति कुत्रापि नोक्तस्तथापि कतिपयाऽन्तरंगा भक्ता तमीश्वररूपेण अद्यावधि पूजयन्ति स्म । पारमार्थिके इदं निगमानन्ददर्शनं द्वैतवादोपरि पर्यवसितमित्यलं विवादेन । ॐ शान्तिः ।
--- लेखकः - नन्दप्रदीप्तकुमारः
सहायकग्रन्थाः
१- ज्ञानिगुरुः
२- योगिगुरुः
३- तान्त्रिकगुरुः
४- प्रेमिकगुरुः
५- ब्रह्मचर्यसाधनम्
६- ठाकुरेर चिठि
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com