वानर्यष्टकम्

वानर्यष्टकम्

माधुर्यं शास्त्रमारोग्यं दानं मूर्खो द्विजातिकः । वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिहाष्टकम् ॥ माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुषु । मर्म्मज्ञेष्वनुवर्तनं बहुविधं मानं जने पण्डिते शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो गुणाः ॥ १॥ शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं स्वाराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥ २॥ आरोग्यमानण्यमविप्रवासः सम्प्रत्यया वृत्तिरभीतिवासः । सद्भिर्मनुष्यैः सह सम्प्रयोगः षड् जीवलोकेषु सुखानि राजन् ॥ ३॥ दानं दरिद्रे विभवेऽपि शान्ति- र्यूनां तपो ज्ञानवताञ्च मौनं ईहानिवृत्तिश्च सुखोचितानां दया च भूते चिदिवं नयन्ति ॥ ४॥ मूर्खो द्विजातिः स्थविरो गृहस्थो गृही दरिद्रो धनवांस्तपस्वी । वेश्या कुरूपा नृपतिः कुधर्मो लोके षडेतानि विडम्बितानि ॥ ५॥ वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं युद्धे कापुरुषं हयं गतरयं मूर्खं परिव्राजकम् । राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ ६॥ सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ ७॥ वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः पुष्यं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥ ८॥ इति वानर्यष्टकं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : vAnaryaShTakam
% File name             : vAnaryaShTakam.itx
% itxtitle              : vAnaryaShTakam
% engtitle              : vAnaryaShTakam
% Category              : misc, sahitya, advice, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : From Kavya Sangraha, A Sanskrit Anthology, Dr. John Haeberlin, 1847
% Indexextra            : (Scans 1, 2)
% Latest update         : April 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org