वैराग्यपञ्चकम्
क्षोणीकोणशतांशपालनकलद्दुर्वारगर्वानल-
क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनां धन्यां न मन्यामहे ।
देवं सेवितुमेव निश्चिनुमहेयोऽसौ दयालुः पुरा
दानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥ १॥
शिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।
अयत्नमलमल्पकं पथि पटच्चरं कच्चरं
भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ २॥
ज्वलतु जलधि क्रोड क्रीडत्कृपीड भव प्रभा-
प्रतिभट पटु ज्वाला मालाकुलो जठरानलः ।
तृणमपि वयं सायं सम्फुल्ल मल्लि मतल्लिका
परिमलमुचा वाचा याचामहे न महीश्वरान् ॥ ३॥
दुरीश्वरद्वारबहिर्वितर्दिका-
दुरासिकायै रचितोऽयमञ्जलिः ।
यदञ्चनाभं निरपायमन्ति मे
धनञ्जयस्यन्दनभूषणं धनम् ॥ ४॥
शरीर पतनावधि प्रभुनिषेवणापादना-
दबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् ।
धनञ्जयविवर्धनं धनमुदूढगोवर्धनं
सुसाधनमबाधनं सुमनसां समाराधनम् ॥ ५॥
(काचाय नीचं कमनीयवाचामोचाफलस्वादमुचा न याचे ।
दयाकुचेले धनदत्कुचेले स्थितेऽकुचेले श्रितमाकिचेले ॥)
नास्ति पित्रार्जितं किञ्चिन्न मया किञ्चिदार्जितम् ।
अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥ ६॥
॥ इति वेदान्तदेशिकेन रचितं वैरग्यपञ्चकं सम्पूर्णम् ॥
The verse sequence may differ from print to print.
Encoded by T. R. Chari
Proofread by Madhavi U