वयं बालका भारतभक्ताः
वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः ।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ॥ वयम्॥
वयं सुधीराः वयं सूवीराः
हृष्टमानसाः पुष्टशरीराः ।
भूरि पठामो भूरि लिखामो
भवितास्मो जनहिते नियुक्ताः ॥ वयम्॥
जाति-धर्म-मत-भेदं त्यक्त्वा
भारतवर्षं पूज्यं मत्वा ।
भगवद्भावं हृदये धृत्वा
भारतसेवायामनुरक्ताः ॥ वयम्॥
- डाॅ नरेन्द्रः