यज्ञोपवीतसमीक्षणम्

यज्ञोपवीतसमीक्षणम्

लेखकः - नन्दप्रदीप्तकुमारः इज्यते हविर्दीयतेऽत्र यज्+नङ्=यज्ञः । (यज्ञ+उप+वीत) यज्ञोपवीतम् फलितम् । यज्ञार्थं संस्कृतं सूत्रविशेषम्, यज्ञसूत्रम् वा । उपवीतम् (उप+वि+इण् गतौ+क्त) उप समीपार्थकोऽव्ययपदम् । उपनयनसंस्कारेण पवित्रीकृतं वीतं स्व-समीपागतं ब्रह्मचारिकृते नवतन्तुपरिमितं वामस्कन्धात् नाभिपर्यन्तं कटिपर्यन्तं वा लम्बायमानं सूत्रविशेषं यज्ञोपवीतमिति निरुक्तिः । यद्वा यज्ञेन यज्ञस्य यज्ञाय यज्ञाद्वा आगतं यज्ञोपवीतम् । यज्ञोपवीतशब्दार्थ उक्तः स्मृतिसारे- यज्ञाख्यः परमात्मा य उच्यते चैव होतृभिः । उपवीतं ततोऽस्येदं तस्माद्यज्ञोपवीतकम् ॥ इदं यज्ञोपवीतमुपनयनेन सम्भाव्यते,अर्थात् उपनयनसमये यज्ञोपवीतग्रहणं भवति । ब्राह्मणस्य कृतेऽस्य यज्ञसूत्रस्य महती आवश्यकता अस्ति । यज्ञोपवीतं विना विण्मूत्रोत्सर्गं कर्तुं नैव शक्यते, भोजनस्य का कथा तं विना जलपानमपि न कर्तव्यम् । यतोहि मुक्तावल्याम्- विना यज्ञोपवीतेन तोयं यः पिबते द्विजः । उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति ॥ विना यज्ञोपवीतेन विण्मूत्रोत्सर्गकृद्यदि । उपवासद्वयं कृत्वा दानैर्होमैस्तु शुद्ध्यति ॥ अपि च गोभिलेन- सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिख्योव्युपवीतश्च यत्करोति न तत्कृतम् ॥ इति । अस्य उत्पत्तिस्तु ब्रह्मणो जाता । पद्मासनस्थो ब्रह्मा पद्मनालसूत्रेणास्य निर्माणं चकार । यच्चोक्तं स्मृतिप्रकाशे- यज्ञोपवीतं परमं पवित्रं विभूषणं ब्राह्मणलक्षणं च । पद्मासनस्थेन पितामहेन उत्पादितं पंकजनालसूत्रात् ॥ अस्य निर्माणे त्रिदेवानां ब्रह्म-विष्णु-महेश्वराणां महती अनुकम्पा विद्यते । सावित्रीदेवी अस्य जीवन्यासकर्त्री । तथा च - ब्रह्मणोत्पादितं सूत्रं विष्णुना त्रिगुणीकृतम् । रुद्रेण दत्तो ग्रन्थिर्वै सावित्र्या चाभिमन्त्रितम् ॥ संप्रतिके कलौ यज्ञसूत्रं कार्पासयुक्तं प्रतिभाति । तत्प्रमाणन्तु- कृते पद्ममयं सूत्रं त्रेतायां कनकोद्भवम् । द्वापरे राजसं प्रोक्तं कलौ कार्पाससम्भवम् ॥ यज्ञोपवीतस्योत्पत्तिं जानाति ब्राह्मणो न चेत् । स वै वहति भाराय पुस्तकानि यथा वृषः ॥ नाभिपर्यन्तं लम्बायमानं यज्ञोपवीतं धार्यमिति वसिष्ठः । कटिपर्यन्तमिति कात्यायनः । तथा हि- नाभेरुर्द्ध्वमनायुप्यमधो नाभेस्तपःक्षयः । तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः ॥ अपि च कात्यायनः- पृष्ठदेशे च नाभ्यां च धृतं यद् विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम् ॥ इति । अस्य यज्ञसूत्रस्य स्थलविशेषे त्रीणि नामानि प्रसिद्धानि सन्ति । ब्रह्मसूत्र-निवीत-प्राचीनावीतभेदात् । देवकार्ये ब्रह्मसूत्रं सव्ये वामस्कन्धे धारणम् । मालवत्कंठावलम्बितं निवीतं मनुष्यकार्ये तर्पणादौ प्रसिद्धम् । अपसव्ये दक्षिणस्कन्धे निवेशितं प्राचीनावीतं पितृकार्ये प्रशस्तम् । यदुक्तं हेमाद्रौ भरद्वाजः- दक्षिणबाहुमुद्धृत्य वामस्कन्धे निवेशितम् । यज्ञोपवीतमित्युक्तं देवकार्येषु शस्यते ॥ कंठावलम्बितं चैव ब्रह्मसूत्रं यदा भवेत् । तन्निवीतमिति ख्यातं शस्तं कर्मणि मानुषे ॥ उत्क्षिप्ते वामबाहौ च दक्षिणस्कन्धमाश्रितम् । प्राचिनावीतमित्याहुः तत्पित्रेष्वेव कर्मसु ॥ मनुनापि- उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । सव्ये प्राचीनावीती स्यान्निवीती कंठसज्जनम् ॥ कदा नवीनं यज्ञोपवीतं धारणीयमिति विषये शास्त्रान्तरे बहुधा उक्तम् । तत्र उपाकर्मारम्भे (संवत्सरादौ वेदपाठकर्मणि) दानकर्मणि, जननाशौचे, मरणाशौचे, श्राद्धे, चन्द्रसूर्यग्रहणोपरान्ते, यज्ञादौ च नवीनीकर्तव्यम् । उक्तं श्रीरामकल्पद्रुमे ज्योतिषार्णवे च- उपाकर्मणि चोत्सर्गे सूतकद्वितये तथा । श्राद्धकर्मणि यज्ञादौ शशिसूर्यग्रहेऽपि च ॥ नवयज्ञोपवीतानि धृत्वा जीर्णानि च त्यजेत् ॥ कदाचित् अस्पृश्य स्पर्शेन, अभक्षभक्षणेन, सूत्रछेदनेन च नवीनं धारणीयम् । एतस्य यज्ञसूत्रस्य परमायुरपि निर्दिष्टोऽस्ति । धारणदिनात् चतुर्मासान्ते अवश्यमेव नूतनं सूत्रं धारणीयम् । यच्चोक्तं गोभिलः- धारणात्ब्रह्मसूत्रस्य गते मासचतुष्टये । त्यक्त्वा तान्यपि जीर्णानि नवान्यनानि धारयेत् ॥ न धारयति मूढात्मा सर्वकर्मसु गर्हितः ॥ अपि चाह्निकसूत्रावल्याम्- सूतके मृतके चैव गते मासचतुष्टये । नवयज्ञोपवीतानि धृत्वा जीर्णानि संत्यजेत् ॥ अत्र मनुः- मन्त्रेण धारणं कार्यं मन्त्रेण च विसर्जनम् । कर्तव्यं च सदा सद्भिर्नात्र कार्या विचारणा ॥ पारिजातेऽपि- यज्ञोपवीतमन्त्रेण धारयेद् ब्रह्मसूत्रकम् । स्मृत्युक्तेन तु मन्त्रेण निष्काश्यं ब्रह्मसूत्रकम् ॥ धारणमन्त्रस्तावत्कौषतकीशाखायां- यज्ञोपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुबीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय । सर्वत्र- यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ यद्वा- यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि । त्यागमन्त्रः- ब्रह्माविष्णुमहेशाद्यास्तनूतां देवताः स्मृताः । त्यक्षामि पुण्यकालेऽस्मिन् भवतां तृप्तिहेतवे ॥ अपि च - एतावद्दिनपर्यन्तं ब्रह्मत्वं धारितं मया । जीर्णत्वात्वत्परित्यागः गच्छ सूत्रं यथासुखम् ॥ जीर्णयज्ञोपवीतं शिरोमार्गेण निःसार्य जले निक्षिपेत् । कति संख्यकं यज्ञसूत्रं धारणीयमिति चेच्चतुर्थपरिमितमुच्यते, अधिकारि-प्रतिनिधिरूपेण । तथा हि- यज्ञोपवीते द्वे धार्ये श्रोते स्मार्ते च कर्मणि । तृतीयमुत्तरीयार्थं वस्त्राभावे चतुर्थकम् ॥ अधिकारी भेदेन चात्र देवलः- उपवीतं वटोरेकं द्वे तथेतरयोः स्मृते । एकमेव यतीनां स्यादिति शास्त्रविनिश्चयः ॥ विण्मूत्रसमये दक्षिणकर्णे स्थापनीयम् । अन्यथा अशुद्धिर्जायते सूत्रस्य । दक्षिणकर्णे सर्वेषां देवानां तीर्थानां च समावेशोऽस्ति । यच्चोक्तं- आदित्या वसवो रुद्रा वायुरग्निश्च धर्मराट् । विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ॥ अग्निरापश्च वेदाश्च सोमः सूर्योऽनलस्तथा । सर्वे देवास्तु विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ प्रभासादीनि तीर्थानि गंगाद्याः सरितस्तथा । विप्रस्य दक्षिणे कर्णे वसन्ति मुनिरब्रवीत् ॥ गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनः । उभयोः स्पर्शनेनैव तत्क्षणादेव शुद्ध्यति ॥ इति । अस्य निर्माणप्रणालीविषयेऽपि शास्त्रं न मौनम् । अवितथं तत्त्वं प्रकाशयति । ग्रन्थान्तरेषु आह्निकसूत्रावल्यादिषु- शुचौ देशे शुचिः सूत्रं संहतांगुलिमूलके । आवेष्ट्यषण्णवत्यां च त्रिगुणीकृत्य यत्नतः ॥ अंगुल्यग्रे तु विप्राणां क्षत्रियो मध्यपर्वतः । अंगुलिमूले तु विशां कुर्यात्सूत्रस्य वेष्टनम् ॥ षोडशाशीति विप्राणां द्वादशातीति भूभुजाम् । चतुरशीति वैश्यानामशीतिः शूद्र उच्यते ॥ अलिंगकैस्त्रिभिः सम्यक् प्रक्षाल्योर्द्ध्व्वृतं च यत् । अप्रदक्षिणमावृत्तः सावित्र्या त्रिगुणीकृतम् ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् । त्रिरावेष्ट्य दृढं बद्ध्वा हरिब्रह्मेश्वरान्नमन् । त्रिवृदूर्ध्वं वृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्येको ग्रन्थिरुच्यते ॥ वामावर्तं त्रिगुणं कृत्वा प्रदक्षिणावर्तं नवगुणं विधाय । तदेवं त्रिसरं कृत्वा ग्रन्थिमेकं विदध्यात् ॥ पृष्ठवंशे च नाभ्यां च वृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलम्बं नो चोच्छितम् ॥ वामस्कन्धे कृतं नाभिहृत्पृष्ठवंशयोर्धृतम् । कटिपर्यन्तमाप्नोति तावत्परिमाणं भवेत् ॥ नवतन्तुपरिमिते यज्ञसूत्रे नव तन्तुदेवताः सन्ति । ते च- ओंकारः प्रथमे तन्तौ द्वितीयेग्निस्तथैव च । तृतीये नागदैवत्यं चतुर्थे सोमदेवता ॥ पञ्चमे पितृदैवत्यं षष्ठे चैव प्रजापतिः । सप्तमे मारुतश्चैव अष्टमे सूर्य एव च ॥ सर्वे देवास्तु नवम इत्येता तन्तुदेवताः ॥ इति । उपर्युक्तं विधिविधानादिकं समयसापेक्षं संप्रति असम्भवं मन्यते । यथासाध्यं यज्ञोपवीतं निर्माय गंगाजलेन विधौत्य एकस्मिन् पात्रे निधाय अभिमन्त्रयेत् वैदिकविधिना । धारणान्ते आचमनम् । सूर्यार्घ्यदानम् । अन्ते अष्टोत्तरशतसंख्यको गायत्रीमन्त्रो जाप्यः । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : yajnopavItasamIkShaNam
% File name             : yajnopavItasamIkShaNam.itx
% itxtitle              : yajnopavItasamIkShaNam (lekhaH)
% engtitle              : yajnopavItasamIkShaNam
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 20, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org