यमस्तोत्रं सावित्रीकृत ब्रह्मवैवर्तपुराणान्तर्गतम्

यमस्तोत्रं सावित्रीकृत ब्रह्मवैवर्तपुराणान्तर्गतम्

अथाष्टाविंशोऽध्यायः । श्री नारायण उवाच । हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सुपुलका यमं पुनरुवाच सा ॥ १॥ सावित्र्युवाच । हरेरुत्कीर्तनं धर्म स्वकुलोद्धारककारणम् । श्रोतृणां च वक्तृणां जन्ममृत्युजराहरम् ॥ २॥ दानां च व्रतानां च सिद्धीनां तपसां परम् । योगानां च वेदानां सेवनं कीर्तनं हरेः ॥ ३॥ मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा । श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥ भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् । मूढां मामबलां तात वद वेदविदां वरः ॥ ५॥ शुभकर्मविपाकं च श्रुतं नृणां मनोहरम् । कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥ ६॥ इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकंधरा । तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ॥ ७॥ सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्वरः पुरा । धर्मांशं यम् सुतं प्राप धर्मराजं नमाम्यहम् ॥ ८॥ समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ ९॥ येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् । कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ १०॥ बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे । नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ ११॥ विश्वे यः कलयत्येव सर्वायुश्चापि संततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ १२॥ तपस्वी वैष्णवो धर्मो संयमी विजितेन्द्रियः । जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् ॥ १३॥ स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनं क्लेशदो यस्य पुत्रो मित्रो नमाम्यहम् ॥ १४॥ यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परम् ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ १५॥ इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां विष्णुभजनं कर्मपाकमुवाच ह ॥ १६॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १७॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥ १८॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्रिकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः ॥ brahmavaivartapurANa prakRitikhaNDa adhyAya 28 Encoded and proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : sAvitrIkRita yamastotram
% File name             : yamastotrasAvitrikritaBVP.itx
% itxtitle              : yamastotram (sAvitrIkRitam (brahmavaivartapurANAntargatam))
% engtitle              : Yamastotra by Savitri
% Category              : misc, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Singanallur Ganesan singanallur at gmail.com, PSA Easwaran
% Proofread by          : Singanallur Ganesan, PSA Easwaran
% Description-comments  : brahmavaivartapurANa prakRitikhaNDa adhyAya 28
% Latest update         : January 31, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org