॥ आनन्दमन्दाकिनी ॥

श्रीमधुसूदनसरस्वतीविरचिता आनन्दमन्दाकिनी । वाग्देवीचतुरास्यपञ्चवदना नित्यं सहस्राननो- ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः । मर्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १॥ नित्यं ब्रह्मसुरेन्द्रशङ्करमुखैर्दत्तोपहाराय ते विस्वादांस्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ । तद्वद्देव निरर्थकैः कतिपयै रूक्षाक्षरैर्निर्मितां वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुतिं निस्त्रपः ॥ २॥ शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते । चित्रालङ्कृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३॥ चित्राकारकिरीटकोटिविलसद्रत्नौघकान्तिच्छटा- सङ्घट्टेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि । जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी स्वर्णाद्रेः शिखरे पुरन्दरधनुर्व्यूहस्य निन्दावहम् ॥ ४॥ यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो- ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि । ज्ञातं त्वां दयितं समेत्यजलदा ये केशतामाश्रिता- स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५॥ त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो- र्भाले च व्रजनाथ नर्तनपरा ध्वान्तार्भकाः सन्ततम् । निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु- र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६॥ त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना- सम्भूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः । चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते किं वा मारकतस्थले समुदितः कन्दर्पवृक्षाङ्कुरः ॥ ७॥ त्वद्भूवल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे । लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति प्रायः शत्रुसमाननाम्न्यपिजने क्रोधो यदूर्जस्विनाम् ॥ ८॥ निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर- व्रीडावज्रकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका । दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी शृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९॥ नो कार्यं श्रुतिवर्त्मलङ्घनमिदं नालीकमुग्धाकृतिः पर्यन्ताकलनं विधाय सहजस्वच्छेन भाव्यं सदा । अन्तः कृष्णमुपास्य तद्रुचिमता सम्भावना सर्वतः कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १०॥ सौन्दर्यामृतदीर्घ्हिके तव दृशौ पक्ष्मावलिश्चैतयोः कूले कामकृषीवलेन रचिता शृङ्गारसस्योन्नतिः । दृग्भङ्गीर्निगदन्ति यास्तु विबुधा रत्यम्भसां वीचय- स्ताः स्युर्गोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११॥ दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्वृन्दे नमस्कुर्वति व्यावल्गद्व्रजबालकौघलगुडत्रुट्यत्किरीटे हठात् । सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसाः दृक्पातास्तव नन्दवंशतिलक स्वान्ते सदा सन्तु मे ॥ १२॥ मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी- धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि । वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर- स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३॥ कल्पान्ताग्निशिखोन्नतिर्दितिसुतव्राते प्रपन्ने जने पीयूषद्रवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः । सीमा प्रेमभरस्य गोपनिकरे कन्दर्पकाण्डाहति- र्ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयाद्दृशोस्ते द्युतिः ॥ १४॥ निर्बन्धेन यदीन्द्रनीलमहसा सम्पादितौ दर्पणौ ताभ्यां किं तुलना कपोलतलयोः सम्भाव्यते वा न वा । एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५॥ त्वां पादाङ्गदकङ्कणाङ्गदशिरोलङ्कारहाराम्बरैः सम्पूज्य प्रददौ सुतामथ मणिं रत्नाकरः कौस्तुभम् । आस्ये तस्य सुतः सुधांशुरखिलां कान्तिं यदा दत्तवा- न्स्वाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६॥ लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति- स्तस्यामद्भुतबुद्बुदः समभवत्तत्रापि फेनोद्गमः । नासावंशगतं तमेव विशदं मुक्ताफलं ये विदु- स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७॥ नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका । तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८॥ योऽहं ते पदपङ्कजद्युतिलवं प्राप्याभवं पल्लवः कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते । तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयंश्रुता- वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९॥ दृग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका जिह्वेयं तव पद्मरागनिकरः शोणाधरो विद्रुमः । दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २०॥ या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा- मास्वाद्येह सरस्वती स्थितवती सत्यं रसज्ञेव सा । यत्सप्तस्वरमण्डलानि बहुधा त्वत्कण्ठदेशाद्बहिः प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१॥ साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते । दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज व्यक्तं त्वच्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२॥ माधुर्यं न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः । प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३॥ वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा- कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः । तस्यैवामृतपङ्किलास्तव मुखादाविर्भवन्तो बहि- र्ध्वान्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४॥ यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् । तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५॥ पीयूषद्रवसारसारघमधुद्रोणी त्वदीयाधरा- स्वादायार्कसुतातटे श्रितवती सद्वंशजाता तपः । तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा- मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६॥ साफल्यं श्रुतिसम्पदां त्रिजगतां प्रालेयधाराप्रपा पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् । ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७॥ धैर्यं धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोञ्छति प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यञ्जसा । साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८॥ लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय घाता चिरा- न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः । ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९॥ आशानागकरप्रसारिमहसा निःशेषवामभ्रुवा- माशाभिस्त्रिदशेशनिर्भरशुभैः कंसादिनाशश्रिया । प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैर्दृशां सौभाग्यैर्व्रजसुभ्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३०॥ कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः । मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत- स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१॥ अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर- श्रेणी यत्परितोऽङ्गुलीयकमिषस्निग्धालवालावलिः किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो- त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२॥ भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृतिं रागान्धस्य पुरा हिरण्यकशिपोर्वक्षस्थली पाटिता । तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३॥ एतौ पञ्चशिरस्त्विषा दशदिशः सम्भावयन्तौ भृशं दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजङ्गोत्तमौ । तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते यां प्राहुस्तव गोकुलेश नखरश्रेणीं करस्थां जनाः ॥ ३४॥ दोर्दण्डद्वयबन्धनानि विदधुर्नन्दोपनन्दादय- स्तद्ग्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे । तान्येवाप्रतिमप्रभाणि हरितो विद्योतयन्त्यद्भुतं विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जानते ॥ ३५॥ शृङ्गारद्रुमसारकण्डनवशात्त्रैलोक्यसीमन्तिनी- क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ । तन्मध्ये पुनरिन्द्रनीलमणिभिः सम्पादिता वेदिका तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थलीं तामपि ॥ ३६॥ यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर- स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा । तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ- व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७॥ आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः कृत्वा सङ्कलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् । सर्वार्थप्रतिभासकं व्रजकुलालङ्कार तत्कौस्तुभ- व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं साम्प्रतम् ॥ ३८॥ यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर- द्दीप्तिर्योग्यमिदं कथं मुररिपो नक्तन्दिनं द्योतते । आं ज्ञातं दयितं तवाननविधुं यान्तीमिमां यामिनी रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सप्त्नीमियम् ॥ ३९॥ यः पाशेन यशोदया नियमितो येनापराधं विना तस्मिन्नस्ति वलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः । एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं याशोदेय स शोकमुद्गिरति ते रोमावलिव्याजतः ॥ ४०॥ सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या स्वीकृताऽऽसीत्त्वया सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि । गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रहं नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ॥ ४१॥ सौन्दर्यामृतवारिधौ स्मरमहायादःसमारम्भतः सम्भूता भ्रमिरम्भसां सुललिता जातास्ततो वीचयः । तां जाने स्फुरदिन्द्रनीलघटितश्रीसम्पुटार्धद्युतिं त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२॥ नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं यच्छ्रीवत्समिषाद्बिभर्ति कुसुमं नालं च रोमावली । यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ ४३॥ नीरूपोऽपि घनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो- ऽप्याभीरीगणसङ्गतः सुखघनोऽप्यानन्दितो बन्धवैः । ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै- रित्थं ते त्रिवलीमिषान्मुरहर त्रय्यस्ति चित्रार्पिता ॥ ४४॥ देव्यः पल्लवसम्पदा विदधते सौभाग्यलक्ष्मीं श्रुतौ स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया । वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५॥ विश्वानन्दकदम्बसम्पदमतिस्निग्धं तमालद्युतिं दृष्ट्वा निर्भरविभ्रमं घन इति त्वां सङ्गता विद्युतः । त्वद्रूपामृतसिन्धुसङ्गमवशात्प्राप्याम्बरप्रच्यवं चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दधुः ॥ ४६॥ काञ्ची ते धृतयोगसम्पदभितो जाता विशालाकृति- र्यावन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् । मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७॥ जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां तत्सङ्गस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ । आद्यः पल्लवसम्पदं करपदे बिम्बाधरे चापरः शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ ४८॥ रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् । हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा- न्निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥ ४९॥ स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी- स्यन्दामन्दमरन्दिताङ्घ्रिकमलद्वन्द्वस्य नालायुगम् । त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं सम्पत्तिद्विपसङ्घयन्त्रणविधावालानयुग्मं भजे ॥ ५०॥ विद्वान् सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद- न्नीदृक्पादयुगं कथं नु कमलावक्षोजशैले दधत् । धिङ्मन्दां वसुधामिदं मधुरिपो गोचारणे सञ्चरत्- पाषाणाङ्कुरकण्टकादिषु हठाद्दृष्ट्वा विदीर्णा न यत् ॥ ५१॥ यद्रत्नौघमरीचयोऽपि समताव्यावर्तनं विश्वतः कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः । यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२॥ शेते यत्कमलालया तव पदाम्भोजद्वये संगता धाता तत्र तनूपधान्युगलं गुल्फच्छलान्निर्ममे । किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३॥ या रक्ता दशलोकपालमुकुटप्रान्तत्विषः सन्ततं कल्पक्ष्मारुहपुष्पसम्भृतरुचस्त्वत्पादमूले बभुः । ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः स्वस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् ॥ ५४॥ पीयुषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् । तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५॥ सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् । पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते मञ्जीरद्वयमञ्जुशिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ॥ ५६॥ आकृप्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः । येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति- स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ ५७॥ हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः । स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां var लोहितलोचना तत्सम्पर्कवशादिति व्रजकुलालङ्कार शङ्कामहे ॥ ५८॥ क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं किं या केवलकोमलः श्रयति चेत्किञ्चिन्मदीयं पदम् । धन्यः सोऽयमितीव लोकमखिलं सम्बोधयन्माधव त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९॥ त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः स्वीया धृताः सम्पदः । तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृतिं बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६०॥ त्वत्पादाम्बुजसङ्गमात्त्रिजगतां वन्द्यारविन्दालया स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं सम्पदाम् । किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धुनी ॥ ६१॥ यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा- त्प्राप्तो भक्षितकालकूटनिकरो मृत्युजयत्वं ययौ । दिग्वासा नृकपालमात्रविभवश्चाविन्ददीशानतां स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२॥ धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् । यालोक्यार्द्रविलोचना स्मितमुखी प्रस्यन्दमानस्तनी पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३॥ पीत्वा स्तन्यविषं सहासुपवनैः सम्पातिते पूतना- देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् । राहून्मुक्तसुधामयूखसुषमा यादृक्चकोरालिभि- र्याभिस्त्वद्वदनद्युतिश्चुलुकिता ता गोपकन्याः स्तुमः ॥ ६४॥ यद्बन्धस्य विधित्सयापि विवशः कीनाशपाशैर्दृढं बद्धः सानुगपुत्रबान्धवजनो दुर्योधनोऽन्तं गतः । तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता जाताऽऽनन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५॥ निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः पीत्वा दृक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः । त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धान्स्तुमः ॥ ६६॥ कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं तस्योत्तब्धसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि । येनालम्भि विभातभास्करसुरप्राग्भारशोभास्फुर- द्रत्नाम्भोजयुगद्युतिः प्रतिपदं तत्तेऽङ्घ्रियुग्मं भजे ॥ ६७॥ उत्फुल्लैः परिपीय कर्णपुटकैर्वंशीनिनादामृतं तच्च घ्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् । निःस्पन्दैर्नयनैरमन्दमधुरैः श्यामं महस्तावकं येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८॥ जम्मारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः । सोऽस्तु स्निग्धतमालसारघटितस्तम्भैकसम्भावित- प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९॥ त्वद्बाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल- द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव । शैले चञ्चलतां गते व्रजपते त्रासाकुले गोकुले नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७०॥ पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः । किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्बाणयुद्धे जितः सम्मोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया ॥ ७१॥ पीते दावहुताशने निजजनत्राणैकहेतोस्त्वया निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि । प्रेमार्द्राण्यतिनिर्मलानि दिविषच्चित्तानि सत्यं मुहु- स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२॥ कङ्केल्लिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः । उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा- त्त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः ॥ ७३॥ सायाह्ने समुदञ्चति श्रुतिपथं वंशीनिनादे हठा- न्नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते । पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्णं बहि- र्दृग्भ्यां ते मुखसौरभं चुलुकितं याभिर्भजे ता जनीः ॥ ७४॥ यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः क्रोधाग्नौ भवता हुता दितिसुताः सन्तर्पिता देवताः । यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७५॥ देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः सम्पश्यन्नपि वैभवं व्रजकुलोत्तंस प्रचेतास्तव । नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः स्थाने तादृशि ते बभूव न मनाक्क्रोधस्य लेशोऽपि तत् ॥ ७६॥ मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति । कामं पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू- वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७॥ नृत्यद्भ्रूनयनोत्पलस्मितमुखस्विद्यत्कपोलस्थलं लीलाचञ्चलकुण्डलं भुजलतान्दोलक्वणत्कङ्कणम् । त्रुट्यत्कञ्चुकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल- न्नीवि व्यञ्जितशिञ्जितं जयति ते रासः प्रियाभिः सह ॥ ७८॥ आकुञ्चद्वदनं क्वचिद्विलसिताम्भोजास्यशोमं क्वचि- न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्चापलं कुत्रचित् । क्वाप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विदुल्लता- चाञ्चल्यं स्मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९॥ अध्यास्योरुतलं वपुः पुलकितं स्विद्यत्कपोलस्थलीं दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिभ्रति । प्रोद्यत्पूर्णकलानिधावरुचिरे स्मेरे मुहुःसीत्कृते राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८०॥ यस्यां तुङ्गतरङ्गसङ्गमवशाद्भीता भुजङ्गभ्रमा- दालिङ्गति वराङ्गनास्तव जलक्रीडाजुशोऽङ्गं हठात् । सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर- स्यापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१॥ उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम- द्भृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् । शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत- स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२॥ पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्धं मुदा वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् । तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत- स्तोमेऽपि व्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३॥ कान्ताकोटिकलाकुलस्य भवतः सन्तोष्य रासे स्मर- क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति । सातङ्कं समुपागतस्य सदनाद्यान्तं शयाने जने कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः ॥ ८४॥ उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति- ध्वान्तस्तोममनुत्तमं तमनयत्कान्तः सरोजन्मनाम् । सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने लोकानां किल नन्दवंशतिलक स्वापस्य नायं क्षणः ॥ ८५॥ मित्रेणेह तमस्विनीं विनिहतां नाथ त्वया पूतनां व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् । आशां पश्य पुरन्दरस्य दयितां रक्ताम्बरालङ्कृतां सिन्दूरान्वितकुम्भमम्बरमणेर्बिम्बं वहन्तीं पुरः ॥ ८६॥ गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः । तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति प्रातर्वन्दिगिरो जयन्ति भवतः सम्बोधने नित्यशः ॥ ८७॥ (विशेषकम्) भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः । अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८॥ मुञ्चन्तं शयनं भवन्तमभितः सङ्गम्यगोपाङ्गना- स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् । उज्झन्त्यः सुमनोऽम्बराणि सुमनोभावा वरं सङ्गताः प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः ॥ ८९॥ var भूयो प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि प्रायो गोपवधूलतासु मिलितः कन्दर्पदावानलः । यद्गोधूलिमिषादुदेति परितो धूमालिरभ्रंलिहा तासामश्रुरसाः स्रवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ॥ ९०॥ पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा- मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि । तद्व्याघ्राजिनभूषणादिभिरलं त्रस्ते समस्ते पशौ गोपाः कोपवशाद्गृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१॥ तिग्मांशौ तपति क्वचिज्जलमुचां स्तोमे जलं मुञ्चति प्रेमार्द्रः प्रतनोति यः स्ववपुषा चित्रातपत्रं तव । सोऽयं भास्करकोटिभास्वरमहःसम्भारपाटच्चरः पारीन्द्रोऽसुरदन्तिनां दिशतु में भव्यं भुजङ्गान्तकः ॥ ९२॥ मध्याह्ने यमुनातटे विटपिनां मूले वयस्यैः समं दध्यन्नान्युपभुज्य रज्यति पुनस्तत्क्रीडने च त्वयि । देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३॥ निद्राणे त्वयि शीतले तरुतले तल्पै दलैः कल्पिते संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः । रुद्रब्रह्ममहेन्द्रतर्जनविधौ गोपार्भकाणां कर- व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९४॥ स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनिर्नारदः । यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५॥ लक्ष्माणि ध्वजवज्रपङ्कजयवच्छत्रोर्ध्वलेखायुता- न्यालक्ष्म्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽह्नाय यः । ध्यायत्त्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६॥ धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं धन्या तेन वसुन्धरा किमधिकं तेनैव धन्यं जगत् । यः कंसैकनिदेशवर्त्यपि भवत्पादाम्बुजालोकना- दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमग्नोऽजनि ॥ ९७॥ पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि । जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः कालिन्दीसदृशाः स्मितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८॥ यो वाचो मनसोऽपि नैव विषयस्त्वं त्वां विधायात्मजं याभ्यङ्गस्नपनाशनप्रभृतिभिः संलालयत्यन्वहम् । नो दानेन न चेज्यया न तपसा नो साङ्ख्ययोगादिभि- र्यल्लभ्यं तदवाप गोपदयिता साऽऽस्तां यशोदा मुदे ॥ ९९॥ पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते । सन्दष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं शृण्वतः कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ॥ १००॥ या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता स्वच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यञ्चति । येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्बिता सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा- दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्तिं हरौ । सम्भूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा- त्ते संसारदवाग्नितापशमनीमानन्दमन्दाकिनीम् ॥ १०२॥ इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदञ्चन्नखचन्द्रचन्द्रिकाचय- दत्तचित्तचकोरश्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी सम्पूर्णा ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : AnandamandAkinI
% File name             : AnandamandAkinI.itx
% itxtitle              : AnandamandAkinI
% engtitle              : AnandamandAkinI
% Category              : shataka
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Madhusudana Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi, PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : A unique devotional poem by an Advaita philosopher
% Latest update         : January 31, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP