आत्मविद्याविलासः
श्रीसदाशिवेन्द्रसरस्वतीविरचितः
अथ आत्मविद्याविलासः ।
चिन्मुद्रितकरकमलं चिन्तितभक्तेष्टदं विमलम् ।
गुरुवरमाद्यं कञ्चन निरवधिकानन्दनिर्भरं वन्दे ॥
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ १॥
निरवधिसंसृतिनीरधिनिपतितजनतारणस्फुरन्नौकाम् ।
परमतभेदनघुटिकां परमशिवेन्द्रार्यपादुकां नौमि ॥ २॥
देशिकपरमशिवेन्द्रादेशवशोद्बुद्धदिव्यमहिमाऽहम् ।
स्वात्मनि विश्रान्तिकृते सरसं प्रस्तौमि किञ्चिदिदम् ॥ ३॥
निरुपमनित्यनिरीहो निष्कलनिर्मायनिर्गुणाकारः ।
विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ ४॥
स्वाविद्यैकनिबद्धः कुर्वन्कर्माणि मुह्यमानः सन् ।
दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिर्जयति ॥ ५॥
मायावशेन सुप्तो मध्ये पश्यन्सहस्रशः स्वप्नान् ।
देशिकवचःप्रबुद्धो दीव्यत्यानन्दवारिधौ कोऽपि ॥ ६॥
प्राकृतभावमपास्य स्वीकृतनिजरूपसच्चिदानन्दः ।
गुरुवरकरुणापाङ्गाद्गौरवमासाद्य माद्यति प्राज्ञः ॥ ७॥
श्रीगुरुकृपया सच्चित्सुखनिजरूपे निमग्नधीर्मौनी ।
विहरति कश्चन विबुधः शान्ताहन्तो नितान्तमुदितान्तः ॥ ८॥
गुरुवरकरुणालहरीव्यतिकरभरशीतलस्वान्तः ।
रमते यतिवर एको निरुपमसुखसीमनि स्वैरम् ॥ ९॥
श्रीदेशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः ।
विहरन्मस्करिवर्यो निरवधिकानन्दनीरधावास्ते ॥ १०॥
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि ।
परिशिष्टमात्मतत्त्वं पश्यन्नास्ते मुनिः शान्तः ॥ ११॥
जगदखिलमिदमसारं मायिकमेवेति मनसि मन्वानः ।
पर्यटति पाटिताशः प्रगलितमदमानमत्सरः कोऽपि ॥ १२॥
नात्मनि किञ्चिन्माया तत्कार्यं वाऽस्ति वस्तुतो विमले ।
इति निश्चयवानन्तः हृष्यत्यानन्दनिर्भरो योगी ॥ १३॥
त्वमहमभिमानहीनो मोदितनानाजनाचारः ।
विहरति बालवदेको विमलसुखाम्भोनिधौ मग्नः ॥ १४॥
अवधूतकर्मजालो जडबधिरान्धोपमः कोऽपि ।
आत्मारामो यतिराडटवीकोणेष्वटन्नास्ते ॥ १५॥
शान्त्या दृढोपगूढः शान्तसमस्तान्यवेदनोदारः ।
रमते रसज्ञ एको रम्ये स्वानन्दपर्यङ्के ॥ १६॥
उन्मूलितविषयारिः स्वीकृतवैराग्यसर्वस्वः ।
स्वात्मानन्दमहिम्नि स्वाराज्येऽस्मिन् विराजते यतिराट् ॥ १७॥
सवितर्यपि शीतरुचौ चन्द्रे तीक्ष्णेऽप्यधो वहत्यग्नौ ।
मायिकमिदमिति जानन्जीवन्मुक्तो न विस्मयी भवति ॥ १८॥
अज्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः ।
विहरति संयमिराजः समरससुखधाम्नि सर्वतो रम्ये ॥ १९॥
शान्ताहंकृतिदोषः सुसमाहितमानसः कोऽपि ।
पूर्णेन्दुशिशिरभावो राजत्यानन्दसत्यचिद्रसिकः ॥ २०॥
तिष्ठन्परत्र धाम्नि स्वीयसुखास्वादपरवशः कश्चित् ।
क्वापि ध्यायति कुहचिद्गायति कुत्रापि नृत्यति स्वैरम् ॥ २१॥
अगृहीताघकलङ्कः प्रशमितसङ्कल्पविभ्रमः प्राज्ञः ।
न्यक्कृतकार्यकलापस्तिष्ठत्यापूर्णसीमनि क्वापि ॥ २२॥
चपलं मनकुरङ्गं चारु गृहीत्वा विमर्शवागुरया ।
निगमारण्यविहारश्रान्तः शेते स्वधाम्नि कोऽप्येकः ॥ २३॥
दारुणचित्तव्याघ्रं धीरमनःखड्गधारया हत्वा ।
अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः ॥ २४॥
सज्जनहृदयसरोजोन्मीलनकरधीकरप्रसरः ।
एको यतिवरपूषा निर्दोषश्चरति चिद्गगने ॥ २५॥
कुवलयविकासकारणमज्ञानध्वान्तकौमुदीप्रज्ञः ।
शुद्धो मुनीन्द्रचन्द्रः सुरसेव्ये लसति विष्णुपदे ॥ २६॥
स्वानन्दामृतसेकैरान्तरसंतापसंततिं शमयन् ।
चित्रमचञ्चलवृत्तिश्चिद्व्योमनि भाति योगिवर्यघनः ॥ २७॥
सुमनःसौरभमञ्जुलसञ्चारनिवारिताखिलश्रान्तिः ।
संयमिचारुसमीरो विहरत्यानन्दसंविदारामे ॥ २८॥
निःश्रेयससरसफले निर्मलविज्ञानपल्लवमनोज्ञे ।
वीतभये विपिनतले यतिशितिकण्ठो विभाति कोऽप्येकः ॥ २९॥
निःसारभुवनमरुतलमुत्सार्यानन्दसाररसपूर्णे ।
वरसरसि चिन्मयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम् ॥ ३० ।
निखिलागमपल्लविते निगमशिरस्तन्त्रशीतलोद्याने ।
मधुरतरमञ्जुवाचः कूजन्नास्ते यतीद्रकलकण्ठः ॥ ३१॥
दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः ।
विबुधोत्तमसिंहवरो विहरत्यानन्दविततकान्तारे ॥ ३२॥
अज्ञानमृगवरोज्झितविज्ञानोत्तुङ्गशृङ्गशिखरितले ।
मतिसलिलशीतलाङ्गो यतिमदकलभो विराजते विहरन् ॥ ३३॥
नासाञ्चलनिहिताक्षो नामादिभ्यो निवर्तितस्वान्तः ।
तटिनीतटेषु तत्त्वं ध्यायन्नास्ते यतिः कोऽपि ॥ ३४॥
आशावसनो मौनी नैराश्यालङ्कृतः शान्तः ।
करतलभिक्षापात्रस्तरुतलनिलयो मुनिर्जयति ॥ ३५॥
विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे ।
शेते कोऽपि यतीन्द्रः समरससुखबोधवस्तुनिस्तन्द्रः ॥ ३६॥
भूतलमृदुतरशय्यः शीतलवातैकचामरः शान्तः ।
राकाहिमकरदीपो राजति यतिराजशेखरः कोऽपि ॥ ३७॥
विपुलशिलातलफलके विमलसरिद्वारिपरिवृतोदारे ।
मन्दं मलयजपवने वाति प्रस्वपिति कोऽपि यतिराजः ॥ ३८॥
आन्तरमेकं किञ्चित्सन्ततमनुसन्दधन्महामौनी ।
करपुटभिक्षामश्नन्नटति हि वीथ्यां जडाकृतिः कोऽपि ॥ ३९॥
प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुपरतन्त्रः ।
प्राश्नाति कवलमास्ये प्राप्तं प्रारब्धकर्मणा कोऽपि ॥ ४०॥
निन्दति किमपि न योगी नन्दति नैवापरं किमप्यन्तः ।
चन्दनशीतलहृदयः कन्दलितानन्दमन्थरः स्वास्ते ॥ ४१॥
सन्त्यज्य शास्त्रजालं संव्यवहारं च सर्वतस्त्यक्त्वा ।
आश्रित्य पूर्णपदवीमास्ते निष्कम्पदीपवद्योगी ॥ ४२॥
तृणपङ्कचर्चिताङ्गस्तृणमिव विश्वं विलोकयन्योगी ।
विहरति रहसि वनान्ते विजरामरभूम्नि विश्रान्तः ॥ ४३॥
पश्यति किमपि न रूपं न वदति न शृणोति किञ्चिदपि वचनम् ।
तिष्ठति निरुपमभूमनि निष्ठामवलम्ब्य काष्ठवद्योगी ॥ ४४॥
जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् ।
गूढं चरति यतीन्द्रो मूढवदखिलागमार्थतत्त्वज्ञः ॥ ४५॥
उपधाय बाहुमूलं परिधायाकाशमवनिमास्तीर्य ।
प्रस्वपिति विरतिवनितां परिरभ्यानन्दपरवशः कोऽपि ॥ ४६॥
गतभेदवासनाभिः स्वप्रज्ञोदारवारनारीभिः ।
रमते सह यतिराजस्त्रय्यन्तान्तःपुरे कोऽपि ॥ ४७॥
वैराग्यविपुलमार्गं विज्ञानोद्दामदीपिकोद्दीप्तम् ।
आरुह्य तत्त्वहर्म्यं मुक्त्या सह मोदते यतिराट् ॥ ४८॥
विजनतलोत्पलमालां वनितावैतृष्ण्यकल्पवल्लीं च ।
अपमानामृतगुटिकामात्मज्ञः कोऽपि गृह्णाति ॥ ४९॥
न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते ।
आविद्यकमखिलमिति ज्ञात्वोदास्ते मुनिः कोऽपि ॥ ५०॥
भूतं किमपि न मनुते भावि च किञ्चिन्न चिन्तयत्यन्तः ।
पश्यति न पुरोवर्त्यपि वस्तु समस्तार्थसमरसः कोऽपि ॥ ५१॥
निगृहीताखिलकरणो निर्मृष्टाशेषविषयेहः ।
तृप्तिमनुत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिवर्यः ॥ ५२॥
सन्त्यजति नोपपन्नं नासम्पन्नं च वाञ्छति क्वापि ।
स्वस्थः शेते यतिराडान्तरमानन्दमनुभवन्नेकः ॥ ५३॥
कामपि विमलां पदवीमासाद्यानन्दसंविदुन्निद्राम् ।
आस्ते भिक्षुक एको विहरन्निर्मुक्तबन्धनः स्वैरम् ॥ ५४॥
वस्तुन्यस्तमिताखिलविश्वविहारे विलीनमनाः ।
राजति परानपेक्षो राजाऽखिलवीतरागाणाम् ॥ ५५॥
आचार्यापाङ्गदृशा समवाप्तापारसंविदाकारः ।
प्रशमितसकलविभेदः परहंसः कश्चिदाभाति ॥ ५६॥
वर्णाश्रमव्यवस्थामुत्तीर्य विधूय विद्यादीन् ।
परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमात्रेण ॥ ५७॥
क्षयमुपनीय समस्तं कर्म प्रारब्धमुपभुज्य ।
प्रविगलितदेहबन्धः प्राज्ञो ब्रह्मैव केवलं भवति ॥ ५८॥
स्तिमितमनन्तमनाद्यं सन्ततमानन्दबोधघनम् ।
अविकल्पमाद्यमेकं सन्मात्रं विद्यते किमपि ॥ ५९॥
अक्षरमजरमजातं सूक्ष्मतरापूर्वशुद्धविज्ञानम् ।
प्रगलितसर्वक्लेशं परतत्त्वं वर्तते किमपि ॥ ६०॥
सुखतरममरमदूरं सारं संसारवारिधेस्तीरम् ।
समरसमभयमपारं तत्किञ्चन विद्यते तत्त्वम् ॥ ६१॥
अरसमगन्धमरूपं विरजस्कमसत्त्वमतमस्कम् ।
निरुपमनिर्भयतत्त्वं तत्किमपि द्योतते नित्यम् ॥ ६२॥
इति गुरुकरुणापाङ्गादार्याभिर्द्व्यधिकषष्टिसङ्ख्याभिः ।
निरवद्याभिरवोचं निगमशिरस्तन्त्रसारभूतार्थम् ॥ ६३॥
गदितमिममात्मविद्याविलासमनुवासरं स्मरन्विबुधः ।
परिणतपरात्मविद्यः प्रपद्यते सपदि परमार्थम् ॥ ६४॥
परमशिवेन्द्रश्रीगुरुशिष्येणेत्थं सदाशिवेन्द्रेण ।
रचितेयमात्मविद्याविलासनाम्नी कृतिः पूर्णा ॥ ६५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य-
श्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायण-
श्रीसदाशिवेन्द्रसरस्वत्या विरचितः
आत्मविद्याविलासः समाप्तः ॥
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, kalyana krrit kalyanakrrit at gmail.com