ईश्वरकृष्णस्य सांख्यकारिका

ईश्वरकृष्णस्य सांख्यकारिका

साङ्ख्य कारिका - ईश्वरकृष्ण दुःखत्रयाभिघाताज् जिज्ञासा तदप१घातके हेतौ । दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ १॥ 1 अभि M, G(A, D, G); अव J, S दृष्टवदानुश्रविकः स ह्यविशुद्धि१ क्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥ 1 अविशुद्धः M मूलप्रकृतिरविकृतिर्महदाद्याः१ प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥ 1 आद्या V1, V2 दृष्टमनुमानमाप्तवचनं च१ सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥ 1 आप्तं वचनं V (editor's emendation) प्रतिविषयाध्यवसायो दृष्टं त्रि१विधमनुमानमाख्यातम्। तल्लिङ्गलिङ्गि२पूर्वकमाप्तश्रुतिराप्तवचनं तु३ ॥ ५॥ 1 द्वि V2 2 लिङ्गि-लिङ्ग K 3 च V2, V1, J सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिर१नुमानात् । तस्मादपिचासिद्धं परोऽक्षमाप्तागमात् सिद्धं२ ॥ ६॥ 1 प्रसिद्धिर् V2, V1, G(D), Y 2 साध्यम् Y, M अतिदूरात् सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् । सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारच्च ॥ ७॥ सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धिः १ । महदादि तच्च२ कार्यं प्रकृतिविरूपं सरूपं३ च ॥ ८॥ 1 उपलब्धेः J, V, K 2 तच्च महदादि D 3 सरूपं विरूपं J, V; विरूपं स्वरूपं G (G) असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्ति१नियमार्थाः । अन्योऽन्याभिभवाश्रय जननमिथुनवृत्तयश्च गुणाः ॥ १२॥ 1 प्रवृत्तिर् K सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं १,२ चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३॥ 1 प्रकाशम् K 2उपस्तम्भकं D अविवेक्यादि हि सिद्धं१ त्रैगुण्यात् तद्विपर्यया२भावात् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४॥ 1 [my emendation]; --आदि सिद्धः V1, V2; आदिः सिद्धः G, J, Y, M; आदेः सिद्धिः V, D, S; आदिर्हि सिद्धं K 2 विपर्यये V भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूपस्य१ १५॥ 1 रूप्यस्य J, Y, M, V, K कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च१ । परिणामतः२ सलिलवत् प्रतिप्रति३गुणाश्रय४विशेषात् ॥ १६॥ 1 समुदयाश् K 2 परिमाण V2 3 प्रतिपत्ति V1 3 and 4 पॄथक् पॄथग् भाजन V2(comm) सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं१ प्रवृत्तेश्च ॥ १७॥ 1 र्थ V1, M, K जनन१मरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्य२विपर्ययाच्चैव ॥ १८॥ 1 जन्म V2, V1, G(B, D), M, V, K, D 2 त्रि-गुणादि V2, V1, Y तस्माच्च विपर्यासात्१ सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च २,३ ॥ १९॥ 1 विपर्ययात् V1 2 द्रष्टित्वम् V2; प्रष्ठित्वम् V1 3 भावाच् V2 तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुण१कर्तृत्वे च२ तथा कर्तेव भवत्यु३दासीनः४ ॥ २०॥ 1 गुणाः V2 2.अपि J, M, V 3 भवतीत्य् G (note) 4 उदासीना V2 पुरुषस्य दर्शनार्थं कैवल्यार्थं१ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१॥ 1 दर्शनार्थः कैवल्यार्थस् Y प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च१ षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२॥ 1 तु V1 अध्यवसायो बुद्धिर्धर्मो ज्ञानं विरागाइश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ २३॥ अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः । एकादशकश्च गणस्त१न्मात्रः२ पञ्चकश्चैव३ ॥ २४॥ 1 ऐन्द्रियैकादशकः V1, G(B), Y, M 2 मात्र J, M, V, K, S; मात्रकः V1 3 पञ्चकञ् S सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्१मात्रः स तामसस्तैजसादुभयम् ॥ २५॥ 1 तान् Y, M (var), V बुद्धीन्द्रियाणि चक्षुः१ श्रोत्रघ्राणरसन२त्वगाख्यानि३ । वाक्पाणिपादपायूपस्थान्४ कर्मेन्द्रियान्याहुः ॥ २६॥ 1 श्रोत्र V1, M; कर्ण Y, M (var) 2 + 3 त्वक् चक्षू रसन नासिकाख्यानि V1, Y, M 3 स्पर्शनानि V2; स्पर्शनकानि G 4 पस्थाः V2, Y; पस्थं K उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान् नानात्वं बाह्य२भेदाच्च३,१ ॥ २७॥ 1 in V2 and Y सङ्कल्पकमत्र मनः तच् चेन्द्रियमुभयथा समाख्यातमन्तस्त्रिकाल विषयं तस्मादुभय प्रचारं तत् V2, Y 2 ग्राह्य M 3 भेदाश् G(A, E, F), J, V, S, D शब्दादिषु१ पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च२ पञ्चानाम् ॥ २८॥ 1 रूपादिषु V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M स्वालक्षण्यं१ वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९॥ 1 लक्षण्या V1, M युगपच्चतुष्टयस्य तु१ वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३०॥ 1 हि M स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां१ वृत्तिम् । पुरुषार्थैव हेतुर्न केनचित् कार्यते करणम् ॥ ३१॥ 1 हैतुकी M K, J; हेतुकीं V1(comm); हेतुकी Y करणं त्रयोदशविधं तदाहरण१धारणप्रकाशकरम् । कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ३२॥ 1 आग्रहण V1, अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्य१न्तरं करणम् ॥ ३३॥ 1 अभ्य् V2, D बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि१ । वाग्भवति शब्दविषया शेषाणि तु२ पञ्चविषयाणि१ ॥ ३४॥ 1 विषयीणि V1, J 2 शेषाण्यपि V2, V1, Y, M सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६॥ सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः१ प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥ 1 ततः M तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च१ ॥ ३८॥ 1 सन्तो शान्तो ? घोरश्च मूढश्च V1 सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९॥ पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं१ भावैरधि२वासितं लिङ्गम् ॥ ४०॥ 1 निरूप-भोगं G 2 अति V2 चित्रं यथाश्रयमृते स्थाण्वा१दिभ्यो विना यथा२ छाया । तद्वद् विना विशेषैर्न तिष्ठति३ निराश्रयं लिङ्गम् ॥ ४१॥ 1 तन्त्व् K 2 यथा विना G, D 3 स् तिष्ठति न M पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान् नटवद् व्यवतिष्ठते१ लिङ्गम् ॥ ४२॥ 1 व्यातिष्ठते T सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३॥ धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४॥ वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्१ रागात् । ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५॥ 1 राजसाद् भवति V1(comm), M एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । गुणवैषम्य१विमर्दात्२ तस्य च३ भेदास्तु पञ्चाशत् ॥ ४६॥ 1 वैशम्य K 2 विमर्शात् T, K; विमर्देन V2, V1(comm), J, M; विमर्दे V1 3 missing V2, V1, J, M पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च१ करणवैकल्यात् । अष्टाविंशतिभेदास्तु२ष्टिर्नवधाष्टधा सिद्धिः ॥ ४७॥ 1 अशक्तिश् V1, G (except for D), J, Y, V, K 2 भेदा V1, J, Y, M, V, K भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । १तामिस्रोऽष्टा२दशधा तथा भवत्यन्धतामिस्रः१ ॥ ४८॥ 1 तामिश्रो, अः D 2 ऽष्ट G;. ऽष्टो K एकादशेन्द्रियवधाः१ सह बुद्धिवधैरशक्तिरुद्दिष्टा२ । सप्तदश वधा३ बुद्धेर्वि४पर्ययात्५ तुष्टिसिद्धीनाम् ॥ ४९॥ 1 वधा G 2 उपदिष्टा J, K 3 सप्तदशधा G; . च J, K; । तु D ४ बुद्धिः Y 5 विपर्ययाः J; विपर्यया K आध्यात्मिकाश्चतस्रः१ प्रकृत्युपादानकालभाग्या२ख्याः । बाह्या विषयोपरमाच्च पञ्च३ नव४ तुष्टयोऽभिमताः ५ ॥ ५०॥ 1 आध्यात्मिक्यश् G(E), Y, M; अध्यात्मिकाश् K 2 भाग V1, G(F), D 3 रमात् पञ्च च Y, V, K; रमात् पञ्च J, M, B, S; रमाश्च पञ्च V1, G(D); रमाः पञ्च D 4 नव च M 5 हिताः G(D, F), Y, M, D ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः१ सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ२ सिद्धेः३ पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१॥ 1 विघात-त्रयं V1, M 2 सिद्ध-योगो K 3 सिद्धि V2; सिद्धे V1 न विना भावैर्लिङ्गं न विना लिङ्गेन भाव१निर्वृत्तिः२ । लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधाः प्रवर्तते३ सर्गः ॥ ५२॥ var लिङ्गाख्यो भावाख्यस्तस्माद् भवति द्विविधा सर्गः ॥ ५२॥ 1 भावेन लिङ्ग V1 2 विनिवृत्तिः V1; संसिद्धिः Y, M(var.); निष्पत्तिः J, M(var) 3 भवति द्विधा M अष्टविकल्पो दैवस्त१इर्यग्योनश्च२-३ पञ्चधा भवति । मानुष्य४श्चैक५विधः समासतो भौतिकः६ सर्गः ॥ ५३॥ G(D) [uses neuter in the first three half-lines: अं instead of ओ, अस्, अश्, अश् 1 देवस् V1 2 तिर्यग्योनिश् V1; तैर्यग्योन्यश् J 3 [missing] G(D) 4 मानुशकश् V (var) 5 त्वेक G(D) 6ऽयं त्रिधा G(D) ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च१ मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादि२ स्तम्बपर्यन्तः३ ॥ ५४॥ 1 अस्तु V1, Y, M(var) 2 इः D 3 अं G (comm अः) तत्र१ जरामरणकृतं२ दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्यावि३निवृत्तेस्तस्माद् दुःखं स्वभावेन४ ॥ ५५॥ 1 अत्र V1, Y, M; अत्र जन्म Y(comm. to verse 1) 2 [missing] V2 3 पि V1 4 समासेन V1, Y, M इत्येष प्रकृतिकृतो१ महदादिविशेष२भूतपर्यन्तः३ । प्रतिपुरुषविमोक्षार्थं स्वार्थैव परार्था४रम्भः ॥ ५६॥ 1 कॄतौ G(D); कॄतः Y; विकॄइतः V1 2 विषय M 3 प्रवर्तते तत्त्व भूत भावाख्यः Y, M(var.); प्रवर्तते वैकॄतः प्रजा सर्गः V1 4 र्थम् V1 वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं१ प्रवर्तते तद्वदव्यक्तम् ॥ ५८॥ 1 पुरुष विमोक्ष निमित्तं V1 रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते१ प्रकृतिः ॥ ५९॥ 1 निवर्तते G नानाविधैरुपायैरु१पकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति२ ॥ ६०॥ 1 नाना विधोपकारैः D 2 कुरुते G(D) प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१॥ तस्मान् न १बध्यतेऽद्धा न२ मुच्यते३ नापि संसरति कश्चित्४ । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥ 1 मुच्यते G(C), D 2 ना पि G, M, K, D; न V1; [missing] V2 3 बध्यते G(C), D; [missing] V2 4 पुरुषः B, D, S ; किञ्चित् V2 रूपैः सप्तभिरेव तु१ बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थं प्रति२ विमोचयत्येकरूपेण ॥ ६३॥ 1 एवं V1, M; एव V2, G 2 पुरुषस्यार्थं प्रति M; पुरुषस्यार्थं V2, D [This verse is missing in paramArtha's Chinese version (T)] एवं तत्त्वाभ्यासान् नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४॥ तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्१ । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः२ ॥ ६५॥ 1 विनिवृत्तः V2, V1 2 स्व स्थः V2, V1, J, M, V; स्वच्चः V(var), K दृष्टा मयेत्यु१पेक्षकैको दृष्टाहमित्युपरतान्या३ । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६॥ 1 रङ्ग-स्थ इति G(D) 2 उपेक्षत K 3 उपरतैका V2(?),V1, G(D); उपरमत्यन्या G(var), J(var), V, K, S सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रभ्रमवद्१ धृतशरीरः ॥ ६७॥ 1 भ्रमिवद् V, K प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥ १पुरुषार्थ२ज्ञानमि३दं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलया४श्चिन्त्यन्ते५ यत्र भूतानाम् ॥ ६९॥ 1 परमा K 2 र्थं V1, D; र्था Y 3 र्थम् Y 4 प्रलयाच् K 5 चिन्त्यते V1, K; चिन्त्यन्ते च Y एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन१ बहुधा२कृतं तन्त्रम् ॥ ७०॥ 1 तेन च G, Y, M 2 बहुली M [This verse is not commented on by G] शिष्य१परम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१॥ 1 शिष्ट K [This verse is not commented on by G] सप्तत्यां किल१ येऽर्थास्तेऽर्थाः कृत्स्नस्य सृष्टितन्त्रस्य । आख्यायिका२विरहिताः परवादविवर्जिताश्चाऽपि ॥ ७२॥ 1 खलु K 2 व्याख्यायिका V1 3 चेति M, V [This verse is not commented on by G; paramArtha (T) remarks that it is not original] तस्मात् समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीणम् । तन्त्रस्य१ बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव बिम्बम् ॥ ७३॥ 1 च M [This verse appears only in V1 and M, after the word समाप्तम् ] The words of the साङ्ख्यकारिका (variant readings are not given) अ अकरण ९ अकर्तृ १९ अकारण ६७ अक्ष ६ अगुण ६० अग्र्य ७० अङ्कुश ५१ अचेतन ११, २० अज्ञ ५७ अतिदूर ७ अतिशय २ अतीन्द्रिय ६ अत्यन्त १ अत्र २७ अदृष्ट ३० अद्धा ६२ अधर्म ४४ अधस्तात् ४४ अधिगम ६७ अधिवासित ४० अधिष्ठान १७ अध्ययन ५१ अध्यवसाय ५, २३ अनवस्थान ७ अनित्य १० अनुकम्पा ७० अनुपकारिन् ६० अनुपलब्धि ८ अनुमान ४६ अनेक १० अन्त १, ४०, ५४, ५६, ७१ अन्तःकरण ३३, ३५ अन्तर ३३, ३७ अन्तिक ६८ अन्धतामिस्र ४८ अन्धवत् २१ अन्य ६६ अन्योऽन्य १२ अपघातक १ अपरिशेष ६४ अपवर्ग ४४ अपार्थ १ अपार्थक ६० अपि ६, १४, २१२२, ३०, ६२, ६६, ७०, ७२ अप्रीति १२ अभाव १, ८९, १४ अभिघात १ अभिभव ७, १२ अभिमत ५० अभिमान २४ अभिहार ७ अभ्यास ६४ अयुगपत् १८ अर्थ १, १२१३, १७, २१, ३१, ३६, ४२, ५६, ५८, ६०, ६३, ६५, ६९, ७२ अर्थक ६० अर्थत्व १७, ६८ अवगाह् ३५ अवयव १० अवस्थान ७ अवस्थित ६५ अविकृति ३ अविघात ४५ अविपर्यय ६४ अविभाग १५ अविवेकिन् ११, १४ अविशुद्धि २ अविशेष ३४, ३८, ४१ अव्यक्त २, १०, १४, १६, ५८ अव्यापिन् १० अशक्ति ४६४७, ४९ अष्ट ५१ अष्टधा ४७ अष्टविकल्प ५३ अष्टविध ४८ अष्टादशधा ४८ अष्टाविंशति ४७ अस् १६१७, ३९, ६१, ६४, ६६ असक्त ४० असत् ९ असामान्य २९ असिद्ध ६ अह् २६ अहङ्कार २२, २४, २५ अहम् ६१, ६४, ६६ आ आ ५५ आकूत ३१ आख्या २६, ३३, ४६, ५०, ५२ आख्यात ५ आख्यायिका ७२ आगत ७१ आगम ६ आत्मक १२, २७, ५० आत्मकत्व १४ आत्मन् ५९, ६३ आत्यन्तिक ६८ आदान २८ आदि ३, ८, १४, १७, २५, २८२९, ४०४१, ४३, ५४, ५६, ६७ आध्यात्मक ५० आनन्द २८ आनुश्रविक २ आप् ६८ आप्त ५ आप्तवचन ४ आप्तागम ६ आभ्यन्तर ३३ आरम्भः ५६ आर्य ७१ आर्या ७१ आलोचन २८ आश्रय १२, १६, ४१, ६२ आश्रयिण् ४३ आश्रित १० आसुरि ७० आहरण ३२ आहार्य ३२ इ इति ५६, ६१, ६४, ६६ इदम् १९, २३, ४२, ६९ इन्द्रिय ६, २६२७, ३४, ४९ इन्द्रियघात ७ इव २०, ५६ इष् २८, ४४ इष्ट ४, १३ ई ईश्वरकृष्ण ७१ उ उत्पत्ति ६९ उत्पद् ६४ उत्पन्न ४० उत्सर्ग २८ उदासीन २० उद्दिष्ट ४९ उपकारिन् ६० उपभोग ४० उपरम् ६६ उपरम ५० उपलब्धि ८ उपष्टम्भक १३ उपस्थ २६ उपादान ९, ५० उपाय ६० उपे ६१ उपेक्षक ६६ उभय २१, २५, २७, ६८ ऊ ऊर्ध्वम् ४४, ५४ ऊह ५१ ऋ ऋते ४१ ए एक १०, ६३, ६६ एकविध ५३ एकादश ४९ एकादशक २४२५ एकान्त १ एतद् २३, २९, ३६, ३८, ४६, ५६, ७०, ७१ एव १३, १८, २४, ३१, ३७, ६३ एवम् ६४ ऐ ऐकान्तिक ६८ ऐश्वर्य २३, ४५ औ औत्सुक्य ५८ क् कऋअण २९ कर ३२ करण ९, १८, ३१३३, ३५, ४३, ४७ कर्तृ १९२० कर्तृत्व २० कर्मेन्द्रिय २६ कलल ४३ कल्प ३६ कल्य ४७ कार २२, २४, २५ कारण १४१६, ६७ कारणभाव ९ कार्य ८९, १४-१५, ३२, ४३ काल ३३, ५० किम् ३१, ६१-६२ किल ७२ कुमार ६१ कृ ३१ कृत २१, २५, ४३, ५५-५६, ७० कृत्स्न ३६, ७२ कृष्ण ७१ केवल(म्) ६४ कैवल्य १७, १९, २१, ६८ क्रमशस् ३० क्रिया १०, ५८ क्षय २ क्षीर ५७ ग् गण २२, २४ गमन ४४ गुण १११२, १४, १६-१७, २७, ३६, ४६, ६० गुणकर्तृत्व २० गुणवत् ६० गुण्य १४, १८ गुरु १३ गुह्य ६९ ग्रहण ९ घ् घात ७ घोर ३८ घ्राण २६ च् च ४,६९,१११३,१५२०,२२,२४,२७२८,३०,३२, ३७,३८,४३,४४,४६,४८,५०,५१,५३,५४,६२,६३,७०,७२ चक्र ६७ चक्षुस् २६ चतुर् ५० चतुष्टय ३० चर् ६० चरित ६८ चल १३ चित्र ४१ चिद् ३१, ६१, ६२ चिन्त् ६९ चेद् १ चेतन ११, २०, ५५ चेतनावत् २० छ् छाया ४१ ज् , ज्ञ ज ३९ जनन १२, १८ जरा ५५ जिज्ञासा १ ज्ञ २, ५७ ज्ञान २३, ४४, ६४, ६७, ६९ त् तत्त्व ६४ तत्र ५५ तथा ११, २०-२१, ३०, ४८, ५७, ५९ तद् १२,५६,८,११,१४,१९,२२,२४,२५,२९,३०,३२,३४,३५, ३७,३९,४५,४६,(५२),५५,६०,६२,६३,६५,६६,७०,७२ तद्वत् ४१, ५८ तन्त्र १०, ७०, ७२ तन्मात्र २४२५, ३८ तमस् १३, ४८, ५४ तामस २३, २५ तामिस्र ४८ तु ३, ५, ६, ३०, ३४, ४६, ६३ तुष्टि ४६४७, ४९, ५० तैजस २५ तैर्यग्योन ५३ त्रय १, २९, ३०, ३३ त्रयोदशविध ३२ त्रि ५१ त्रिकाल ३३ त्रिगुण ११, १६, १७ त्रिधा ३९ त्रिविध ४, ५, ३३, ३५, ५१ त्रैगुण्य १४, १८ त्वच् २६ द् दर्शन २१, ६१ दशधा ३२३३ दशविध ४८ दान ५१ दुःख १, ५१, ५५ दूर ७ दृश् ५९, ६५ दृष्ट १, ४६, ३०, ४३, ६१, ६६ दृष्टवत् २ दैव ५३ द्रष्टृत्व १९ द्वार ३५ द्वारिन् ३५ द्विविध २४, (५२) ध् धर्म २३, ४३-४४, ६७ धर्मिन् ११ धर्म्य २७ धा ३२३३, ३९, ४७-४८, ५३, ७० धारण ३२ धार्य ३२ धृत ६७ न् न १, ३, ८, ३१, ४१, ५२, ६१-६२, ६४, ६६ नटवत् ४२ नर्तकी ५९ नव ५० नवधा ४७ नाना ६२ नानात्व २७ नानाविध ६० नित्य १० निमित्त ४२, ५७ नियत ३९४० नियम १२, १८ निराश्रय ४१ निरुपभोग ४० निर्दिष्ट ३० निर्वृत्ति ५२ निवृत् ३९, ५९ निवृत्त ६५ निवृत्ति ५८ नृत्य ५९ नैमित्तिक ४२ प् पङ्गु २१ पञ्च २२, २८-२९, ३४, ३८, ४७, ५० पञ्चक २४ पञ्चधा ५३ पञ्चशिख ७० पञ्चाशत् ४६ पर ७२ परतन्त्र १० परम ६९ परम्परा ७१ परस्पर ३१, ३६ परार्थ ५६ परार्थत्व १७ परिणाम १६, २७ परिमाण १५ परिशेष ६४ परोऽक्ष ६ पर्यन्त ४०, ५४, ५६ पवित्र ७० पाणि २६ पाद २६ पायू २६ पितृ ३९ पुंस् ११, ६० पुनर् ३७, ६१ पुरुष ३, १७-१९, २१, ३६-३७, ५५-५९, ६१, ६३, ६५, ६९ पुरुषार्थ ३१, ४२ पूर्व ५१ पूर्वक ५, ३० पूर्वोत्पन्न ४० प्रकाश् ३६, ५९ प्रकाश १२, ३२ प्रकाशक १३ प्रकाश्य ३२ प्रकृति ३, ८, २२, ४२, ४५, ५०, ५६, ५९, ६१-६३, ६५ प्रति ६३ प्रतिनियम १८ प्रतिपद् ३१ प्रतिपुरुष ५६ प्रतिप्रति १६ प्रतिविषय ५ प्रतीति ६ प्रत्यय ४६ प्रत्युपभोग ३७ प्रदा ७० प्रदीप ३६ प्रदीपवत् १३ प्रधान ११, २१, ३७, ५७, ६८ प्रभूत ३९ प्रमाण ४ प्रमेय ४ प्रयम् ३६ प्रयोजन ६६ प्रलय ६९ प्रवृत् (५२) प्रवृत् १६, २४-२५, ५८ प्रवृत्ति १२, १५, १७-१८, ५७ प्रसङ्ग ४२ प्रसव ११, ६५ प्राकृतिक ४३ प्राण २९ प्राप् ५५ प्राप्त ६८ प्राप्ति ५१, ६७ प्रीति १२ प्रेक्षकवत् ६५ ब् बन्ध् ६२, ६३ बन्ध ४४ बहुत्व १८ बहुधा ७० बाह्य २७, ३३, ५० बुद्धि २३, ३५-३७, ४९ बुद्धीन्द्रिय २६, ३४ ब्रह्मन् ५४ भ् भाग्य ५० भाव १, ८९, १४, १७, १९, ४०, ४३, ५२, ५५ भू २०, २९, ३४, ४४-४५, ४७-४८, ५३, ६१ भूत २२, ३८, ५६, ६९ भूतादि २५ भेद १५, २७, ४६-४८, ६८ भोक्तृ १७ भौतिक ५३ भ्रमवत् ६७ म् मति ६१, ७१ मध्य ५४ मनस् ७, २७ मरण १८, ५५ महत् २२ महदादि ३, ८, ४०, ५६ महामोह ४८ मातृ ३९ मात्र २४२५, २८, ३८ माध्यस्थ्य १९ मानुष्य ५३ मिथुन १२ मुच् ६२ मुनि ७० मूढ ३८ मूल ३, ५४ मोह ४८ य् यत्र ६९ यथा ४१, ५७५९ यद् ३५, ३७, ६१, ७२ युक्त २ युगपत् १८, ३० योग ४२ योन ५३ र् रङ्ग ५९ रजस् १३, ५४ रसन २६ राग २३, ४५ राग्य ४५ राजस ४५ रूप ८, १५, २३, ६३, ६५ र्षि ६९ ल् लक्षण ३६ लक्षण्य २९ लघु १३ लय ४५ लिङ्ग ५, १०, २०, ४०-४२, ५२, ५५ लिङ्गिन् ५ लोक ५८ व् वचन ४, ५, २८ वत्स ५७ वध ४९ वरणक १३ वश ६५, ६७ वाच् २६, ३४ वाद ७२ वायु २९ विकल्प ५३ विकार ३ विकृति ३ विघात ४५, ५१ विज्ञा ७१ विज्ञान २ विध (५२) विध ४, ५, २४, ३२-३३, ३५, ४८, ५१(५२)५३, ६० विना ४१, ५२ विनिवृत्त ६५ विनिवृत्ति ५५, ६८ विपरीत २, १०, ११ विपर्यय १४, १७-१८, ४४-४७, ४९, ६४ विपर्यस्त २३ विपर्यास १९, ४५ विभाग १५ विभुत्व ४२ विमर्द ४६ विमुच् ६३ विमोक्ष ५६५८ विरहित ७२ विराग २३ विरूप ८ विलक्षण ३६ विवर्जित ७२ विवृद्धि ५७ विवेकिन् ११, १४ विशाल ५४ विशिष् ३७ विशुद्ध ६४ विशुद्धि २ विशेष १६, २७, ३४, ३६, ३८-३९, (४१), ५६ विषय ५, ११, ३३-३५, ५० विषाद १२ विहरण २८ वृत्ति १२१३, २८३१ वैकल्य ४७ वैकृत २५, ४३ वैराग्य ४५ वैश्वरूप १५ वैषम्य ४६ व्यक्त २, १०-११, १४, १६, ५८ व्यवधान ७ व्यवस्था ४२ व्यापिन् १० श् शक्त ९ शक्ति १५, ४६-४७, ४९ शक्य ९ शब्द २८, ३४, ५१ शरीर ६७६८ शान्त ३८ शिखा ७० शिष्य ७१ शेष ३४३५ श्रुति ५ श्रेयस् २ श्रोत्र २६ ष् षष्टितन्त्र ७२ षोडशक ३, २२ स् संयोग २०२१, ६६ संसार ४५ संसृ ४०, ६२ संसृ ६२ संस्कार ६७ सक्त ४० सक्रिय १० सङ्कल्पक २७ सङ्क्षिप्त ७१ सङ्घात १७ सत् ९, ६०, ६६ सत्कार्य ९ सत्त्व १३, ५४ सप्त ३, ६३, ६५ सप्तति ७२ सप्तदश ४९ समन्वय १५ समाख्यात ६९ समानाभिहार ७ समास ५३ समुदय १६ सम्भव ९ सम्य ४६ सम्यक् ६७, ७१ सरूप ८ सर्ग २१, २४, ४६, (५२)५३५४, ६६ सर्व ४, ९, ३५, ३७ सलिलवत् १६ सह ३९, ४९ सांसिद्धिक ४३ साक्षित्व १९ सात्त्विक २३, २५ साध् ३७ साधर्म्य २७ सान्तःकरण ३५ सामान्य ११, २९ सामान्यतस्दृष्ट ६ सामीप्य ७ साम्प्रत ३३ सावयव १० सिद्ध ६, १४, १८१९ सिद्धत्व ४ सिद्धान्त ७१ सिद्धि ४, ४६-४७, ४९, ५१ सुकुमारतर ६१ सुस्थः ६५ सुहृद् ५१ सूक्ष्म ३७, ३९४० सौक्ष्म्य ७८ स्तम्ब ५४ स्थ ६५ स्था ४१, ६७ स्थाणु ४१ स्थिति ६९ स्थ्य १९ स्मृत ३८ स्व ३१ स्वभाव ५५ स्वार्थ ५६ स्वालक्षण्य २९ ह् हि २, ४ हृद् ५१ हेतु १, ३१ हेतुक ३१, ४२ हेतुमत् १० Isvarakrsna: Samkhyakarika Input by Ferenc Ruzsa Copyright (C) Ferenc Ruzsa, 1998 I hereby license this file to be freely copied for scholarly purposes. Anyone wishing to sell the file, or include it in any collection which is distributed for profit, must contact me to negotiate an appropriate license. The following editions have been utilised: V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973. T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp. 978-1064. V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -. Ahmedabad 1973. G: Wilson, Horace Hayman: The SAnkhya KArikA with the BhAshya or Commentary of GaurapAda. Oxford 1837. Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92. M and J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.) V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna- krta Samkhyakarika tatha Vachaspatimisra-krta Tattvakaumudi ka hindi- anuvada evaM Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed. 1976; repr. Delhi 1989. K: [Facsimile of a manuscript with the comments of an unknown scholiast] in Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New Delhi 1982, pp. 213-236. B: Garbe, Richard: The Samkhya-Pravachana-Bhasya or Commentary on the Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -. Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.) D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte der Philosophie I.3.) 4. ed. Leipzig 1922. S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3) Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915. (The Sacred Books of the Hindus); repr. Delhi 1979. Please send your remarks to: F\_RUZSA at ISIS.ELTE.HU Please send corrections to sanskrit at cheerful.com THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Unless indicated otherwise, accents have been dropped in order to facilitate word search.
The encoded and reprocessed file in Itrans was proofread by Surin Usgaonkar usgaonkar at hotmail.com and Giulio Enrico Geymonat giuliogey at gmail.com Please send corrections to sanskrit at cheerful.com
% Text title            : IsvarakRiShNasya sA.nkhyakArikA
% File name             : IshvarakRiShNasAnkyakArikA.itx
% itxtitle              : sANkhyakArikA (IshvarakRiShNasya)
% engtitle              : Ishvarakrishna's sAnkhyakArikA
% Category              : major_works, krishna
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% SubDeity              : krishna
% Texttype              : pramukha
% Author                : IshvarakRiShNa
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Ferenc Ruzsa F_RUZSA at ISIS.ELTE.HU
% Proofread by          : Surin Usgaonkar usgaonkar at hotmail.com, Giulio Enrico Geymonat giuliogey at gmail.com
% Description-comments  : See references in the end of the text
% Indexextra            : (meaning)
% Latest update         : Orginal entry in 1998.  April 24, 2005, December 25, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org