॥ ईश्वरप्रतिपत्तिप्रकाशः ॥

ईश्वरप्रतिपत्तिप्रकाशः श्रीमधुसूदनसरस्वतीप्रणीतः संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण महामहोपाध्यायेन त. गणपतिशास्त्रिणा संशोधितः । अन्तर्यामी समस्तेशो वादिविप्रतिपत्तिभिः । यः क्रीडति परानन्दस्तं वन्दे नन्दनन्दनम् ॥ अथ कीदृशस्ता वादिविप्रतिपत्तयः ? उच्यन्ते --- बार्हस्पत्यास्तावद् देहमात्रात्मवादिनः पारलौकिककर्मतत्फलविमुखाः सुखाय तादात्विकाय भोजनाच्छादनादिभिर्दृष्टैरेवोपायैः प्रयतमाना नानाविधश्रुतिस्मृतिपुराणानुमानादिप्रमाणप्रतिपादितमपि परमेश्वरं प्रत्यक्षातिरिक्तप्रमाणानभ्युपगमेन जडीकृतान्तःकरणा मरणान्तमेव मोक्षं मन्यमाना दुर्दैववैभवेनैव दुर्विनीता नोररीकुर्वते । बुद्धमतानुसारिणस्तु बुद्धदेवप्रामाण्या अपि न देहमात्रम् आत्मानम् उपयन्ति, किन्तु प्रत्यक्षातिरिक्तम् अनुमानम् अभ्युपगच्छन्तः प्रतिक्षणविनाशिनं देहादिव्यतिरिक्तं विज्ञानस्कन्धम् आत्मानम् अभ्युपेत्य बन्धमोक्षादिव्यवस्थाम् आस्थाय पारलौकिकमपि किञ्चित् क्रियाकलापम् अवैदिकमेव सेवमानाः सर्वज्ञविज्ञानसन्तानरूपम् ईश्वरम् अखिलस्य भौतिकस्याभ्युपगच्छन्ति । दिगम्बरास्तु देहादिव्यतिरिक्तं देहमात्रपरिमाणम् नियतावयवम् अविनाशिनम् आत्मानम् अभ्युपगच्छन्तः सप्तभङ्गीनयं नाम न्यायम् अवतारयन्तः क्षणभङ्गवादम् अनङ्गीकृत्य स्थिरम् अर्हन्तम् ईश्वरम् उपयन्ति---स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चाव्यक्तव्यश्च, स्यान्नास्ति चाव्यक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । स्याच्छब्दोऽयम् अप्यर्थे निपातः । तेन च सर्वेषाम् अनैकान्तिकत्वम् आदर्शितम् । तथा चायमर्थः । सदेव सर्वमिति साङ्ख्याः, असदेव् सर्वमिति माध्यमिकाः, सदसदेव सर्वमिति तार्किकाः, अनिर्वचनीयमेव सर्वम् इत्यौपनिषदाः । अनिर्वचनीयत्वं च सद्विलक्षणत्वे सति असद्विलक्षणत्वे सति सदसद्विलक्षणत्वम् । तेन सदपि, असदपि, सदसदपि, अनिर्वचनीयमपीति प्रत्येकं चत्वारो भङ्गाः, सदपि सद्विलक्षणमपि, असदपि असद्विलक्षणपि, सदसदपि सदसद्विलक्षणमपीत्यनिर्वचनीयतासमुच्चयेन त्रयो भङ्गा इति मिलित्वा सप्तभङ्गीनय एवं धर्मान्तरेऽपि योज्यः । तथाच न क्षणिकत्वसिद्धिः सर्वेषां पदार्थानां सप्तरूपतया अनुभवादित्यभिप्रायः । माध्यमिकास्तु सप्तभङ्गीनयन्यायस्य शून्यतापर्यवसायित्वात् सर्वानिर्वचनीयत्वेन शून्यमेवेश्वर इति सर्वप्रमाणापलापेनैव प्रगल्भमानाः परिकल्पयन्ति । एवं सर्वेऽपि नास्तिका वेदप्रमाणशून्यतया यत्किञ्चिज्जल्पन्ति । आस्तिकास्तु सर्वेऽपि वेदप्रामाण्यम् अव्याहतं मन्यमाना देहादिव्यतिरिक्तम् आत्मानं नित्यं विभुम् उपगच्छन्ति । परन्तु परमेश्वरे केचन विप्रतिपद्यन्ते । तथाहि ----- पातञ्जला मन्यन्ते ``क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः'' (पात।१।२४) इति । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । क्लेशमूलः कर्माशयो दृष्टादृष्टवेदनीयः । विपाको जात्यायुर्भोगाः । आशयो वासना । एतैः संसारी पुरुषो विवेकाभावेन परामृश्यत इव जलप्रतिबिम्बितचन्द्र इव जलकम्पादिभिः । यस्तु सर्वज्ञत्वात् तैर्न परामृश्यते, स पुरुषविशेषः शुद्धज्ञानस्वरूपः सर्वव्यापको नित्यश्च परमेश्वर इति । प्रमाणं चानुमानम् आहुः ---- ''तत्र निरतिशयं सर्वज्ञबीजम्`` (पात। १।२५) इति । सर्वज्ञशब्दो भावप्रधानः ''द्व्येकयोरि''तिवत् । तथा च विज्ञानैश्वर्यतारतम्यं क्वचिद् विश्रान्तम् अणुत्वमहद्भावेनोत्कृष्यमाणत्वात् परिमाणतारतम्यवद् इत्यनुमानं सूचितम् । तथा च एकविषयवद् द्विविषयत्रिविषयत्वादिनोत्कृष्यमाणं ज्ञानं यत्र सर्वविषयत्वेनोत्कृष्यते स सर्वज्ञः, सर्वविषयैश्वर्ययोगाच्च सर्वेश्वरः सिद्ध इति । वैशेषिकास्तु जन्यमात्रकर्तृत्वेन परमेश्वरम् अनुमिमते । तथा हि----घटादीनां जन्यानां कुलालादयः कर्तारो जनका दृष्टा इति क्षित्यादेरपि सावयवस्य जन्यस्य केनचित् कर्त्रा भवितव्यम् । कर्ता चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमान् । न च क्षित्याद्द्युपदानपरमाण्वादिगोचरापरोक्षज्ञानवान् संसारी भवति । तस्माद् नित्यज्ञानचिकीर्षाकृतिमान् सर्वज्ञः परमेश्वरः सिद्ध इति । तथा च क्षितिः सकर्तृका कार्यत्वाद् घटवद् इत्यनुमानं सूचितम् । नैयायिकास्तु सर्वकर्मफलदायित्वेनेश्वरम् अनुमिमते । तथा चाहुः----''ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात्'' (न्याय। ४।३।१९) इति । सर्वमचेतनं चेतनाधिष्ठितं सत् प्रवर्तते । धर्माधर्माख्यं कर्माचेतनं येन चैतन्येनाधिष्ठितं सत् स्वफलदानाय प्रवर्तते, स सर्वज्ञः परमेश्वर इति । इदं च सूत्रम् ईश्वरोपादानत्वे पूर्वपक्षभूतमपि तन्निमित्तत्वे सिद्धान्त एवेति द्योतकभूतयः । एवं पशुपतिरेव पाशुपतागमसिद्धः परमेश्वर इति पाशुपताः । चतुर्व्यूहात्मको विष्णुरेवेति पाञ्चरात्रिकाः । हिरण्यगर्भ एव परमेश्वरः, स एव विष्णशिवादिरूपतामपि गृह्णातीति हैरण्यगर्भाः । वेदान्तवेद्यः सच्चिदानन्दरूपः सर्वज्ञः सर्वशक्तः सर्वजगदुपादानं निमित्तं च परमात्मैव परमेश्वर इति ब्रह्मवादिनः । अत्राहुः साङ्ख्याः-----संसारिपुरुषविलक्षणे परमेश्वरे किं प्रमाणं? न तावत् पातञ्जलोक्तम् अनुमानम्, अप्रयोजकत्वात् । यथा हि परिमाणतारतम्यं नैकत्रैव विश्रान्तं, किन्त्वणुत्वं परमाणुषु महत्त्वं च परममहत्सु कालाकाशादिष्विति तार्किकमतं दृष्टान्तीकृतं, तथा च दार्ष्टान्तिकेऽपि अल्पविषयत्वविश्रान्तिर्वक्तव्या । तदनभ्युपगमे च परिमाणतारतम्यं कथं दृष्टान्तः । एवञ्चाल्पत्वविश्रान्ति\- रेकविषयत्वेन बहुत्वविश्रान्तिश्च परार्धविषयत्वेनेति न सर्वज्ञसिद्धिः । सङ्ख्यातारतम्ये व्यभिचाराच्च । नापि वैशेषिकोक्तं जगत्कर्तृत्वानुमानं, व्याप्यत्वासिद्धेः । न हि जन्यत्वेन जन्यत्वं कर्तृत्वेन कर्तृत्वमिति व्याप्तिरस्ति, जन्यत्वेन जन्यत्वे जनकत्वेन जनकत्वाद् अविशेषाद् । अन्यथा (न ?) जन्यमात्रे सम्प्रदानादेरप्यनुमानं स्यात् क्वचित् दर्शनात् । न चैकस्य कर्तृत्वं सिध्यति विचित्रप्रासादादौ बहुकर्तृत्वदर्शनात्, चतुर्दशभुवनरचनाया अप्यतिविचित्रत्वात् । अकारणपारिमाण्डल्यादिज्ञाने च मानाभावाद् न ज्ञानस्य सर्वविषयत्वसिद्धिः । नित्यत्वेन सर्वविषयत्वं विषयतया सङ्कोचकाभावात्; जन्यं हि कारणविशेषवशात् सङ्कुचितविषयं भवतीति चेन्न, अनित्यत्वेन क्वापि सर्वविषयत्वदर्शनाद् अनित्यस्यापि योगिज्ञानस्य (प्रयोमि ?)ति ज्ञानस्य च सर्वविषयत्वाच्च । नित्यत्वे किं मानं ? शरीरेणानवच्छेदात्, शरीरावच्छेदेन हि ज्ञानम् उत्पद्यते, परमेश्वरस्य च नास्ति शरीरं धर्माधर्मशून्यत्वादिति चेद्, न तावद् असिद्धं, साक्षात् प्रयत्नाधिष्ठेयं हि शरीरम् उच्यते, परमेश्वरस्य च साक्षात् प्रयत्नाधिष्ठेयाः परमाणवः । अतः परमाणुशरीरत्वम् ईश्वरस्य युक्तम् । इदमेवाङ्गीकृतम् उदयनाचार्यैः टीकाप्रथमश्लोकव्याख्याने । आकाशो वा तस्य शरीरम् ``आकाशशरीरं ब्रह्मे''ति श्रुतेः । तथा च तस्यापि शरी(र?रि)त्वसम्भवाद् ज्ञानत्वेन जन्यत्वमिति व्याप्तिर्न भञ्जनीया । एतेन शरीराजन्यत्वेन क्षित्यादेः कर्त्रजन्यत्वमिति मीमांसकमतमपि प्रत्याख्यातं, क्षित्यादेः तच्छरीरपरमाणुजन्यत्वात् । तथा च अनित्यज्ञानवान् सर्वज्ञकल्पः सिद्धः, क(श्चि)देव परमेश्वरत्वेन व्यवह्रियते, स च प्रतिकल्पं भिद्यते, तत्परतयैव सर्वे श्रुतिस्मृतिवादा योजयितव्या इति निर्विवेकतया साङ्ख्यैरुक्तम् । अत्रोच्यते ब्रह्मवादिभिः------अनुमानादीश्वरसिद्धिर्नास्तीति यदुक्तं, तत् तथैव तस्य स्वातन्त्र्येणातीन्द्रियार्थासाधकत्वात् । परन्तु वेदान्तात् सिद्धिः । ``यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।'' ``तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥'' ''यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥'' ''न तस्य कर्ता करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥'' ``विज्ञानमानन्दं ब्रह्म ।'' इत्याद्याः श्रुतयः सर्वज्ञसर्वशक्तिप्रमानन्दरूपं हिरण्यगर्भादिसकलसिद्धिकारणं परमेश्वरं प्रतिपादयन्ति सहस्रशः । न चैतासाम् अन्यपरत्वं सम्भवति, उपक्रमादिषड्विधलिङ्गानां परमेश्वर एवोपलम्भात् । न च कार्य एवार्थे वेदस्य प्रामाण्यं सिद्धमिति वाच्यम् । कार्यपरत्वस्य प्रामाण्याप्रयोकत्वात्, ``चैत्यं वन्देत स्वर्गकाम'' इत्यादिनास्तिकवाक्यस्यापि प्रामाण्यप्रसङ्गात् । तत्र च दुष्टकरणत्वेनैवाप्रामाण्ये प्रामाण्यम् अदुष्टकरण्त्वेनैवेति कार्यपरत्वम् अप्रयोजकम् । तस्मात् प्रयोजनवदबाधिताज्ञातज्ञापकत्वमेव प्रामाण्यं न कार्यपरत्वं चेति विस्तृतमन्यत्र । एवं सिद्धे परमेश्वरे तद्विशेषनिरूपणं क्रियते । तत्र पञ्चधा विष्णुरिति मुक्ताफलकाराः । तथाहि-----साकारनिराकारभेदेन प्रथमं द्विधा । तत्र निराकार एकरूप एव । साकारश्चतुर्धा----- पुरुषो ब्रह्मा विष्णुर्महेश्वरश्चेति । एवमेव शिवतन्त्रे व्यक्तम् ----- ``ब्रह्मा विष्णुर्महादेव ईश्वरश्च सदाशिवः ।'' इति । तत्र सदाशिवो निराकारश्चेति निरुपाधिचैतन्यस्वरूपः सिद्ध एकः पुरुषः । ईश्वरश्चेति गुणत्रयावच्छिन्नमायोपाधिरेकः, रजोगुणावच्छिन्नो ब्रह्मा, सत्त्वगुणावच्छिन्नो विष्णुः, तमोगुणावछिन्नो रुद्र इति । नृसिंहतापनीये तु चतुर्धा विभाग उक्तः------``ओतोऽनुज्ञाता अनुज्ञाविकल्पः'' इति । तत्र पञ्चीकृतमहाभूताभिमानी विराट् तदन्तर्यामी परमात्मा ओतः स्थूल उच्यते, स एवानिरुद्धः । एवमपञ्चीकृतमहाभूताभिमानी जीवो हिरण्यगर्भः, तदन्तर्यामी अनुज्ञाता परमात्मा सूक्ष्म उच्यते; स एव प्रद्युम्नः । गुणत्रयावच्छिन्नमायोपाधिरव्याकृतरूपः सर्वबीजम् अनुज्ञोच्यते; स एव सङ्कर्षणः । अयमेव पुरुष ईश्वरश्च प्रागुक्तः । एतस्यैव भेदा ब्रह्मविष्णुमहेश्वराः, त्रिगुणावच्छिन्न एकैकगुणावच्छिन्नस्यान्तर्भावात् । अत एव पृथङ् नोक्ताः । सर्वोपाधिविनिर्मुक्तस्त्वविकल्पो वासुदेवः परमात्मा मोक्षावलम्बनम् । स एव सदाशिवो निराकारश्च । एतेषां चतुर्णां जाग्रत्स्वप्नसुषुप्ततुरीयभेदेन षोडशावस्था भवन्ति । तथाहि------चक्षुरादिकरणवृत्त्या स्थूलविषयपरिज्ञानं जाग्रज्जागरणं, बाह्यकरणव्यापारशून्यमनो\- वृत्त्याविद्यावृत्त्या वा जायमानं स्मरणविभ्रमादि जाग्रत्स्वप्नः, बाह्यान्तर्विषयानुभवस्तब्धभावम् अन्तरेण केवलस्यैवावस्थानं स्तब्धीभावापरपर्यायं जाग्रत्सुषुप्तिः, बाह्यान्तर्विषयानुभवस्तब्धीभावव्यतिरेकेण पुण्यपञ्जपरिपाकादज्ञस्यापि साक्षिमात्रानुभवो गुरूपदेशात् त्वम्पदलक्ष्यशुद्धसाक्षिमात्रानुभवो वा जागरणंतुरीयमिति चतुर्विधं जागरणम् । तथा स्वप्नेऽपि देवतादिप्रसादाद् यन्त्रादिप्राप्तिः स्वप्नजागरणं स्वाप्नैरेवेन्द्रियैः स्वप्ने रूपाद्यनुभवो वा, स्वप्नेऽपि स्वप्नोऽयं मया दृष्ट इत्यनुभवः स्वाप्नमनसैव स्मरणादिकं वा स्वप्नस्वप्नः, स्वप्नेऽपि स्तब्धीभावरूपा प्रबोधे वक्तुमशक्या काचिद् वृत्तिः स्वप्नसुषुप्तिः, एवं स्वप्नेऽपि पुण्यपुञ्जपरिपाकाद्वा तत्रत्याचार्योपदेशाद् वा अहमेव सर्वोऽस्मीति वेदार्थानुभवः स्वप्नतुरीयमिति चतुर्विधः स्वप्नः । एवं सर्वबाह्यान्तःकरणवृत्तिशून्या ज्ञानमात्रशेषापि सुषुप्त्यवस्था ज्ञानस्य गुणत्रयभेदाभ्या(सात्) सत्त्वमात्रवृत्तिमती भवति सुखम् अहम् अस्वाप्समिति परामर्शजनिका, सा सुषुप्तिजागरणम् । एवं रजोमात्रवृत्तिमती दुःखम् अहम् अस्वाप्समिति परामर्शहेतुः सा सुषुप्तिस्वप्नः, तथा तमोमात्रवृत्तिमती गाढमूढोऽहम् आसमिति परामर्शकारणम् सा सुषुप्तिसुषुप्तिः, एतादृशसर्ववृत्तिशून्या तु साक्षिचिन्मात्ररूपा सा सुषुप्तितुरीयमिति चतुर्विधा सुषुप्तिः । सर्वावस्थात्रयं परित्यज्य तुरीयावस्थैवादेया वासुदेवपर्यवसायिनी । एतास्तिस्रोऽवस्थाः अज्ञविज्ञसाधारण्यः । तुरीयावस्था तु विज्ञस्यैव । सापि चतुर्विधा सर्वव्यष्टीनां समष्ट्यनतिरेकादात्मानं सर्वस्थूलसमष्टिरूपं विराजं ब्रह्माण्डमयविग्रहं ज्ञात्वा सर्वस्थूलाभिमानिजीवचैतन्यस्य तदन्तर्याम्यनिरुद्धचैतन्येनाभेदज्ञानं तुरीयजागरणम् । एवं सर्वस्थूलानां तत्कारणभूतसूक्ष्मानतरेकादपञ्चीकृतमहाभूतविग्रहं हिरण्यगर्भम् आत्मानं ज्ञात्वा तदभिमानिजीवचैतन्यस्य तदन्तर्यामिप्रद्युम्नचैतन्येनाभेदज्ञानं तुरीयस्वप्नः । एवं स्थूलसूक्ष्मयोः कारणानतिरेकात् सर्वकारणम् अव्याकृतम् अज्ञानमात्रोपाधिम् आत्मानं ज्ञात्वा तत्प्रतिबिम्बितजीवचैतन्यस्य बिम्बभूतान्तर्यामिसङ्कर्षणचैतन्येनाभेदज्ञानं तुरीयसुषुप्तिः । जडस्य सर्वस्य कल्पितत्वेनाधिष्ठानचैतन्यानतिरेकात् सर्वोपाधिशून्यं त्वम्पदलक्ष्यम् आत्मानं ज्ञात्वा अद्वितीयशुद्धचैतन्येन पूर्णेन सहाभेदपरिज्ञानात् तद्रूपेणैवावस्थां तुरीयतुरीयम् । एता एवौतानुज्ञात्रनुज्ञाविकल्पाख्याः स्थूलसूक्ष्मबीजसाक्षिभूता अकारोकारमकारोङ्कारवाच्या अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवरूपेण पर्यवस्यन्ति चतस्रोऽवस्थाः । अत्र प्रत्येकं मन्त्रास्तन्न्यासादयश्च गुरूपदेशादवसेयाः किमधिकेन ॥ इति श्रीमधुसूदनसरस्वतीविरचितः ईश्वरप्रतिपत्तिप्रकाशः समाप्तः । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : IshvarapratipattiprakAsha
% File name             : IshvarapratipattiprakAsha.itx
% itxtitle              : IshvarapratipattiprakAshaH
% engtitle              : IshvarapratipattiprakAshaH
% Category              : vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% SubDeity              :
% Subcategory           :
% Texttype              : 
% Author                : Madhusudana Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Translated by         :
% Description/comments  : A devotional poem by an advaita philosopher
% Source                :
% Indexextra            : 
% Acknowledge-Permission:
% Latest update         : Mar. 10, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP