महाकविश्रीभासप्रणीतम् ऊरुभङ्गम्

महाकविश्रीभासप्रणीतम् ऊरुभङ्गम्

॥ श्रीः॥ श्रीगणेशाय नमः । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः -- भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ १॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) एते स्मो भोः ! एते स्मः । सूत्रधारः -- भवतु, विज्ञातम् । (प्रविश्य) पारिपार्श्वकः -- भाव ! कुतोनुखल्वेते, स्वर्गार्थमाहवमुखोद्यतगात्रहोमा नाराचतोमरशतैर्विषमीकृताङ्गाः । मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरैर् अन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २॥ सूत्रधारः -- मारिष किं नावगच्छसि । तनयशतनयशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशिष्टे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके, एतद् रणाहतगजाश्वनरेन्द्रयौधं सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् । युद्धे वृकोदरसुयोधनयोः प्रवृत्ते यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३॥ (निष्क्रान्तौ) स्थापना । ऽऽऽ (ततः प्रविशन्ति भटास्त्रयः) सर्वे -- एते स्मो भोः ! एते स्मः । प्रथमः -- वैरस्याक्वथनं बलस्य निकषं मानप्रतिष्ठागृहं युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् । राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं सम्प्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥ ४॥ द्वितीयः -- सम्यग् भवानाह । उपलविषमा नागेन्द्राणां शरीरधरा धरा दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः । अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे प्रतिमुखमिमे तत्तत् कृत्वा चिरं निहताहताः ॥ ५॥ तृतीयः -- एवमेतत् । करिवरकरयूपो बाणविन्यस्तदर्भो हतगजचयनोच्चो वैरवह्निप्रदीप्तः । ध्वजविततविमानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६॥ प्रथमः -- इदमपरं पश्येतां भवन्तौ । एते परस्परशरैर्हृतजीवितानां देहै रणाजिरमहीं समुपाश्रितानाम् । कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७॥ द्वितीयः -- प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः । विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥ ८॥ तृतीयः -- इदमपरं पश्येतां भवन्तौ । माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं रत्नैकसायकवरं रथिनं विपन्नम् । जामातरं प्रवहणादिव बन्धुनार्यो हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९॥ सर्वे -- अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासहाटकभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पण- शङ्कुत्रासिगदादिभिरायुधैराकीर्णस्य समन्तपञ्चकस्य प्रतिभयता । प्रथमः -- इह हि, रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः । पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १०॥ द्विःतीयः -- इदमपरं पश्येतां भवन्तौ । एते, गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा दैत्येन्द्रकुञ्जरनताङ्कूशतीक्ष्णतुण्डाः । भान्त्यम्बरे विततलम्बविकीर्णपक्षा मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११॥ तृतीयः -- एषा निरस्तहयनागनरेन्द्रयौधा व्यक्तीकृता दिनकरोग्रकरैः समन्तात् । नाराचकुन्तशरतोमरखड्गकीर्णा तारागणं पतितमुद्वहतीव भूमिः ॥ १२॥ प्रथमः -- ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि, सत्रोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमकुटव्याविद्धसंवर्तिका । वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता निष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥१३॥ द्वितीयः -- ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवति । न शक्यं खलु विषमस्थैः पुरुषै राजबलाधानं कर्तुम् । तृतीयः -- किं च रे प्रभवति क्षत्रियाणामिति । प्रथमः -- कः संशयः । द्वितीयः -- मा मा भवानेवम् । स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं स्वर्गाक्रन्दहरं निवातकवचप्राणोपहारं धनुः । पार्थेनाद्य बलान्महेश्वररणक्षेपावशिष्टैः शरैर् दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥१४॥ सर्वे -- अये शब्दः । किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही । किं मुञ्चत्यनिलावधूतचपपलक्षुब्धोर्मिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥१५॥ भवतु, पश्यामस्तावत् । (सर्वे परिक्रामान्ति) प्रथमः -- अये एतत् खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् । द्वितीयः -- भीमस्योरसि तप्तकाञ्चनशिलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले । अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥१६॥ तृतीयः -- एष महाराजः, शिष्टोत्कम्पनवल्गमानामकुटः क्रोधाधिकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्रशिखरोद्धूता महेन्द्राशनिः ॥१७॥ प्रथमः -- एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद् दृश्यतां पाण्डवः । निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्द्रैर्निर्गलितप्रहाररुधिरैरार्द्रीकृतोरःस्थलः । भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८॥ द्वितीयः -- भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति । चारीं गातिं प्रचरति प्रहरत्यभीक्ष्णां संशिक्षितो नरपतिर्बलवांस्तु भीमः ॥ १९॥ तृतीयः -- एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः । प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २०॥ एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः द्वितीयः -- दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । तृतीयः -- स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते सर्वे -- शिष्यप्रीतितया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१॥ प्रथमः -- एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलिर् युक्तोऽभिमानविनयद्युतिसाहसैश्च । वाक्यं वदत्युपहसन्न तु भीम दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२॥ द्वितीयः -- एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः । तृतीयः -- एष संज्ञया समाश्वासितो मारुतिः, संहृत्य भ्रुकुटी ललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां प्रतिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् । पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन् सिंहवृषेक्षणः क्षितितलाद् भूयः समुत्तिष्ठति ॥ २३॥ प्रथमः -- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता । त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४॥ सर्वे -- हा धिक् पतितो महाराजः । तृतीयः -- एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः, हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतो दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया । सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णकरावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥ २५॥ प्रथमः -- अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाण इत एवाभिवर्तते भगवान् हलायुधः । य एषः, प्रचलललितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् । असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६॥ द्वितीयः -- तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः । उभौ -- बाढम् । प्रथमः कल्पः । (निष्क्रान्ताः) विष्कम्भकः । ऽऽऽ (ततः प्रविशति बलदेवः) बलदेवः -- भो भोः पार्थिवाः ! न युक्तमिदम् । मम रिपुबलकालं लाङ्गलं लङ्घयित्वा रणगतमतिसन्धिं मां च नावेक्ष्य दर्पात् । रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृद्ध्या पातितः पातयित्वा ॥ २७॥ भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् । हन्तोत्क्षिप्यहलं करोमि रुधिरस्वेदार्द्रपाकोत्तरे भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ॥ २८॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः । बलदेवः -- एवांगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । एषः, श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छविर् भूसंसर्पणरेणूपाटलभुजो बालव्रतं ग्राहितः । निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरैर् आकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥२९॥ (ततः प्रविशति भग्नोरुयुगलो दुर्योधनः) दुर्योधनः -- एष भोः ! भीमेन भित्त्वा समयव्यवस्थां गदानिपातक्षतजर्जरोरुः । भूमौ भुजाभ्यां परिकृष्यमानं स्वं देहमर्धोपरतं वहामि ॥ ३०॥ प्रसीदतु प्रसीदतु भगवान् हलायुधः । त्वत्पादतोर्निपतितं पतितस्य भूमाव् एतच्छिरः प्रथममद्य विमुञ्च रोषम् । जीवन्तु ते कुरुकुलस्य निवापमेघा वैरं च विग्रहकथा च वयं च नष्टाः ॥ ३१॥ बलदेवः -- भो दुर्योधना ! मुहूर्तं तावदात्मा धार्यताम् । दुर्योधनः -- किं भवान् करिष्यति । बलदेवः -- श्रूयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरैर् निर्दारितांसहृदयान्मुसलप्रहारैः । दास्यामि संयुगहतान् सरथाश्वनागान् स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२॥ दुर्योधनः -- मा मा भवानेवम् । प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् । मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३॥ बलदेवः -- मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः । दुर्योधनः -- वञ्चित इति मां भवान् मन्यते । बलदेवः -- कः संशयः । दुर्योधनः -- हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतः, आदीप्तानलदारुणाज्जतुगृहाद् बुद्ध्यात्मनिर्वाहिणा युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिसारिणा । भीमेनाद्य हिडिम्बराक्षससपतिप्राणप्रतिग्राहिणा यद्येवं समवैषि मां छलाजितं भो राम ! नाहं जितः ॥ ३४॥ बलदेवः -- भींअसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति । द्रुर्योधनः -- किं चाहं भीमसेनेन वञ्चितः । बलदेवः -- अथ केन भवानेवंविधः कृतः । राजा -- श्रूयतां, येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया । तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियस् तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहिताः ॥ ३५॥ (नेपथ्ये) उस्सरह अय्या ! उस्सरह । [उत्सरतार्याः ! उत्सरत ।] बलदेवः -- (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रो गान्धार्या दुर्जयेनादेशितमार्गोञ्तःपुरानुबन्धः शोकामभिभूतहृदय इत एवाभिवर्तते । य एषः, वीर्याकरः सुतशतप्रविभक्तचक्षुर् दर्पोद्यतः कनकयूपविलम्बबाहुः । सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्कैर् देवैर् अरातितिमिराञ्जलिताडिताक्षः ॥ ३६॥ (ततः प्रविशति धृतराष्ट्रो गान्द्रारी देव्यौ दुर्जयश्च) धृतराष्ट्रः -- पुत्र! क्वासि । गान्धारी -- पुत्तअ ! कहिं सि । [पुत्रक! क्वासि ।] देव्यौ -- महाराज ! कहिं सि । [महाराज ! कुत्रासि ।] धृतराष्ट्र -- भो! कष्टम् । वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम । मुखमन्तर्गतास्राक्षमन्दमन्धतरं कृतम् ॥ ३७॥ गान्धारि ! किं धरसे । गान्धारी -- जीवाविद ह्मि मन्दभा । [जीवितास्मि मन्दभागा ।] देव्यौ -- महाराज ! महाराज ! । [महाराज ! महाराज ! ।] राजा -- भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति । पूर्वं न जानामि गदाभिघात- रुजामिदानीं तु समर्थयामि । यन्मे प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि ॥ ३८॥ धृतराष्ट्रः -- गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी । गान्धारी -- महाराज ! ण दिस्सदि । [महाराज ! न दृश्यते ।] धृतराष्ट्रः -- कथं न दृश्यते । अद्यास्मि योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि । कृतान्तहतक ! रिपुसमरविमर्दं मानवीर्यप्रदीप्तं सुतशतमतिधीरं वीरमुत्पाद्य मानी । धरणितलविकीर्णं किं स योग्यो न भोक्तुं सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९॥ गान्धारी -- जाद ! सुयोधण । देहि मे पडिवअणम् । पुत्तसदविणासदुक्खिदं महाराजं च मन्दभाजम् । [जात ! सुयोधन ! देहि मे प्रतिवचनम् । पुत्रशतविनाशदुःखितं महाराजं च मन्दभागम् ।] बलदेवः -- अये इयमत्रभवती गान्धारी । या पुत्रपौत्रवदनेष्वकुतूहलाक्षी दुर्योधनास्तमितशोकनिपीतधैर्या । अस्रैरजस्रमधुना पतिधर्मचिह्नम् आर्द्रीकृतं नयनबन्धमिदं दधाति ॥ ४०॥ धृतराष्ट्रः -- पुत्र ! दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! क्वासि । राजा -- अद्यास्मि महाराजः । धृतराष्ट्रः -- पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् । दुर्योधनः -- अन्यन्ददामि खलु वृत्तान्तम् । अनेन वृत्तान्तेन व्रीडितोऽस्मि । धृतराष्ट्रः -- एहि पुत्र । अभिवादयस्व माम् । राजा -- अयमयमागच्छामि । (उत्थानं रूपायित्वा पतति) हा धिक् । अयं मे द्वितीयः प्रहारः । कष्टं भोः ! हृतं मे भीमसेनेन गदापातकचग्रहे । सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१॥ गान्धारी -- एत्थ जादा ! । [अत्र जाते ! ।] देव्यौ -- अय्ये ! इमा ह्म । [आर्ये ! इमे स्वः] गान्धारी -- अण्णेसह भत्तारम् । [अन्वेषेथा भर्तारम् ।] देव्यौ -- गच्छामि मन्दभा । [गच्छामि मन्दभागा] धृतराष्ट्रः -- क एष भोः ! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति । दुर्जयः -- ताद ! अहं दुज्जयो । [तात ! अहं दुर्जयः ।] धृतराष्ट्र -- पौत्र ! दुर्जय ! पितरमन्विच्छ । दुर्जयः -- परिस्सन्तो खु अहम् । [परिश्रान्तः खल्वहम् ।] धृतराष्द्रः -- गच्छ, पितुरङ्के विश्रमयिष्यसि । दुर्जयः -- ताद ! अहं गच्छामि । (उपसृत्य) ताद ! कहिं सि । [तात ! अहं गच्छामि । तात ! कुत्रासि ।] राजा -- अये अयमप्यागतः । सर्वावस्थायां हृदयसन्निहितः पुत्रस्नेहो मां दहति । कुतः, दुःखानामनभिज्ञेयो ममाङ्कशयनोचितः । निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२॥ दुर्जयः -- अअं महाराओ भूमीए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।] राजा -- पुत्र । किमर्थमागतः । दुर्जयः -- तुवं चिरायसि त्ति । [त्वं चिरायसीति ।] राजा -- अहो अस्यामवस्थायां पुत्रस्नेहो हृदयं दहति । दुर्जयः -- अहं पि खु दे अङ्के उवविसामि । (अङ्कमारोहति) [अहंअपि खलु ते अङ्के उपविशामि ।] राजा -- (निवार्य) दुर्जय ! दुर्जय ! भोः ! कष्टम् । हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् । सोऽयं कालविपर्यासाच्चन्द्रो वह्नित्वमागतः ॥ ४३॥ दुर्जयः -- अङ्के उववेसं किंणिमित्तं तुवं वारेसि । [अङ्के उपवेश किन्निमित्तं त्वं वारयसि ।] राजा -- त्यक्त्वा परिचितं पुत्र ! यत्रतत्र त्वयास्यताम् । अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४॥ दुर्जय -- कहिंणुखु महाराओ गमिस्सदि । [कुत्रनुखलु महाराजो गमिष्यति ।] राजा -- भ्रातृशतमनुगच्छामि । दुर्जयः -- मं पि तहिं णेहि । [मामपि तत्र नय ।] राजां -- गच्छ पुत्र ! वृकोदरं ब्रूहि । दुर्जयः -- एहि महाराज ! अण्णेसीअसि । [एहि महाराज ! अन्विष्यसे ।] राजा -- पुत्र ! केन । दुर्जयः -- अय्याए, अय्येण, सव्वेण अन्तउरेण अ । [आर्ययार्येण सर्वेणन्तःपुरेण च ।] राजा -- गच्छ पुत्र ! नाहमागन्तुं समर्थः । दुर्जयः -- अहं तुवं णैस्सम् । [अहं त्वां नेष्यामि ।] राजा -- बालस्त्वमसि पुत्र ! । दुर्जयः -- (परिक्रम्य) अय्या ! अअं महाराओ । [आर्याः ! अयं महाराजः ।] देव्यौ -- हा हा महाराओ । [हा हा महारजः ।] धृतराष्ट्रः -- क्वासौ महारजः । गान्धारी -- कहिं मे पुत्तओ । [कुत्र मे पुत्रकः ।] दुर्जयः -- अअं महाराओ भूमिए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।] धृतराष्ट्रः -- हन्त भोः ! किमयं महाराजः । यः काञ्चनस्तम्भसमप्रमाणो लोके किलैको वसुधाधिपेन्द्रः । कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्र्कीलार्धसमप्रमाणः ॥ ४५॥ गान्धारी -- जाद ! सुयोधण ! परिस्सन्तो सि । [जात ! सुयोधन ! परिश्रान्तोऽसि ।] राजा -- भवत्याः खल्वाहं पुत्रः । धृतराष्ट्रः -- केयं भीः ! । गान्धारी -- महाराज ! अहमभीदपुत्तप्पाइणी । [महाराज ! अहमभीतपुत्रपदायिनी ।] राजा -- अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात ! किमिदानिं वैक्लव्येन । धृतराष्ट्रः -- पुत्र ! कथं विक्लवो भविष्यामि । यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् । पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन् हते हतम् ॥ ४६॥ (पतति) राजा -- हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्रभवतीम् । धृतराष्ट्रः -- पुत्र ! किमिति समाश्वसयामि । राजा -- अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण क्रियतां ममानुग्रः । त्वत्पादमात्रप्रणताग्रमौलिर् ज्वलन्तमप्यग्निमचिन्तयित्वा । येनैव मानेन समं प्रसूतस् तेनैव मानेन दिवं प्रयामि ॥ ४७॥ धृतराष्ट्रः -- वृद्धस्य मे जीवितनिस्स्पृहस्य निसर्गसम्मीलितलोचनस्य । धृर्तिं निगृह्यात्मनि सम्प्रवृत्तस् तीव्रः समाक्रामति पुत्रशोकः ॥ ४८॥ बलदेवः -- भोः कष्टम् । दुर्योधननिराशस्य नित्यास्तमितचक्षुषः । न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनाम् ॥ ४९॥ राजा -- विज्ञापयाम्यत्रभवतीम् । गान्धारी -- भणाहि जाद ! । [भण जात ! ।] राजा -- नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् । अन्यस्यामपि जात्यं मे त्वंएव जननी भव ॥ ५०॥ गान्धारी -- मम मणोरहो खु तुए भणिदो । [मम मनोरथः खलु त्वया भणितः ।] राजा -- मालवि ! त्वमपि श‍ृणु । भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैर् वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः । पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ भर्ता ते न पराङ्मुखो युधि हतः किं क्षत्रिये रोदिषि ॥ ५१॥ देवी -- बाळा एसा सहधम्मचारिणी रोदामि । [बाला एषा सहधर्मचारिणी रोदामि ।] राजा -- पौरवि ! त्वमपि श‍ृणु । वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः । युद्धेऽष्टादशवाहिनीनृपतयः सन्तापिता निग्रहे मानं मानिनि वीक्ष्य मे नहि रुदन्त्येवंविधानां स्त्रियः ॥५२॥ पौरवी -- एक्ककिदप्पवेसणिच्चा ण रोदामि । [एककृतप्रवेशनिश्चया न रोदामि ।] राजा -- दुर्जय ! त्वमपि श‍ृणु । धृतराष्ट्रः -- गान्धारि । किन्नुखलु वक्ष्यति । गान्धारी -- अहं पि तं जव्व चिन्तेमि । [अहमपि तदेव चिन्तयामि ।] राजा -- अहमिव पाण्डवाः शुश्रूषयितव्याः तत्रभवत्याश्चाम्बायाः कुन्त्या निदेशो वर्तयितव्यः । आभिमन्योर्जननी द्रौपदी चोभे मातृवत् पूजयितव्ये । पश्य पुत्र, श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज । स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३॥ बलदेवः -- अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव सन्नाहदुन्दुभिनिनादवियोगामूके विक्षिप्तबाणकवचव्यजनातपत्रे । कस्यैष कार्मुकरवो हतसूतयोधे विभ्रान्तवायसगणं गगनं करोति ॥ ५४॥ (नेपथ्ये) दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः साहितः प्रविष्टः । तमेव भूयः प्रविशाम्यशून्यम् अध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५॥ बलदेवः -- अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः । सरभसमयमुग्रं कार्मुकं कर्षमाणः सदहन इव मेरुः श‍ृङ्गलग्नेन्द्रचापः ॥ ५६॥ (ततः प्रविशत्यश्वत्थामा) अश्वत्थामा -- (पूर्वोक्तमेव पठित्वा) भोः ! समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्त- विग्रहाः स्तोकावशेषाः श्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! श‍ृण्वन्तु श‍ृण्वन्तु भवन्तः । छलबलदलितोरुः कौरवेन्द्रो न चाहम् शिथिलविफलशस्त्रः सूत्पुत्रश्च नाहम् । इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः सरभसमहमेको द्रोणापुत्रः स्थितोऽस्मि ॥ ५७॥ किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । (परिक्रम्य) मा तावत् । मयि गुरुनिवपनव्यग्रे वञ्चितः कुरुतिलकभूतः कुरुराजः । क एतच्छ्रद्धास्यति । कुतः, उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करैर् यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः । भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८॥ तत् क्वनुखलु गतो गान्धारीपुत्रः । (परिक्रम्यावलोक्य) अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुरुराजः । य एषः, मौलीनिपातचलकेशमयूखजालैर् गात्रैर्गदानिपतनक्षतशोणितार्द्रैः । यात्यस्तमस्तकशिलातलसन्निविष्टः सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९॥ (उपसृत्य) भोः कुरुराज ! किम् इदम् । राजा -- गुरुपुत्र ! फलमपरितोषस्य । अश्वत्थामा -- भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि । राजा -- किं भवान् करिष्यति । अश्वत्थामा -- श्रूयतां, युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं अष्टार्धभीमभुजमुद्यतशार्ङ्गचक्रम् । कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः सङ्कीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६०॥ राजा -- मा मा भवानेवम् । गतं धात्र्युत्सङ्गे सकलमभिषिक्तं नृपकुलं गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः । शतं भ्रातॄणां मे हतमभिमुखं संयुगमुखे वयं चैवम्भूता गुरुसुत धनुर्मुञ्चतु भवान् ॥ ६१॥ अश्वत्थामा -- भो कुरुराज । संयुगे पाण्डुपुत्रेण गदापातकचग्रहे । सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२॥ राजा -- मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो गृहीतः । पश्य गुरुपुत्र ! यत् कृष्टा करनिग्रहाञ्चितकचाद्यूते तदा द्रौपदी यद् बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः । अक्षव्याजजिता वनं वनमृगैर्यत् पाण्डवाः संश्रिता नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पाहृतं दीक्षितैः ॥ ६३॥ अश्वत्थामा -- सर्वथा कृतप्रतिज्ञोऽस्मि । भवता वात्मना चैव वीरलोकैः शपाम्यहम् । निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४॥ बलदेवः -- एतद् भविष्यत्युदाहृतं गुरुपुत्रेण । अश्वत्थामा हलायुधोऽत्रभवान् । धृतराष्ट्रः -- हन्त साक्षिमती खलु वञ्चना । अश्वत्थामा -- दुर्जय ! इतस्तावत् । पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते । विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५॥ राजा -- हन्त कृतं मे हृदयानुज्ञातम् । परित्यजन्ति मे प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत् कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः । इमा उर्वश्यादयोऽप्सरसो मामभिगताः । इमे मूर्तिमन्तो महार्णवाः । एता गङ्गाप्रभृतयो महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः । अयमयमागच्छामि । (स्वर्गं गतः) (यवनिकास्तरणं करोति) धृतराष्ट्रः -- याम्येष सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् । अश्वत्थामा -- यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् । शुभं भूयात् । Encoded and proofread by Arun questions.sanskrit@gmail.com % Urubhangam % % The printing of the text that I reference here has some idiosyncrasies. % Exclamation marks are frequently used, and the anusvAra (M) is usually % printed as the nasal that follows. I have left the spelling of words as-is % (unless an error has been made -- see notes below). Exclamation marks that % originally appeared in verses have been removed, but those in sentences % have remained where they are. % % Some characters speak in Prakrit. Their text is given in Prakrit; a Sanskrit % gloss immediately follows in square brackets [ ]. % % Here is a list of the discrepancies you may find between the copy below % and the original text. If you think you have found a deviation from the % original text, check here to make sure that it is not already accounted % for. For example, the text uses ᳚viklaba᳚ and ᳚vaiklabya᳚ where ᳚viklava᳚ % and ᳚vaiklavya᳚ should be used. % % (These entries are in Harvard-Kyoto format). % % p. 88 line 5 : mA(rSa ? riSa!) % 4a : kva(ta?tha)naM % 5a : zarIradharAdharA % 9b : ra(tnai?tnyai)kasAyaka(va?dha) % 13a : (satro?)*dvartita ... [᳚sipro ita syAt᳚] % p. 91 line 14 : kiM(ci?ca)re(bha?) % 14c: pArthenA(ddhra?dhya) % 16a: (tapta)kAjcana % 17d: kailAsasya gireri(vogracaritAddhotA?)mahendrAza(pi?niH).. % 22c: bhIma ! % p. 95 line 13 : (ya eSaH?)* [᳚'dvitIyaH -- ' iti syAt᳚] % p. 95 line 18 : (rabhasaM?)locano % 28c : (ram?re) % 30c : pari(karS?kRSya) % p. 98 line 16 : (ta?ma)tpratyakSaM % 34b : (pratisAlinA?)* [᳚'pratisAriNA' iti syAt᳚] % p 99 line 17 : (rI?ryA)durjayena % 39b : mA(naM?nI) . % p. 102 line 11 : vrIlito'smi % p. 107 line 2 : midAnIM vaiklabyena % p. 107 line 3 : kathaM viklabo bhaviSyAmi % 51d : naparAGmukho % 52b : (taM na ? tAnna) % 52d : mAnaM mAnini ! % p. 109 line 12 : pazya putra ! % 60b : *(vaSTASTa?) [᳚'vaSTASTa' ityasya sthAne 'aSTArdha' iti pAthyaM bhAti᳚] % p. 114 line 7 : abhimanyaH . (imA) urvazyAdayo' ... % p. 114 line 12 : (dhRtarASTraH) -- % Now, the text. % # # # # # # # # #
% Text title            : mahAkavishrIbhAsapraNItam UrubhaNgam
% File name             : Urubhanga.itx
% itxtitle              : UrubhaNgam (bhAsapraNItam)
% engtitle              : Urubhangam by Bhasa
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : bhAsa
% Language              : Sanskrit
% Subject               : Drama
% Transliterated by     : Arun questions.Sanskrit at gmail.com http://learnsanskrit.org/tools/sanscript
% Proofread by          : Arun questions.Sanskrit at gmail.com
% Latest update         : January 23, 2011
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org