श्रीभगवद्भक्तिरसायनम्
परमहंसपरिव्राजकाचार्य-विश्वविख्यातवैदुषीक
श्रीमधुसूदनसरस्वतीयतिवर विरचितम्
भक्तिसामान्यनिरूपणनामकः
प्रथमोल्लासः ॥
नवरसमिलितं वा केवलं वा पुमर्थं
परममिह मुकुन्दे भक्तियोगं वदन्ति ।
निरुपमसुखसंविद्रूपमस्पृष्टदुःखं
तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥ १॥
संसाररोगेण बलीयसा चिरं
निपीडितैस्तत्प्रशमेऽतिशिक्षितम् ।
इदं भवद्भिर्बहुधा व्ययातिगं
निपीयतां भक्तिरसायनं बुधाः ॥ २॥
द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता ।
सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥ ३॥
चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम् ।
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥ ४॥
कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः ।
तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥ ५॥
द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना ।
शब्दसंस्कारवासनाभावभावनाभागसौ ॥ ६॥
शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः ।
न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥ ७॥
द्रवतायां प्रविष्टं सद्यत्काठिन्यदशां गतम् ।
चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥ ८॥
स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते ।
व्यक्तश्च रसतामेति परानन्दतया पुनः ॥ ९॥
भगवान्परमानन्दस्वरूपः स्वयमेव हि ।
मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥ १०॥
कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् ।
कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥ ११॥
सदज्ञातञ्च तद्ब्रह्म मेयं कान्ताऽऽदि मानतः ।
मायाऽऽवृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥ १२॥
अतस्तदेव भावत्वं मनसि प्रतिपद्यते ।
किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥ १३॥
इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता ।
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥ १४॥
तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः ।
तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ्च तन्मयम् ॥ १५॥
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते ।
निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥ १६॥
कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता ।
तदलाभात्तथाऽन्येन मोहत्वमनुभूयते ॥ १७॥
एवं सति सुखाकारः प्रविष्टो मानसे यदा ।
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥ १८॥
परमाण्वेकरूपं तु चित्तं न विषयाकृति ।
इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥ १९॥
गृह्णाति विषयाकारं मनो विषययोगतः ।
इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ्निरूपितम् ॥ २०॥
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥ २१॥
व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् ।
सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥ २२॥
भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका ।
तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥ २३॥
मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् ।
मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥ २४॥ var. addition
एवं एतादृशं वाक्यमुदाहार्यमनेकशः ।
चित्तस्य विषयाकारग्राहकत्वोपपादने ॥ २५॥ var. addition
अतो मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ २६॥
भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा ।
जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥ २७॥
बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः ।
अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥ २८॥
एवं सामान्यतो भावस्वरूपमभिवर्णितम् ।
विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥ २९॥
भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् ।
यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥ ३०॥
कठिना शिथिला वा धीर्न गृह्णाति न वास्यते ।
उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥ ३१॥
काठिन्यं विषये कुर्याद्द्रवत्वं भगवत्पदे ।
उपायैश्शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥ ३२॥
उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः ।
सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः ॥ ३३॥
प्रथमं महतां सेवा तद्दयापात्रता ततः ।
श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥ ३४॥
ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः ।
प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥ ३५॥
भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता ।
प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥ ३६॥
लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् ।
सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥ ३७॥
इति श्री परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते
भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं
नाम प्रथमोल्लासस्समाप्तः ॥
अथ द्वितीयोल्लासः ॥
द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥ १॥
चित्तद्रुतेः कारणानां भेदाद्भक्तिस्तु भिद्यते ।
तान्युक्तानि तु सङ्क्षेपाद्व्याख्यायन्तेऽधुना स्फुटम् ॥ २॥
कामश्शरीरसम्बन्धविशेषस्स्पृहयालुता ।
सन्निधानासन्निधानभेदेन स भवेद्द्विधा ॥ ३॥
तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता ।
सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद्भवेत् ॥ ४॥
क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेत् ।
तज्जन्यायां द्रुतौ सा तु द्वेष शब्देन गृह्यते ॥ ५॥
अत्र चेतो व्याकुलत्वं सोपद्रावकदर्शनात् ।
उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद्द्विधा ॥ ६॥
तत्राद्यं द्वेष एव स्याद्द्वितीयं रतिशब्दभाक् ।
उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥ ७॥
द्वेषा हेतुस्स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् ।
तज्जन्यायां द्रुतौ याऽऽस्ते रतिस्सा भयमुच्यते ॥ ८॥
स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः ।
सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥ ९॥
भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः ।
या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥ १०॥
पाल्यपालकभावेन सा वत्सलरतिर्भवेत् ।
सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥ ११॥
हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः ।
एकः परानन्दमयः श्रीशमाहात्म्यकारणात् ॥ १२॥
तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा ।
एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥ १३॥
व्रीडाविकृतवाग्वेषचेष्टाऽऽदि जनितोऽपरः ।
तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥ १४॥
लोकोत्तरचमत्कारिवस्तुदर्शनजः परः ।
तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥ १५॥
युद्धादितापजनितो वीराणां जायते परः ।
ततश्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥ १६॥
इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः ।
तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥ १७॥
दया घृणा स्याद्विषयतुच्छत्वज्ञानपूर्विका ।
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥ १८॥
पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः ।
श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥ १९॥
देहेन्द्रियादिदुःखत्वविचारणपुरस्सरा ।
घृणा शुद्धेति कविभिस्सा जुगुप्सा प्रकीर्तिता ॥ २०॥
या तु शोच्यस्य रक्षार्थं प्रवृत्तिरनुकम्पया ।
तया द्रुते तु मनसि दयोत्साहस्स्मृतो बुधैः ॥ २१॥
सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् ।
उद्यमो द्रुतचित्तस्य दानोत्साहस्स उच्यते ॥ २२॥
तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः ।
तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥ २३॥
वशीकाराख्यवैराग्यं यत्कामास्पृहतात्मकम् ।
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥ २४॥
इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित् ।
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥ २५॥
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि ।
स्थायिनो रसतां यान्ति विभावादि समाश्रयात् ॥ २६॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः ।
षडप्येते न विषया भगवद्विषया न हि ॥ २७॥
धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी ।
अतो न भक्ति रसतां यान्ति भिन्नास्पदत्वतः ॥ २८॥
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि ।
न भक्तिरसतां यातः साक्षाद्द्रुतिविरोधतः ॥ २९॥
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः ।
नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥ ३०॥
कामजे द्वे रती शोकः प्रीतिभीविस्मयस्तथा ।
उत्साहो युधि दाने च भगवद्विषया अमी ॥ ३१॥
व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् ।
विभावादि समायोगे तथा भक्तिरसा अपि ॥ ३२॥
शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः ।
अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥ ३३॥
शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी ।
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥ ३४॥
विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः ।
रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥ ३५॥
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः ।
तीव्र तीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥ ३६॥
केचित्केवलसङ्कीर्णाः केचित्सङ्कीर्णमिश्रिताः ।
केचित्केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥ ३७॥
तत्र केवलसङ्कीर्णा रौद्रो रौद्रभयानकः ।
धर्मवीरो दानवीरो बीभत्सश्शान्त इत्यपि ॥ ३८॥
मिश्रा एवान्यविषयाः प्रोक्तास्सङ्कीर्णमिश्रिताः ।
भगवद्विषयास्ते तु ख्याताः केवल मिश्रिताः ॥ ३९॥
शुद्धास्त्रयः पुरैवोक्ताः सङ्कीर्यन्ते न केनचित् ।
एवं निरूपिता भक्तिः सङ्क्षेपादुच्यते पुनः ॥ ४०॥
राजसी तामसी शुद्धसात्त्विकी मिश्रता च सा ।
ईर्ष्याजद्वेषजाऽऽद्या स्याद्भयजद्वेषजापरा ॥ ४१॥
हर्षजा शुद्धसत्त्वोत्था कामाशोकादिजेतरा ।
सत्त्वजत्वे तु सर्वासां गुणान्तरकृताभिदा ॥ ४२॥
तत्र ते रतितां नैव यातः सुखविरोधतः ।
रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥ ४३॥
भक्तिश्चतुर्विधाप्येषा भगवद्विषया स्थिरा ।
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥ ४४॥
राजसी तामसी भक्तिरदृष्टफलमात्रभाक् ।
दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥ ४५॥
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु ।
दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥ ४६॥
दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि ।
निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥ ४७॥
रजस्तमाऽभिभूतस्य दृष्टांशः प्रतिबध्यते ।
शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥ ४८॥
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते ।
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥ ४९॥
वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् ।
भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥ ५०॥
रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा ।
तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ॥ ५१॥
तस्मात्स्वयम्प्रभाऽऽनन्दाकाराऽपि मतिसन्ततिः ।
प्रतिबन्धवशान्न स्यात्सुखव्यक्तिपदास्पदम् ॥ ५२॥
रजः प्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता ।
मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥ ५३॥
तमःप्रबलसत्त्वांशाद्भीतिजद्वेषमिश्रिता ।
मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥ ५४॥
तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति ।
सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥ ५५॥
अधुनाऽपि भजन्तो ये द्वेषात्पाशुपतादयः ।
तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥ ५६॥
द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किञ्चन ।
चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥ ५७॥
रजस्तमोविहीना तु भगवद्विषया मतिः ।
सुखाभिव्यञ्जकत्वेन रतिरित्यभिदीयते ॥ ५८॥
स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् ।
विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम ॥ ५९॥ var. addition
रजस्तमस्समुच्छेदतारतम्येन गम्यते ।
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥ ५९॥
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः ।
मृदुमध्याधिमात्रत्वाद्विशेषोऽत्रापि वीक्ष्यते ॥ ६०॥
वैकुण्ठे द्वारकायां च श्रीमद्वृन्दावने तथा ।
मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात् ॥ ६१॥
इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥ ६२॥
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले ।
समुच्चिते च सा तत्रेत्येका षड्विधा भवेत् ॥ ६३॥
शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् ।
तत्रानुपाधिश्शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥ ६४॥
अनुपाधिः परानन्द महिमैक निबन्धना ।
भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥ ६५॥
कामसम्बन्धभयतः सोपाधिस्त्रिविधा भवेत् ।
विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥ ६६॥
शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते ।
सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥ ६७॥
एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा ।
भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥ ६८॥
एकदैव यदि व्यक्तमिदं रति चतुष्टयम् ।
तदा तु पानकरसन्यायेन परमो रसः ॥ ६९॥
एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत् ।
तस्मात्क्वचित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥ ७०॥
व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् ।
तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥ ७१॥
रसान्तरविभावादि सङ्कीर्णा भगवद्रतिः ।
चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते ॥ ७२॥
रसान्तरविभावादि राहित्ये तु स्वरूपभाक् ।
दशमीमेति रसतां सनकादेरिवाधिकाम् ॥ ७३॥
रतिर्देवादिविषया व्यभिचारी तथोर्जितः ।
भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥ ७४॥
देवान्तरेषु जीवत्वात्परानन्दाप्रकाशनात् ।
तद्योज्यं, परमानन्दरूपे न परमात्मनि ॥ ७५॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् ।
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥ ७६॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः ।
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥ ७७॥
क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् ।
रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥ ७८॥
इहानुभवसिद्धेऽपि सहस्रगुणितो रसः ।
जडेनेव त्वया कस्मादकस्मादपलप्यते ॥ ७९॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते
भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासस्समाप्तः ॥
अथ तृतीयोल्लासः ॥
ननु केयं रसो नाम, किन्निष्ठो वा भवेदसौ ।
अस्य प्रत्यायकः को वा, प्रतीतिरपि कीदृशी ॥ १॥
विभावैरनुभावैश्च व्यभिचारिभिरप्युत ।
स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥ २॥
सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते ।
तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥ ३॥
काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः ।
तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥ ४॥
बोध्यनिष्ठा यथास्वं ते सुखदुःखादि हेतवः ।
बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥ ५॥
अतो न करुणादीनां रसत्वं प्रतिहन्यते ।
भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥ ६॥
तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् ।
काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥ ७॥
लौकिकस्यैव रत्यादेर्लोके यत्कार्यमीक्षितम् ।
काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥ ८॥
लौकिकस्यैव रत्यादेर्येभावाः सहकारिणः ।
काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥ ९॥
अलौकिकस्य रत्यादेः सामाजिकनिवासिनः ।
उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥ १०॥
ज्ञातस्वपरसम्बन्धादन्ये साधारणात्मना ।
अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥ ११॥
भावत्रितयसंसृष्टस्थायिभावावगाहिनी ।
समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥ १२॥
साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् ।
तद्रसः, केचिदाचार्या स्तामेव तु रसं विदुः ॥ १३॥
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् ।
स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥ १४॥
एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते ।
असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्मादिमं विदुः ॥ १५॥
व्यवधानात्क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ ।
लक्ष्यव्यङ्ग्यक्रमं तस्माद्ध्वनिमेतं प्रचक्षते ॥ १६॥
रसभावतदाभासभावशान्त्यादिरक्रमः ।
अनन्तरक्षणे यस्माद्व्यज्यतेऽवश्यमेव सः ॥ १७॥
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः ।
तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत् ॥ १८॥
या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् ।
अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाः ॥ १९॥
गुणालङ्काररीतीनां भावानां च निवेदकः ।
तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥ २०॥
वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी ।
दशमस्त्वमसीत्यादि वाक्योत्थमतिवृत्तिवत् ॥ २१॥
नित्यं सुखमभिव्यक्तं ``रसो वै स'' इति श्रुतेः ।
प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥ २२॥
कार्यज्ञाप्यादि वैधर्म्यं यत्तु कैश्चिन्निरूपितम् ।
तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥ २३॥
परमानन्द आत्मैव रस इत्याहुरागमाः ।
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥ २४॥
अर्थवादाधिकरणे वनशैलादिवर्णनम् ।
श्रोतृणाम् सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥ २५॥
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन ।
यस्मात्कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥ २६॥
अलौकिक नियोगे तु न किञ्चिन्मानमीक्ष्यते ।
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥ २७॥
प्रयोजनवदज्ञातज्ञापकत्वं च मानता ।
शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥ २८॥
देवताधिकृतिन्यायात्पदैरन्यपरैरपि ।
प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेत् ॥ २९॥
तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः ।
व्यञ्जयन्ति परानन्दं सहकार्यानुरूपतः ॥ ३०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते
श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम तृतीयोल्लासस्समाप्तः ॥
सर्वं सम्पूर्णम् ॥
Encoded and proofread by
D.V.N.Sarma dvnsarma at gmail.com Sunder Hattangadi