बिम्बप्रतिबिम्बवादः

बिम्बप्रतिबिम्बवादः

प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ १॥ यः प्रकाशः स विश्वस्य प्रकाशत्वं प्रयच्छति । (सर्वस्य) न च तद्व्यतिरेक्यस्ति विश्वं सद्वाऽवभासते ॥ २॥ अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः । इयतः सृष्टिसंहाराडम्बरस्य प्रवर्तकः ॥ ३॥ (प्रदर्शकः) निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ ४॥ सदृशं भाति नयनदर्पणाम्बरवारिषु । तथा हि निर्मले रूपे रूपमेवावभासते ॥ ५॥ प्रच्छन्नरागिणीकान्तप्रतिबिम्बितसुन्दरम् । दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ ६॥ न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः । वैमल्यं चातिनिबिडमजातीयैकसङ्गतिः ॥ ७॥ (नैर्मल्यं चातिनिविडसजातीयैकसङ्गतिः) स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ ८॥ नैर्मल्यं मुख्यमेतस्य संविन्नाथस्य सर्वतः । (मुख्यमेकस्य) अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ ९॥ भावानां यत्प्रतीघाति वपुर्मायात्मके हि तत् । (वपुर्मायात्मकं) तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ १०॥ तदेवमुभयाकारमवभासं प्रकाशयन् । विभाति वरदो बिम्बप्रतिबिम्बतयाऽखिले ॥ ११॥ (बिम्बप्रतिबिम्बदृशाखिले) यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ १२॥ देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । तेनैव तेजसा ज्ञत्वे कोर्थः स्याद्दर्पणेन तु ॥ १३॥ (कोऽर्थः) विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ १४॥ स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ १५॥ रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ १६॥ न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः । स चार्थसङ्गमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ १७॥ अत एव गुरुत्वादिर्धर्मो नैतस्य भासते । (लक्ष्यते) नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ १८॥ तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । आधारस्तत्र रूपाया दीपदृक्संविदः क्रमात् ॥ १९॥ (तूपाया) दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ २०॥ एतच्च देवदेवेन दर्शितं बोधवृद्धये । मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ २१॥ प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । स्वच्छस्यैवाथ कस्यापि महिमेति कृपालुना ॥ २२॥ (स्वच्छस्यैवैष) न देशो नो रूपं न च समययोगो न परिमा न चान्योन्यासङ्गो न च तदपहानिर्न घटना । (घनता) न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ २३॥ ॥ इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचितः बिम्बप्रतिबिम्बवादः सम्पूर्णः ॥ श्रीतन्त्रालोके त्रितीयाह्निकान्तर्गता श्लोकानि १-२३ Note: The text of the composition `Bimbapratibimbavada' essentially comprises of verses 1-23 of Abhinavagupta's `Tantraloka, Ahnika-3'. Encoded and proofread by Ruma Dewan
% Text title            : Bimbapratibimbavadah by Abhinavagupta
% File name             : bimbapratibimbavAdaH.itx
% itxtitle              : bimbapratibimbavAdaH (abhinavaguptavirachitaH)
% engtitle              : bimbapratibimbavAdaH by Abhinavagupta
% Category              : major_works, abhinavagupta, , kAshmIrashaivadarshanam
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : Hinduism/philosophy/advaita
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description-comments  : Verses 1-23 of tantrAloka, Ahnika-3
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 27, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org