ब्रह्मसूत्रम्
चित्तूलजातं यदु चित्तवृत्तं त्रिवृत्कृतं येन च भूतजातम् ।
यत्पूर्वजातं यदु नैव जातं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ १॥
त्रिलोकसूत्रं खलु यत्सुमन्त्रं त्रिवृत्तगात्रं नवदेवमात्रम् ।
यद्वै त्रिमात्रं यदनन्तमात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ २॥
प्रजापतेर्यत्खलु पूर्वजातं यज्ञोपवीतं सहजातमाक्तम् ।
सत्त्वेन मुक्तं त्रिगुणेन शक्तं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ३॥
दक्षोद्धृतं चेद्यदु विश्वसूत्रं सदा पवित्रं प्रकरोति सूत्रम् ।
एनोलवित्रं भजतैकपात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ४॥
यद्ब्रह्मसूत्रं यदु वस्तुतन्त्रं यतः स्वतन्त्रं परतन्त्रयन्त्रम् ।
तमाहुरत्रेः परमं सुपुत्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ५॥
यमत्रिपुत्रं ब्रुवते पवित्रमसाध्वमित्रं किल साधुमित्रम् ।
अतीव चित्रं सुविचित्रगात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ६॥
अनन्यया सूत्रमिदं पवित्रं भक्त्या धृतं चेत्सुविशुद्धगात्रम् ।
भवेत्पवित्रात्स पवित्र एव तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ७॥
स ब्राह्मणो यो मनसा बिभर्ति यद्वा नरो यो वचसा बिभर्ति ।
यद्वाप्यदम्भः श्रवसा बिभर्ति तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ८॥
द्विजोऽपि चेद्येन विवर्जितः स चण्डाल एवास्य च धारणेन ।
सद्ब्राह्मणत्वं खलु हीनजातेस्तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ९॥
नवसूत्रमहोरात्रं योऽत्रिपुत्रमयं द्विजः ।
ब्रह्मसूत्रमिदं धत्ते स यातीह पवित्रताम् ॥ १०॥
इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं
ब्रह्मसूत्रं सम्पूर्णम् ॥
Proofread by Sunder Hattangadi