ब्रह्मसूत्राधिकरणानि
ब्रह्मसूत्राधिकरणानां अनुक्रमणिका अथवा ब्रह्मसूत्राधिकरणसूचिः
The text is based on Shankarabhashya
॥ ब्रह्म सूत्राणि ॥
अध्यायाः ४ १ समन्वय २ अविरोध ३ साधन ४ फल
पादाः १६ ४ ४ ४ ४
अधिकरणानि १९१ ३९ ४७ ६७ ३८
सूत्राणि ५५५ १३४ १५७ १८६ ७८
१ समन्वय
अध्यायः । अधिकरण ३९ सूत्राणि १३४
पाद १ १-११ १-३१
पाद २ १२-१८ ३२-६३
पाद ३ १९-३१ ६४-१०६
पाद ४ ३२-३९ १०७-१३४
२ अविरोध
अध्यायः । अधिकरण ४७ सूत्राणि १५७
पाद १ ४०-५२ १३५-१७१
पाद २ ५३-६० १७२-२१६
पाद ३ ६१-७७ २१७-२६९
पाद ४ ७८-८६ २७०-२९१
३ साधन
अध्ययः । अधिकरण ६७ सूत्राणि १८६
पाद १ ८७-९२ २९२-३१८
पाद २ ९३-१०० ३१९-३५९
पाद ३ १०१-१३६ ३६०-४२५
पाद ४ १३७-१५३ ४२६-४७७
४ फल
अध्यायः । अधिकरण ३८ सूत्राणि ७८
पाद १ १५४-१६७ ४७८-४९६
पाद २ १६८- १७८ ४९७-५१७
पाद ३ १७९-१८४ ५१८-५३३
पाद ४ १८५-१९१ ५३४-५५५
अध्यायः १
पाद १
अधिकरण १-११
सूत्राणि १-३१
००१ जिज्ञासाधिकरणम् ॥
००२ जन्माद्यधिकरणम् ॥
००३ शास्त्रयोनित्वाधिकरणम् ॥
००४ समन्वयाधिकरणम् ॥
००५ ईक्षत्याद्यधिकरणम् ॥
००६ आनन्दमयाधिकरणम् ॥
००७ अन्तराधिकरणम् ॥
००८ आकाशाधिकरणम् ॥
००९ प्राणाधिकरणम् ॥
०१० ज्योतिश्चरणाधिकरणम् ॥
०११ प्रतर्दनाधिकरणम् ॥
पाद २
अधिकरण १२-१८
सूत्र ३२-६३
०१२ सर्वत्र प्रसिद्ध्यधिकरणम् ॥
०१३ अत्ताधिकरणम् ॥
०१४ गुहाप्रविष्टाधिकरणम् ॥
०१५ अन्तराधिकरणम् ॥
०१६ अन्तर्याम्यधिकरणम् ॥
०१७ अदृश्यत्वाधिकरणम् ॥
०१८ वैश्वानराधिकरणम् ॥
पाद ३
अधिकरण १९-३१
सूत्र ६४-१०६
०१९ द्युभ्वद्यधिकरणम् :
०२० भूमाधिकरणम् ॥
०२१ अक्षराधिकरणम् ॥
०२२ ईक्षतिकर्मव्यपदेशाधिकरणम् ॥
०२३ दहराधिकरणम् ॥
०२४ अनुकृत्याधिकरणम् ॥
०२५ प्रमिताधिकरणम् ॥
०२६ देवताधिकरणम् ॥
०२७ अपशूद्राधिकरणम् ॥
०२८ कम्पनाधिकरणम् ॥
०२९ ज्योतिराधिकरणम् ॥
०३० अर्थान्तरत्वदिव्यापदेशाधिकरणम् ॥
०३१ सुषुप्त्युत्क्रान्त्यधिकरणम् ॥
पाद ४
अधिकरण ३२-३९
सूत्र १०७-१३४
०३२ अनुमानिकाधिकरणम् ॥
०३३ चमसाधिकरणम् ॥
०३४ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥
०३५ करणत्वाधिकरणम् ॥
०३६ बालक्यधिकरणम् ॥
०३७ वाक्यान्वयाधिकरणम् ॥
०३८ प्रकृत्यधिकरणम् ॥
०३९ सर्वव्याख्यानाधिकरणम् ॥
२ अविरोध
अध्यायः । अधिकरण ४७ सूत्राणि १५७
पाद १ ४०-५२ १३५-१७१
पाद २ ५३-६० १७२-२१६
पाद ३ ६१-७७ २१७-२६९
पाद ४ ७८-८६ २७०-२९१
अविरोध अध्याय २
पाद १
अधिकरण ४०-५२
सूत्र १३५-१७१
०४० स्मृत्यधिकरणम् ॥
०४१ योगप्रत्युक्त्यधिकरणम् ॥
०४२ न विलक्षणत्वाधिकरणम् ॥
०४३ शिष्टपरिग्रहाधिकरणम् ॥
०४४ भोक्त्रपत्त्यधिकरणम् ॥
०४५ आरम्भनाधिकरणम् ॥
०४६ इतरव्यपदेशाधिकरणम् ॥
०४७ उपसंहारदर्शनाधिकरणम् ॥
०४८ कृत्स्नप्रसक्त्यधिकरणम् ॥
०४९ सर्वोपेताधिकरणम् ॥
०५० प्रयोजनत्वाधिकरणम् ॥
०५१ वैषम्यनैर्घृण्याधिकरणम् ॥
०५२ सर्वधर्मोपपत्त्यधिकरणम् ॥
पाद २
अधिकरण ५३-६०
सूत्र १७२-२१६
०५३ रचनानुपपत्त्यधिकरणम् ॥
०५४ महद्दीर्घाधिकरणम् ॥
०५५ परमाणुजगदकरणत्वाधिकरणम् ॥
०५६ समुदयाधिकरणम् ॥
०५७ नाभावाधिकरणम् ॥
०५८ एकस्मिन्नसम्भवाधिकरणम् ॥
०५९ पत्यधिकरणम् ॥
०६० उत्पत्त्यसम्भवाधिकरणम् ॥
पाद ३
अधिकरण ६१-७७
सूत्र २१७-२६९
०६१ वियदधिकरणम् ॥
०६२ मातरिश्वाधिकरणम् ॥
०६३ असम्भवाधिकरणम् ॥
०६४ तेजोऽधिकरणम् ॥
०६५ आबधिकरणम् ॥
०६६ पृथिव्यधिकरणम् ॥
०६७ तदभिध्यानाधिकरणम् ॥
०६८ विपर्ययाधिकरणम् ॥
०६९ अन्तरविज्ञानाधिकरणम् ॥
०७० चराचरव्यपाश्रयाधिकरणम् ॥
०७१ आत्माधिकरणम् ॥
०७२ ज्ञाधिकरणम् ॥ )
०७३ उत्क्रान्तिगत्यधिकरणम् ॥
०७४ कर्तृ-अधिकरणम् ॥
०७५ तक्षाधिकरणम् ॥
०७६ परयत्ताधिकरणम् ॥
०७७ अंशाधिकरणम् ॥
पाद ४
अधिकरण ७८-८६
सूत्र २७०-२९१
०७८ प्राणोत्पत्त्यधिकरणम् ॥
०७९ सप्तगत्यधिकरणम् ॥
०८० प्राणाणुत्वाधिकरणम् ॥
०८१ प्राणश्रैष्ठ्याधिकरणम् ॥
०८२ वायुक्रियाधिकरणम् ॥
०८३ श्रेष्ठाणुत्वाधिकरणम् ॥
०८४ ज्योतिराद्याधिकरणम् ॥
०८५ इन्द्रियाधिकरणम् ॥
०८६ संज्ञामूर्तिक्लृप्त्यधिकरणम् ॥
३ साधन
अध्ययः । अधिकरण ६७ सूत्राणि १८६
पाद १ ८७-९२ २९२-३१८
पाद २ ९३-१०० ३१९-३५९
पाद ३ १०१-१३६ ३६०-४२६
पाद ४ १३७-१५३ ४२७-४७७
साधन अध्याय ३
पाद १
अधिकरण ८७-९२
सूत्र २९२-३१८
०८७ तदन्तरप्रतिपत्त्यधिकरणम् ॥
०८८ कृतत्ययाधिकरणम् ॥
०८९ अनिष्टादिकार्याधिकरणम् ॥
०९० सभाव्यपत्त्यधिकरणम् ॥
०९१ नातिचिराधिकरणम् ॥
०९२ अन्यधिष्ठिताधिकरणम् ॥
पाद २
अधिकरण ९३-१००
सूत्र ३१९-३५९
०९३ सन्ध्यधिकरणम् ॥
०९४ तदभावाधिकरणम् ॥
०९५ कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥
०९६ मुग्धेऽर्धसम्पत्त्यधिकरणम् ॥
०९७ उभयलिङ्गाधिकरणम् ॥
०९८ प्रकृतैतवत्त्वाधिकरणम् ॥
०९९ पराधिकरणम् ॥
१०० फलाधिकरणम् ॥
पाद ३
अधिकरण १०१-१३६
सूत्र ३६०-४२५
१०१ सर्ववेदान्तप्रत्ययाधिकरणम् ॥
१०२ उपसंहाराधिकरणम् ॥
१०३ अन्यथत्वाधिकरणम् ॥
१०४ व्यप्त्यधिकरणम् ॥
१०५ सर्वभेदाधिकरणम् ॥
१०६ आनन्दाद्यधिकरणम् ॥
१०७ अध्यानायाधिकरणम् ॥
१०८ आत्मगृहीत्यधिकरणम् ॥
१०९ कार्याख्यानाधिकरणम् ॥
११० समानाधिकरणम् ॥
१११ सम्बन्धाधिकरणम् ॥
११२ सम्भृत्याधिकरणम् ॥
११३ पुरुषविद्याधिकरणम् ॥
११४ वेधाद्यधिकरणम् ॥
११५ हन्याधिकरणम् ॥
११६ सम्परायाधिकरणम् ॥
११७ गतेरर्थवत्त्वाधिकरणम् ॥
११८ अनियमाधिकरणम् ॥
११९ यावदधिकाराधिकरणम् ॥
१२० अक्षरधियाधिकरणम् ॥
१२१ इयदधिकरणम् ॥
१२२ अन्तरत्वाधिकरणम् ॥
१२३ व्यतिहाराधिकरणम् ॥
१२४ सत्याद्याधिकरणम् ॥
१२५ कामाद्यधिकरणम् ॥
१२६ आदराधिकरणम् ॥
१२७ तन्निर्धारणाधिकरणम् ॥
१२८ प्रदानाधिकरणम् ॥
१२९ लिङ्गभूयस्त्वाधिकरणम् ॥
१३० ऐकात्म्याधिकरणम् ॥
१३१ अङ्गावबद्धाधिकरणम् ॥
१३२ भूमज्यायस्त्वाधिकरणम् ॥
१३३ शब्दादिभेदाधिकरणम् ॥
१३४ विकल्पाधिकरणम् ॥
१३५ काम्याधिकरणम् ॥
१३६ यथाश्रयभवाधिकरणम् ॥
पाद ४
अधिकरण १३७-१५३
सूत्र ४२६-४७७
१३७ पुरुषार्थाधिकरणम् ॥
१३८ परामर्शाधिकरणम् ॥
१३९ स्तुतिमात्राधिकरणम् ॥
१४० परिप्लवाधिकरणम् ॥
१४१ अग्नीन्धनाद्याधिकरणम् ॥
१४२ सर्वापेक्षाधिकरणम् ॥
१४३ सर्वान्नानुमत्यधिकरणम् ॥
१४४ आश्रमकर्माधिकरणम् ॥
१४५ विधुराधिकरणम् ॥
१४६ तद्भुअताधिकरणम् ॥
१४७ अधिकाराधिकरणम् ॥
१४८ बहिराधिकरणम् ॥
१४९ स्वाम्यधिकरणम् ॥
१५० सहकार्यन्तरविध्यधिकरणम् ॥
१५१ अनाविष्कराधिकरणम् ॥
१५२ ऐहिकाधिकरणम् ॥
१५३ मुक्तिफलाधिकरणम् ॥
४ फल
अध्यायः । अधिकरण ३८ सूत्राणि ७८
पाद १ १५४-१६७ ४७८-४९६
पाद २ १६८- १७८ ४९७-५१७
पाद ३ १७९-१८४ ५१८-५३३
पाद ४ १८५-१९१ ५३४-५५५
फल अध्यय ४
पाद १
अधिकरण १५४-१६७
सूत्र ४७८-४९६
१५४ आवृत्त्यधिकरणम् ॥
१५५ आत्मत्वोपासनाधिकरणम् ॥
१५६ प्रतिकाधिकरणम् ॥
१५७ ब्रह्मदृष्ट्यधिकरणम् ॥
१५८ आदित्यादिमतयाधिकरणम् ॥
१५९ आसीनाधिकरणम् ॥
१६० एकाग्रताधिकरणम् ॥
१६१ आप्रायणाधिकरणम् ॥
१६२ तदधिगमाधिकरणम् ॥
१६३ इतरसंश्लेषाधिकरणम् ॥
१६४ अनारब्धाधिकरणम् ॥
१६५ अग्निहोत्राद्यधिकरणम् ॥
१६६ विद्याज्ञानसाधनाधिकरणम् ॥
१६७ इतरक्षपनाधिकरणम् ॥
पाद २
अधिकरण १६८-१७८
सूत्र ४९७-५१७
१६८ वागधिकरणम्
१६९ मनोऽधिकरणम्
१७० अध्यक्षाधिकरणम् ॥
१७१ असृत्युपक्रमाधिकरणम्
१७२ संसारव्यपदेशाधिकरणम् ॥
१७३ प्रतिषेधाधिकरणम् ॥
१७४ वागादिलयाधिकरणम् ॥
१७५ अविभागाधिकरणम् ॥
१७६ तदोकोऽधिकरणम् ॥
१७७ रश्म्यधिकरणम् ॥
१७८ दक्षिणायनाधिकरणम् ॥
पाद ३
अधिकरण १७९-१८४
सूत्र ५१८-५३३
१७९ अर्चिराद्यधिकरणम् ॥
१८० वय्वधिकरणम् ॥
१८१ तदिदधिकरणम् ॥
१८२ अतिवाहिकाधिकरणम् ॥
१८३ कार्याधिकरणम् ॥
१८४ अप्रतिकलम्बनाधिकरणम् ॥
पाद ४
अधिकरण १८५-१९१
सूत्र ५३४-५५५
१८५ सम्पद्याविर्भावाधिकरणम् ॥
१८६ अविभागेन दृष्टत्वाधिकरणम् ॥
१८७ ब्रह्माधिकरणम् ॥
१८८ सङ्कल्पाधिकरणम् ॥
१८९ अभावाधिकरणम् ॥
१९० प्रदीपाधिकरणम् ॥
१९१ जगद्व्यापाराधिकरणम् ॥
अध्याय १ समन्वय
पाद १
अधिकरण १-११
सूत्र १-३१
अधिकरण ००१ जिज्ञासाधिकरणम् ॥
सूत्र ००१ अथातो ब्रह्मजिज्ञासा
अधिकरण ००२ जन्माद्यधिकरणम् ॥
सूत्र ००२ जन्माद्यस्य यतः ॥
अधिकरण ००३ शास्त्रयोनित्वाधिकरणम् ॥
सूत्र ००३ शास्त्रयोनित्त्वात् ॥
अधिकरण ००४ समन्वयाधिकरणम् ॥
सूत्र ००४ तत्तु समन्वयात् ॥
अधिकरण ००५ ईक्षत्याद्यधिकरणम् ॥
सूत्र ००५ ईक्षतेर्नाशब्दम् ।
००६ गौणश्चेन्नात्मशब्दात् ।
००७ तन्निष्ठस्य मोक्षोपदेशात् ।
००८ हेयत्वावचनाच्च ।
००९ स्वाप्ययात् ।
०१० गतिसामान्यात् ।
०११ श्रुतत्त्वाच्च ॥
अधिकरण ००६ आनन्दमयाधिकरणम् ॥
सूत्र ०१२ आनन्दमयोऽभ्यासात् ।
०१३ विकारशब्दान्नेति चेन्न प्राचुर्यात् ।
०१४ तद्धेतुव्यपदेशाच्च ।
०१५ मान्त्रवर्णिकमेव च गीयते ।
०१६ नेतरोऽनुपपत्तेः ।
०१७ भेदव्यपदेशाच्च ।
०१८ कामाच्च नानुमानापेक्षा ।
०१९ अस्मिन्नस्य च तद्योगं शास्ति ॥
अधिकरण ००७ अन्तराधिकरणम् ॥
सूत्र ०२० अन्तस्तद्धर्मोपदेशात् ।
०२१ भेदव्यपदेशाच्चान्यः ॥
अधिकरण ००८ आकाशाधिकरणम् ॥
सूत्र ०२२ आकाशस्तल्लिङ्गात् ॥
अधिकरण ००९ प्राणाधिकरणम् ॥
सूत्र ०२३ अत एव प्राणः ॥
अधिकरण ०१० ज्योतिश्चरणाधिकरणम् ॥
सूत्र ०२४ ज्योतिश्चरणाभिधानात् ।
०२५ छन्दोऽभिधानान्नेति चेन्न तथा
चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।
०२६ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ।
०२७ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥
अधिकरण ०११ प्रतर्दनाधिकरणम् ॥
सूत्र ०२८ प्राणस्त्थानुगमात् ।
०२९ न वक्तुरात्मोपदेशादिति
चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ।
०३० शास्त्रदृष्ट्या तूपदेशो वामदेववत्
०३१ जीवमुख्यप्राणलिङ्गान्नेति
चेन्नोपासात्रैविद्यादाश्रितत्वादिह तद्योगात् ॥
अध्याय १
पाद २
अधिकरण १२-१८
सूत्र ३२-६३
अधिकरण ०१२ सर्वत्र प्रसिद्ध्यधिकरणम् ॥
सूत्र ०३२ सर्वत्र प्रसिद्धोपदेशात् ।
०३३ विवक्षितगुणोपपत्तेश्च ।
०३४ अनुपपत्तेस्तु न शारीरः ।
०३५ कर्मकर्तृव्यपदेशाच्च ।
०३६ शब्दविशेषात् ।
०३७ स्मृतेश्च ।
०३८ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न
निचाय्यत्वादेवं व्योमवच्च ।
०३९ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥
अधिकरण ०१३ अत्ताधिकरणम् ॥
सूत्र ०४० अत्ता चराचरग्रहणात् ।
०४१ प्रकरणाच्च ॥
अधिकरण ०१४ गुहाप्रविष्टाधिकरणम् ॥
सूत्र ०४२ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
०४३ विशेषणाच्च ।
अधिकरण ०१५ अन्तराधिकरणम् ॥
सूत्र ०४४ अन्तर उपपत्तेः ।
०४५ स्थानादिव्यपदेशाच्च ।
०४६ सुखविशिष्टाभिधानादेव च ।
०४७ श्रुतोपनिषत्कगत्यभिधानाच्च ।
०४८ अनवस्थितेरसम्भवाच्च नेतरः ॥
अधिकरण ०१६ अन्तर्याम्यधिकरणम् ॥
सूत्र ०४९ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ।
०५० न च स्मार्तमतद्धर्माभिलापात् ।
०५१ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥
अधिकरण ०१७ अदृश्यत्वाधिकरणम् ॥
सूत्र ०५२ अदृश्यत्वादिगुणको धर्मोक्तेः ।
०५३ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
०५४ रूपोपन्यासाच्च ।
अधिकरण ०१८ वैश्वानराधिकरणम् ॥
सूत्र ०५५ वैश्वानरः साधारणशब्दविशेषात् ।
०५६ स्मर्यमाणमनुमानं स्यादिति ।
०५७ शब्दादिभ्योऽन्तःप्रतिष्ठाच्च नेति चेन्न तथा ।
दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ।
०५८ अत एव न देवता भूतं च ।
०५९ साक्षादप्यविरोधं जैमिनिः ।
०६० अभिव्यक्तेरित्याश्मरथ्यः ।
०६१ अनुस्मृतेर्बादरिः ।
०६२ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ।
०६३ आमनन्ति चैनमस्मिन् ॥
अध्याय १
पाद ३
अधिकरण १९-३१
सूत्र ६४-१०६
अधिकरण ०१९ द्युभ्वाद्यधिकरणम् ॥
सूत्र ०६४ द्युभ्वाद्यायतनं स्वशब्दात् ।
०६५ मुक्तोपसृप्यव्यपदेशात् ।
०६६ नानुमानमतच्छब्दात् ।
०६७ प्राणभृच्च ।
०६८ भेदव्यपदेशात् ।
०६९ प्रकरणात् ।
०७० स्थित्यदनाभ्यां च ।
अधिकरण ०२० भौमाधिकरणम् ॥
सूत्र ०७१ भूमा सम्प्रसादादध्युपदेशात् ।
०७२ धर्मोपपत्तेश्च ॥
अधिकरण ०२१ अक्षराधिकरणम् ॥
सूत्र ०७३ अक्षरमम्बरान्तधृतेः
०७४ सा च प्रशासनात् ।
०७५ अन्यभावव्यावृत्तेश्च ॥
अधिकरण ०२२ ईक्षतिकर्मव्यपदेशाधिकरणम् ॥
सूत्र ०७६ ईक्षतिकर्मव्यपदेशात् सः ॥
अधिकरण ०२३ दहराधिकरणम् ॥
सूत्र ०७७ दहर उत्तरेभ्यः ।
०७८ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ।
०७९ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।
०८० प्रसिद्धेश्च ।
०८१ इतरपरामर्शात् स इति चेन्नासम्भवात् ।
०८२ उत्तराच्चेदाविर्भूतस्वरूपस्तु ।
०८३ अन्यार्थश्च परामर्शः ।
०८४ अल्पश्रुतेरिति चेत्तदुक्तम् ॥
अधिकरण ०२४ अनुकृत्यधिकरणम् ॥
सूत्र ०८५ अनुकृतेस्तस्य च ।
०८६ अपि च स्मर्यते ॥
अधिकरण ०२५ प्रमिताधिकरणम् ॥
सूत्र ०८७ शब्दादेव प्रमितः ।
०८८ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥
अधिकरण ०२६ देवताधिकरणम् ॥
सूत्र ०८९ तदुपर्यपि बादरायणः सम्भवात् ।
०९० विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।
०९१ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।
०९२ अत एव च नित्यत्वम् ।
०९३ समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ।
०९४ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।
०९५ ज्योतिषि भावाच्च ।
०९६ भावं तु बादरायणोऽस्ति हि ॥
अधिकरण ०२७ अपशूद्राधिकरणम् ॥
सूत्र ०९७ शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि ।
०९८ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।
०९९ संस्कारपरामर्शात्तदभावाभिलापाच्च ।
१०० तदभावनिर्धारणे च प्रवृत्तेः ।
१०१ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥
अधिकरण ०२८ कम्पनाधिकरणम् ॥
सूत्र १०२ कम्पनात् ॥
अधिकरण ०२९ ज्योतिरधिकरणम् ॥
सूत्र १०३ ज्योतिर्दर्शनात् ॥
अधिकरण ०३० अर्थान्तरत्वादिव्यपदेसाधिकरणम् ॥
सूत्र १०४ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥
अधिकरण ०३१ सुषुप्त्युत्क्रान्त्यधिकरणम् ॥
सूत्र १०५ सुषुप्त्युत्क्रान्त्योर्भेदेन ।
१०६ पत्यादिशब्देभ्यः ॥
अध्याय १
पाद ४
अधिकरण ३२-३९
सूत्र १०७-१३४
अधिकरण ०३२ अनुमानिकाधिकरणम् ॥
सूत्र १०७ आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।
१०८ सूक्ष्मं तु तदर्हत्वात् ।
१०९ तदधीनत्वादर्थवत् ।
११० ज्ञेयत्वावचनाच्च ।
१११ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
११२ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
११३ महद्वच्च ॥
अधिकरण ०३३ चमसाधिकरणम् ॥
सूत्र ११४ चमसवदविशेषात् ।
११५ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
११६ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥
अधिकरण ०३४ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥
सूत्र ११७ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।
११८ प्राणादयो वाक्यशेषात् ।
११९ ज्योतिषैकेषामसत्यन्ने ॥
अधिकरण ०३५ कारणत्वाधिकरणम् ॥
सूत्र १२० कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
१२१ समाकर्षात् ॥
अधिकरण ०३६ बालक्यधिकरणम् ॥
सूत्र १२२ जगद्वाचित्वात् ।
१२३ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ।
१२४ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥
अधिकरण ०३७ वाक्यान्वयाधिकरणम् ॥
सूत्र १२५ वाक्यान्वयात् ।
१२६ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।
१२७ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ।
१२८ अवस्थितेरिति काशकृत्स्नः ॥
अधिकरण ०३८ प्रकृत्यधिकरणम् ॥
सूत्र १२९ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
१३० अभिध्योपदेशाच्च ।
१३१ साक्षाच्चोभयाम्नानात् ।
१३२ आत्मकृतेः परिणामात् ।
१३३ योनिश्च हि गीयते ॥
अधिकरण ०३९ सर्वव्याख्यानाधिकरणम् ॥
सूत्र १३४ एतेन सर्वे व्याख्याता व्याख्याताः ॥
अध्याय २ अविरोध
पाद १
अधिकरण ४०-५२
सूत्र १३५-१७१
अधिकरण ०४० स्मृत्यधिकरणम् ॥
सूत्र १३५ स्मृत्यनवकाशदोषप्रसङ्ग इति
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।
१३६ इतरेषां चानुपलब्धेः ॥
अधिकरण ०४१ योगप्रत्युक्त्याधिकरणम् ॥
सूत्र १३७ एतेन योगः प्रत्युक्तः ॥
अधिकरण ०४२ न विलक्षणत्वाधिकरणम् ॥
सूत्र १३८ न विलक्षणत्वादस्य तथात्वं च शब्दात् ।
१३९ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।
१४० दृश्यते तु ।
१४१ असदिति चेन्न प्रतिषेधमात्रत्वात् ।
१४२ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।
१४३ न तु दृष्टान्तभावात् ।
१४४ स्वपक्षदोषाच्च ।
१४५ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति
चेदेवमप्यविमोक्षप्रसङ्गः ॥
अधिकरण ०४३ शिष्टपरिग्रहाधिकरणम् ॥।
सूत्र १४६ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥
अधिकरण ०४४ भोक्त्रापत्त्यधिकरणम् ॥
१४७ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥
अधिकरण ०४५ आरम्भणाधिकरणम् ॥
सूत्र १४८ तदनन्यत्वमारम्भणशब्दादिभ्यः ।
१४९ भावे चोपलब्धेः ।
१५० सत्त्वाच्चावरस्य ।
१५१ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
१५२ युक्तेः शब्दान्तराच्च ।
१५३ पटवच्च ।
१५४ यथा च प्राणादि ।
अधिकरण ०४६ इतरव्यपदेशाधिकरणम् ॥
सूत्र १५५ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ।
१५६ अधिकं तु भेदनिर्देशात् ।
१५७ अश्मादिवच्च तदनुपपत्तिः ॥
अधिकरण ०४७ उपसंहारदर्शनाधिकरणम् ॥
सूत्र १५८ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।
१५९ देवादिवदपि लोके ॥
अधिकरण ०४८ कृत्स्नप्रसक्त्यधिकरणम् ॥
सूत्र १६० कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।
१६१ श्रुतेस्तु शब्दमूलत्वात् ।
१६२ आत्मनि चैवं विचित्राश्च हि ।
१६३ स्वपक्षदोषाच्च ॥
अधिकरण ०४९ सर्वोपेताधिकरणम् ॥
सूत्र १६४ सर्वोपेता च तद्दर्शनात् ।
१६५ विकरणत्वान्नेति चेत्तदुक्तम् ॥
अधिकरण ०५० प्रयोजनत्वाधिकरणम् ॥
सूत्र १६६ न प्रयोजनवत्त्वात् ।
१६७ लोकवत्तु लीलाकैवल्यम् ॥
अधिकरण ०५१ वैषम्यनैर्घृन्याधिकरणम् ॥
सूत्र १६८ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ।
१६९ न कर्माविभागादिति चेन्नानादित्वात् ।
१७० उपपद्यते चाप्युपलभ्यते च ।
१७१ सर्वधर्मोपपत्तेश्च ॥
अध्याय २ अविरोध
पाद २
अधिकरण ५३-६०
सूत्र १७२-२१६
अधिकरण ०५३ रचनाऽनुपपत्त्यधिकरणम् ॥
सूत्र १७२ रचनाऽनुपपत्तेश्च नानुमानम् ।
१७३ प्रवृत्तेश्च ।
१७४ पयोऽम्बुवच्चेत् तत्रापि ।
१७५ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।
१७६ अन्यत्राभावाच्च न तृणादिवत् ।
१७७ अभ्युपगमेऽप्यर्थाभावात् ।
१७८ पुरुषाश्मवदिति चेत्तथाऽपि ।
१७९ अङ्गित्वानुपपत्तेश्च ।
१८० अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ।
१८१ विप्रतिषेधाच्चासमञ्जसम् ॥
अधिकरण ०५४ महद्दीर्घाधिकरणम् ॥
सूत्र १८२ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥
अधिकरण ०५५ परमाणुजगदाकारणत्वाधिकरणम् ॥
सूत्र १८३ उभयथाऽपि न कर्मातस्तदभावः ।
१८४ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।
१८५ नित्यमेव च भावात् ।
१८६ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।
१८७ उभयथा च दोषात् ।
१८८ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥
अधिकरण ०५६ समुदायाधिकरणम् ॥
सूत्र १८९ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।
१९० इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ।
१९१ उत्तरोत्पादे च पूर्वनिरोधात् ।
१९२ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।
१९३ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ।
१९४ उभयथा च दोषात् ।
१९५ आकाशे चाविशेषात् ।
१९६ अनुस्मृतेश्च ।
१९७ नासतोऽदृष्टत्वात् ।
१९८ उदासीनानामपि चैवं सिद्धिः ॥
अधिकरण ०५७ नाभावाधिकरणम् ॥
सूत्र १९९ नाभाव उपलब्धेः ।
२०० वैधर्म्याच्च न स्वप्नादिवत् ।
२०१ न भावोऽनुपलब्धेः ।
२०२ क्षणिकत्वाच्च ।
२०३ सर्वथाऽनुपपत्तेश्च ॥
अधिकरण ०५८ एकस्मिन्नसम्भवाधिकरणम् ॥
सूत्र २०४ नैकस्मिन्नसम्भवात् ।
२०५ एवञ्चात्माऽकार्त्स्न्यम् ।
२०६ न च पर्यायादप्यविरोधो विकारादिभ्यः ।
२०७ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥
अधिकरण ०५९ पत्यधिकरणम् ॥
सूत्र २०८ पत्युरसामञ्जस्यात् ।
२०९ सम्बन्धानुपपत्तेश्च ।
२१० अधिष्ठानानुपपत्तेश्च ।
२११ करणवच्चेन्न भोगादिभ्यः ।
२१२ अन्तवत्त्वमसर्वज्ञता वा ॥
अधिकरण ०६० उत्पत्त्यसम्भवाधिकरणम् ॥
सूत्र २१३ उत्पत्त्यसम्भवात् ।
२१४ न च कर्तुः करणम् ॥
२१५ विज्ञानादिभावे वा तदप्रतिषेधः ।
२१६ विप्रतिषेधाच्च ॥
अध्याय २
पाद ३
अधिकरण ६१-७७
सूत्र २१७-२६९
अधिकरण ०६१ वियदधिकरणम् ॥
सूत्र २१७ न वियदश्रुतेः ।
२१८ अस्ति तु ।
२१९ गौण्यसम्भवात् ।
२२० शब्दाच्च ।
२२१ स्याच्चैकस्य ब्रह्मशब्दवत् ।
२२२ प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ।
२२३ यावद्विकारं तु विभागो लोकवत् ॥
अधिकरण ०६२ मातरिश्वाधिकरणम् ॥
सूत्र २२४ एतेन मातरिश्वा व्याख्यातः ॥
अधिकरण ०६३ असम्भवाधिकरणम् ॥
सूत्र २२५ असम्भवस्तु सतोऽनुपपत्तेः ॥
अधिकरण ०६४ तेजोऽधिकरणम् ॥
सूत्र २२६ तेजोऽतस्तथा ह्याह ॥
अधिकरण ०६५ आबधिकरणम् ॥
सूत्र २२७ आपः ॥
अधिकरण ०६६ पृथिव्यधिकरणम् ॥
सूत्र २२८ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥
अधिकरण ०६७ तदभिध्यानाधिकरणम् ॥
सूत्र २२९ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥
अधिकरण ०६८ विपर्ययाधिकरणम् ॥
सूत्र २३० विपर्ययेण तु क्रमोऽत उपपद्यते च ।
अधिकरण ०६९ अन्तराविज्ञानाधिकरणम् ॥
सूत्र २३१ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
अधिकरण ०७० चराचरव्यपाश्रयाधिकरणम् ॥
सूत्र २३२ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो
भाक्तस्तद्भावभावित्वात् ॥
अधिकरण ०७१ आत्माधिकरणम् ॥
सूत्र २३३ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥
अधिकरण ०७२ ज्ञधिकरणम् ॥
सूत्र २३४ ज्ञोऽत एव ॥
अधिकरण ०७३ उत्क्रान्तिगत्यधिकरणम् ॥
सूत्र २३५ उत्क्रान्तिगत्यागतीनाम् ।
२३६ स्वात्मना चोत्तरयोः ।
२३७ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ।
२३८ स्वशब्दोन्मानाभ्यां च ।
२३९ अविरोधश्चन्दनवत् ।
२४० अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ।
२४१ गुणाद्वा लोकवत् ।
२४२ व्यतिरेको गन्धवत् ।
२४३ तथा च दर्शयति ।
२४४ पृथगुपदेशात् ।
२४५ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ।
२४६ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ।
२४७ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ।
२४८ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो
वाऽन्यथा ॥
अधिकरण ०७४ कर्ताधिकरणम् ॥
सूत्र २४९ कर्ता शास्त्रार्थवत्त्वात् ।
२५० विहारोपदेशात् ।
२५१ उपादानात् ।
२५२ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ।
२५३ उपलब्धिवदनियमः ।
२५४ शक्तिविपर्ययात् ।
२५५ समाध्यभावाच्च ॥
अधिकरण ०७५ तक्षाधिकरणम् ॥
सूत्र २५६ यथा च तक्षोभयथा ॥
अधिकरण ०७६ परायत्ताधिकरणम् ॥
सूत्र २५७ परात्तु तच्छ्रुतेः ।
२५८ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥
अधिकरण ०७७ अंशाधिकरणम् ॥
सूत्र २५९ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ।
२६० मन्त्रवर्णाच्च ।
२६१ अपि च स्मर्यते ।
२६२ प्रकाशादिवन्नैवं परः ।
२६३ स्मरन्ति च ।
२६४ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ।
२६५ असन्ततेश्चाव्यतिकरः ।
२६६ आभास एव च ।
२६७ अदृष्टानियमात् ।
२६८ अभिसन्ध्यादिष्वपि चैवम् ।
२६९ प्रदेशादिति चेन्नान्तर्भावात् ॥
अध्याय २
पाद ४
अधिकरण ७८-८६
सूत्र २७०-२९१
अधिकरण ०७८ प्राणोत्पत्त्यधिकरणम् ॥
सूत्र २७० तथा प्राणाः ।
२७१ गौण्यसम्भवात् ।
२७२ तत्प्राक्श्रुतेश्च ।
२७३ तत्पूर्वकत्वाद्वाचः ॥
अधिकरण ०७९ सप्तगत्यधिकरणम् ॥
सूत्र २७४ सप्त गतेर्विशेषितत्वाच्च ।
२७५ हस्तादयस्तु स्थितेऽतो नैवम् ॥
अधिकरण ०८० प्राणाणुत्वाधिकरणम् ॥
सूत्र २७६ अणवश्च ।
अधिकरण ०८१ प्राणश्रैष्ठ्यधिकरणम् ॥
सूत्र २७७ श्रेष्ठश्च ॥
अधिकरण ०८२ वायुक्रियाधिकरणम् ॥
सूत्र २७८ न वायुक्रिये पृथगुपदेशात् ।
२७९ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ।
२८० अकरणत्वाच्च न दोषस्तथा हि दर्शयति ।
२८१ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥
अधिकरण ०८३ श्रेष्ठणुत्वाधिकरणम् ॥
सूत्र २८२ अणुश्च ॥
अधिकरण ०८४ ज्योतिरद्यधिकरणम् ॥
सूत्र २८३ ज्योतिराद्यधिष्ठानं तु तदामननात् ।
२८४ प्राणवता शब्दात् ।
२८५ तस्य च नित्यत्वात् ।
अधिकरण ०८५ इन्द्रियाधिकरणम् ॥
सूत्र २८६ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
२८७ भेदश्रुतेः ।
२८८ वैलक्षण्याच्च ॥
अधिकरण ०८६ सम्ज्ञामुअर्तिक्लृप्त्यधिकरणम् ॥
सूत्र २८९ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
२९० मांसादि भौमं यथाशब्दमितरयोश्च ।
२९१ वैशेष्यात्तु तद्वादस्तद्वादः ॥
अध्ययः ३ साधन
पाद १
अधिकरण ८७-९२
सूत्राणि २९२-३१८
अधिकरण ०८७ तदन्तरप्रतिपत्त्यधिकरणम् ॥
सूत्र २९२ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ।
२९३ त्र्यात्मकत्वात्तु भूयस्त्वात् ।
२९४ प्राणगतेश्च ।
२९५ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ।
२९६ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।
२९७ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।
२९८ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॥
अधिकरण ०८८ कृतत्ययाधिकरणम् ॥
सूत्र २९९ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।
३०० चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ।
३०१ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।
३०२ सुकृतदुष्कृते एवेति तु बादरिः ॥
अधिकरण ०८९ अनिष्टदिकार्याधिकरणम् ॥
सूत्र ३०३ अनिष्टादिकारिणामपि च श्रुतम् ।
३०४ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्
३०५ स्मरन्ति च ।
३०६ अपि च सप्त ।
३०७ तत्रापि च तद्व्यापारादविरोधः ।
३०८ विद्याकर्मणोरिति तु प्रकृतत्वात् ।
३०९ न तृतीये तथोपलब्धः ।
३१० स्मर्यतेऽपि च लोके ।
३११ दर्शनाच्च ।
३१२ तृतीयशब्दावरोधः संशोकजस्य ॥
अधिकरण ०९० साभाव्यापत्त्यधिकरणम् ॥
सूत्र ३१३ साभाव्यापत्तिरुपपत्तेः ॥
अधिकरण ०९१ नातिचिराधिकरणम् ॥
सूत्र ३१४ नातिचिरेण विशेषात् ॥
अधिकरण ०९२ अन्याधिष्ठिताधिकरणम् ॥
सूत्र ३१५ अन्याधिष्ठतेषु पूर्ववदभिलापात् ।
३१६ अशुद्धमिति चेन्न शब्दात् ।
३१७ रेतःसिग्योगोऽथ ।
३१८ योनेः शरीरम् ॥
अध्ययः ३ साधन
पाद २
अधिकरण ९३-१००
सूत्राणि ३१९-३५९
अधिकरण ०९३ सन्ध्याधिकरणम् ॥
सूत्र ३१९ सन्ध्ये सृष्टिराह हि ।
३२० निर्मातारं चैके पुत्रादयश्च ।
३२१ मायामात्रं तु कार्त्स्न्यानभिव्यक्तस्वरूपत्वात् ।
३२२ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
३२३ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
३२४ देहयोगाद्वा सोऽपि ॥
अधिकरण ०९४ तदभावाधिकरणम् ॥
सूत्र ३२५ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ।
३२६ अतः प्रबोधोऽस्मात् ॥
अधिकरण ०९५ कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥
सूत्र ३२७ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥
अधिकरण ०९६ मुग्धेऽर्धसम्पत्त्यधिकरणम् ॥
सूत्र ३२८ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥
अधिकरण ०९७ उभयलिङ्गाधिकरणम् ॥
सूत्र ३२९ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।
३३० न भेदादिति चेन्न प्रत्येकमतद्वचनात् ।
३३१ अपि चैवमेके ।
३३२ अरूपवदेव हि तत्प्रधानत्वात् ।
३३३ प्रकाशवच्चावैयर्थ्यात् ।
३३४ आह च तन्मात्रम् ।
३३५ दर्शयति चाथो अपि स्मर्यते ।
३३६ अत एव चोपमा सूर्यकादिवत् ।
३३७ अम्बुवदग्रहणात्तु न तथात्वम् ।
३३८ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ।
३३९ दर्शनाच्च ॥
अधिकरण ०९८ प्रकृतैतावत्त्वाधिकरणम् ॥
सूत्र ३४० प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।
३४१ तदव्यक्तमाह हि ।
३४२ अपि संराधने प्रत्यक्षानुमानाभ्याम् ।
३४३ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ।
३४४ अतोऽनन्तेन तथा हि लिङ्गम् ।
३४५ उभयव्यपदेशात्त्वहिकुण्डलवत् ।
३४६ प्रकाशाश्रयवद्वा तेजस्त्वात् ।
३४७ पूर्ववद्वा ।
३४८ प्रतिषेधाच्च ॥
अधिकरण ०९९ पराधिकरणम् ॥
सूत्र ३४९ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ।
३५० सामान्यात्तु ।
३५१ बुद्ध्यर्थः पादवत् ।
३५२ स्थानविशेषात् प्रकाशादिवत् ।
३५३ उपपत्तेश्च ।
३५४ तथाऽन्यप्रतिषेधात् ।
३५५ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥
अधिकरण १०० फलाधिकरणम् ॥
सूत्र ३५६ फलमत उपपत्तेः ।
३५७ श्रुतत्वाच्च ।
३५८ धर्मं जैमिनिरत एव ।
३५९ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥
अध्याय ३
पाद ३
अधिकरण १०१-१३६
सूत्र ३६०-४२०
अधिकरण १०१ सर्ववेदान्तप्रत्ययाधिकरणम् ॥
सूत्र ३६० सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
३६१ भेदान्नेति चेन्नैकस्यामपि ।
३६२ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च
सववच्च तन्नियमः ।
३६३ दर्शयति च ॥
अधिकरण १०२ उपसंहाराधिकरणम्
।सूत्र ३६४ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॥
अधिकरण १०३ अन्यथात्वाधिकरणम् ॥
सूत्र ३६५ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।
३६६ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ।
३६७ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥
अधिकरण १०४ व्याप्त्यधिकरणम् ॥
सूत्र ३६८ व्याप्तेश्च समञ्जसम् ॥
अधिकरण १०५ सर्वभेदाधिकरणम् ॥
सूत्र ३६९ सर्वाभेदादन्यत्रेमे ॥
अधिकरण १०६ आनन्दाद्यधिकरणम् ॥
सूत्र ३७० आनन्दादयः प्रधानस्य ।
३७१ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ।
३७२ इतरे त्वर्थसामान्यात् ॥
अधिकरण १०७ आध्यानाधिकरणम्
।सूत्र ३७३ आध्यानाय प्रयोजनाभावात्
३७४ आत्मशब्दाच्च ॥
अधिकरण १०८ आत्मगृहित्यधिकरणम् ॥
सूत्र ३७५ आत्मगृहीतिरितरवदुत्तरात् ।
३७६ अन्वयादिति चेत्स्यादवधारणात् ॥
अधिकरण १०९ कार्याख्यानाधिकरणम् ॥
सूत्र ३७७ कार्याख्यानादपूर्वम् ॥
अधिकरण ११० समानाधिकरणम् ॥
सूत्र ३७८ समान एवं चाभेदात् ॥
अधिकरण १११ सम्बन्धाधिकरणम् ॥
सूत्र ३७९ सम्बन्धादेवमन्यत्रापि ।
३८० न वा विशेषात् ।
३८१ दर्शयति च ॥
अधिकरण ११२ सम्भृत्यधिकरणम् ॥
सूत्र ३८२ सम्भृतिद्युव्याप्त्यपि चातः ॥
अधिकरण ११३ पुरुषविद्याधिकरणम् ॥
सूत्र ३८३ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥
अधिकरण ११४ वेधाद्यधिकरणम् ॥
सूत्र ३८४ वेधाद्यर्थभेदात् ।
अधिकरण ११५ हान्यधिकरणम् ॥
सूत्र ३८५ हानौ तूपायनशब्दशेषत्वात्
कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥
अधिकरण ११६ साम्परायाधिकरणम् ॥
सूत्र ३८६ साम्पराये तर्तव्याभावात्तथा ह्यन्ये ।
३८७ छन्दत उभयाविरोधात् ॥
अधिकरण ११७ गतेरर्थवत्त्वाधिकरणम् ॥
सूत्र ३८८ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ।
३८९ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥
अधिकरण ११८ अनियमाधिकरणम् ॥
सूत्र ३९० अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥
अधिकरण ११९ यावदधिकाराधिकरणम् ॥
सूत्र ३९१ यावदधिकारमवस्थितिराधिकारिकाणाम् ॥
अधिकरण १२० अक्षरधियाधिकरणम् ॥
सूत्र ३९२ अक्षरधियां त्ववरोधः
सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥
अधिकरण १२१ इयदधिकरणम् ॥
सूत्र ३९३ इयदामननात् ॥
अधिकरण १२२ अन्तरत्वाधिकरणम् ॥
सूत्र ३९४ अन्तरा भूतग्रामवत्स्वात्मनः
। ३९५ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥
अधिकरण १२३ व्यतिहाराधिकरणम् ॥
सूत्र ३९६ व्यतिहारो विशिंषन्ति हीतरवत् ॥
अधिकरण १२४ सत्याद्यधिकरणम् ॥
सूत्र ३९७ सैव हि सत्यादयः ॥
अधिकरण १२५ कामाद्यधिकरणम् ॥
सूत्र ३९८ कामादीतरत्र तत्र चायतनादिभ्यः ॥
अधिकरण १२६ आदराधिकरणम् ॥
सूत्र ३९९ आदरादलोपः ।
४०० उपस्थितेऽस्तद्वचनात् ॥
अधिकरण १२७ तन्निर्धारणाधिकरणम् ॥
सूत्र ४०१ तन्निर्धारणानियमस्तद्दृष्टेः
पृथग्ध्यप्रतिबन्धः फलम् ॥
अधिकरण १२८ प्रदानाधिकरणम् ॥
सूत्र ४०२ प्रदानवदेव तदुक्तम् ॥
अधिकरण १२९ लिङ्गभुयस्त्वाधिकरणम् ॥
सूत्र ४०३ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ।
४०४ पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ।
४०५ अतिदेशाच्च ।
४०६ विद्यैव तु निर्धारणात् ।
४०७ दर्शनाच्च ।
४०८ श्रुत्यादिबलीयस्त्वाच्च न बाधः ।
४०९ अनुबन्धादिभ्यः
प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ।
४१० न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ।
४११ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥
अधिकरण १३० ऐकात्म्याधिकरणम् ॥
सूत्र ४१२ एक आत्मनः शरीरे भावात् ।
४१३ व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥
अधिकरण १३१ अङ्गावबद्धाधिकरणम् ॥
सूत्र ४१४ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।
४१५ मन्त्रादिवद्वाऽविरोधः ॥
अधिकरण १३२ भूमज्ययस्त्वाधिकरणम् ॥
सूत्र ४१६ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥
अधिकरण १३३ शब्दादिभेदाधिकरणम् ॥
सूत्र ४१७ नाना शब्दादिभेदात् ॥
अधिकरण १३४ विकल्पाधिकरणम् ॥
सूत्र ४१८ विकल्पोऽविशिष्टफलत्वात् ॥
अधिकरण १३५ काम्याधिकरणम् ॥
सूत्र ४१९ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥
अधिकरण १३६ यथाश्रयभावाधिकरणम् ॥
सूत्र ४२० अङ्गेषु यथाश्रयभावः ।
४२१ शिष्टेश्च ।
४२२ समाहारात् ।
४२३ गुणसाधारण्यश्रुतेश्च ।
४२४ न वा तत्सहभावाश्रुतेः ।
४२५ दर्शनाच्च ॥
अध्याय ३
पाद ४
अधिकरण १३७-१५३
सूत्र ४२६-४७७
अधिकरण १३७ पुरुषार्थाधिकरणम् ॥
सूत्र ४२६ पुरुषार्थोऽतः शब्दादिति बादरायणः ।
४२७ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ।
४२८ आचारदर्शनात् ।
४२९ तत्श्रुतेः ।
४३० समन्वारम्भणात् ।
४३१ तद्वतो विधानात् ।
४३२ नियमाच्च ।
४३३ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।
४३४ तुल्यं तु दर्शनम् ।
४३५ असार्वतृकी ।
४३६ विभागः शतवत् ।
४३७ अध्ययनमात्रवतः
४३८ नाविशेषात् ।
४३९ स्तुतयेऽनुमतिर्वा ।
४४० कामकारेण चैके ।
४४१ उपमर्दं च ।
४४२ ऊर्ध्वरेतःसु च शब्दे हि ॥
अधिकरण १३८ परामर्शाधिकरणम् ॥
सूत्र ४४३ परामर्शं जैमिनिरचोदना चापवदिति हि ।
४४४ अनुष्ठेयं बादरायणः साम्यश्रुतेः ।
४४५ विधिर्वा धारणवत् ॥
अधिकरण १३९ स्तुतिमात्राधिकरणम् ॥
सूत्र ४४६ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।
४४७ भावशब्दाच्च ॥
अधिकरण १४० परिप्लवाधिकरणम् ॥
सूत्र ४४८ पारिप्लवार्था इति चेन्न विशेषितत्वात् ।
४४९ तथा चैकवाक्यतोपबन्धात् ॥
अधिकरण १४१ अग्नीन्धनाद्यधिकरणम् ॥
सूत्र ४५० अत एव चाग्नीन्धनाद्यनपेक्षा ॥
अधिकरण १४२ सर्वापेक्षाधिकरणम् ॥
सूत्र ४५१ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।
४५२ शमदमाद्युपेतः स्यात्तथाऽपि तु
तद्विधेस्तदङ्गतया ।
तेषामवश्यानुष्ठेयत्वात् ॥
अधिकरण १४३ सर्वान्ननुमत्यधिकरणम् ॥
सूत्र ४५३ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।
४५४ अबाधाच्च ।
४५५ अपि च स्मर्यते ।
४५६ शब्दश्चातोऽकामकारे ॥
अधिकरण १४४ आश्रमकर्माधिकरणम् ॥
सूत्र ४५७ विहितत्वाच्चाऽश्रमकर्मापि ।
४५८ सहकाऋत्वेन च ।
४५९ सर्वथाऽपि तु त एवोभयलिङ्गात् ।
४६० अनभिभवं च दर्शयति ॥
अधिकरण १४५ विधुराधिकरणम् ॥
सूत्र ४६१ अन्तरा चापि तु तत्दृष्टेः ।
४६२ अपि च स्मर्यते ।
४६३ विशेषानुग्रहश्च ।
४६४ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥
अधिकरण १४६ तद्भुताधिकरणम् ॥
सूत्र ४६५ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥
अधिकरण १४७ अधिकारधिकरणम् ॥
सूत्र ४६६ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ।
४६७ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥
अधिकरण १४८ बहिरधिकरणम् ॥
सूत्र ४६८ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥
अधिकरण १४९ स्वाम्यधिकरणम् ॥
सूत्र ४६९ स्वामिनः फलश्रुतेरित्यात्रेयः ।
४७० आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ।
४७१ श्रुतेश्च ॥
अधिकरण १५० सहकार्यन्तरविध्यधिकरणम् ॥
सूत्र ४७२ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् ।
४७३ कृत्स्नभावात्तु गृहिणोपसंहारः ।
४७४ मौनवदितरेषामप्युपदेशात् ॥
अधिकरण १५१ अनाविष्कराधिकर्नम् ।
सूत्र ४७५ अनाविष्कुर्वन्नन्वयात् ॥
अधिकरण १५२ ऐहिकाधिकरणम् ॥
सूत्र ४७६ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥
अधिकरण १५३ मुक्तिफलाधिकरणम् ॥
सूत्र ४७७ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥
अध्यायः ४ फल अधिकरण ३८ सूत्राणि ७८
पाद १
अधिकरण १५४-१६७
सूत्र ४७८-४९६
अधिकरण १५४ आवृत्त्यधिकरणम् ॥
सूत्र ४७८ आवृत्तिरसकृदुपदेशात् ।
४७९ लिङ्गाच्च ॥
अधिकरण १५५ आत्मत्वोपसनाधिकरणम् ॥
सूत्र ४८० आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥
अधिकरण १५६ प्रतिकधिकरणम् ॥
सूत्र ४८१ न प्रतीके न हि सः ॥
अधिकरण १५७ ब्रह्मदृष्ट्यधिकरणम् ॥
सूत्र ४८२ ब्रह्मदृष्टिरुत्कर्षात् ॥
अधिकरण १५८ आदित्यादिमत्यधिकरणम् ॥
सूत्र ४८३ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥
अधिकरण १५९ आसीनाधिकरणम् ॥
सूत्र ४८४ आसीनः सम्भवात् ।
४८५ ध्यानाच्च ।
४८६ अचलत्वं चापेक्ष्य ।
४८७ स्मरन्ति च ॥
अधिकरण १६० एकाग्रताधिकरणम् ॥
सूत्र ४८८ यत्रैकाग्रता तत्राविशेषात् ॥
अधिकरण १६१ आप्रायणाधिकरणम् ॥
सूत्र ४८९ आप्रायाणात्तत्रापि हि दृष्टम् ॥
अधिकरण १६२ तदधिगमाधिकरणम् ॥
सूत्र ४९० तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ
तद्व्यपदेशात् ॥
अधिकरण १६३ इतरसंश्लेषाधिकरणम् ॥
सूत्र ४९१ इतरस्याप्येवमसंश्लेषः पाते तु ॥
अधिकरण १६४ अनारब्धाधिकरणम् ॥
सूत्र ४९२ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥
अधिकरण १६५ अग्निहोत्राद्यधिकरणम् ॥
सूत्र ४९३ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।
४९४ अतोऽन्यापि ह्येकेशामुभयोः ॥
अधिकरण १६६ विद्याज्ञानसाधनाधिकरणम् ॥
सूत्र ४९५ यदेव विद्ययेति हि ॥
अधिकरण १६७ इतरक्षपणाधिकरणम् ॥
सूत्र ४९६ भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥
अध्याय ४
पाद २
अधिकरण १६८-१७८
सूत्र ४९७-५१७
अधिकरण १६८ वागधिकरणम् ॥
सूत्र ४९७ वाङ्मनसि दर्शनाच्छब्दाच्च ।
४९८ अत एव च सर्वाण्यनु ॥
अधिकरण १६९ मनोऽधिकरणम् ।
सूत्र ४९९ तन्मनः प्राण उत्तरात् ॥
अधिकरण १७० अध्यक्षाधिकरणम् ॥
सूत्र ५०० सोऽध्यक्षे तदुपगमादिभ्यः ।
५०१ भूतेषु तत्श्रुतेः ।
५०२ नैकस्मिन् दर्शयतो हि ॥
अधिकरण १७१ असृत्युपक्रमाधिकरणम् ॥
सूत्र ५०३ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥
अधिकरण १७२ संसारव्यपदेशाधिकरणम् ॥
सूत्र ५०४ तदापीतेः संसारव्यपदेशात् ।
५०५ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।
५०६ नोपमर्देनातः ।
५०७ अस्यैव चोपपत्तेरेष ऊष्मा ॥
अधिकरण १७३ प्रतिषेधाधिकरणम् ॥
सूत्र ५०८ प्रतिषेधादिति चेन्न शारीरात् ।
५०९ स्पष्टो ह्येकेषाम् ।
५१० स्मर्यते च ॥
अधिकरण १७४ वागादिलयाधिकरणम् ॥
सूत्र ५११ तानि परे तथा ह्याह ॥
अधिकरण १७५ अविभागाधिकरणम् ॥
सूत्र ५१२ अविभागो वचनात् ॥
अधिकरण १७६ तदोकोऽधिकरणम् ॥
सूत्र ५१३ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् ।
तच्छेषगत्यनुस्मृतियोगाच्च
हार्दानुगृहीतः शताधिकया ॥
अधिकरण १७७ रश्म्यधिकरणम् ॥
सूत्र ५१४ रश्म्यनुसारी ।
५१५ निशि नेति चेन्न सम्बन्धस्य
यावद्देहभावित्वात् दर्शयति च ॥
अधिकरण १७८ दक्षिणयनाधिकरणम् ॥
सूत्र ५१६ अतश्चायनेऽपि दक्षिणे ।
५१७ योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥
अध्याय ४
पाद ३
अधिकरण १७९-१८४
सूत्र ५१८-५३३
अधिकरण १७९ अर्चिराद्यधिकरणम् ॥
सूत्र ५१८ अर्चिरादिना तत्प्रथितेः ॥
अधिकरण १८० वाय्वधिकरणम् ॥
सूत्र ५१९ वायुमब्दादविशेषविशेषाभ्याम् ॥
अधिकरण १८१ तडिदधिकरणम् ॥
सूत्र ५२० तडितोऽधि वरुणः सम्बन्धात् ॥
अधिकरण १८२ आतिवाहिकाधिकरणम् ॥
सूत्र ५२१ आतिवाहिकास्तल्लिङ्गात् ।
५२२ उभयव्यामोहात्तत्सिद्धेः ।
५२३ वैद्युतेनैव ततस्तत्श्रुतेः ॥
अधिकरण १८३ कार्याधिकरणम् ॥
सूत्र ५२४ कार्यं बादरिरस्य गत्युपपत्तेः ।
५२५ विशेषितत्वाच्च ।
५२६ सामीप्यात्तु तद्व्यपदेशः ।
५२७ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ।
५२८ स्मृतेश्च ।
५२९ परं जैमिनिर्मुख्यत्वात् ।
५३० दर्शनाच्च ।
५३१ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥
अधिकरण १८४ प्रतिकालम्बनाधिकरणम् ॥
सूत्र ५३२ अप्रतीकालम्बनान्नयतीति बादरायण
उभयथाऽदोषात्तत्क्रतुश्च ।
५३३ विशेषं च दर्शयति ॥
अध्याय ४
पाद ४
अधिकरण १८५-१९१
सूत्र ५३४-५५५
अधिकरण १८५ सम्पद्याविर्भावाधिकरणम् ॥
सूत्र ५३४ सम्पद्याविर्भावः स्वेनशब्दात् ।
५३५ मुक्तः प्रतिज्ञानात् ।
५३६ आत्मा प्रकरणात् ॥
अधिकरण १८६ अविभागेन दृष्टत्वधिकरणम् ॥
सूत्र ५३७ अविभागेन दृष्टत्वात् ॥
अधिकरण १८७ ब्रह्माधिकरणम् ॥
सूत्र ५३८ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।
५३९ चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ।
५४० एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥
अधिकरण १८८ सङ्कल्पाधिकरणम् ॥
सूत्र ५४१ सङ्कल्पादेव तु तत्श्रुतेः ।
५४२ अत एव चानन्याधिपतिः ॥
अधिकरण १८९ अभावाधिकरणम् ॥
सूत्र ५४३ अभावं बादरिराह ह्येवम् ।
५४४ भावं जैमिनिर्विकल्पामननात् ।
५४५ द्वादशाहवदुभयविधं बादरायणोऽतः ।
५४६ तन्वभावे सन्ध्यवदुपपत्तेः ।
५४७ भावे जाग्रद्वत् ॥
अधिकरण १९० प्रदीपाधिकरणम् ॥
सूत्र ५४८ प्रदीपवदावेशस्तथा हि दर्शयति ।
५४९ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥
अधिकरण १९१ जगद्व्यापाराधिकरणम् ॥
सूत्र ५५० जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ।
५५१ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।
५५२ विकारावर्ति च तथा हि स्थितिमाह ।
५५३ दर्शयतश्चैवं प्रत्यक्षानुमाने ।
५५४ भोगमात्रसाम्यलिङ्गाच्च ।
५५५ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥
Encoded and proofread by Sunder Hattangadi