पाणिनीयधातुपाठः निस्स्वरः

पाणिनीयधातुपाठः निस्स्वरः

॥अथ पाणिनीयधातुपाठः॥ अथ भ्वादयः । १.१ भू सत्तायाम् । उदात्तः परस्मैभाषः ॥ अथ तवर्गीयान्ताः । १.२ एध वृद्धौ । १.३ स्पर्ध सङ्घर्षे । १.४ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । १.५ बाधृ लोडने विलोडने । १.६ नाधृऽ १.७ नाथृ याच्ञोपतापैश्वर्याशीष्षु । १.८ दध धारणे । १.९ स्कुदि आप्रवणे । १.१० श्विदि श्वैत्ये । १.११ वदि अभिवादनस्तुत्योः । १.१२ भदि कल्याणे सुखे च । १.१३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । १.१४ स्पदि किञ्चिच्चलने । १.१५ क्लिदि परिदेवने । १.१६ मुद हर्षे । १.१७ दद दाने । १.१८ ष्वदऽ १.१९ स्वर्द आस्वादने । १.२० उर्द माने क्रीडायां च । १.२१ कुर्दऽ १.२२ खुर्दऽ १.२३ गुर्दऽ गुडक्रीडायामेव । १.२४ गुद क्रीडायामेव । १.२५ षूद क्षरणे । १.२६ ह्राद अव्यक्ते शब्दे । १.२७ ह्लादी सुखे च । १.२८ स्वाद आस्वादने । १.२९ पर्द कुत्सिते शब्दे । १.३० यती प्रयत्ने । १.३१ युतृऽ १.३२ जुतृ भासने । १.३३ विथृऽ १.३४ वेथृ याचने । १.३५ श्रथि शैथिल्ये । १.३६ ग्रथि कौटिल्ये । १.३७ कत्थ श्लाघायाम् । इत्येधादय उदात्ता अनुदात्तेतः ॥ १.३८ अत सातत्यगमने । १.३९ चिती सञ्ज्ञाने । १.४० च्युतिर् आसेचने । १.४१ श्चुतिर् इत्येके । १.४२ श्च्युतिर् क्षरणे । १.४३ ज्युतिर् भासने । १.४४ मन्थ विलोडने । १.४५ कुथिऽ १.४६ पुथिऽ १.४७ लुथिऽ १.४८ मथि हिंसासङ्क्लेशनयोः । १.४९ षिध गत्याम् । १.५० षिधू शास्त्रे माङ्गल्ये च । १.५१ खादृ भक्षणे । १.५२ खद स्थैर्ये हिंसायां च । १.५३ बद स्थैर्ये । १.५४ गद व्यक्तायां वाचि । १.५५ रद विलेखने । १.५६ णद अव्यक्ते शब्दे । १.५७ अर्द गतौ याचने च । १.५८ नर्दऽ १.५९ गर्द शब्दे । १.६० तर्द हिंसायाम् । १.६१ कर्द कुत्सिते शब्दे । १.६२ खर्द दन्दशूके । १.६३ अतिऽ १.६४ अदि बन्धने । १.६५ इदि परमैश्वर्ये । १.६६ बिदि अवयवे । १.६७ भिदि इत्येके । १.६८ गडि वदनैकदेशे । १.६९ णिदि कुत्सायाम् । १.७० टुनदि समृद्धौ । १.७१ चदि आह्लादे दीप्तौ च । १.७२ त्रदि चेष्टायाम् । १.७३ कदिऽ १.७४ क्रदिऽ १.७५ क्लदि आह्वाने रोदने च । १.७६ क्लिदि परिदेवने । १.७७ शुन्ध शुद्धौ । इत्यतादय उदात्ता उदात्तेतः ॥ अथ कवर्गीयान्ताः । १.७८ शीकृ सेचने । १.७९ सीकृ इत्येके । १.८० लोकृ दर्शने । १.८१ श्लोकृ सङ्घाते । १.८२ स्रोकृ इति पाठान्तरम् । १.८३ द्रेकृऽ १.८४ ध्रेकृ शब्दोत्साहयोः । १.८५ रेकृ शङ्कायाम् । १.८६ सेकृऽ १.८७ स्रेकृऽ १.८८ स्रकिऽ १.८९ श्रकिऽ १.९० श्लकि गतौ गत्यर्थाः । १.९१ शकि शङ्कायाम् । १.९२ अकि लक्षणे । १.९३ वकि कौटिल्ये । १.९४ मकि मण्डने । १.९५ कक लौल्ये । १.९६ कुकऽ १.९७ वृक आदाने । १.९८ चक तृप्तौ प्रतिघाते च । १.९९ ककिऽ १.१०० वकिऽ १.१०१ श्वकिऽ १.१०२ त्रकिऽ १.१०३ ढौकृऽ १.१०४ त्रौकृऽ १.१०५ ष्वस्कऽ ष्वष्कऽ १.१०६ वस्कऽ वष्कऽ १.१०७ मस्कऽ मष्क १.१०८ टिकृऽ १.१०९ टीकृऽ १.११० तिकृऽ १.१११ तीकृऽ १.११२ रघिऽ १.११३ लघि गत्यर्थाः । १.११४ ष्वकि इत्येके तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । १.११५ अघिऽ १.११६ वघिऽ १.११७ मघि गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे । मघि कैतवे च । १.११८ राघृऽ १.११९ लाघृऽ १.१२० द्राघृ सामर्थ्ये । १.१२१ ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । १.१२२ श्लाघृ कत्थने । इति शीकादय उदात्ता अनुदात्तेतः ॥ १.१२३ फक्क निचैर्गतौ । १.१२४ तक हसने । १.१२५ तकि कृच्छ्रजीवने । १.१२६ बुक्क भषणे । १.१२७ शुक गतौ । १.१२८ कख हसने । १.१२९ ओखृऽ १.१३० राखृऽ १.१३१ लाखृऽ १.१३२ द्राखृऽ १.१३३ ध्राखृ शोषणालमर्थयोः । १.१३४ शाखृऽ १.१३५ श्लाखृ व्याप्तौ । १.१३६ उखऽ १.१३७ उखिऽ १.१३८ वखऽ १.१३९ वखिऽ १.१४० मखऽ १.१४१ मखिऽ १.१४२ णखऽ १.१४३ णखिऽ १.१४४ रखऽ १.१४५ रखिऽ १.१४६ लखऽ १.१४७ लखिऽ १.१४८ इखऽ १.१४९ इखिऽ १.१५० ईखऽ १.१५१ ईखिऽ १.१५२ वल्गऽ १.१५३ रगिऽ १.१५४ लगिऽ १.१५५ अगिऽ १.१५६ वगिऽ १.१५७ मगिऽ १.१५८ तगिऽ १.१५९ त्वगिऽ १.१६० त्रगिऽ १.१६१ श्रगिऽ श्वगिऽ ष्वगिऽ १.१६२ श्लगिऽ १.१६३ इगिऽ १.१६४ रिगिऽ १.१६५ लिगि गत्यर्थाः । १.१६६ मुखिऽ १.१६७ थकिऽ १.१६८ रिखऽ १.१६९ रिखिऽ १.१७० लिखऽ १.१७१ लिखिऽ १.१७२ त्रखऽ १.१७३ त्रिखिऽ १.१७४ शिखि इत्यपि केचित् । त्वगि कम्पने च । १.१७५ युगिऽ १.१७६ जुगिऽ १.१७७ बुगि वर्जने । १.१७८ वुगि इत्येके । १.१७९ घघ हसने । १.१८० घग्घ इत्येके । १.१८१ दघि पालने । १.१८२ लघि शोषणे भाषायां दीप्तौ सीमातिक्रमे च । १.१८३ मघि मण्डने । १.१८४ शिघि आघ्राणे । १.१८५ अर्घ मूल्ये । इति फक्कादय उदात्ता उदात्तेतः ॥ अथ चवर्गीयान्ताः । १.१८६ वर्च दीप्तौ । १.१८७ षच सेचने सेवने च । १.१८८ लोचृ दर्शने । १.१८९ शच व्यक्तायां वाचि । १.१९० श्वचऽ १.१९१ श्वचि गतौ । १.१९२ कच बन्धने । १.१९३ कचिऽ १.१९४ काचि दीप्तिबन्धनयोः । १.१९५ मचऽ १.१९६ मुचि कल्कने । कथन इत्यन्ये । १.१९७ मचि धारणोच्छ्रायपूजनेषु । १.१९८ पचि व्यक्तीकरणे । १.१९९ ष्टुच प्रसादे । १.२०० ऋज गतिस्थानार्जनोपार्जनेषु । १.२०१ ऋजिऽ १.२०२ भृजी भर्जने । १.२०३ एजृऽ १.२०४ भ्रेजृऽ १.२०५ भ्राजृ दीप्तौ । १.२०६ रेजृ दीप्तौ । १.२०७ ईज गतिकुत्सनयोः । १.२०८ ईजि इत्येके । १.२०९ वीज गतौ । इति वर्चादय उदात्ता अनुदात्तेतः ॥ १.२१० शुच शोके । १.२११ कुच शब्दे तारे । १.२१२ कुञ्चऽ १.२१३ क्रुञ्च कौटिल्याल्पीभावयोः । १.२१४ लुञ्च अपनयने । १.२१५ अञ्चु गतिपूजनयोः । १.२१६ वञ्चुऽ १.२१७ चञ्चुऽ १.२१८ तञ्चुऽ १.२१९ त्वञ्चुऽ १.२२० म्रुञ्चुऽ १.२२१ म्लुञ्चुऽ १.२२२ म्रुचुऽ १.२२३ म्लुचु गत्यर्थाः । १.२२४ ग्रुचुऽ १.२२५ ग्लुचुऽ १.२२६ कुजुऽ १.२२७ खुजु स्तेयकरणे । १.२२८ ग्लुञ्चुऽ १.२२९ षस्ज षस्ज गतौ । षस्जिरात्मनेपद्यपि । १.२३० गुजऽ १.२३१ गुजि अव्यक्ते शब्दे । १.२३२ अर्च पूजायाम् । १.२३३ म्लेच्छ अव्यक्ते शब्दे । १.२३४ लछऽ १.२३५ लाछि लक्षणे । १.२३६ वाछि इच्छायाम् । १.२३७ आछि आयामे । १.२३८ ह्रीछ लज्जायाम् । १.२३९ हुर्छा कौटिल्ये । १.२४० मुर्छा मोहसमुच्छ्राययोः । (मुर्च्छा) १.२४१ स्फुर्छा विस्तृतौ । १.२४२ युच्छ प्रमादे । १.२४३ उछि उञ्छे । १.२४४ उछी विवासे । १.२४५ ध्रजऽ १.२४६ ध्रजिऽ १.२४७ व्रजऽ १.२४८ व्रजिऽ १.२४९ धृजऽ १.२५० धृजिऽ १.२५१ ध्वजऽ १.२५२ ध्वजि गतौ । १.२५३ ध्रिज च । १.२५४ कूजऽ १.२५५ कूजि अव्यक्ते शब्दे । १.२५६ अर्जऽ १.२५७ षर्ज अर्जने । १.२५८ गर्ज शब्दे । १.२५९ तर्ज भर्त्सने । १.२६० कर्ज व्यथने । १.२६१ खर्ज पूजने च । १.२६२ अज गतिक्षेपणयोः । १.२६३ तेज पालने । १.२६४ खज मन्थे । १.२६५ कज मदे इत्येके । १.२६६ खजि गतिवैकल्ये । १.२६७ एजृ कम्पने । १.२६८ टुओस्फूर्जा वज्रनिर्घोषे । १.२६९ क्षि क्षये । १.२७० क्षीज अव्यक्ते शब्दे । १.२७१ लजऽ १.२७२ लजि भर्जने । १.२७३ लाजऽ १.२७४ लाजि भर्त्सने च । १.२७५ जजऽ १.२७६ जजि युद्धे । १.२७७ तुज हिंसायाम् । १.२७८ तुजि पालने । १.२७९ गजऽ १.२८० गजिऽ १.२८१ गृजऽ १.२८२ गृजिऽ १.२८३ मुजऽ १.२८४ मुजि शब्दार्थाः । गज मदने च । १.२८५ वजऽ १.२८६ व्रज गतौ । इति शुचादयः क्षिवर्जमुदात्ता उदात्तेतः ॥ अथ टवर्गीयान्ताः । १.२८७ अट्ट अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः । १.२८८ वेष्ट वेष्टने । १.२८९ चेष्ट चेष्टायाम् । १.२९० गोष्टऽ १.२९१ लोष्ट सङ्घाते । १.२९२ घट्ट चलने । १.२९३ स्फुट विकसने । १.२९४ अठि गतौ । १.२९५ वठि एकचर्यायाम् । १.२९६ मठिऽ १.२९७ कठि शोके । १.२९८ मुठि पालने । १.२९९ हेठ विबाधायाम् । १.३०० एठ च । १.३०१ हिडि गत्यनादरयोः । १.३०२ हुडि सङ्घाते । १.३०३ कुडि दाहे । १.३०४ वडि विभाजने । १.३०५ मडि च । १.३०६ भडि परिभाषणे । १.३०७ पिडि सङ्घाते । १.३०८ मुडि मार्जने । १.३०९ तुडि तोडने । १.३१० हुडि वरणे । हरण इत्येके । १.३११ स्फुडि विकसने । १.३१२ चडि कोपे । १.३१३ शडि रुजायां सङ्घाते च । १.३१४ तडि ताडने । १.३१५ पडि गतौ । १.३१६ कडि मदे । १.३१७ खडि मन्थे । १.३१८ हेडृऽ १.३१९ होडृ अनादरे । १.३२० बाडृ आप्लाव्ये । १.३२१ वाडृ इत्येके । १.३२२ द्राडृऽ १.३२३ ध्राडृ विशरणे । १.३२४ शाडृ श्लाघायाम् । इत्यट्टादय उदात्ता अनुदात्तेतः ॥ १.३२५ शौटृ गर्वे । १.३२६ यौटृ बन्धे । १.३२७ म्रेटृऽ १.३२८ म्रेडृ उन्मादे । १.३२९ म्लेटृ इत्येके । १.३३० कटे वर्षावरणयोः । १.३३१ चटे इत्येके । १.३३२ अटऽ १.३३३ पट गतौ । १.३३४ रट परिभाषणे । १.३३५ लट बाल्ये । १.३३६ शट रुजाविशरणगत्यवसादनेषु । १.३३७ वट वेष्टने । १.३३८ किटऽ १.३३९ खिट त्रासे । १.३४० शिटऽ १.३४१ षिट अनादरे । १.३४२ जटऽ १.३४३ झट सङ्घाते । १.३४४ भट भृतौ । १.३४५ तट उच्छ्राये । १.३४६ खट काङ्क्षायाम् । १.३४७ णट नट नृत्तौ । १.३४८ पिट शब्दसङ्घातयोः । १.३४९ हट दीप्तौ च । १.३५० षट अवयवे । १.३५१ लुट विलोडने । १.३५२ लुड इत्येके डान्तोऽयमित्येके । १.३५३ चिट परप्रैष्ये परप्रेष्ये । १.३५४ विट शब्दे । १.३५५ बिट आक्रोशे । १.३५६ हिट इत्येके । १.३५७ इटऽ १.३५८ किटऽ १.३५९ कटी गतौ । १.३६० हेठ विबाधायाम् । १.३६१ मडि भूषायाम् । १.३६२ कुडि वैकल्ये । १.३६३ कुटि इत्येके । १.३६४ मुडऽ १.३६५ प्रुड मर्दने प्रमर्दने । १.३६६ मुटऽ १.३६७ पुट इत्येके । १.३६८ चुडि अल्पीभावे । १.३६९ मुडि खण्डने । १.३७० पुडि चेत्येके । १.३७१ रुटिऽ १.३७२ लुटि स्तेये । १.३७३ रुठिऽ १.३७४ लुठि इत्येके । १.३७५ रुडिऽ १.३७६ लुडि इत्यपरे । १.३७७ वटि विभाजने । १.३७८ बटि इत्येके । १.३७९ स्फुटिर् विशरणे । १.३८० स्फुटि इत्यपि केचित् । १.३८१ पठ व्यक्तायां वाचि । १.३८२ वठ स्थौल्ये । १.३८३ बठ इत्येके । १.३८४ मठ मदनिवासयोः । १.३८५ कठ कृच्छ्रजीवने । १.३८६ रठ परिभाषणे । १.३८७ रट इत्येके ॥ १.३८८ हठ प्लुतिशठत्वयोः । बलात्कार इत्यन्ये । १.३८९ रुठऽ १.३९० लुठऽ १.३९१ ऊठ उपघाते । १.३९२ उठ इत्येके । १.३९३ पिठ हिंसासङ्क्लेशनयोः । १.३९४ शठ कैतवे च । १.३९५ शुठ गतिप्रतिघाते प्रतिघाते । १.३९६ शुठि इत्येके । १.३९७ कुठि च । १.३९८ लुठि आलस्ये प्रतिघाते च । १.३९९ शुठि शोषणे । १.४०० रुठिऽ १.४०१ लुठि गतौ । १.४०२ चुड्ड चुद्ड भावकरणे । १.४०३ अड्ड अद्ड अभियोगे । १.४०४ कड्ड कद्ड कार्कश्ये । चुड्डादयस्त्रयो दोपधाः । १.४०५ क्रीडृ विहारे । १.४०६ तुडृ तोडने । १.४०७ तूडृ इत्येके । १.४०८ हुडृऽ १.४०९ हूडृऽ १.४१० होडृ गतौ । १.४११ रौडृ अनादरे । १.४१२ रोडृऽ १.४१३ लोडृ उन्मादे । १.४१४ अड उद्यमे । १.४१५ लड विलासे । १.४१६ लल इत्येके ईप्सायाम् । १.४१७ कड मदे । १.४१८ कडि इत्येके ॥ १.४१९ गडि वदनैकदेशे । इति शौट्रादय उदात्ता उदात्तेतः ॥ अथ पवर्गीयान्ताः । १.४२० तिपृऽ १.४२१ तेपृऽ १.४२२ ष्टिपृऽ १.४२३ ष्टेपृ क्षरणार्थाः । आद्योऽनुदात्तः । तेपृ कम्पने च । १.४२४ ग्लेपृ दैन्ये । १.४२५ टुवेपृ कम्पने । १.४२६ केपृऽ १.४२७ गेपृऽ १.४२८ ग्लेपृ च । १.४२९ मेपृऽ १.४३० रेपृऽ १.४३१ लेपृ गतौ । १.४३२ हेपृऽ १.४३३ धेपृ च । १.४३४ त्रपूष् लज्जायाम् । १.४३५ कपि चलने । १.४३६ रबिऽ १.४३७ लबिऽ १.४३८ अबि शब्दे । १.४३९ लबि अवस्रंसने च । १.४४० कबृ वर्णे । १.४४१ क्लीबृ अधार्ष्ट्ये । १.४४२ क्षीबृ मदे । १.४४३ क्षीवृ इत्येके । १.४४४ शीभृ कत्थने । १.४४५ बीभृऽ १.४४६ चीभृ च । १.४४७ रेभृ शब्दे । १.४४८ अभिऽ १.४४९ रभि क्वचित्पठ्येते इत्येके । १.४५० लभि च । १.४५१ ष्टभिऽ १.४५२ स्कभि प्रतिबन्धे । १.४५३ जभीऽ १.४५४ जृभि गात्रविनामे । १.४५५ शल्भ कत्थने । १.४५६ वल्भ भोजने । १.४५७ गल्भ धार्ष्ट्ये । (some have typo as धाष्टर्ये) १.४५८ श्रम्भु प्रमादे । १.४५९ स्रम्भु इत्येके दन्त्यादिश्च । १.४६० ष्टुभु स्तम्भे । इति तिपादयस्तिपिवर्जमुदात्ता अनुदात्तेतः ॥ १.४६१ गुपू रक्षणे । १.४६२ धूप सन्तापे । १.४६३ जपऽ १.४६४ जल्प व्यक्तायां वाचि । जप मानसे च । १.४६५ चप सान्त्वने । १.४६६ षप समवाये । १.४६७ रपऽ १.४६८ लप व्यक्तायां वाचि । १.४६९ चुप मन्दायां गतौ । १.४७० तुपऽ १.४७१ तुम्पऽ १.४७२ त्रुपऽ १.४७३ त्रुम्पऽ १.४७४ तुफऽ १.४७५ तुम्फऽ १.४७६ त्रुफऽ १.४७७ त्रुम्फ हिंसार्थाः । १.४७८ पर्पऽ १.४७९ रफऽ १.४८० रफिऽ १.४८१ अर्बऽ १.४८२ पर्बऽ १.४८३ लर्बऽ १.४८४ बर्बऽ १.४८५ मर्बऽ १.४८६ कर्बऽ १.४८७ खर्बऽ १.४८८ गर्बऽ १.४८९ शर्बऽ १.४९० षर्बऽ १.४९१ चर्ब गतौ । चर्ब अदने च । १.४९२ कुबि आच्छादने छादने । १.४९३ लुबिऽ १.४९४ तुबि अर्दने । १.४९५ चुबि वक्त्रसंयोगे । १.४९६ षृभुऽ १.४९७ षृम्भु हिंसार्थौ । १.४९८ षिभुऽ १.४९९ षिम्भु इत्येके । १.५०० शुभऽ १.५०१ शुम्भ भाषने । भासन इत्येके । हिंसायामित्यन्ये । इति गुपादय उदात्ता उदात्तेतः ॥ अथानुनासिकान्ताः । १.५०२ घिणिऽ १.५०३ घुणिऽ १.५०४ घृणि ग्रहणे । १.५०५ घुणऽ १.५०६ घूर्ण भ्रमणे । १.५०७ पण व्यवहारे स्तुतौ च । १.५०८ पन च । १.५०९ भाम क्रोधे । १.५१० क्षमूष् सहने । १.५११ कमु कान्तौ । इति घिण्यादय उदात्ता अनुदात्तेतः ॥ १.५१२ अणऽ १.५१३ रणऽ १.५१४ वणऽ १.५१५ भणऽ १.५१६ मणऽ १.५१७ कणऽ १.५१८ क्वणऽ १.५१९ व्रणऽ ब्रणऽ १.५२० भ्रणऽ १.५२१ ध्वण शब्दार्थाः । १.५२२ धण इत्यपि केचित् । १.५२३ ओणृ अपनयने । १.५२४ शोणृ वर्णगत्योः । १.५२५ श्रोणृ सङ्घाते । १.५२६ श्लोणृ च । १.५२७ पैणृ गतिप्रेरणश्लेषणेषु । १.५२८ प्रैणृ इत्यपि ॥ १.५२९ ध्रणऽ शब्दे । १.५३० बण इत्यपि केचित् । १.५३१ कनी दीप्तिकान्तिगतिषु । १.५३२ ष्टनऽ १.५३३ वन शब्दे । १.५३४ वनऽ १.५३५ षण सम्भक्तौ । १.५३६ अम गत्यादिषु गतौ शब्दे सम्भक्तौ च । १.५३७ द्रमऽ १.५३८ हम्मऽ १.५३९ मीमृ गतौ । मीमृ शब्दे च । १.५४० चमुऽ १.५४१ छमुऽ १.५४२ जमुऽ १.५४३ झमु अदने । १.५४४ जिमु इति केचित् । १.५४५ क्रमु पादविक्षेपे । इत्यणादय उदात्ता उदात्तेतः ॥ अथ यरलवान्ताः । १.५४६ अयऽ १.५४७ वयऽ १.५४८ पयऽ १.५४९ मयऽ १.५५० चयऽ १.५५१ तयऽ १.५५२ णय गतौ । णय रक्षणे च । १.५५३ दय दानगतिरक्षणहिंसादानेषु । १.५५४ रय गतौ । १.५५५ लय च । १.५५६ ऊयी तन्तुसन्ताने । १.५५७ पूयी विशरणे दुर्गन्धे च । १.५५८ क्नूयी शब्दे उन्दे च । (उन्दने) १.५५९ क्ष्मायी विधूनने । १.५६० स्फायीऽ १.५६१ ओप्यायी वृद्धौ । १.५६२ तायृ सन्तानपालनयोः । १.५६३ शल चलनसंवरणयोः । १.५६४ वलऽ १.५६५ वल्ल संवरणे सञ्चलने च । १.५६६ मलऽ १.५६७ मल्ल धारणे । १.५६८ भलऽ १.५६९ भल्ल परिभाषणहिंसादानेषु । १.५७० कल शब्दसङ्ख्यानयोः । १.५७१ कल्ल अव्यक्ते शब्दे । अशब्द इत्येके । १.५७२ तेवृऽ १.५७३ देवृ देवने । १.५७४ षेवृऽ १.५७५ गेवृऽ १.५७६ ग्लेवृऽ १.५७७ पेवृऽ १.५७८ मेवृऽ १.५७९ म्लेवृ सेवने । १.५८० शेवृऽ १.५८१ खेवृऽ १.५८२ प्लेवृऽ १.५८३ केवृ इत्यप्येके । १.५८४ रेवृ प्लवगतौ । इत्ययादय उदात्ता अनुदात्तेतः ॥ १.५८५ मव्य बन्धने । १.५८६ षूर्क्ष्यऽ सूर्क्ष्यऽ १.५८७ ईर्क्ष्यऽ १.५८८ ईर्ष्य ईर्ष्यार्थाः । १.५८९ हय गतौ । १.५९० शुच्य अभिषवे । १.५९१ चुच्य इत्येके । १.५९२ हर्य गतिकान्त्योः । १.५९३ अल अल भूषणपर्याप्तिवारणेषु । अयं स्वरितेदित्येके । १.५९४ ञिफला विशरणे । १.५९५ मीलऽ १.५९६ श्मीलऽ १.५९७ स्मीलऽ १.५९८ क्ष्मील निमेषणे । १.५९९ पील प्रतिष्टम्भे । १.६०० णील वर्णे । १.६०१ शील समाधौ । १.६०२ कील बन्धने । १.६०३ कूल आवरणे । १.६०४ शूल रुजायां सङ्घाते च । १.६०५ तूल निष्कर्षे । १.६०६ पूल सङ्घाते । १.६०७ मूल प्रतिष्ठायाम् । १.६०८ फल निष्पत्तौ । १.६०९ चुल्ल भावकरणे । १.६१० फुल्ल विकसने । १.६११ चिल्ल शैथिल्ये भावकरणे च । १.६१२ तिल गतौ । १.६१३ तिल्ल इत्येके । १.६१४ वेलृऽ १.६१५ चेलृऽ १.६१६ केलृऽ १.६१७ खेलृऽ १.६१८ क्ष्वेलृऽ १.६१९ वेल्ल चलने । १.६२० वेह्ल इत्येके । १.६२१ पेलृऽ पल्लऽ १.६२२ फेलृऽ १.६२३ शेलृ गतौ । १.६२४ षेलृ इत्येके । १.६२५ स्खल सञ्चलने । १.६२६ खल सञ्चये च । १.६२७ गल अदने भक्षणे स्रावे च । १.६२८ षल गतौ । १.६२९ दल विशरणे । १.६३० श्वलऽ १.६३१ श्वल्ल आशुगमने । १.६३२ खोलृऽ १.६३३ खोरृ गतिप्रतिघाते । १.६३४ धोरृ गतिचातुर्ये । १.६३५ त्सर छद्मगतौ । १.६३६ क्मर हूर्छने । १.६३७ अभ्रऽ १.६३८ वभ्रऽ बभ्रऽ १.६३९ मभ्रऽ १.६४० चर गत्यर्थाः । चरतिर्भक्षणर्थोऽपि चर भक्षणे च चरतिर्भक्षणेऽपि । १.६४१ ष्ठिवु निरसने । १.६४२ जि जये । १.६४३ जीव प्राणधारणे । १.६४४ पीवऽ १.६४५ मीवऽ १.६४६ तीवऽ १.६४७ णीव स्थौल्ये । १.६४८ क्षिवुऽ १.६४९ क्षेवु निरसने । १.६५० उर्वीऽ १.६५१ तुर्वीऽ १.६५२ थुर्वीऽ १.६५३ दुर्वीऽ १.६५४ धुर्वी हिंसार्थाः । १.६५५ गुर्वी उद्यमने । १.६५६ मुर्वी बन्धने । १.६५७ पुर्वऽ पूर्वऽ १.६५८ पर्वऽ १.६५९ मर्व पूरणे । १.६६० चर्व अदने । १.६६१ भर्वऽ हिंसायाम् । १.६६२ भर्ब इत्येके । १.६६३ भर्भ इत्यन्ये । १.६६४ कर्वऽ १.६६५ खर्वऽ १.६६६ गर्व दर्पे । १.६६७ अर्वऽ १.६६८ शर्वऽ १.६६९ षर्व हिंसायाम् । १.६७० इवि व्याप्तौ । १.६७१ पिविऽ १.६७२ मिविऽ १.६७३ णिवि सेचने । सेचने चेत्येके । १.६७४ षिवि इत्येके । सेवन इति तरङ्गिण्याम् । १.६७५ हिविऽ १.६७६ दिविऽ १.६७७ धिविऽ १.६७८ जिवि प्रीणनार्थाः । १.६७९ रिविऽ १.६८० रविऽ १.६८१ धवि गत्यर्थाः । १.६८२ कृवि हिंसाकरणयोश्च । १.६८३ मव बन्धने । १.६८४ अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशऽ श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु । इति मव्यादयो जयतिवर्जमुदात्ता उदात्तेतः ॥ १.६८५ धावु गतिशुद्ध्योः । उदात्तः स्वरितेत् ॥ अथोष्मान्ताः । १.६८६ धुक्षऽ १.६८७ धिक्ष सन्दीपनक्लेशनजीवनेषु । १.६८८ वृक्ष वरणे । १.६८९ शिक्ष विद्योपादाने । १.६९० भिक्ष भिक्षायामलाभे लाभे च । १.६९१ क्लेश अव्यक्तायां वाचि । बाधन इत्यन्ये इति दुर्गः । १.६९२ दक्ष वृद्धौ शीघ्रार्थे च । १.६९३ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । १.६९४ ईक्ष दर्शने । १.६९५ ईष गतिहिंसादर्शनेषु । १.६९६ भाष व्यक्तायां वाचि । १.६९७ वर्ष स्नेहने । १.६९८ गेषृ अन्विच्छायाम् । १.६९९ ग्लेषृ इत्येके । १.७०० पेषृ प्रयत्ने । १.७०१ एषृ इत्येके । १.७०२ येषृ इत्यन्ये । १.७०३ जेषृऽ १.७०४ णेषृऽ १.७०५ एषृऽ १.७०६ प्रेषृ गतौ । १.७०७ रेषृऽ १.७०८ हेषृऽ १.७०९ ह्रेषृ अव्यक्ते शब्दे । १.७१० कासृ शब्दकुत्सायाम् । १.७११ भासृ दीप्तौ । १.७१२ णासृऽ १.७१३ रासृ शब्दे । १.७१४ णस कौटिल्ये । १.७१५ भ्यस भये । १.७१६ आङः शसि इच्छायाम् । १.७१७ ग्रसुऽ १.७१८ ग्लसु अदने । १.७१९ ईह चेष्टायाम् । १.७२० बहिऽ १.७२१ महि वृद्धौ । १.७२२ अहि गतौ । १.७२३ गर्हऽ १.७२४ गल्ह कुत्सायाम् । १.७२५ बर्हऽ १.७२६ बल्ह प्राधान्ये । १.७२७ वर्हऽ १.७२८ वल्ह परिभाषणहिंसाच्छादनेषु । १.७२९ प्लिह गतौ । १.७३० वेहृऽ बेहृऽ १.७३१ जेहृऽ १.७३२ बाहृऽ वाहृ प्रयत्ने । जेहृ गतावपि । १.७३३ द्राहृ निद्राक्षये । निक्षेप इत्येके । १.७३४ काश‍ृ दीप्तौ । १.७३५ ऊह वितर्के । १.७३६ गाहू विलोडने । १.७३७ गृहू ग्रहणे । १.७३८ ग्लह च अपादाने । १.७३९ घुषि कान्तिकरणे । १.७४० घष इति केचित् । इति धुक्षादय उदात्ता अनुदात्तेतः ॥ १.७४१ घुषिर् अविशब्दने । शब्द इत्यन्ये पेठुः । १.७४२ अक्षू व्याप्तौ । १.७४३ तक्षूऽ १.७४४ त्वक्षू तनूकरणे । १.७४५ उक्ष सेचने । १.७४६ रक्ष पालने । १.७४७ णिक्ष चुम्बने । १.७४८ त्रक्षऽ १.७४९ ष्ट्रक्षऽ १.७५० तृक्षऽ १.७५१ ष्टृक्षऽ १.७५२ णक्ष गतौ । १.७५३ वक्ष रोषे । सङ्घात इत्येके । १.७५४ मृक्ष सङ्घाते । १.७५५ म्रक्ष इत्येके । १.७५६ तक्ष त्वचने । १.७५७ पक्ष परिग्रह इत्येके । १.७५८ सूर्क्ष आदरे । १.७५९ षर्क्ष इति केचित् । १.७६० काक्षिऽ १.७६१ वाक्षिऽ १.७६२ माक्षि काङ्क्षायाम् । १.७६३ द्राक्षिऽ १.७६४ ध्राक्षिऽ १.७६५ ध्वाक्षि घोरवासिते च । १.७६६ ध्माक्षि इत्येके । १.७६७ चूष पाने । १.७६८ तूष तुष्टौ । १.७६९ पूष वृद्धौ । १.७७० मूष स्तेये । १.७७१ लूषऽ १.७७२ रूष भूषायाम् । १.७७३ शूष प्रसवे । १.७७४ सूष इत्येके । १.७७५ यूष हिंसायाम् । १.७७६ जूष च । १.७७७ भूषऽ १.७७८ तसि अलङ्कारे । १.७७९ ऊष रुजायाम् । १.७८० ईष उञ्छे । १.७८१ कषऽ १.७८२ खषऽ १.७८३ शिषऽ १.७८४ जषऽ १.७८५ झषऽ १.७८६ शषऽ १.७८७ वषऽ १.७८८ मषऽ १.७८९ रुषऽ १.७९० रिष हिंसार्थाः । १.७९१ भष भर्त्सने । १.७९२ उष दाहे । १.७९३ जिषुऽ १.७९४ विषुऽ १.७९५ मिषुऽ १.७९६ णिषु सेचने । १.७९७ पुष पुष्टौ । १.७९८ श्रिषुऽ १.७९९ श्लिषुऽ १.८०० प्रुषुऽ १.८०१ प्लुषु दाहे । १.८०२ पृषुऽ १.८०३ वृषुऽ १.८०४ मृषु सेचने । मृषु सहने च । इतरौ हिंसासङ्क्लेशनयोश्च । १.८०५ घृषु सङ्घर्षे । १.८०६ हृषु अलीके । १.८०७ तुसऽ १.८०८ ह्रसऽ हृसऽ १.८०९ ह्लसऽ १.८१० रस शब्दे । १.८११ लस श्लेषणक्रीडनयोः च । १.८१२ घसॢ अदने । १.८१३ जर्त्सऽ जर्जऽ जर्चऽ १.८१४ चर्चऽ १.८१५ झर्त्स झर्झ झर्ज परिभाषणहिंसातर्जनेषु । १.८१६ पिसृऽ १.८१७ पेसृऽ १.८१८ विसऽ १.८१९ वेसऽ १.८२० बिसऽ १.८२१ बेस गतौ । १.८२२ हसे हसने । १.८२३ णिश समाधौ । १.८२४ मिशऽ १.८२५ मश शब्दे । १.८२६ शव गतौ । १.८२७ शश प्लुतगतौ । १.८२८ शसु हिंसायाम् । १.८२९ शंसु स्तुतौ । दुर्गतावपीत्येके इति दुर्गः । १.८३० चह परिकल्कने । १.८३१ मह पूजायाम् । १.८३२ रह त्यागे । १.८३३ रहि गतौ । १.८३४ दृहऽ १.८३५ दृहिऽ १.८३६ बृहऽ वृहऽ १.८३७ बृहि वृहि वृद्धौ । बृहि वृहि शब्दे च । बृहिर् वृहिर् इत्येके । १.८३८ तुहिर्ऽ १.८३९ दुहिर्ऽ १.८४० उहिर् अर्दने । १.८४१ अर्ह पूजायाम् । इति घुषिरादय उदात्ता उदात्तेतः ॥ अथ द्युतादयः । १.८४२ द्युत दीप्तौ । १.८४३ श्विता वर्णे । १.८४४ ञिमिदा स्नेहने । १.८४५ ञिष्विदा स्नेहनमोचनयोः गात्रप्रस्रवणे । स्नेहनमोहनयोरित्येके । १.८४६ ञिक्ष्विदा चेत्येके । १.८४७ रुच दीप्तावभिप्रीतौ च । १.८४८ घुट परिवर्तने । १.८४९ रुटऽ १.८५० लुटऽ १.८५१ लुठ १.८५२ उठ उपघाते प्रतिघाते । १.८५३ शुभ दीप्तौ । १.८५४ क्षुभ सञ्चलने । १.८५५ णभऽ १.८५६ तुभ हिंसायाम् । आद्योऽभावेऽपि । १.८५७ स्रंसुऽ श्रंसुऽ श्रंशुऽ १.८५८ ध्वंसुऽ १.८५९ भ्रंसु अवस्रंसने । ध्वंसु गतौ च । १.८६० भ्रंशु इत्यपि केचित् तृतीय एव तालव्यान्त इत्यन्ये । १.८६१ स्रम्भु विश्वासे । १.८६२ वृतु वर्तने । १.८६३ वृधु वृधौ । १.८६४ श‍ृधु शब्दकुत्सायाम् । १.८६५ स्यन्दू प्रस्रवणे । १.८६६ कृपू सामर्थ्ये । वृत् ॥ इति द्युतादय उदात्ता अनुदात्तेतः ॥ अथ घटादयो मितः । १.८६७ घटम् चेष्टायाम् । १.८६८ व्यथम् भयसञ्चलनयोः । १.८६९ प्रथम् प्रख्याने । १.८७० प्रसम् विस्तारे । १.८७१ म्रदम् मर्दने । १.८७२ स्खदम् स्खदने । १.८७३ क्षजिम् गतिदानयोः । १.८७४ दक्षम् गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च । १.८७५ कृपम् कृपायां गतौ च । १.८७६ क्रपम् इत्येके । १.८७७ कपम् इत्यन्ये । १.८७८ कदिम्ऽ १.८७९ क्रदिम्ऽ १.८८० क्लदिम् वैक्लव्ये । वैकल्य इत्येके । १.८८१ कदम्ऽ १.८८२ क्रदम्ऽ १.८८३ क्लदम् इत्यन्ये ॥ १.८८४ ञित्वराम् सम्भ्रमे । घटादयो मितः । इति घटादय उदात्ता अनुदात्तेतः । १.८८५ ज्वरम् रोगे । १.८८६ गडम् सेचने । १.८८७ हेडम् वेष्टने । १.८८८ वटम्ऽ १.८८९ भटम् परिभाषणे । १.८९० णटम् नृत्तौ । नतावित्येके । गतावित्यन्ये । १.८९१ ष्टकम् प्रतिघाते प्रतीघाते । १.८९२ चकम् तृप्तौ । १.८९३ कखेम् हसने । १.८९४ रगेम् शङ्कायाम् । १.८९५ लगेम् सङ्गे । १.८९६ ह्रगेम्ऽ १.८९७ ह्लगेम्ऽ १.८९८ षगेम्ऽ १.८९९ ष्ठगेम् संवरणे । १.९०० कगेम् नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये । १.९०१ अकम्ऽ १.९०२ अगम् कुटिलायां गतौ । १.९०३ कणम्ऽ १.९०४ रणम् गतौ । १.९०५ चणम्ऽ १.९०६ शणम्ऽ १.९०७ श्रणम् दाने च । शणम् गतावित्यन्ये । १.९०८ श्रथम्ऽ १.९०९ श्नथम्ऽ १.९१० श्लथम्ऽ १.९११ क्नथम्ऽ १.९१२ क्रथम्ऽ १.९१३ क्लथम् हिंसार्थाः । १.९१४ चनम् च । १.९१५ वनुम् च नोच्यते नोपलभ्यते । १.९१६ ज्वलम् दीप्तौ । १.९१७ ह्वलम्ऽ १.९१८ ह्मलम् सञ्चलने चलने । १.९१९ स्मृम् आध्याने । १.९२० दृईम् भये । १.९२१ नृईम् नये । १.९२२ श्राम् पाके । १.९२३ ॥ मारणतोषणनिशामनेषु ज्ञाम् । मारणतोषणनिशानेष्विति पाठान्तरम् ॥ १.९२४ ॥ कम्पने चलिः ॥ १.९२५ ॥ छदिर् ऊर्जने ॥ १.९२६ ॥ जिह्वोन्मथने लडिः ॥ १.९२७ ॥ मदीम् हर्षग्लेपनयोः ॥ १.९२८ ॥ ध्वनम् शब्दे ॥ १.९२९ ॥ दलिऽ १.९३० ॥ वलिऽ १.९३१ ॥ स्खलिऽ १.९३२ ॥ रणिऽ १.९३३ ॥ ध्वनिऽ १.९३४ ॥ त्रपिऽ १.९३५ ॥ क्षपयश्च इति भोजः ॥ १.९३६ ॥ स्वनम् अवतंसने । घटादयो मितः ॥ १.९३७ ॥ जनीऽ १.९३८ ॥ जृईष्ऽ १.९३९ ॥ क्नसुऽ १.९४० ॥ रञ्जोऽमन्ताश्च ॥ १.९४१ ॥ ज्वलऽ १.९४२ ॥ ह्वलऽ १.९४३ ॥ ह्मलऽ १.९४४ ॥ नमामनुपसर्गाद्वा ॥ १.९४५ ॥ ग्लाऽ १.९४६ ॥ स्नाऽ १.९४७ ॥ वनुऽ १.९४८ ॥ वमां च ॥ १.९४९ ॥ न कमिऽ १.९५० ॥ अमिऽ १.९५१ ॥ चमाम् ॥ १.९५२ ॥ शमो दर्शने ॥ १.९५३ ॥ यमोऽपरिवेषणे ॥ १.९५४ ॥ स्खदिर् अवपरिभ्यां च ॥ अथ फणादयः । १.९५५ फणम् गतौ गतिदीप्त्योः । वृत् । इति घटादयः फणान्ता मितः । इति ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १.९५६ राजृ दीप्तौ । उदात्तः स्वरितेत् ॥ १.९५७ टुभ्राजृऽ १.९५८ टुभ्राश‍ृऽ १.९५९ टुभ्लाश‍ृ दीप्तौ । इत्युदात्ता अनुदात्तेतः ॥ १.९६० स्यमुऽ १.९६१ स्वनऽ १.९६२ ध्वन शब्दे । फणादयो गताः । १.९६३ षमऽ १.९६४ ष्टम अवैकल्ये वैकल्ये । वृत् । अथ ज्वलादयः । १.९६५ ज्वल दीप्तौ । १.९६६ चल कम्पने । १.९६७ जल घातने । १.९६८ टलऽ १.९६९ ट्वल वैकल्ये । १.९७० ष्ठल स्थाने । १.९७१ हल विलेखने । १.९७२ णल गन्धे । बन्धन इत्येके । १.९७३ पल गतौ । १.९७४ बल प्राणने धान्यावरोधे च धान्यावरोधने च । १.९७५ पुल महत्त्वे । १.९७६ कुल संस्त्याने बन्धुषु च । १.९७७ शलऽ १.९७८ हुलऽ १.९७९ पतॢ गतौ । १.९८० हुल हिंसासंवरणयोश्च हिंसायां संवरणे च । १.९८१ क्वथे निष्पाके । १.९८२ पथे गतौ । १.९८३ मथे विलोडने । १.९८४ टुवम उद्गिरणे । १.९८५ भ्रमु चलने । १.९८६ क्षर सञ्चलने । १.९८७ क्षुर सञ्चये । इति स्यमादय उदात्ता उदात्तेतः ॥ १.९८८ षह मर्षणे । उदात्तोऽनुदात्तेत् ॥ १.९८९ रमु क्रीडायाम् । रम इति माधवः । अनुदात्तोऽनुदात्तेत् ॥ १.९९० षदॢ विशरणगत्यवसादनेषु । १.९९१ शदॢ शातने । १.९९२ क्रुश आह्वाने रोदने च । इति षदादयस्त्रयोऽनुदात्ता उदात्तेतः ॥ १.९९३ कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । १.९९४ बुध अवगमने । १.९९५ रुह बीजजन्मनि प्रादुर्भावे च । १.९९६ कस गतौ । इति कुचादय उदात्ता उदात्तेतो रुहिस्त्वनुदात्तः । वृत् । ज्वलादिर्गतः ॥ १.९९७ हिक्क अव्यक्ते शब्दे । १.९९८ अञ्चु गतौ याचने च । १.९९९ अचु इत्येके । १.१००० अचि इत्येपरे । १.१००१ टुयाचृ याच्ञायाम् । १.१००२ रेटृ परिभाषणे । १.१००३ चतेऽ १.१००४ चदे याचने च । १.१००५ प्रोथृ पर्याप्तौ । १.१००६ मिदृऽ १.१००७ मेदृ मेधाहिंसनयोः । १.१००८ मिथृऽ १.१००९ मेथृ इत्येके । १.१०१० मिधृ १.१०११ मेधृ इत्यन्ये । मेधृ सङ्गमे च । १.१०१२ णिदृऽ १.१०१३ णेदृ कुत्सासन्निकर्षयोः । १.१०१४ श‍ृधुऽ १.१०१५ मृधु उन्दने । १.१०१६ बुधिर् बोधने । १.१०१७ उबुन्दिर् निशामने । १.१०१८ वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । १.१०१९ वेनृ इत्येके । १.१०२० खनु अवदारणे । १.१०२१ चीवृ आदानसंवरणयोः । १.१०२२ चीबृ इत्येके । १.१०२३ चायृ पूजानिशामनयोः । १.१०२४ व्यय गतौ । १.१०२५ दाश‍ृ दाने । १.१०२६ भेषृ भये । गतावित्येके । १.१०२७ भ्रेषृऽ १.१०२८ भ्लेषृ गतौ । १.१०२९ अस गतिदीप्त्यादानेषु । १.१०३० अष इत्येके । १.१०३१ अय गतौ । १.१०३२ स्पश बाधनस्पर्शनयोः । १.१०३३ लष कान्तौ । १.१०३४ चष भक्षणे । १.१०३५ छष हिंसायाम् । १.१०३६ झष आदानसंवरणयोः । १.१०३७ भ्रक्षऽ १.१०३८ भ्लक्ष अदने । १.१०३९ भक्ष इति मैत्रेयः । १.१०४० प्लक्ष च । १.१०४१ दासृ दाने । १.१०४२ माहृ माने । १.१०४३ गुहू संवरणे । इति हिक्कादय उदात्ताः स्वरितेतः ॥ अथाजन्ताः । १.१०४४ श्रिञ् सेवायाम् । उदात्त उभयतोभाषः ॥ १.१०४५ भृञ् भरणे । १.१०४६ हृञ् हरणे । १.१०४७ धृञ् धारणे । १.१०४८ कृञ् करणे । १.१०४९ णीञ् प्रापणे । इति भृञादयोऽनुदात्ता उभयतोभाषाः ॥ १.१०५० धेट् पाने । १.१०५१ ग्लैऽ १.१०५२ म्लै हर्षक्षये । १.१०५३ द्यै न्यक्करणे । १.१०५४ द्रै स्वप्ने । १.१०५५ ध्रै तृप्तौ । १.१०५६ ध्यै चिन्तायाम् । १.१०५७ रै शब्दे । १.१०५८ स्त्यैऽ १.१०५९ ष्ट्यै शब्दसङ्घातयोः । १.१०६० खै खदने । १.१०६१ क्षैऽ १.१०६२ जैऽ १.१०६३ षै क्षये । १.१०६४ कैऽ १.१०६५ गै शब्दे । १.१०६६ शैऽ १.१०६७ श्रै पाके । १.१०६८ स्रै इति केषुचित्पाठः । १.१०६९ पैऽ १.१०७० ओवै शोषणे । १.१०७१ ष्टैऽ १.१०७२ ष्णै वेष्टने । शोभायां चेत्येके । १.१०७३ दैप् शोधने । १.१०७४ पा पाने । १.१०७५ घ्रा गन्धोपादाने घ्राणे । १.१०७६ ध्मा शब्दाग्निसंयोगयोः । १.१०७७ ष्ठा गतिनिवृत्तौ । १.१०७८ म्ना अभ्यासे । १.१०७९ दाण् दाने । १.१०८० ह्वृ कौटिल्ये । १.१०८१ स्वृ शब्दोपतापयोः । १.१०८२ स्मृ चिन्तायाम् । १.१०८३ द्वृ संवरणे वरणे । १.१०८४ ह्वृ इत्येके । १.१०८५ सृ गतौ । १.१०८६ ऋ गतिप्रापणयोः । १.१०८७ गृऽ १.१०८८ घृ सेचने । १.१०८९ ध्वृ हूर्छने । १.१०९० स्रु गतौ । १.१०९१ षु प्रसवसैश्वर्ययोः । १.१०९२ श्रु श्रवणे । १.१०९३ ध्रु स्थैर्ये । १.१०९४ दुऽ १.१०९५ द्रु गतौ । १.१०९६ जिऽ १.१०९७ ज्रि अभिभवे । १.१०९८ जु इति सौत्रो धातुः गत्यर्थः । इति धयत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १.१०९९ ष्मिङ् ईषद्धसने । १.११०० गुङ् अव्यक्ते शब्दे । १.११०१ गाङ् गतौ । १.११०२ उङ्ऽ १.११०३ कुङ्ऽ १.११०४ खुङ्ऽ १.११०५ गुङ्ऽ १.११०६ घुङ्ऽ १.११०७ ङुङ् शब्दे । १.११०८ च्युङ्ऽ १.११०९ ज्युङ्ऽ १.१११० जुङ्ऽ १.११११ प्रुङ्ऽ १.१११२ प्लुङ् गतौ । १.१११३ क्लुङ् इत्येके । १.१११४ रुङ् गतिरोषणयोः । १.१११५ धृङ् अवध्वंसने । १.१११६ मेङ् प्रणिदाने । १.१११७ देङ् रक्षणे । १.१११८ श्यैङ् गतौ । १.१११९ प्यैङ् वृद्धौ । १.११२० त्रैङ् पालने । इति ष्मिङ्प्रभृतयोऽनुदात्ता आत्मनेभाषाः ॥ १.११२१ पूङ् पवने । १.११२२ मूङ् बन्धने । १.११२३ डीङ् विहायसा गतौ । इति पूङादयस्त्रय उदात्ता आत्मनेभाषाः ॥ १.११२४ तृई प्लवनतरणयोः । उदात्तः परस्मैभाषः ॥ अथ हलन्ताः । १.११२५ गुप गोपने । १.११२६ तिज निशाने । १.११२७ मान पूजायाम् । १.११२८ बध बन्धने । इति गुपादयश्चत्वार उदात्ता अनुदात्तेतः ॥ १.११२९ रभ राभस्ये । १.११३० डुलभष् प्राप्तौ । १.११३१ ष्वञ्ज परिष्वङ्गे । १.११३२ हद हद पुरीषोत्सर्गे । इति रभादयश्चत्वारोऽनुदात्ता अनुदात्तेतः ॥ १.११३३ ञिक्ष्विदा अव्यक्ते शब्दे । उदात्त उदात्तेत् ॥ १.११३४ स्कन्दिर् गतिशोषणयोः । १.११३५ यभ मैथुने विपरीतमैथुने । १.११३६ णम प्रह्वत्वे शब्दे च । १.११३७ गमॢऽ १.११३८ सृपॢ गतौ । १.११३९ यम उपरमे । १.११४० तप सन्तापे । १.११४१ त्यज हानौ । १.११४२ षञ्ज सङ्गे । १.११४३ दृशिर् प्रेक्षणे । १.११४४ दंश दशने । १.११४५ कृष विलेखने । १.११४६ दह भस्मीकरणे । १.११४७ मिह सेचने । इति स्कन्दादयोऽनुदात्ता उदात्तेतः ॥ १.११४८ कित निवासे रोगापनयने च । उदात्त उदात्तेत् ॥ १.११४९ दान खण्डने अवखण्डने । १.११५० शान तेजने अवतेजने । इत्युदात्तौ स्वरितेतौ ॥ १.११५१ डुपचष् पाके । १.११५२ षच समवाये । १.११५३ भज सेवायाम् । १.११५४ रञ्ज रागे । १.११५५ शप आक्रोशे । १.११५६ त्विष दीप्तौ । अथ यजादयः । १.११५७ यज देवपूजासङ्गतिकरणदानेषु । १.११५८ डुवप टुवप बीजसन्ताने । छेदनेऽपि । १.११५९ वह प्रापणे । इति पचादयोऽनुदात्ताः स्वरितेतः षचिस्तूदात्तः ॥ १.११६० वस निवासे । उदात्तेदनुदात्तः ॥ १.११६१ वेञ् तन्तुसन्ताने । १.११६२ व्येञ् संवरणे । १.११६३ ह्वेञ् स्पर्धायां शब्दे च । इति वेञादयस्त्रयोऽनुदात्ता उभयतोभाषाः ॥ १.११६४ वद व्यक्तायां वाचि । १.११६५ ट्वोश्वि गतिवृद्ध्योः । वृत् । यजादिः समाप्तः । अयं वदतिश्चोदात्तौ परस्मैभाषौ । चुलुम्पत्यादिश्च भ्वादौ द्रष्टव्याः । तस्याकृतिगणत्वात् । ऋतिः सौत्रश्च सजुगुप्साकृपयोः ॥ वृत् ॥ इति शब्विकरणा भ्वादयः ॥ १॥
अथादादयः । २.१ अद भक्षणे । २.२ हन हिंसागत्योः । इत्यनुदात्तावुदात्तेतौ ॥ २.३ द्विष अप्रीतौ । २.४ दुह प्रपूरणे । २.५ दिह उपचये । २.६ लिह आस्वादने । इति द्विषादयोऽनुदात्ताः स्वरितेतः ॥ २.७ चक्षिङ् व्यक्तायां वाचि । अयं दर्शनेऽपि । अनुदात्तोऽनुदात्तेत् ॥ २.८ ईर गतौ कम्पने च । २.९ ईड स्तुतौ । २.१० ईश ऐश्वर्ये । २.११ आस उपवेशने । २.१२ आङः शासु इच्छायाम् । २.१३ वस आच्छादने । २.१४ कसि गतिशासनयोः । २.१५ कस इत्येके । २.१६ कश इत्यन्ये इत्यपि । २.१७ णिसि चुम्बने । २.१८ णिजि शुद्धौ । २.१९ शिजि अव्यक्ते शब्दे । २.२० पिजि वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये । अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे । २.२१ पृजि इत्येके । २.२२ वृजी वर्जने । २.२३ वृजि इत्येके । २.२४ पृची सम्पर्चने सम्पर्के । इतीरादय उदात्ता अनुदात्तेतः ॥ २.२५ षूङ् प्राणिगर्भविमोचने । २.२६ शीङ् स्वप्ने । इत्युदात्तावात्मनेभाषौ ॥ २.२७ यु मिश्रेणेऽभिश्रणे च । २.२८ रु शब्दे । २.२९ तु तु गतिवृद्धिहिंसासु वृद्ध्यर्थः । इति सौत्रो धातुः । २.३० णु स्तुतौ । २.३१ टुक्षु शब्दे । २.३२ क्ष्णु तेजने । २.३३ ष्णु प्रस्रवणे । इति युप्रभृतय उदात्ताः परस्मैभाषाः ॥ २.३४ ऊर्णुञ् आच्छादने । उदात्त उभयतोभाषः ॥ २.३५ द्यु अभिगमने । २.३६ षु प्रसवैश्वर्ययोः । २.३७ कु शब्दे । २.३८ ष्टुञ् स्तुतौ । इति द्युप्रभृतयोऽनुदात्ताः परस्मैभाषाः । स्तौतिस्तूभयतोभाषः ॥ २.३९ ब्रूञ् ब्रूञ् व्यक्तायां वाचि । उदात्त उभयतोभाषः ॥ २.४० इण् गतौ । २.४१ इङ् अध्ययने । नित्यमधिपूर्वः । २.४२ इक् स्मरणे । अयमप्यधिपूर्वः । २.४३ वी गतिप्रजनकान्त्यसनखादनेषु । २.४४ या प्रापणे । २.४५ वा गतिगन्धनयोः । २.४६ भा दीप्तौ । २.४७ ष्णा शौचे । २.४८ श्रा पाके । २.४९ द्रा कुत्सायां गतौ । २.५० प्सा भक्षणे । २.५१ पा रक्षणे । २.५२ रा दाने । २.५३ ला आदाने दाने । द्वावपि दान इति चन्द्रः । २.५४ दाप् लवने । २.५५ ख्या प्रकथने । २.५६ प्रा पूरणे । २.५७ मा माने । २.५८ वच परिभाषणे । इण्प्रभृतयोऽनुदात्ताः परस्मभाषाः । इङ् त्वात्मनेभाषः ॥ २.५९ विद ज्ञाने । २.६० अस भुवि । २.६१ मृजू मृजूष् शुद्धौ । अथ रुदादयः । २.६२ रुदिर् अश्रुविमोचने । इति विदादय उदात्ता उदात्तेतः ॥ २.६३ ञिष्वप शये । इत्युदात्तेदनुदात्तः ॥ २.६४ श्वस प्राणने । २.६५ अन च । अथ जक्षित्यादयः । २.६६ जक्ष भक्ष्यहसनयोः । वृत् । इति रुदादयः । २.६७ जागृ निद्राक्षये । २.६८ दरिद्रा दुर्गतौ । २.६९ चकासृ दीप्तौ । २.७० शासु अनुशिष्टौ । इति श्वसादय उदात्ता उदात्तेतः ॥ अथ छान्दसा धातवः । २.७१ दीधीङ् दीप्तिदेवनयोः । २.७२ वेवीङ् वेतिना तुल्ये । इत्युदात्तावात्मनेभाषौ । वृत् । इति जक्षित्यादयः । २.७३ षसऽ २.७४ षस्ति सस्ति स्वप्ने । २.७५ वश कान्तौ । इति षसादय उदात्ता उदात्तेतः । चर्करीतं च । २.७६ ह्नुङ् अपनयने । अनुदात्त आत्मनेभाषः ॥ वृत् ॥ इति लुग्विकरणा अदादयः ॥ २॥
अथ जुहोत्यादयः । ३.१ हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् ॥ ३.२ ञिभी भये । ३.३ ह्री लज्जायाम् । इति जुहोत्यादयोऽनुदात्ता परस्मैभाषाः ॥ ३.४ पृई पालनपूरणयोः । ३.५ पृ इत्येके ह्रस्वान्तोऽयमित्येके । उदात्तः परस्मैभाषः ॥ ३.६ डुभृञ् धारणपोषणयोः । अनुदात्त उभयतोभाषः ॥ ३.७ माङ् माने शब्दे च । ३.८ ओहाङ् गतौ । इत्यनुदात्तावात्मनेभाषौ ॥ ३.९ ओहाक् त्यागे । अनुदात्तः परस्मैभाषः ॥ ३.१० डुदाञ् दाने । ३.११ डुधाञ् धारणपोषणयोः । दान इत्यप्येके । इत्यनुदात्तावुभयतोभाषौ ॥ ३.१२ णिजिर् शौचपोषणयोः । ३.१३ विजिर् पृथग्भावे । ३.१४ विषॢ व्याप्तौ । इति णिजिरादयोऽनुदात्ताः स्वरितेतः ॥ अथागणान्ता एकादश छान्दसाः । ३.१५ घृ क्षरणदीप्त्योः । ३.१६ हृ प्रसह्यकरणे । ३.१७ ऋऽ ३.१८ सृ गतौ । घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ३.१९ भस भर्त्सनदीप्त्योः । उदात्त उदात्तेत् ॥ ३.२० कि ज्ञाने । अनुदात्तः परस्मैभाषः ॥ ३.२१ कित च ३.२२ तुर त्वरणे । ३.२३ धिष शब्दे । ३.२४ धन धान्ये । ३.२५ जन जनने । इति तुरादय उदात्ता उदात्तेतः ॥ ३.२६ गा स्तुतौ । अनुदात्तः परस्मैभाषः । छन्दसि । वृत् । घृप्रभृतय एकादश छन्दसि । इयति भाषायामपि ॥ वृत् ॥ इति श्लुविकरणा जुहोत्यादयः ॥ ३॥
अथ दिवादयः । ४.१ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । ४.२ षिवु तन्तुसन्ताने । ४.३ स्रिवु गतिशोषणयोः । ४.४ ष्ठिवु निरसने । केचिदिहेमं न पठन्ति । ४.५ ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे । ४.६ ष्णसु निरसने । ४.७ क्नसु ह्वरणदीप्त्योः । ४.८ व्युष दाहे । ४.९ प्लुष च । ४.१० नृती गात्रविक्षेपे । ४.११ त्रसी उद्वेगे । ४.१२ कुथ पूतीभावे । ४.१३ पुथ हिंसायाम् । ४.१४ गुध परिवेष्टने । ४.१५ क्षिप प्रेरणे । अनुदात्तः । ४.१६ पुष्प विकसने । ४.१७ तिमऽ ४.१८ तीमऽ ४.१९ ष्टिमऽ ४.२० ष्टीम आर्द्रीभावे । ४.२१ व्रीड चोदने लज्जायां च । ४.२२ इष गतौ । ४.२३ षहऽ ४.२४ षुह चक्यर्थे । ४.२५ जृईष्ऽ ४.२६ झृईष् वयोहानौ । इति दिवादय उदात्ता उदात्तेतः ॥ अथ स्वादय ओदितः । ४.२७ ओषूङ् प्राणिप्रसवे । ४.२८ ओदूङ् परितापे । इत्युदात्तावात्मनेभाषौ ॥ ४.२९ ओदीङ् क्षये । ४.३० ओडीङ् विहायसा गतौ । ४.३१ ओधीङ् आधारे । ४.३२ ओमीङ् हिंसायाम् । ४.३३ ओरीङ् श्रवणे । ४.३४ ओलीङ् श्लेषणे । ४.३५ ओव्रीङ् वृणोत्यर्थे । वृत् । स्वादय ओदितः । ४.३६ पीङ् पाने । ४.३७ माङ् माने । ४.३८ ईङ् गतौ । ४.३९ प्रीङ् प्रीतौ प्रीणने । इति दीङादय आत्मनेभाषा अनुदात्ताः । दीङ् तूदात्तः ॥ ४.४० शो तनूकरणे । ४.४१ छो छेदने । ४.४२ षो अन्तकर्मणि । ४.४३ दो अवखण्डने । इति श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ४.४४ जनी प्रादुर्भावे । ४.४५ दीपी दीप्तौ । ४.४६ पूरी आप्यायने । ४.४७ तूरी गतित्वरणहिंसनयोः । ४.४८ धूरीऽ ४.४९ गूरी हिंसागत्योः । ४.५० घूरीऽ ४.५१ जूरी हिंसावयोहन्योः । ४.५२ शूरी हिंसास्तम्भनयोः हिंसस्तम्भयोः । ४.५३ चूरी दाहे । ४.५४ तप ऐश्वेर्ये वा । ४.५५ वृतु वरणे वर्तने । ४.५६ वावृतु इति केचित् । ४.५७ क्लिश उपतापे । ४.५८ काश‍ृ दीप्तौ । ४.५९ वाश‍ृ शब्दे । इति जन्यादय उदात्ता अनुदात्तेतः । तपिस्त्वनुदात्तः ॥ ४.६० मृष तितिक्षायाम् । ४.६१ ईशुचिर् पूतीभावे । इत्युदात्तौ स्वरितेतौ ॥ ४.६२ णह बन्धने । ४.६३ रञ्ज रागे । ४.६४ शप आक्रोशे । इति णहादयस्त्रयोऽनुदात्ताः स्वरितेतः ॥ ४.६५ पद गतौ । ४.६६ खिद दैन्ये । ४.६७ विद सत्तायाम् । ४.६८ बुध अवगमने । ४.६९ युध सम्प्रहारे । ४.७० अनोरुध कामे । ४.७१ अण प्राणने । ४.७२ अन इत्येके । ४.७३ मन ज्ञाने । ४.७४ युज समाधौ । ४.७५ सृज विसर्गे । ४.७६ लिश अल्पीभावे । इति पदादयोऽनुदात्ता अनुदात्तेतः । अण् तूदात्तः ॥ ४.७७ राधोऽकर्मकाद्वृद्धावेव । ४.७८ व्यध ताडने । अथ पुषादयः । ४.७९ पुष पुष्टौ । ४.८० शुष शोषणे । ४.८१ तुष प्रीतौ । ४.८२ दुष वैकृत्ये । ४.८३ श्लिष आलिङ्गने । ४.८४ शक विभाषितो मर्षणे । स्वरितेत् । ४.८५ ष्विदा गात्रप्रक्षरणे । ञिष्विदा इत्येके । ४.८६ क्रुध क्रोधे कोपे । ४.८७ क्षुध बुभुक्षायाम् । ४.८८ शुध शौचे । ४.८९ षिधु संराद्धौ । इति राधादयोऽनुदात्ता उदात्तेतः ॥ अथ रधादय वेटः । ४.९० रध हिंसासंराद्ध्योः । ४.९१ णश अदर्शने । ४.९२ तृप प्रीणने । ४.९३ दृप हर्षमोहनयोः । ४.९४ द्रुह जिघांसायाम् । ४.९५ मुह वैचित्त्ये । ४.९६ ष्णुह उद्गिरणे । ४.९७ ष्णिह प्रीतौ । वृत् । इति रधादयो वेट अनुदात्ता उदात्तेतः ॥ अथ शमादयः ४.९८ शमु उपशमे । ४.९९ तमु काङ्क्षायाम् । ४.१०० दमु उपशमे । ४.१०१ श्रमु तपसि खेदे च । ४.१०२ भ्रमु अनवस्थाने । ४.१०३ क्षमू सहने । ४.१०४ क्लमु ग्लानौ । ४.१०५ मदी हर्षे । वृत् । इत्यष्टौ शमादय उदात्ता उदात्तेतः । क्षमू तु वेट् ॥ ४.१०६ असु क्षेपने । ४.१०७ यसु प्रयत्ने । ४.१०८ जसु मोक्षने । ४.१०९ तसु उपक्षये । ४.११० दसु च । ४.१११ वसु स्तम्भे । ४.११२ बसु इत्येके बादिरित्येके । ४.११३ भसु इति केचित् । ४.११४ व्युष विभागे । ४.११५ व्युस इत्येके । ४.११६ ब्युस इत्यन्ये ओष्ठ्यादिर्दन्त्यन्तो ब्युस इत्यन्ये । ४.११७ बुस इत्यपरे अयकार बुस इत्यपरे । ४.११८ वुस इति केचित् । ४.११९ प्युषऽ ४.१२० प्युसऽ ४.१२१ पुष च । ४.१२२ प्लुष दाहे । ४.१२३ विस प्रेरणे । ४.१२४ बिस इत्येके । ४.१२५ कुस संश्लेषणे श्लेषणे । ४.१२६ कुश इत्येके । ४.१२७ कुंस इत्यन्ये । ४.१२८ कुंश इत्यपरे । ४.१२९ बुस उत्सर्गे । ४.१३० मुस खण्डने । ४.१३१ मसी परिमाने । ४.१३२ समी इत्येके । ४.१३३ लुट विलोडने । ४.१३४ लुठ इत्येके । ४.१३५ उच समवाये । ४.१३६ भृशुऽ ४.१३७ भृंशुऽ ४.१३८ भ्रंशु अधःपतने । ४.१३९ वृश वरणे । ४.१४० कृश तनूकरणे । ४.१४१ ञितृष ञितृषा पिपासायाम् । ४.१४२ हृष तुष्टौ । ४.१४३ रुष रोषे । ४.१४४ रिष हिंसायाम् । ४.१४५ डिप क्षेपे । ४.१४६ कुप क्रोधे । ४.१४७ गुप व्याकुलत्वे । ४.१४८ युपऽ ४.१४९ रुपऽ ४.१५० लुप विमोहने । ४.१५१ ष्टुप समुच्छ्राये । ४.१५२ ष्टूप इत्येके । ४.१५३ लुभ गार्द्ध्ये गार्ध्न्ये । ४.१५४ क्षुभ सञ्चलने । ४.१५५ णभऽ ४.१५६ तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । ४.१५७ क्लिदू आद्रीभावे । ४.१५८ ञिमिदा स्नेहने । ४.१५९ ञिक्ष्विदा स्नेहनमोचनयोः । ४.१६० ऋधु वृद्धौ । ४.१६१ गृधु अभिकाङ्क्षायाम् । इत्यसुप्रभृतय उदात्ता उदात्तेतः । वृत् । इति पुषादयः । दिवादिराकृतिगण इति केचित् ॥ वृत् ॥ इति श्यन्विकरणा दिवादयः ॥ ४॥
अथ स्वादयः । ५.१ षुञ् अभिषवे । ५.२ षिञ् बन्धने । ५.३ शिञ् निशाने । ५.४ डुमिञ् प्रक्षेपने । ५.५ चिञ् चयने । ५.६ स्तृञ् आच्छादने । ५.७ कृञ् हिंसायाम् । ५.८ वृञ् वरणे । ५.९ धुञ् कम्पने । ५.१० धूञ् इत्येके दीर्घन्तोऽपीत्येके । इति स्वादयो वृञ्वर्जमनुदात्ता उभयतोभाषाः ॥ ५.११ टुदु उपतापे । ५.१२ हि गतौ वृद्धौ च । ५.१३ पृ प्रीतौ । ५.१४ स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये । ५.१५ स्मृ इत्येके । पृणोत्यादस्त्रयोऽपि छान्दसा इत्याहुः । ५.१६ आपॢ व्याप्तौ । ५.१७ शकॢ शक्तौ । ५.१८ राधऽ ५.१९ साध संसिद्धौ । इति दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ५.२० अशू व्याप्तौ सङ्घाते च । ५.२१ ष्टिघ आस्कन्दने । इत्युदात्तावनुदात्तेतौ ॥ अथ तिकादयः । ५.२२ तिकऽ ५.२३ तिग गतौ च । ५.२४ षघ हिंसायाम् । ५.२५ ञिधृषा प्रागल्भ्ये । ५.२६ दम्भु दम्भने दम्भे । ५.२७ ऋधु वृद्धौ । ५.२८ तृप प्रीणन इत्येके । छन्दसि । अथागणान्ताश्छान्दसाः । ५.२९ अह व्याप्तौ । ५.३० दघ घातने पालने च । ५.३१ चमु भक्षणे । ५.३२ रिऽ ऋऽ ५.३३ क्षिऽ क्षीऽ ५.३४ चिरिऽ ५.३५ जिरिऽ ५.३६ दाशऽ ५.३७ दृई हिंसायाम् । क्षिर्भाषायामित्येके । ५.३८ ऋऽ ५.३९ क्षी इत्येक एवाजादिरित्येके । रेफवानित्यन्ये । वृत् । इति तिकादय उदात्ताः परस्मैभाषाः ॥ वृत् ॥ इति श्नुविकरणाः स्वादयः ॥ ५॥
अथ तुदादयः । ६.१ तुद व्यथने । ६.२ णुद प्रेरणे । ६.३ दिश अतिसर्जने । ६.४ भ्रस्ज पाके । ६.५ क्षिप प्रेरणे । ६.६ कृष विलेखने । इति तुदादयोऽनुदात्ताः स्वरितेतः ॥ ६.७ ऋषी गतौ । उदात्त उदात्तेत् ॥ ६.८ जुषी प्रीतिसेवनयोः । ६.९ ओविजी भयचलनयोः । ६.१० ओलजीऽ ६.११ ओलस्जी व्रीडायाम् व्रीडे । इति जुषादय उदात्ता अनुदात्तेतः ॥ ६.१२ ओव्रश्चू छेदने । ६.१३ व्यच व्याजीकरणे । ६.१४ उछि उञ्छे । ६.१५ उछी विवासे । ६.१६ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु । ६.१७ मिछ उत्क्लेशे । ६.१८ जर्जऽ ६.१९ चर्चऽ ६.२० झर्झ परिभाषणभर्त्सनयोः । ६.२१ त्वच संवरणे । ६.२२ ऋच स्तुतौ । ६.२३ उब्ज आर्जवे । ६.२४ उज्झऽ उद्झ उत्सर्गे । ६.२५ लुभ विमोहने । ६.२६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । ६.२७ रिह इत्येके । ६.२८ तृपऽ ६.२९ तृम्पऽ तृप्तौ । ६.३० तृफऽ ६.३१ तृम्फ इत्येके । ६.३२ तुपऽ ६.३३ तुम्पऽ ६.३४ तुफऽ ६.३५ तुम्फ हिंसायाम् । ६.३६ दृपऽ ६.३७ दृम्प उत्क्लेशे । ६.३८ दृफऽ ६.३९ दृम्फ इत्येके । ६.४० ऋफऽ ६.४१ ऋम्फ हिंसायाम् । ६.४२ गुफऽ ६.४३ गुम्फ ग्रन्थे । ६.४४ उभऽ ६.४५ उम्भ पूरणे । ६.४६ शुभऽ ६.४७ शुम्भ शोभार्थे । ६.४८ दृभी ग्रन्थे । ६.४९ चृती हिंसाग्रन्थनयोः । ६.५० विध विधाने । ६.५१ जुड गतौ । ६.५२ जुन इत्येके । ६.५३ मृड सुखने । ६.५४ पृड च । ६.५५ पृण प्रीणने । ६.५६ वृण च । ६.५७ मृण हिंसायाम् । ६.५८ तुण कौटिल्ये । ६.५९ पुण कर्मणि शुभे । ६.६० मुण प्रतिज्ञाने । ६.६१ कुण शब्दोपकरणयोः शब्दोपतापयोः । ६.६२ शुन गतौ । ६.६३ द्रुण हिंसागतिकौटिल्येषु । ६.६४ घुणऽ ६.६५ घूर्ण भ्रमणे । ६.६६ षुर ऐश्वर्यदीप्त्योः । ६.६७ कुर शब्दे । ६.६८ खुर छेदने । ६.६९ मुर संवेष्टने सञ्चेष्टने । ६.७० क्षुर विलेखने । ६.७१ घुर भीमार्थशब्दयोः । ६.७२ पुर अग्रगमने । ६.७३ वृहू उद्यमने । ६.७४ बृहू इत्येके । ६.७५ तृहूऽ ६.७६ स्तृहूऽ ६.७७ तृंहू हिंसार्थाः । ६.७८ इष इषु इच्छायाम् । ६.७९ मिष स्पर्धायाम् । ६.८० किल श्वैत्यक्रीडनयोः श्वैत्ये । ६.८१ तिल स्नेहने स्नेहे । ६.८२ चिल वसने । ६.८३ चल विलसने । ६.८४ इल स्वप्नक्षेपनयोः । ६.८५ विल संवरणे । ६.८६ बिल भेदने । ६.८७ णिल गहने । ६.८८ हिल भावकरणे । ६.८९ शिलऽ ६.९० षिल उञ्छे । ६.९१ मिल श्लेषणे । ६.९२ लिख अक्षरविन्यासे । अथ कुटादयः । ६.९३ कुट कौटिल्ये । ६.९४ पुट संश्लेषणे । ६.९५ कुच सङ्कोचने । ६.९६ गुज शब्दे । ६.९७ गुड रक्षायाम् । ६.९८ डिप क्षेपे । ६.९९ छुर छेदने । ६.१०० स्फुट विकसने । ६.१०१ मुट आक्षेपप्रमर्दनयोः । ६.१०२ त्रुट छेदने । ६.१०३ तुट कलहकर्मणि । ६.१०४ चुटऽ ६.१०५ छुट छेदने । ६.१०६ जुड बन्धने । ६.१०७ जुट इत्येके । ६.१०८ कड मदे । ६.१०९ लुट संश्लेषणे । ६.११० लुठ इत्येके । ६.१११ लुड इत्यन्ये । ६.११२ कृड घनत्वे । ६.११३ कुड बाल्ये । ६.११४ पुड उत्सर्गे । ६.११५ घुट प्रतिघाते । ६.११६ तुड तोडने । ६.११७ थुडऽ ६.११८ स्थुड संवरणे । ६.११९ खुडऽ ६.१२० छुड इत्येके । ६.१२१ स्फुरऽ ६.१२२ स्फुल सञ्चलने । स्फुर स्फुरणे । स्फुल सञ्चलन इत्येके । ६.१२३ स्फरऽ ६.१२४ स्फल इत्यन्ये । ६.१२५ स्फुडऽ ६.१२६ चुडऽ ६.१२७ व्रुड संवरणे । ६.१२८ क्रुडऽ ६.१२९ भृड निमज्जने इत्येके । ६.१३० हुड सङ्घाते । इति व्रश्चादय उदात्ता उदात्तेतः ॥ ६.१३१ गुरी उद्यमने । उदात्त अनुदात्तेत् ॥ ६.१३२ णू णु स्तुतौ । ६.१३३ धू धु विधूनने । इत्युदात्तौ परस्मैभाषौ ॥ ६.१३४ गु पुरीषोत्सर्गे । ६.१३५ ध्रु गतिस्थैर्ययोः । ध्रुव इत्येके । इत्यनुदात्तौ परस्मैभाषौ ॥ ६.१३६ कुङ् शब्दे । ६.१३७ कूङ् इत्येके दीर्घान्त इति कैयटादयः । ह्रस्वान्त इति न्यासः । उदात्त आत्मनेभाषः । वृत् । कुटादयो गताः ॥ ६.१३८ पृङ् व्यायामे । ६.१३९ मृङ् प्राणत्यागे । इत्यनुदात्तावात्मनेभाषौ ॥ ६.१४० रिऽ ६.१४१ पि गतौ । ६.१४२ धि धारणे । ६.१४३ क्षि निवासगत्योः । इति रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ ६.१४४ षू प्रेरणे । अथ किरादयः । ६.१४५ कृई विक्षेपे निक्षेपे । ६.१४६ गृई निगरणे । इत्युदात्ताः परस्मैभाषाः ॥ ६.१४७ दृङ् आदरे । ६.१४८ धृङ् अवस्थाने । इत्यनुदात्तावात्मनेभाषौ ॥ ६.१४९ प्रछ ज्ञीप्सायाम् । वृत् । किरादयो वृत्ताः ॥ ६.१५० सृज विसर्गे । ६.१५१ टुमस्जो शुद्धौ । ६.१५२ रुजो भङ्गे । ६.१५३ भुजो कौटिल्ये । ६.१५४ छुप स्पर्शे । ६.१५५ रुशऽ ६.१५६ रिश हिंसायाम् । ६.१५७ लिश गतौ । ६.१५८ स्पृश संस्पर्शने । ६.१५९ विछ गतौ । ६.१६० विश प्रवेशने । ६.१६१ मृश आमर्शणे । ६.१६२ णुद प्रेरणे । ६.१६३ षदॢ विशरणगत्यवसादनेषु । ६.१६४ शदॢ शातने । इति पृच्छत्यादयोऽनुदात्ता उदात्तेतः । विछिस्तूदात्तः ॥ ६.१६५ मिल सङ्गमे सङ्गमने । उदात्तः स्वरितेत् ॥ अथ मुचादयः । ६.१६६ मुचॢ मोक्षणे मोचने । ६.१६७ लुपॢ छेदने । ६.१६८ विदॢ लाभे । ६.१६९ लिप उपदेहे । ६.१७० षिच क्षरणे । इति मुचादयोऽनुदात्ताः स्वरितेतः । विन्दतिस्तूदात्तः ॥ ६.१७१ कृती छेदने । ६.१७२ खिद परिघाते परिघातने । ६.१७३ पिश अवयवे । अयं दीपनायामपि । इत्युदात्ता उदात्तेतः । खिदिस्त्वनुदात्तः । वृत् । मुचादयो वृत्ताः ॥ वृत् ॥ इति शविकरणास्तुदादयः ॥ ६॥
अथ रुधादयः । ७.१ रुधिर् आवरणे । ७.२ भिदिर् विदारणे । ७.३ छिदिर् द्वैधीकरणे । ७.४ रिचिर् विरेचने । ७.५ विचिर् पृथग्भावे । ७.६ क्षुदिर् सम्प्रेषणे । ७.७ युजिर् योगे । इति रुधादयोऽनुदात्ताः स्वरितेतः ॥ ७.८ उछृदिर् दीप्तिदेवनयोः । ७.९ उतृदिर् हिंसानादरयोः । इत्युदात्तौ स्वरितेतौ ॥ ७.१० कृती वेष्टने । उदात्त उदात्तेत् ॥ ७.११ ञिऽइन्धी दीप्तौ । उदात्तोऽनुदात्तेत् ॥ ७.१२ खिद दैन्ये । ७.१३ विद विचारणे । इत्यनुदात्तावनुदात्तेतौ ॥ ७.१४ शिषॢ विशेषणे । ७.१५ पिषॢ सञ्चूर्णने । ७.१६ भञ्जो आमर्दने । ७.१७ भुज पालनाभ्यवहारयोः । इति शिषादयोऽनुदात्ता उदात्तेतः ॥ ७.१८ तृह हिंसायाम् । ७.१९ हिसि हिंसायाम् । ७.२० उन्दी क्लेदने । ७.२१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु । ७.२२ तञ्चू सङ्कोचने । ७.२३ ओविजी भयचलनयोः । ७.२४ वृजी वर्जने । ७.२५ पृची सम्पर्के । इति तृहादय उदात्ता उदात्तेतः ॥ वृत् ॥ इति श्नम्विकरणा रुधादयः ॥ ७॥
अथ तनादयः । ८.१ तनु विस्तारे । ८.२ षणु दाने । ८.३ क्षणु हिंसायाम् । ८.४ क्षिणु च । ८.५ ऋणु गतौ । ८.६ तृणु अदने । ८.७ घृणु दीप्तौ । इति तनादय उदात्ता स्वरितेतः ॥ ८.८ वनु वनु याचने । अयं चन्द्रमते परस्मैपदी ॥ ८.९ मनु अवबोधने । इत्यनुदात्तावुदात्तेतौ ॥ ८.१० डुकृञ् करणे । अनुदात्त उभयतोभाषः ॥ वृत् ॥ इत्युविकरणास्तनादयः ॥ ८॥
अथ क्र्यादयः । ९.१ डुक्रीञ् द्रव्यविनिमये । ९.२ प्रीञ् तर्पने कान्तौ च । ९.३ श्रीञ् पाके । ९.४ मीञ् हिंसायाम् बन्धने माने । ९.५ षिञ् बन्धने । ९.६ स्कुञ् आप्रवने । ९.७ स्तम्भुऽ ९.८ स्तुम्भुऽ ९.९ स्कम्भुऽ ९.१० स्कुम्भु रोधन इत्येके । प्रथमतृतीयौ स्तम्भ इति माधवः । द्वितीयो निष्कोषणे चतुर्थो धारण इत्यन्ये । चत्वार इमे परस्मैपदिनः सौत्राश्च । ९.११ युञ् बन्धने । इति क्र्यादयोऽनुदात्ता उभयतोभाषाः ॥ ९.१२ क्नूञ् शब्दे । ९.१३ द्रूञ् हिंसायाम् । अथ प्वादयः । ९.१४ पूञ् पवने । ९.१५ मूञ् बन्धने । अथ ल्वादयः । ९.१६ लूञ् छेदने । ९.१७ स्तृईञ् आच्छादने । ९.१८ कृईञ् हिंसायाम् । ९.१९ वृईञ् वरणे । ९.२० धूञ् कम्पने । इति क्नूञ्प्रभृतय उदात्ता उभयतोभाषाः ॥ ९.२१ श‍ृई हिंसायाम् । ९.२२ पृई पालनपूरणयोः। ९.२३ वृई वरणे । भरण इत्येके । ९.२४ भृई भर्त्सने । भरनेऽप्येके । ९.२५ मृई हिंसायाम् । ९.२६ दृई विदारणे । ९.२७ जृई वयोहानौ । ९.२८ झृई इत्येके । ९.२९ धृई इत्यन्ये । ९.३० नृई नये । ९.३१ कृई हिंसायाम् । ९.३२ ऋई गतौ । ९.३३ गृई शब्दे । इति श‍ृणातिप्रभृतय उदात्ता उदात्तेतः ॥ ९.३४ ज्या वयोहानौ । ९.३५ री गतिरेषणयोः । ९.३६ ली श्लेषणे । ९.३७ व्ली वरणे । ९.३८ ब्ली इत्येके । ९.३९ प्ली गतौ । वृत् । इति ल्वादयः प्वादयश्च । ९.४० व्री वरणे । ९.४१ भ्री भये । भरण इत्येके । ९.४२ क्षीष् हिंसायाम् । ९.४३ ज्ञा अवबोधने । ९.४४ बन्ध बन्धने । इति ज्यादयोऽनुदात्ताः परस्मैभाषाः ॥ ९.४५ वृङ् सम्भक्तौ । उदात्त आत्मनेभाषः ॥ ९.४६ श्रन्थ विमोचनप्रतिहर्षयोः । ९.४७ मन्थ विलोडने । ९.४८ श्रन्थऽ ९.४९ ग्रन्थ सन्दर्भे । ९.५० कुन्थ संश्लेषणे । ९.५१ मृद क्षोदे । ९.५२ मृड सुखे च मृड च । अयं सुखेऽपि । ९.५३ गुध रोषे । ९.५४ कुष निष्कर्षे । ९.५५ क्षुभ सञ्चलने । ९.५६ णभऽ ९.५७ तुभ हिंसायाम् । ९.५८ क्लिशू विबाधने । ९.५९ अश भोजने । ९.६० उध्रस उञ्छे । ९.६१ इष आभीक्ष्ण्ये । ९.६२ विष विप्रयोगे । ९.६३ प्रुषऽ ९.६४ प्लुष स्नेहनसेवनपूरणेषु । ९.६५ पुष पुष्टौ । ९.६६ मुष स्तेये । ९.६७ खच भूतप्रादुर्भावे । ९.६८ खव इत्येके । ९.६९ हेठ च । ९.७० हेढ इत्येके । इति श्रन्थादय उदात्ता उदात्तेतः । क्लिशिस्तु वेट् । विषिस्त्वनुदात्तः ॥ ९.७१ ग्रह उपादाने । उदात्तः स्वरितेत् ॥ वृत् ॥ इति श्नाविकरणा क्र्यादयः ॥ ९॥
अथ चुरादयः । १०.१ चुर स्तेये । १०.२ चिति स्मृत्याम् । १०.३ यत्रि सङ्कोचने । १०.४ स्फुडि परिहासे । १०.५ स्फुटि इत्येके इत्यपि । १०.६ लक्ष दर्शनाङ्कनयोः । १०.७ कुद्रि अनृतभाषणे । १०.८ कुदृ इत्येके । १०.९ कुडि इत्यपरे । १०.१० लड उपसेवायाम् । १०.११ मिदि स्नेहने । १०.१२ मिद इत्येके अयमनिदिदिति क्षीरस्वामिकौशिकौ । १०.१३ ओलडि उत्क्षेपने । १०.१४ ओलडि इत्येके ओकारो धात्ववयव इत्येके । नेत्यपरे । उलडि इत्यन्ये । १०.१५ जल अपवारणे । १०.१६ लज इत्येके । १०.१७ पीड अवगाहने । १०.१८ नट अवस्यन्दने । १०.१९ श्रथ प्रयत्ने । प्रस्थान इत्येके । १०.२० बध संयमने । १०.२१ बन्ध इति चान्द्राः । १०.२२ पृई पूरणे । १०.२३ ऊर्ज बलप्राणनयोः । १०.२४ पक्ष परिग्रहे । १०.२५ वर्णऽ १०.२६ चूर्ण प्रेरणे । वर्ण वर्णन इत्येके । १०.२७ प्रथ प्रख्याने । १०.२८ पृथ प्रक्षेपे । १०.२९ पथ इत्येके । १०.३० षम्ब सम्बन्धने । १०.३१ शम्ब च । १०.३२ साम्ब इत्येके । १०.३३ भक्ष अदने । १०.३४ कुट्ट छेदनभर्त्सनयोः । १०.३५ पुट्टऽ १०.३६ चुट्ट अल्पीभावे । १०.३७ अट्टऽ १०.३८ षुट्ट अनादरे । १०.३९ लुण्ट स्तेये । १०.४० लुण्ठ इति केचित् । १०.४१ शठऽ १०.४२ श्वठ असंस्कारगत्योः । १०.४३ श्वठि इत्येके । १०.४४ तुजऽ १०.४५ तुजिऽ १०.४६ पिजऽ १०.४७ पिजिऽ १०.४८ लजिऽ १०.४९ लुजि हिंसाबलादाननिकेतनेषु । १०.५० पिस गतौ । १०.५१ षान्त्व सामप्रयोगे । १०.५२ शान्त्व इत्येके । १०.५३ श्वल्कऽ १०.५४ वल्क परिभाषणे । १०.५५ ष्णिह स्नेहने । १०.५६ स्फिट इत्येके । १०.५७ स्मिट अनादरे । १०.५८ ष्मिङ् इत्येके । १०.५९ श्लिष श्लेषणे । १०.६० पथि गतौ । १०.६१ पिछ कुट्टने । १०.६२ छदि संवरणे । १०.६३ श्रण दाने । १०.६४ तड आघाते । १०.६५ खडऽ १०.६६ खडिऽ १०.६७ कडि खण्डने भेदने । १०.६८ कुडि रक्षणे । १०.६९ गुडि वेष्टने च । रक्षण इत्येके । १०.७० कुठि इत्यन्ये । १०.७१ गुठि इत्यपरे । १०.७२ खुडि खण्डने । १०.७३ वटि विभाजने । १०.७४ वडि इत्येके इति केचित् । १०.७५ चडि कोपे । चण्ड इत्यन्ये । १०.७६ मडि भूषायां हर्षे च । १०.७७ भडि कल्याणे । १०.७८ छर्द वमने । १०.७९ पुस्तऽ १०.८० बुस्त आदरानादरयोः । १०.८१ चुद सञ्चोदने । १०.८२ नक्कऽ १०.८३ धक्क नाशने । १०.८४ चक्कऽ १०.८५ चुक्क व्यथने । १०.८६ क्षल शौचकर्मणि । १०.८७ तल प्रतिष्ठायाम् । १०.८८ तुल उन्माने । १०.८९ दुल उत्क्षेपे । १०.९० पुल महत्त्वे । १०.९१ चुल समुच्छ्राये । १०.९२ मूल रोहने । १०.९३ कलऽ १०.९४ विल क्षेपे । १०.९५ बिल भेदने । १०.९६ तिल स्नेहने । १०.९७ चल भृतौ । १०.९८ पाल रक्षणे । १०.९९ पल इत्येके । १०.१०० लूष हिंसायाम् । १०.१०१ शुल्ब माने । १०.१०२ शूर्प च । १०.१०३ चुट छेदने । १०.१०४ मुट सञ्चूर्णने । १०.१०५ पिशऽ १०.१०६ पडिऽ १०.१०७ पसि नाशने । १०.१०८ पशि इत्येके । १०.१०९ व्रज मार्गसंस्कारगत्योः । १०.११० शुल्क अतिसर्जने अतिस्पर्शने । १०.१११ चपि गत्याम् । १०.११२ क्षपि क्षान्त्याम् । १०.११३ क्षजि कृच्छ्रजीवने । १०.११४ छजि इत्येके । १०.११५ श्वर्त गत्याम् । १०.११६ स्वर्त इत्येके । १०.११७ श्वभ्र च । अथ ज्ञपादयो मितः । १०.११८ ज्ञपम् ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु । मिच्चेत्येके । १०.११९ यमम् यम च परिवेषणे । चान्मित् । १०.१२० चहम् परिकल्पने । १०.१२१ चपम् इत्येके । १०.१२२ रहम् त्यागे । १०.१२३ बलम् प्राणने । १०.१२४ चिञ्म् चयने । वृत् । नान्ये मितोऽहेतौ । १०.१२५ घट्ट चलने । १०.१२६ मुस्त सङ्घाते । १०.१२७ खट्ट संवरणे । १०.१२८ षट्टऽ १०.१२९ स्फिट्टऽ १०.१३० चुबि हिंसायाम् । १०.१३१ पूल सङ्घाते । १०.१३२ पूर्ण इत्येके । १०.१३३ पुण इत्यन्ये । १०.१३४ पुंस अभिवर्धणे । १०.१३५ टकि बन्धने । १०.१३६ व्यप क्षेपे । १०.१३७ व्ययऽ १०.१३८ विपऽ चेत्येके । १०.१३९ धूस कान्तिकरणे । १०.१४० धूष इत्येके मूर्धन्यान्त इत्येके । १०.१४१ धूश इत्यपरे तालव्यान्त इत्यन्ये । १०.१४२ कीट वर्णे वरणे । १०.१४३ चूर्ण सङ्कोचने । १०.१४४ पूज पूजायाम् । १०.१४५ अर्क स्तवने । १०.१४६ शुठ आलस्ये । १०.१४७ शुठि शोषणे । १०.१४८ जुड प्रेरणे । १०.१४९ गजऽ १०.१५० मार्ज शब्दार्थौ । १०.१५१ मर्च च । १०.१५२ घृ प्रस्रवणे । स्रावण इत्येके । १०.१५३ पचि विस्तारवचने । १०.१५४ तिज निशाने निशातने । १०.१५५ कृईत संशब्दने । १०.१५६ वर्ध छेदनपूरनयोः । १०.१५७ कुबि आच्छादने छादने । १०.१५८ कुभि इत्येके । १०.१५९ लुबिऽ १०.१६० तुबि अदर्शने । अर्दन इत्येके । १०.१६१ ह्लप व्यक्तायां वाचि । १०.१६२ क्लप इत्येके । १०.१६३ ह्रप इत्यन्ये । १०.१६४ चुटि छेदने । १०.१६५ मृडिऽ १०.१६६ तुडिऽ १०.१६७ इल प्रेरणे । १०.१६८ म्रक्ष म्लेच्छने । १०.१६९ म्रछ इत्येके । १०.१७० म्लेछऽ १०.१७१ म्रक्ष छेदने । म्लेछ अव्यक्तायां वाचि । १०.१७२ ब्रूसऽ १०.१७३ बर्ह हिंसायाम् । केचिदिह गर्जऽ गर्द शब्दे गर्ध अभिकाङ्क्षायामिति पठन्ति । १०.१७४ व्रूसऽ १०.१७५ वर्ह इत्येके । १०.१७६ व्रूष इत्यन्ये । १०.१७७ गर्जऽ १०.१७८ गर्द शब्दे । १०.१७९ गर्ध अभिकाङ्क्षायाम् । १०.१८० गुर्द पूर्वनिकेतने । गुर्दऽ १०.१८१ पूर्व निकेतन इत्यन्ये । १०.१८२ जसि रक्षणे । मोक्षण इत्येके इति केचित् । १०.१८३ ईड स्तुतौ । १०.१८४ जसु हिंसायाम् । १०.१८५ पिडि सङ्घाते । १०.१८६ पिठि इत्येके । १०.१८७ रुष रोषे । १०.१८८ रुट इत्येके । १०.१८९ डिप क्षेपे । १०.१९० ष्टुप समुच्छ्राये । १०.१९१ ष्टूप इत्येके । इति चुरादय उदात्ता उदात्तेतः ॥ आ कुस्मादात्मनेपदिनः । १०.१९२ चित सञ्चेतने । १०.१९३ दशि दंशने दर्शनदंशनयोः । १०.१९४ दसि दर्शनदंशनयोः । १०.१९५ दस इत्यप्येके । १०.१९६ डपऽ १०.१९७ डिप सङ्घाते । १०.१९८ तत्रि कुटुम्बधारणे । १०.१९९ मत्रि गुप्तपरिभाषणे । १०.२०० स्पश ग्रहणसंश्लेषणयोः । १०.२०१ तर्जऽ १०.२०२ भर्त्स सन्तर्जने तर्जने । १०.२०३ बस्तऽ १०.२०४ गन्ध अर्दने । १०.२०५ वस्त इत्येके । १०.२०६ हस्त इत्यन्ये । १०.२०७ विष्क हिंसायाम् । १०.२०८ हिष्क इत्येके । १०.२०९ निष्क परिमाणे । १०.२१० लल ईप्सायाम् । १०.२११ कूण सङ्कोचने । १०.२१२ तूण पूरणे । १०.२१३ भ्रूण आशाविशङ्कयोः आशायाम् । १०.२१४ शठ श्लाघायाम् । १०.२१५ यक्ष पूजायाम् । १०.२१६ स्यम वितर्के । १०.२१७ गूर उद्यमने । १०.२१८ शमऽ १०.२१९ लक्ष आलोचने । १०.२२० कुत्स अवक्षेपने । १०.२२१ त्रुट छेदने । १०.२२२ कुट इत्येके । १०.२२३ गल स्रवणे । १०.२२४ भल आभण्डने । १०.२२५ कूट अप्रदाने । अवसादन इत्येके । १०.२२६ कुट्ट प्रतापने । १०.२२७ वञ्चु प्रलम्भने । १०.२२८ वृष शक्तिबन्धने । १०.२२९ मद तृप्तियोगे । १०.२३० दिवु परिकूजने । १०.२३१ गृई विज्ञाने । १०.२३२ विद चेतनाख्याननिवासेषु । १०.२३३ मन स्तम्भे । १०.२३४ मान इत्येके । १०.२३५ यु जुगुप्सायाम् । १०.२३६ कुस्म नाम्नो वा । कुत्सिस्मयने । इत्याकुत्सीया उदात्ता अनुदात्तेतः ॥ १०.२३७ चर्च अध्ययने । १०.२३८ बुक्क भाषणे । १०.२३९ शब्द शब्दक्रियायाम् । उपसर्गादाविष्कारे च । १०.२४० कण निमीलने । १०.२४१ जभि नाशने । १०.२४२ षूद क्षरणे । १०.२४३ जसु ताडने । १०.२४४ पश बन्धने । १०.२४५ अम रोगे । १०.२४६ चटऽ १०.२४७ स्फुट भेदने । १०.२४८ घट सङ्घाते । हन्त्यर्थाश्च । १०.२४९ दिवु मर्दने । १०.२५० अर्ज प्रतियत्ने सम्पादने च । १०.२५१ घुषिर् विशब्दने । १०.२५२ आङः क्रन्द सातत्ये । १०.२५३ लस शिल्पयोगे । १०.२५४ तसिऽ १०.२५५ भूष अलङ्कारे । १०.२५६ मोक्ष आसने असने । १०.२५७ अर्ह पूजायाम् । १०.२५८ ज्ञा नियोगे । १०.२५९ भज विश्राणने । १०.२६० श‍ृधु प्रसहने । १०.२६१ यत निकारोपस्कारयोः । १०.२६२ रकऽ १०.२६३ लग आस्वादने । १०.२६४ रघ इत्येके । १०.२६५ रग इत्यन्ये । १०.२६६ अञ्चु विशेषणे । १०.२६७ लिगि चित्रीकरणे । १०.२६८ मुद संसर्गे । १०.२६९ त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये धारणग्रहणवारणेषु । १०.२७० उध्रस उञ्छे । १०.२७१ उघ्रस इत्येके उकारो धात्ववयव इत्येके । नेत्यन्ये । १०.२७२ मुच प्रमोचने मोदने च प्रमोचनमोदनयोः । १०.२७३ वस स्नेहच्छेदापहरणेषु । १०.२७४ चर संशये । १०.२७५ च्यु हसने । सहने चेत्येके । १०.२७६ व्युस इत्येके । १०.२७७ भुवोऽवकल्कने । मिश्रीकरण इत्येके । चिन्तन इत्यन्ये । १०.२७८ कृपेश्च ॥ आ स्वदः सकर्मकात् । १०.२७९ ग्रस ग्रहणे । १०.२८० पुष धारणे । १०.२८१ दल विदारणे । १०.२८२ पटऽ १०.२८३ पुटऽ १०.२८४ लुटऽ १०.२८५ तुजिऽ १०.२८६ मिजिऽ १०.२८७ पिजिऽ १०.२८८ लिजिऽ १०.२८९ लुजिऽ १०.२९० भजिऽ १०.२९१ लघिऽ १०.२९२ त्रसिऽ १०.२९३ पिसिऽ १०.२९४ कुसिऽ १०.२९५ दशिऽ १०.२९६ कुशिऽ १०.२९७ घटऽ १०.२९८ घटिऽ १०.२९९ बृहिऽ वृहिऽ १०.३०० बर्हऽ वर्हऽ १०.३०१ बल्हऽ वल्हऽ १०.३०२ गुपऽ १०.३०३ धूपऽ धुपऽ १०.३०४ विछऽ १०.३०५ चीवऽ चीबऽ १०.३०६ पुथऽ १०.३०७ लोकृऽ १०.३०८ लोचृऽ १०.३०९ णडऽ १०.३१० कुपऽ १०.३११ तर्कऽ १०.३१२ वृतुऽ १०.३१३ वृधु भाषार्थाः । १०.३१४ रुटऽ १०.३१५ लजिऽ १०.३१६ अजिऽ १०.३१७ दसिऽ १०.३१८ भृशिऽ १०.३१९ रुशिऽ १०.३२० शीकऽ १०.३२१ रुसिऽ १०.३२२ नटऽ १०.३२३ पुटिऽ १०.३२४ जिऽ १०.३२५ चिऽ जुचि जिवि १०.३२६ रघिऽ १०.३२७ लघिऽ १०.३२८ अहिऽ १०.३२९ रहिऽ १०.३३० महि च । १०.३३१ लडिऽ १०.३३२ तडऽ १०.३३३ नल च । १०.३३४ पूरी आप्यायने । १०.३३५ रुज हिंसायाम् । १०.३३६ ष्वद आस्वादने । १०.३३७ स्वाद इत्येके ॥ आ धृषाद्वा । १०.३३८ युजऽ १०.३३९ पृच संयमने । १०.३४० अर्च पूजायाम् । १०.३४१ षह मर्षणे । १०.३४२ ईर क्षेपे । १०.३४३ ली द्रवीकरणे । १०.३४४ वृजी वर्जने । १०.३४५ वृञ् आवरणे । १०.३४६ जृई वयोहानौ । १०.३४७ ज्रि च । १०.३४८ रिच वियोजनसम्पर्चनयोः । १०.३४९ शिष असर्वोपयोगे । १०.३५० तप दाहे । १०.३५१ तृप तृप्तौ । सन्दीपन इत्येके । १०.३५२ छृदी सन्दीपने । १०.३५३ चृपऽ १०.३५४ छृपऽ १०.३५५ तृपऽ १०.३५६ दृप सन्दीपने इत्येके । १०.३५७ दृभी भये ग्रन्थे । १०.३५८ दृभ सन्दर्भे । १०.३५९ छद संवरणे । १०.३६० श्रथ मोक्षणे । हिंसायामित्येके । १०.३६१ मी गतौ । १०.३६२ ग्रन्थ बन्धने । १०.३६३ शीक आमर्षणे । १०.३६४ चीक च । १०.३६५ अर्द अर्द हिंसायाम् । स्वरितेदित्येके । १०.३६६ हिसि हिंसायाम् । १०.३६७ अर्ह पूजायाम् । १०.३६८ आङः षद पद्यर्थे । १०.३६९ शुन्ध शौचकर्मणि । १०.३७० छद अपवारणे । १०.३७१ जुष परितर्कने । परितर्पण इत्यन्ये । १०.३७२ धूञ् कम्पने । १०.३७३ प्रीञ् तर्पने । १०.३७४ श्रन्थऽ १०.३७५ ग्रन्थ सन्दर्भे । १०.३७६ आपॢ आपॢ लम्भने । स्वरितेदयमित्येके । १०.३७७ तनु श्रद्धोपकरणयोः । उपसर्गाच्च दैर्घ्ये । १०.३७८ चन श्रद्धोपहननयोरित्येके । १०.३७९ वद वद सन्देशवचने । स्वरितेत् । अनुदात्तेदित्येके । १०.३८० वच परिभाषणे । १०.३८१ मान पूजायाम् । १०.३८२ भू प्राप्तावात्मनेपदी वा । णिच्सन्नियोगेनैवात्मनेपदमित्येके । १०.३८३ गर्ह विनिन्दने । १०.३८४ मार्ग अन्वेषणे । १०.३८५ कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः । १०.३८६ मृजू शौचालङ्कारयोः । १०.३८७ मृष मृष तितिक्षायाम् । स्वरितेत् । अनुदात्तेदित्येके । १०.३८८ धृष प्रसहने । इत्याधृषीयाः ॥ अथादन्ताः । १०.३८९ कथ वाक्यप्रबन्धे वाक्यप्रबन्धने । १०.३९० वर ईप्सायाम् । १०.३९१ गण सङ्ख्याने । १०.३९२ शठऽ १०.३९३ श्वठ सम्यगवभाषणे । १०.३९४ पटऽ १०.३९५ वट ग्रन्थे । १०.३९६ रह त्यागे । १०.३९७ रङ्ग गतौ । १०.३९८ स्तनऽ १०.३९९ गदी देवशब्दे । १०.४०० पत गतौ वा । वादन्त इत्येके । १०.४०१ पष अनुपसर्गात् गतौ । १०.४०२ स्वर आक्षेपे । १०.४०३ रच प्रतियत्ने । १०.४०४ कल गतौ सङ्ख्याने च । १०.४०५ चह परिकल्कने । १०.४०६ मह पूजायाम् । १०.४०७ सारऽ सरऽ १०.४०८ कृपऽ १०.४०९ श्रथ दौर्बल्ये । १०.४१० स्पृह ईप्सायाम् । १०.४११ भाम क्रोधे । १०.४१२ सूच पैशुन्ये । १०.४१३ खेट भक्षणे । १०.४१४ खेड इत्येके । १०.४१५ खोट इत्यन्ये । १०.४१६ क्षोट क्षेपे । १०.४१७ गोम उपलेपने । १०.४१८ कुमार क्रीडायाम् । १०.४१९ शील उपधारणे । १०.४२० साम सान्त्वप्रयोगे । १०.४२१ वेल कालोपदेशे । १०.४२२ काल च इति पृथग्धातुरित्येके । १०.४२३ पल्यूल लवनपवनयोः । १०.४२४ वात सुखसेवनयोः । १०.४२५ गवेष मार्गणे । १०.४२६ वास उपसेवायाम् । १०.४२७ निवास आच्छादने । १०.४२८ भाज पृथक्कर्मणि । १०.४२९ सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्येके । १०.४३० ऊन परिहाणे । १०.४३१ ध्वन शब्दे । १०.४३२ कूट परितापे । परिदाह इत्यन्ये । १०.४३३ सङ्केतऽ १०.४३४ ग्रामऽ १०.४३५ कुणऽ १०.४३६ गुण चामन्त्रणे । १०.४३७ केत श्रावणे निमन्त्रणे च । १०.४३८ कूण सङ्कोचनेऽपि । १०.४३९ स्तेन चौर्ये ॥ आ गर्वादात्मनेपदिनः । १०.४४० पद गतौ । १०.४४१ गृह ग्रहणे । १०.४४२ मृग अन्वेषणे । १०.४४३ कुह विस्मापने । १०.४४४ शूरऽ १०.४४५ वीर विक्रान्तौ । १०.४४६ स्थूल परिबृंहणे । १०.४४७ अर्थ उपयाच्ञायाम् । १०.४४८ सत्र सत्त्र सन्तानक्रियायाम् । १०.४४९ गर्व माने । इत्यागर्वीयाः ॥ १०.४५० सूत्र वेष्टने । विमोचन इत्यन्ये । १०.४५१ मूत्र प्रस्रवणे । १०.४५२ रूक्ष पारुष्ये । १०.४५३ पारऽ १०.४५४ तीर कर्मसमाप्तौ । १०.४५५ पुट संसर्गे । १०.४५६ कत्र कत्त्र शैथिल्ये । १०.४५७ कर्त इत्यप्येके । प्रातिपदिकाद्धात्वर्थे बहुलमिष्टवच्च । तत्करोति तदाचष्टे । तेनातिक्रामति । धातुरूपं च । कर्तृकरणाद्धात्वर्थे । १०.४५८ बष्क दर्शने । १०.४५९ चित्र चित्रीकरणे । कदाचिद्दर्शने । १०.४६० अंस समाघाते । १०.४६१ वट विभाजने । १०.४६२ रट परिभाषणे । १०.४६३ लज प्रकाशने । १०.४६४ वटिऽ १०.४६५ लजि इत्येके । १०.४६६ मिश्र सम्पर्के । १०.४६७ सङ्ग्राम युद्धे । अयमनुदात्तेत् । १०.४६८ स्तोम श्लाघायाम् । १०.४६९ छिद्र कर्णभेदने । करणभेदन इत्येके । १०.४७० कर्ण भेदने इति धात्वन्तरमित्यपरे । १०.४७१ अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये । १०.४७२ दण्ड दण्डनिपाते । १०.४७३ अङ्क पदे लक्षणे च । १०.४७४ अङ्ग च । १०.४७५ सुखऽ १०.४७६ दुःख तत्क्रियायाम् । १०.४७७ रस आस्वादनस्नेहनयोः । १०.४७८ व्यय वित्तसमुत्सर्गे । १०.४७९ रूप रूपक्रियायाम् । १०.४८० छेद द्वैधीकरणे । १०.४८१ छद अपवारणे । १०.४८२ लाभ प्रेरणे । १०.४८३ व्रण गात्रविचूर्णने । १०.४८४ वर्ण वर्णक्रियाविस्तारगुणवचनेषु । बहुलमेतन्निदर्शनम् इत्येके । १०.४८५ पर्ण हरितभावे । १०.४८६ विष्क दर्शने । १०.४८७ क्षप प्रेरणे । १०.४८८ वस निवासे । १०.४८९ तुत्थ आवरणे । णिङङ्गान्निरसने । श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतेरेतकलोपश्च । पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ वृत् ॥ इति चुरादयः ॥ १०॥ Encoded by Mihas Bayaryn bayaryn at mail.ru dhatupatha-readme.txt (Vesion 1.0) This text of PANinIya-DhAtupaThaH is based on the following editions: 1. aSTAdhyAyI of PANini in Roman Transliteration by Sumitra M. Katre // PANinIya-dhAtupAThaH - University of Texas Press, Austin, 1987. 2. DhAtupAThaH, J. L. Shastri - Motilal Banarsidas, Delhi, 2002. 3. PANinIyo DhAtupAThaH - http://www.vedamu.org/Sankrit/eBooks/DownloadFile.asp?Filename=DhAtupAtha.zip The text was entered by Mihas Bayaryn in unicode devanAgarI encoding. This text is searchable. Versions in other encodings, transliteration schemes and pdf-version can be easy produced from this version. Special features of this text: 1. The text is accentuated according to PANini's accentuation-rules using Vedic svara-marks (i.e. only sannatara and svarita are marked). 2. All vowel anubandhas (its) are marked with anunAsika-sign according to PANini's rules. 3. The avagraha after a dhAtu is the sign of compound separation (as in pada-pATha) and not of the elision of short 'a' (as in contemporary usage). 4. Verbal roots (dhAtu) were enumerated according to the following principle: every dhAtu and every variation of dhAtu must have its own number, all known varieties of roots must be included in text and not excluded. There are many styles of dhatu enumeration in different editions and they don't agree with each other. In this enumeration every dhAtu has two numbers: a number of its gaNa (class) and its number within this gaNa. 5. Three kinds of brackets are used in this text: () - words in such brackets are variations of the text in other editions. [] - words in such brackets in index are anuvRtti from preceding lines. anuvRtti is a part of a preceding rule which must be remembered in order to understand the following rules. - words in such brackets are variations of dhatu exactly known from other sources but not found in three editions on wich this text is based. Next stages of this work: 1. Other editions of DhAtupAThaH must be used to proof-read the text. The present version of course can't be called a professionally revised version. In any case it can be further edited and corrected to produce such vesion. 2. The version of text with sandhi-vigraha must be added. 3. The index must be supplemented with english meanings of roots and main verbal forms and derivatives according to PANini's rules with references to corresponding sUtras. In such case it will be possible to use this index as true verb-dictionary. 4. A small introduction to DhAtupAThaH with information about its main principles must be added. Please, send your comments, suggestions and corrections of possible mistakes to bayaryn@mail.ru. Especially I ask experts in Sanskrit grammar tradition to help me in this work by consulting and advices. Mihas Bayaryn. .. OM tatsadbrahmArpaNamastu ..
% Text title            : dhAtupATha
% File name             : dhatupatha.itx
% itxtitle              : pANinIyadhAtupAThaH nissvaraH
% engtitle              : pANinIyadhAtupAThaH without pronunciation marks
% Category              : sUchI, major_works, pANinI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : pANinI
% Language              : Sanskrit
% Subject               : linguistics/grammar/morphology_and_phonetics
% Transliterated by     : Mihas Bayaryn bayaryn at mail.ru
% Proofread by          : Mihas Bayaryn bayaryn at mail.ru
% Indexextra            : (Scan 1, 2)
% Latest update         : March 6, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org