किरातार्जुनीयम्

किरातार्जुनीयम्

१. प्रथमः सर्गः

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ १.१॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ १.२॥ द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्य-विशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥ १.३॥ क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ १.४॥ स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संश‍ृणुते स किम्प्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ १.५॥ निसर्ग-दुर्बोधमबोध-विक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ १.६॥ विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ १.७॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिमनार्यसङ्गमा- द्वरं विरोधोऽपि समं महात्मभिः ॥ १.८॥ कृतारिषड्वर्गजयेन मानवी- मगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ १.९॥ सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥ १.१०॥ असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥ १.११॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ १.१२॥ वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ १.१३॥ विधाय रक्षान् परितः परेतरा- नशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ १.१४॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोग-सत्क्रियाः । फलन्त्युपायाः परिबृंहितायती- रुपेत्य सङ्घर्षमिवार्थसम्पदः ॥ १.१५॥ अनेकराजन्य-रथाश्वसङ्कुलं तदीयमास्थान-निकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ १.१६॥ सुखेन लभ्या दधतः कृषीवलै- रकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृका- श्चिराय तस्मिन् कुरवश्चकासति ॥ १.१७॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १.१८॥ उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ १.१९॥ महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥ १.२०॥ न तेन सज्यं क्वचिदुद्यतं धनु- र्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ १.२१॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ १.२२॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यती- रहो दुरन्ता बलवद्विरोधिता ॥ १.२३॥ कथाप्रसङ्गेन जनैरुदाहृता- दनुस्मृताखण्डल-सूनुविक्रमः । तवाभिधानाद्- व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥ १.२४॥ तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥ १.२५॥ इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥ १.२६॥ निशम्य सिद्धिं द्विषतामपाकृती- स्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनी- रुदाजहार द्रुपदात्मजा गिरः ॥ १.२७॥ भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्त-नारीसमया दुराधयः ॥ १.२८॥ अखण्डमाखण्डल-तुल्यधामभि- श्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥ १.२९॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधा- नसंवृताङ्गान्निशिता इवेषवः ॥ १.३०॥ गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्- मनोरमामात्मवधूमिव श्रियम् ॥ १.३१॥ भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ १.३२॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ १.३३॥ परिभ्रमंल्लोहित-चन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥ १.३४॥ विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥ १.३५॥ वनान्तशय्या-कठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥ १.३६॥ इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ १.३७॥ पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥ १.३८॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ १.३९॥ अनारतं यौ मणिपीठशायिना- वरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ १.४०॥ द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासित-वीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥ १.४१॥ विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ १.४२॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥ १.४३॥ अथ क्षमामेव निरस्तविक्रम- श्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥ १.४४॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥ १.४५॥ विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ १.४६॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये प्रथमः सर्गः ॥ १॥

२. व्यासागमनो नाम द्वितीयः सर्गः

विहितां प्रियया मनःप्रिया- मथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २.१॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ २.२॥ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ २.३॥ परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ २.४॥ इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ २.५॥ चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥ २.६॥ विधुरं किमतः परं परै- रवगीतां गमिते दशामिमाम् । अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ २.७॥ द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ २.८॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ २.९॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ २.१०॥ क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ २.११॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्ग-विनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ २.१२॥ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । विनिपात-निवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ २.१३॥ विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायते- रगरीयान्न पदं नृपश्रियः ॥ २.१४॥ तदलं प्रतिपक्षमुन्नते- रवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ २.१५॥ अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृत-जिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यजा- श्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ २.१६॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । जननाथ तवानुजन्मनां कृतमाविष्कृत-पौरुषैर्भुजैः ॥ २.१७॥ मदसिक्त-मुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः । लघयन् खलु तेजसा जग- न्न महानिच्छति भूतिमन्यतः ॥ २.१८॥ अभिमानधनस्य गत्वरै- रसुभिः स्थास्नु यशश्चिचीषतः । अचिरांशु-विलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २.१९॥ ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः । अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥ २.२०॥ किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ २.२१॥ कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ २.२२॥ द्विरदानिव दिग्विभावितां- श्चतुरस्तोयनिधीनिवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २.२३॥ ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारी-नयनाम्बुसन्ततिः ॥ २.२४॥ इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपति- र्द्विरदं दुष्टमिवोपचक्रमे ॥ २.२५॥ अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २.२६॥ स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २.२७॥ उपपत्तिरुदाहृता बला- दनुमानेन न चागमः क्षतः । इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २.२८॥ अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २.२९॥ सहसा विदधीत न क्रिया- मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ २.३०॥ अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ २.३१॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलङ्क्रिया । प्रशमाभरणं पराक्रमः स नयापादित-सिद्धिभूषणः ॥ २.३२॥ मतिभेद-तमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ २.३३॥ स्पृहणीयगुणैर्महात्मभि- श्चरिते वर्त्मनि यच्छतां मनः । विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ २.३४॥ शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतीम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ २.३५॥ अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ २.३६॥ बलवानपि कोपजन्मन- स्तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ २.३७॥ समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥ २.३८॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्र-चलाश्चलेन्द्रियै- रसुरक्षा हि बहुच्छलाः श्रियः ॥ २.३९॥ किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः । क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥ २.४०॥ श्रुतमप्यधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः । जनयन्त्यचिराय सम्पदा- मयशस्ते खलु चापलाश्रयम् ॥ २.४१॥ अतिपातित-कालसाधना स्वशरीरेन्द्रिय-वर्गतापनी । जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ २.४२॥ उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षा-सममस्ति साधनम् ॥ २.४३॥ प्रणतिप्रवणान् विहाय नः सहजस्नेह-निबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ २.४४॥ सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये । विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥ २.४५॥ अभियोग इमान्महीभुजो भवता तस्य कृतः कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥ २.४६॥ उपजापसहान् विलङ्घयन् स विधाता नृपतीन्मदोद्धतः । सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ २.४७॥ असमापित-कृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ २.४८॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । अतिमूढ उदस्यते नया- न्नयहीनादपरज्यते जनः ॥ २.४९॥ अपराग-समीरणेरितः क्रमशीर्णाकुल-मूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ २.५०॥ अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृति-प्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ २.५१॥ मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ॥ २.५२॥ लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् । अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगा-रयः ॥ २.५३॥ अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । स्वयमर्थ इवाभिवाञ्छित- स्तमभीयाय पराशरात्मजः ॥ २.५४॥ मधुरैरवशानि लम्भय- न्नपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥ २.५५॥ सहसोपगतः सविस्मयं तपसां सूतिरसूतिरापदाम् । ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसञ्चयः ॥ २.५६॥ अथोच्चकैरासनतः परार्ध्या- दुद्यन् स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः श‍ृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥ २.५७॥ अवहितहृदयो विधाय सोऽर्हा- मृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलञ्चकार पश्चात् प्रशम इव श्रुतमासनं नरेन्द्रः ॥ २.५८॥ व्यक्तोदितस्मित-मयूखविभासितोष्ठ- स्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥ २.५९॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये व्यासागमनो नाम द्वितीयः सर्गः ॥ २॥

३. तृतीयः सर्गः

ततः शरच्चन्द्रकराभिरामै- रुत्सर्पिभिः प्रांशुमिवांशुजालैः । बिभ्राणमानीलरुचं पिशङ्गी- र्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ ३.१॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्त- मसंस्तुतानामपि भावमार्द्रम् ॥ ३.२॥ अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भ-विशेषभाजा कृतोपसम्भाषमिवेक्षितेन ॥ ३.३॥ धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ ३.४॥ अनाप्त-पुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ ३.५॥ अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेरस्मि जगत्सु जात- स्त्वय्यागते यद्बहुमानपात्रम् ॥ ३.६॥ श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् । सन्दर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते ॥ ३.७॥ श्च्योतन्मयूखेऽपि हिमद्युतौ मे न निर्वृतं निर्वृतिमेति चक्षुः । समुज्झित-ज्ञातिवियोगखेदं त्वत्सन्निधावुच्छ्वसतीव चेतः ॥ ३.८॥ निरास्पदं प्रश्नकुतूहलित्व- मस्मास्वधीनं किमु निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ ३.९॥ इत्युक्तवानुक्ति-विशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ ३.१०॥ चिचीषतां जन्मवतामलघ्वीं यशोवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥ ३.११॥ तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ ३.१२॥ सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः । यस्त्यक्तवान् वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥ ३.१३॥ जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ ३.१४॥ पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्वप्यविपत्ति रम्य- माविष्कृतं प्रेम परं गुणेषु ॥ ३.१५॥ विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशित-त्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ ३.१६॥ लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः । अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ ३.१७॥ त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ ३.१८॥ यस्मिन्ननैश्वर्य-कृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन् धनुः कस्य रणे न कुर्यान्- मनो भयैकप्रवणं स भीष्मः ॥ ३.१९॥ सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोल-शिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥ ३.२०॥ निरीक्ष्य संरम्भ-निरस्तधैर्यं राधेयमाराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ ३.२१॥ यया समासादित-साधनेन सुदुश्चरामाचरता तपस्याम् । एते दुरापं समवाप्य वीर्य- मुन्मूलितारः कपिकेतनेन ॥ ३.२२॥ महत्त्वयोगाय महामहिम्ना- माराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नी- मुपागतः सिद्धिमिवास्मि विद्याम् ॥ ३.२३॥ इत्युक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यमजातशत्रोः । प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥ ३.२४॥ निर्याय विद्याथ दिनादिरम्याद्- बिम्बादिवार्कस्य मुखान्महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ ३.२५॥ योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः । येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ ३.२६॥ आकारमाशंसित-भूरिलाभं दधानमन्तःकरणानुरूपम् । नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥ ३.२७॥ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् । समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ ३.२८॥ करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं त- मेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥ ३.२९॥ इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरोऽस्य साक्षात् प्रदेशमादेशमिवाधितष्ठौ ॥ ३.३०॥ कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ ३.३१॥ अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानानुदयाय तेन । बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ ३.३२॥ असंशयालोचित-कार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद्विभागादिव तन्मनोभि- र्दुःखातिभारोऽपि लघुः स मेने ॥ ३.३३॥ धैर्येण विश्वास्यतया महर्षे- स्तीव्रादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥ ३.३४॥ तान् भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य । एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ ३.३५॥ तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥ ३.३६॥ अकृत्रिम-प्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥ ३.३७॥ धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । निरुद्धबाष्पोदयसन्नकण्ठ- मुवाच कृच्छ्रादिति राजपुत्री ॥ ३.३८॥ मग्नां द्विषच्छद्मनि पङ्कभूते सम्भावनां भूतिमिवोद्धरिष्यन् । आधिद्विषामा तपसां प्रसिद्धे- रस्मद्विना मा भृशमुन्मनीभूः ॥ ३.३९॥ यशोऽधिगन्तुं सुखलिप्सया वा मनुष्य-सङ्ख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ ३.४०॥ लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन् वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्ते- र्निघ्नन् प्रियं प्राणमिवाभिमानम् ॥ ३.४१॥ व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥ ३.४२॥ वीर्यावदानेषु कृतावमर्ष- स्तन्वन्नभूतामिव सम्प्रतीतिम् । कुर्वन् प्रयामक्षयमायतीना- मर्कत्विषामह्न इवावशेषः ॥ ३.४३॥ प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किमुताधिकर्तुम् । नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ॥ ३.४४॥ प्राप्तोऽभिमान-व्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥ ३.४५॥ सव्रीडमन्दैरिव निष्क्रियत्वा- न्नात्यर्थमस्त्रैरवभासमानः । यशःक्षयक्षीणजलार्णवाभ- स्त्वमन्यमाकारमिवाभिपन्नः ॥ ३.४६॥ दुःशासनामर्ष-रजोविकीर्णै- रेभिर्विनाथैरिव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनञ्जयस्त्वम् ॥ ३.४७॥ स क्षत्रियस्त्राणसहः सतां य- स्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन् द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कार-हतामिवोक्तिम् ॥ ३.४८॥ वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः । समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ ३.४९॥ आक्षिप्यमाणं रिपुभिः प्रमादा- न्नागैरिवालूनसटं मृगेन्द्रम् । त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥ ३.५०॥ करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ॥ ३.५१॥ प्रियेषु यैः पार्थ विनोपपत्ते- र्विचिन्त्यमानैः क्लममेति चेतः । तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥ ३.५२॥ मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे । मात्सर्य-रागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ ३.५३॥ तदाशु कुर्वन् वचनं महर्षे- र्मनोरथान्नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ ३.५४॥ उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥ ३.५५॥ अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपित-हेतिसंहतिः । बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ ३.५६॥ अविलङ्घ्य-विकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगतावरि-दृष्टिगोचरं शित-निस्त्रिंशयुजौ महेषुधी ॥ ३.५७॥ यशसेव तिरोदधन्मुहु- र्महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नमुद्वह- ञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ३.५८॥ अलकाधिप-भृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ३.५९॥ अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने । प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ ३.६०॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये तृतीयः सर्गः ॥ ३॥

४. शरद्वर्णनं नाम चतुर्थः सर्गः

ततः स कूजत्कलहंस-मेखलां सपाकसस्याहित-पाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥ ४.१॥ विनम्रशालि-प्रसवौघशालिनी- रपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थली- रुपायनीभूत-शरद्गुणश्रियः ॥ ४.२॥ निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलित-पद्मलोचनैः । हृतप्रियादृष्टि-विलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ॥ ४.३॥ तुतोष पश्यन् कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसङ्गमे ॥ ४.४॥ नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृत-फेनसन्तति । अवाप्तकिञ्जल्क-विभेदमुच्चकै- र्विवृत्तपाठीनपराहतं पयः ॥ ४.५॥ कृतोर्मि-रेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गित-क्षौमविपाण्डु सैकतम् ॥ ४.६॥ मनोरमं प्रापितमन्तरं भ्रुवो- रलङ्कृतं केसररेणुणाणुना । अलक्तताम्राधर-पल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ ४.७॥ नवातपालोहितमाहितं मुहु- र्महानिवेशौ परितः पयोधरौ । चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ ४.८॥ कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ ४.९॥ उपारताः पश्चिमरात्रिगोचरा- दपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधसः ॥ ४.१०॥ परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ४.११॥ विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ ४.१२॥ गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥ ४.१३॥ परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डल-रश्मिरञ्जितै- र्नवातपामृष्ट-सरोजचारुभिः ॥ ४.१४॥ निबद्धनिःश्वास-विकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ ४.१५॥ व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनै- र्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ ४.१६॥ स मन्थरावल्गित-पीवरस्तनीः परिश्रमक्लान्त-विलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवी -रभिप्रनृत्ता इव वारयोषितः ॥ ४.१७॥ पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिक-सस्यसम्पदः । रथाङ्गसीमन्तित-सान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ ४.१८॥ जनैरुपग्राममनिन्द्यकर्मभि- र्विविक्तभावेङ्गितभूषणैर्वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ ४.१९॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ ४.२०॥ इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥ ४.२१॥ उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् । नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ ४.२२॥ पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ ४.२३॥ विपाण्डुभिर्म्लानतया पयोधरै- श्च्युताचिराभा-गुणहेमदामभिः । इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥ ४.२४॥ विहाय वाञ्छामुदिते मदात्यया- दरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥ ४.२५॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥ ४.२६॥ मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोज-पलाशशोभया । पयः स्फुरच्छालिशिखा-पिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥ ४.२७॥ विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलित-बाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ ४.२८॥ अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेद-तिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ ४.२९॥ सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिद-रोधनिर्गताः परस्परालापमिवामला दिशः ॥ ४.३०॥ विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युत-यूथपङ्क्तयः । असक्तमूधांसि पयः क्षरन्त्यमू- रुपायनानीव नयन्ति धेनवः ॥ ४.३१॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी । द्युतिं समग्रां समितिर्गवामसा- वुपैति मन्त्रैरिव संहिताहुतिः ॥ ४.३२॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजन-गीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ ४.३३॥ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ४.३४॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ ४.३५॥ मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ ४.३६॥ इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ ४.३७॥ तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासाद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मी- मसितमधरवासो बिभ्रतः सीरपाणेः ॥ ४.३८॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये शरद्वर्णनं नाम चतुर्थः सर्गः ॥ ४॥

५. हिमवद्वर्णनं नाम पञ्चमः सर्गः

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ ५.१॥ तपनमण्डल-दीपितमेकतः सततनैश-तमोवृतमन्यतः । हसितभिन्न-तमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ ५.२॥ क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः । प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥ ५.३॥ भुजगराजसितेन नभःश्रिता कनकराजि-विराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुद-संहतिम् ॥ ५.४॥ मणिमयूख-चयांशुकभासुराः सुरवधूपरिभुक्त-लतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ ५.५॥ अविरतोज्झित-वारिविपाण्डुभि- र्विरहितैरचिरद्युतितेजसा । उदितपक्षमिवारतनिःस्वनैः पृथुनितम्ब-विलम्बिभिरम्बुदैः ॥ ५.६॥ दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ५.७॥ नवविनिद्र-जपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसान्ध्य-मयूखमिव क्वचि- न्निचितकाञ्चनभित्तिषु सानुषु ॥ ५.८॥ पृथुकदम्ब-कदम्बकराजितं ग्रथितमाल-तमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदान-सदाननदन्तिनम् ॥ ५.९॥ रहितरत्नचयान्न शिलोच्चया- नपलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधू- रकुसुमान् दधतं न महीरुहः ॥ ५.१०॥ व्यथितसिन्धुमनीरशनैः शनै- रमरलोकवधूजघनैर्घनैः । फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ५.११॥ ससुरचापमनेकमणिप्रभै- रपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥ ५.१२॥ विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ ५.१३॥ ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ ५.१४॥ विततशीकर-राशिभिरुच्छ्रितै- रुपलरोधविवर्तिभिरम्बुभिः । दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ ५.१५॥ अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियमादरान् मुखरतावसरे हि विराजते ॥ ५.१६॥ अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः ॥ ५.१७॥ इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ ५.१८॥ रुचिरपल्लव-पुष्पलतागृहै- रुपलसज्जलजैर्जलराशिभिः । नयति सन्ततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥ ५.१९॥ सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ ५.२०॥ अखिलमिदममुष्य गौरीगुरो- स्त्रिभुवनमपि नैति मन्ये तुलाम् । अधिवसति सदा यदेनं जनै- रविदितविभवो भवानीपतिः ॥ ५.२१॥ वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् । आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥ ५.२२॥ दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन् सुरतविशेषं शय्याः ॥ ५.२३॥ गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥ ५.२४॥ कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ ५.२५॥ सादृश्यं गतमपनिद्रचूतगन्धै- रामोदं मदजलसेकजं दधानः । एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥ ५.२६॥ सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ ५.२७॥ श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन् रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ ५.२८॥ ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घन-विलोलविलोचनायाः । आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ ५.२९॥ येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ५.३०॥ नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै- रानीलाभैर्विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥ ५.३१॥ दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रू- गतिकुटिलेषु पयःसु पङ्कजानि ॥ ५.३२॥ अस्मिन्नगृह्यत पिनाकभृता सलील- माबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गल-महौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ५.३३॥ क्रामद्भिर्घन-पदवीमनेकसङ्ख्यै- स्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसङ्ख्याम् ॥ ५.३४॥ व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ ५.३५॥ नानारत्नज्योतिषां सन्निपातै- श्छन्नेष्वन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काममुष्मिन् नावानावान्मातरिश्वा निहन्ति ॥ ५.३६॥ रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि । अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ ५.३७॥ परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ ५.३८॥ उत्फुल्लस्थलनलिनी-वनादमुष्मा- दुद्धूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्ता- दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ५.३९॥ इह सनियमयोः सुरापगाया- मुषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ ५.४०॥ सम्मूर्छतां रजतभित्ति-मयूखजालै रालोलपादप-लतान्तरनिर्गतानाम् । घर्मद्युतेरिह मुहुः पटलानि धाम्ना- मादर्शमण्डलनिभानि समुल्लसन्ति ॥ ५.४१॥ शुक्लैर्मयूखनिचयैः परिवीतमूर्ति- र्वप्राभिघात-परिमण्डलितोरुदेहः । श‍ृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ ५.४२॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ ५.४३॥ स्नपितनवलतातरुप्रवालै- रमृतलवस्रुति-शालिभिर्मयूखैः । सततमसितयामिनीषु शम्भो- रमलयतीह वनान्तमिन्दुलेखा ॥ ५.४४॥ क्षिपति योऽनुवनं विततां बृहद् बृहतिकामिव रौचनिकीं रुचम् । अयमनेक-हिरण्मयकन्दरस्तव पितुर्दयितो जगतीधरः ॥ ५.४५॥ सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ५.४६॥ कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ५.४७॥ जलदजालघनैरसिताश्मना- मुपहतप्रचयेह मरीचिभिः । भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥ ५.४८॥ भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ ५.४९॥ मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः ॥ ५.५०॥ इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ सन्धत्ते भृशमरतिं हि सद्वियोगः ॥ ५.५१॥ तमनतिशयनीयं सर्वतः सारयोगा- दविरहितमनेकेनाङ्कभाजा फलेन । अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५.५२॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये हिमवद्वर्णनं नाम पञ्चमः सर्गः ॥ ५॥

६. युवतिप्रस्थानं नाम षष्ठः सर्गः

रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् । धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ ६.१॥ तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालि-निक्वणजयध्वनयः । पवनेरिताकुल-विजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ ६.२॥ अवधूतपङ्कज-परागकणा- स्तनुजाह्नवी-सलिलवीचिभिदः । परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ ६.३॥ उदितोपल-स्खलनसंवलिताः स्फुटहंससारस-विरावयुजः । मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ६.४॥ अवरुग्णतुङ्ग-सुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ ६.५॥ प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥ ६.६॥ दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥ ६.७॥ अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणै- रनुबध्नतीमभिननन्द रुतैः ॥ ६.८॥ सितवाजिने निजगदू रुचय- श्चलवीचिराग-रचनापटवः । मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ ६.९॥ उपलाहतोद्धत-तरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥ ६.१०॥ बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् । अवगाढमीक्षितुमिवेभपतिं विकसद्विलोचनशतं सरितः ॥ ६.११॥ प्रतिबोधजृम्भण-विभिन्नमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिक-मणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ ६.१२॥ शुचिरप्सु विद्रुमलताविटप- स्तनुसान्द्र-फेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ ६.१३॥ उपलभ्य चञ्चलतरङ्गधृतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान् करिणः ॥ ६.१४॥ स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥ ६.१५॥ स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥ ६.१६॥ अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमाससाद स वनान्तभुवम् ॥ ६.१७॥ अनुसानु पुष्पितलताविततिः फलितोरु-भूरुहविविक्तवनः । धृतिमाततान तनयस्य हरे- स्तपसेऽधिवस्तुमचलामचलः ॥ ६.१८॥ प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् । श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥ ६.१९॥ शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः । प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ ६.२०॥ अधरीचकार च विवेकगुणा- दगुणेषु तस्य धियमस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ ६.२१॥ मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः । सहजेतरौ जयशमौ दधती बिभराम्बभूव युगपन्महसी ॥ ६.२२॥ शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः । उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ ६.२३॥ धृतहेतिरप्यधृत-जिह्ममति- श्चरितैर्मुनीनधरयञ्शुचिभिः । रजयाञ्चकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ ६.२४॥ अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥ ६.२५॥ नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून् गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ ६.२६॥ पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः । स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ ६.२७॥ महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥ ६.२८॥ तदभूरिवासरकृतं सुकृतै- रुपलभ्य वैभवमनन्यभवम् । उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ ६.२९॥ विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ । अनपेतकालमभिरामकथाः कथयाम्बभूवुरिति गोत्रभिदे ॥ ६.३०॥ शुचिवल्कवीत-तनुरन्यतम- स्तिमिरच्छिदामिव गिरौ भवतः । महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपञ्जगतीम् ॥ ६.३१॥ स बिभर्ति भीषणभुजङ्गभुजः पृथु विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिता- श्चरितेन चातिशयिता मुनयः ॥ ६.३२॥ मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् । गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥ ६.३३॥ इतरेतरानभिभवेन मृगा- स्तमुपासते गुरुमिवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ ६.३४॥ उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनोऽपि तस्य नवसङ्गमने विभुतानुषङ्गि भयमेति जनः ॥ ६.३५॥ ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् ॥ ६.३६॥ विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया । असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ ६.३७॥ अधिगम्य गुह्यकगणादिति तन्- मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ ६.३८॥ प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः । उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥ ६.३९॥ सुकुमारमेकमणु मर्मभिदा- मतिदूरगं युतममोघतया । अविपक्षमस्त्रमपरं कतम- द्विजयाय यूयमिव चित्तभुवः ॥ ६.४०॥ भववीतये हतबृहत्तमसा- मवबोधवारि रजसः शमनम् । परिपीयमाणमिव वोऽसकलै- रवसादमेति नयनाञ्जलिभिः ॥ ६.४१॥ बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ ६.४२॥ तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ ६.४३॥ अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ६.४४॥ पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः ॥ ६.४५॥ आशंसितापचितिचारु पुरः सुराणा- मादेशमित्यभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥ ६.४६॥ प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥ ६.४७॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये युवतिप्रस्थानं नाम षष्ठः सर्गः ॥ ६॥

७. सप्तमः सर्गः

श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः । सम्मूर्छन्नलघु-विमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥ ७.१॥ सोत्कण्ठैरमर-गणैरनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान्मघोनः । रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥ ७.२॥ धूतानामभिमुखपातिभिः समीरै- रायासादविशद-लोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूना- मुष्णांशुद्युतिजनितः कपोलरागः ॥ ७.३॥ तिष्ठद्भिः कथमपि देवतानुभावा- दाकृष्टैः प्रजविभिरायतं तुरङ्गैः । नेमीनामसति विवर्तने रथौघै- रासेदे वियति विमानवत्प्रवृत्तिः ॥ ७.४॥ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभः । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥ ७.५॥ राजद्भिः पथि मरुतामभिन्नरूपै- रुल्कार्चिः स्फुटगतिभिर्ध्वजांशुकानाम् । तेजोभिः कनकनिकाष-राजिगौरै- रायामः क्रियत इव स्म सातिरेकः ॥ ७.६॥ रामाणामवजित-माल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य । गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ ७.७॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुररुणांशु-रागभिन्नै- र्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ ७.८॥ अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिम-मयूखमण्डलस्य । आशानामुपरिचितामिवैकवेणीं रम्योर्मिं त्रिदशनदीं ययुर्बलानि ॥ ७.९॥ आमत्तभ्रमर-कुलाकुलानि धुन्वन्नुद्धूत-ग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः सन्तापं विरमयति स्म मातरिश्वा ॥ ७.१०॥ सम्भिन्नैरिभ-तुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ ७.११॥ क्रान्तानां ग्रहचरितात्पथो रथाना- मक्षाग्रक्षत-सुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥ ७.१२॥ तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ ७.१३॥ संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणि-मेखलांशुजालं सञ्जज्ञे युतकमिवान्तरीयमूर्वोः ॥ ७.१४॥ प्रत्यार्द्रीकृत-तिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ ७.१५॥ यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस्त्रिदश-वधूजनाङ्गभाजां सन्धानं सुरधनुषः प्रभा मणीनाम् ॥ ७.१६॥ संसिद्धाविति करणीयसन्निबद्धै- रालापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥ ७.१७॥ आकीर्णा मुखनलिनैर्विलासिनीना- मुद्धूतस्फुट-विशदातपत्रफेना । सा तूर्यध्वनित-गभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ ७.१८॥ सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन । आनिन्युर्नियमित-रश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥ ७.१९॥ माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयन-निष्प्रकम्पपक्षै- राजग्मुर्जलनिधि-शायिभिर्नगेन्द्रैः ॥ ७.२०॥ उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ ७.२१॥ सध्वानं निपतितनिर्झरासु मन्द्रैः सम्मूर्छन् प्रतिनिनदैरधित्यकासु । उद्ग्रीवैर्घनरव-शङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥ ७.२२॥ सम्भिन्नामविरल-पातिभिर्मयूखै- र्नीलानां भृशमुपमेखलं मणीनाम् । विच्छिन्नामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयाम्बभूवुः ॥ ७.२३॥ आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथञ्चिदीषुः ॥ ७.२४॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ ७.२५॥ सम्भोगक्षम-गहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ ७.२६॥ भूभर्तुः समधिकमादधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किमसुलभं महोदयाना- मुच्छ्रायं नयति यदृच्छयापि योगः ॥ ७.२७॥ सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ ७.२८॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता- ल्लीनाहिश्वसित-विलोलपल्लवानाम् । सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ ७.२९॥ उत्सृष्टध्वजकुथकङ्कटा धरित्री- मानीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ ७.३०॥ प्रस्थानश्रमजनितां विहाय निद्रा- मामुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव श‍ृङ्खलं चकाशे ॥ ७.३१॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयाञ्चकार नागः ॥ ७.३२॥ आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । सम्मार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ ७.३३॥ आघ्राय क्षणमतितृष्यतापि रोषा- दुत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिणां मदाम्बुसेकै- र्नाचेमे हिममपि वारि वारणेन ॥ ७.३४॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहित-ताम्रदानलेखै- रुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ७.३५॥ आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथित-सरोजरेणुपिङ्गं माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥ ७.३६॥ श्रीमद्भिर्नियमित-कन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलित-गण्डशैलशोभा ॥ ७.३७॥ निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥ ७.३८॥ सादृश्यं दधति गभीरमेघघोषै- रुन्निद्रक्षुभित-मृगाधिपश्रुतानि । आतेनुश्चकित-चकोरनीलकण्ठान् कच्छान्तानमर-महेभबृंहितानि ॥ ७.३९॥ शाखावसक्त-कमनीयपरिच्छदाना- मध्वश्रमातुर-वधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ ७.४०॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सप्तमः सर्गः ॥ ७॥

८. सुराङ्गनाविहारः नामाष्टमः सर्गः

अथ स्वमायाकृत-मन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ ८.१॥ यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासित-शैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥ ८.२॥ निवृत्तवृत्तोरु-पयोधरक्लमः प्रवृत्तनिर्ह्रादि-विभूषणारवः । नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥ ८.३॥ घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः । पुरोऽभिसस्रे सुरसुन्दरीजनै- र्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ८.४॥ तनूरलक्तारुण-पाणिपल्लवाः स्फुरन्नखांशूत्कर-मञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ ८.५॥ निपीयमानस्तबका शिलीमुखै- रशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनै- रमन्ददष्टौष्ठकरावधूननम् ॥ ८.६॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८.७॥ जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं काञ्चिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥ ८.८॥ समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारस-पङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभि- र्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ८.९॥ विदूरपातेन भिदामुपेयुष- श्च्युताः प्रवाहादभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ ८.१०॥ सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । स्थिरद्विरेफाञ्जन-शारितोदरै- र्विसारिभिः पुष्पविलोचनैर्लताः ॥ ८.११॥ उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् । कपोलकाषैः करिणां मदारुणै- रुपाहितश्यामरुचश्च चन्दनाः ॥ ८.१२॥ स्वगोचरे सत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ ८.१३॥ प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ ८.१४॥ प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ ८.१५॥ सलीलमासक्त-लतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥ ८.१६॥ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपाय-स्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥ ८.१७॥ विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ ८.१८॥ व्यपोहितुं लोचनतो मुखानिलै- रपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ ८.१९॥ इमान्यमूनीत्यपवर्जिते शनै- र्यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान् पदं वनश्रीर्वनितासु सन्दधे ॥ ८.२०॥ प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥ ८.२१॥ वरोरुभिर्वारणहस्तपीवरै- श्चिराय खिन्नान्नवपल्लवश्रियः । समेऽपि यातुं चरणाननीश्वरान् मदादिव प्रस्खलतः पदे पदे ॥ ८.२२॥ विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छ्राय-नितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥ ८.२३॥ समुच्छ्वसत्पङ्कज-कोशकोमलै- रुपाहितश्रीण्युपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ॥ ८.२४॥ समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥ ८.२५॥ विनिर्यतीनां गुरुखेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वमिवेक्षणादरः ॥ ८.२६॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ८.२७॥ प्रशान्तघर्माभिभवः शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकर- स्तरङ्गमालान्तरगोचरोऽनिलः ॥ ८.२८॥ गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥ ८.२९॥ विभिन्नपर्यन्तग-मीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः । कथञ्चिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ८.३०॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहित-पीवरोरुभिः । विभिद्यमाना विससार सारसा- नुदस्य तीरेषु तरङ्गसंहतिः ॥ ८.३१॥ शिलाघनैर्नाकसदामुरःस्थलै- र्बृहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ८.३२॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ८.३३॥ विपक्षचित्तोन्मथना नखव्रणा- स्तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषानिव कुङ्कुमस्य तान् विकत्थनीयान् दधुरन्यथा स्त्रियः ॥ ८.३४॥ सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने । शिरोरुहाः स्विन्नतपक्ष्मसन्तते- र्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ ८.३५॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ ८.३६॥ प्रियेण सङ्ग्रथ्य विपक्षसन्निधा- वुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८.३७॥ असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ८.३८॥ द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः । उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ ८.३९॥ विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरै- रलङ्कृतं तद्वपुषैव मण्डनम् ॥ ८.४०॥ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८.४१॥ शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥ ८.४२॥ ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनि-धीरमुज्झति । मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥ ८.४३॥ श्रिया हसद्भिः कलमानि सस्मितै- रलङ्कृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्वनी ॥ ८.४४॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ८.४५॥ भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेम-रसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ८.४६॥ तिरोहितान्तानि नितान्तमाकुलै- रपां विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ८.४७॥ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमधार्ष्ट्य-दूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ८.४८॥ प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ८.४९॥ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ८.५०॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् ॥ ८.५१॥ निरञ्जने साचिविलोकितं दृशा- वयावकं वेपथुरोष्ठपल्लवम् । नतभ्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ ८.५२॥ निमीलदाकेकर-लोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ ८.५३॥ प्रियेण सिक्ता चरमं विपक्षत- श्चुकोप काचिन्न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ ८.५४॥ इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघन-स्थलशालिनीभिः । उत्सर्पितोर्मिचय-लङ्घिततीरदेश- मौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ८.५५॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः । संरेजिरे सुरसरिज्जलधौतहारा- स्तारावितानतरला इव यामवत्यः ॥ ८.५६॥ सङ्क्रान्तचन्दन-रसाहितवर्णभेदं विच्छिन्नभूषणमणि-प्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥ ८.५७॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सुराङ्गनाविहारः नामाष्टमः सर्गः ॥ ८॥

९. सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः

वीक्ष्य रन्तुमनसः सुरनारी- रात्तचित्र-परिधानविभूषाः । तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥ ९.१॥ मध्यमोपलनिभे लसदंशा- वेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ ९.२॥ अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबतामिव गतः क्षितिमेष्यं- ल्लोहितं वपुरुवाह पतङ्गः ॥ ९.३॥ गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥ ९.४॥ मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ ९.५॥ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डनमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ९.६॥ अग्रसानुषु नितान्तपिशङ्गै- र्भूरुहान्मृदुकरैरवलम्ब्य । अस्तशैलगहनं नु विवस्वा- नाविवेश जलधिं नु महीं नु ॥ ९.७॥ आकुलश्चलपतत्रिकुलाना- मारवैरनुदितौषसरागः । आययावहरिदश्व-विपाण्डु- स्तुल्यतां दिनमुखेन दिनान्तः ॥ ९.८॥ आस्थितः स्थगितवारिदपङ्क्त्या सन्ध्यया गगनपश्चिमभागः । सोर्मिविद्रुम-वितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९.९॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । सन्ध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ ९.१०॥ औषसातप-भयादपलीनं वासरच्छवि-विरामपटीयः । सन्निपत्य शनकैरिव निम्ना- दन्धकारमुदवाप समानि ॥ ९.११॥ एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनाना- मात्मनीव पतितेन विशेषाः ॥ ९.१२॥ इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ ९.१३॥ यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ ९.१४॥ रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ ९.१५॥ रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नभः श्री- र्वस्तुमिच्छति निरापदि सर्वः ॥ ९.१६॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्भितकान्ति- र्वासवस्य दिशमंशुसमूहः ॥ ९.१७॥ उज्झती शुचमिवाशु तमिस्रा- मन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ ९.१८॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ ९.१९॥ द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शम्भुनेव करिचर्म चकासे ॥ ९.२०॥ अन्तिकान्तिक-गतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस्तिमिर-भारनिरोधा- दुच्छ्वसन्निव रराज दिगन्तः ॥ ९.२१॥ लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ ९.२२॥ दीपयन्नथ नभः किरणौघैः कुङ्कुमारुण-पयोधरगौरः । हेमकुम्भ इव पूर्वपयोधे- रुन्ममज्ज शनकैस्तुहिनांशुः ॥ ९.२३॥ उद्गतेन्दुमविभिन्न-तमिस्रां पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुट-मुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ ९.२४॥ न प्रसादमुचितं गमिता द्यौ- र्नोद्धृतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ ९.२५॥ मानिनीजन-विलोचनपाता- नुष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ९.२६॥ श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्वमन्नभिरराज समन्ता- दङ्गराग इव लोहितरागः ॥ ९.२७॥ प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ ९.२८॥ शारतां गमितया शशिपादै- श्छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलि-चित्रतलाभि- स्तुल्यता वसतिवेश्ममहीभिः ॥ ९.२९॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मे- र्दुःखिते मनसि सर्वमसह्यम् ॥ ९.३०॥ गन्धमुद्धत-रजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥ ९.३१॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ९.३२॥ ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः । यद्विभुः शशिमयूखसखः स- न्नाददे विजयि चापमनङ्गः ॥ ९.३३॥ सद्मनां विरचनाहितशोभै- रागतप्रियकथैरपि दूत्यम् । सन्निकृष्टरतिभिः सुरदारै- र्भूषितैरपि विभूषणमीषे ॥ ९.३४॥ न स्रजो रुरुचिरे रमणीभ्य- श्चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ९.३५॥ प्रस्थिताभिरधिनाथनिवासं ध्वंसित-प्रियसखीवचनाभिः । मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवललम्बे ॥ ९.३६॥ कान्तवेश्म बहु सन्दिशतीभि- र्यातमेव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ९.३७॥ आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ ९.३८॥ उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ९.३९॥ किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ९.४०॥ योषितः पुलकरोधि दधत्या घर्मवारि नवसङ्गमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ ९.४१॥ शीधुपानविधुरासु निगृह्णन् मानमाशु शिथिलीकृतलज्जः । सङ्गतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ९.४२॥ द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलहोऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ ९.४३॥ साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां सङ्गतावुपरराम च लज्जा ॥ ९.४४॥ सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ ९.४५॥ शङ्किताय कृतबाष्पनिपाता- मीर्ष्यया विमुखितां दयिताय । मानिनीमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ ९.४६॥ लोलदृष्टि वदनं दयिताया- श्चुम्बति प्रियतमे रभसेन । व्रीडया सह विनीवि नितम्बा- दंशुकं शिथिलतामुपपेदे ॥ ९.४७॥ ह्रीतया गलितनीवि निरस्य- न्नन्तरीयमवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ ९.४८॥ आदृता नखपदैः परिरम्भा- श्चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्ति- र्वाम एव सुरतेष्वपि कामः ॥ ९.४९॥ पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचा- मस्त्रतामुपययुर्मदनस्य ॥ ९.५०॥ पातुमाहितरतीन्यभिलेषु- स्तर्षयन्त्यपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ ९.५१॥ कान्तसङ्गम-पराजितमन्यौ वारुणीरसन-शान्तविवादे । मानिनीजन उपाहितसन्धौ सन्दधे धनुषि नेषुमनङ्गः ॥ ९.५२॥ कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः । इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ ९.५३॥ भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा । ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ९.५४॥ स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ९.५५॥ भ्रूविलास-सुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् । आददे मृदुविलोल-पलाशै- रुत्पलैश्चषकवीचिषु कम्पः ॥ ९.५६॥ ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । फुल्ललोचन-विनीलसरोजै- रङ्गनास्यचषकैर्मधुवारः ॥ ९.५७॥ प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ९.५८॥ वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपद-मण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदाना- मोष्ठयावकनुदो मधुवाराः ॥ ९.५९॥ लोचनाधरकृताहृतरागा वासितानन-विशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ ९.६०॥ तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृदिव प्रविभेजे लम्भितेक्षण-रुचिर्मदरागः ॥ ९.६१॥ क्षीणयावक-रसोऽप्यतिपानैः कान्तदन्तपद-सम्भृतशोभः । आययावतितरामिव वध्वाः सान्द्रतामधर-पल्लवरागः ॥ ९.६२॥ रागकान्तनयनेषु नितान्तं विद्रुमारुण-कपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ९.६३॥ बद्धकोप-विकृतीरपि रामा- श्चारुताभिमततामुपनिन्ये । वश्यतां मधुमदो दयिताना- मात्मवर्ग-हितमिच्छति सर्वः ॥ ९.६४॥ वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ९.६५॥ भर्तृषूपसखि निक्षिपतीना- मात्मनो मधुमदोद्यमितानाम् । व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ ९.६६॥ रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ९.६७॥ योषिदुद्धत-मनोभवरागा मानवत्यपि ययौ दयिताङ्कम् । कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ ९.६८॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ ९.६९॥ मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥ ९.७०॥ चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । सङ्गमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ९.७१॥ धार्ष्ट्यलङ्घित-यथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषु- र्मत्तमत्त इव विभ्रममाप ॥ ९.७२॥ शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ ९.७३॥ अन्योन्यरक्त-मनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनि-विभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ ९.७४॥ निद्राविनोदित-नितान्तरतिक्लमाना- मायामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ ९.७५॥ कान्ताजनं सुरतखेद-निमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् । हर्म्येषु माल्यमदिरा-परिभोगगन्धा- नाविश्चकार रजनीपरिवृत्तिवायुः ॥ ९.७६॥ आमोदवासित-चलाधरपल्लवेषु निद्राकषायित-विपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ ९.७७॥ गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्र-बिम्बाधराणाम् । विरहविधुरमिष्टा सत्सखीवाङ्गनानां हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ ९.७८॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः ॥ ९॥

१०. अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः

अथ परिमलजामवाप्य लक्ष्मी- मवयवदीपित-मण्डनश्रियस्ताः । वसतिमभिविहाय रम्यहावाः सुरपतिसूनु-विलोभनाय जग्मुः ॥ १०.१॥ द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रम-लाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीना- मलघुनितम्बतया चिरं निषेदे ॥ १०.२॥ निहितसरस-यावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् । अविरलविततेव शक्रगोपै- ररुणितनीलतृणोलपा धरित्री ॥ १०.३॥ ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुण-शिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुक-हंससारसानि ॥ १०.४॥ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि । अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वस-विक्लवं च चेतः ॥ १०.५॥ नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः । उपहितपरम-प्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ १०.६॥ सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णो- रुपहितकेतु-रथाङ्गलाञ्छनानि ॥ १०.७॥ अतिशयित-वनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ १०.८॥ मृदितकिसलयः सुराङ्गनानां ससलिल-वल्कलभार-भुग्नशाखः । बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ १०.९॥ यमनियम-कृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशम-दीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १०.१०॥ शशधर इव लोचनाभिरामै- र्गगनविसारिभिरंशुभिः परीतः । शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य ॥ १०.११॥ सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्ग-बृहज्जटाकलापः । हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥ १०.१२॥ सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् । दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ १०.१३॥ चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जनेऽपि तिष्ठन् मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ १०.१४॥ तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ १०.१५॥ मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ १०.१६॥ अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ १०.१७॥ सपदि हरिसखैर्वधूनिदेशाद् ध्वनितमनोरम-वल्लकीमृदङ्गैः । युगपदृतुगणस्य सन्निधानं वियति वने च यथायथं वितेने ॥ १०.१८॥ सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ १०.१९॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ १०.२०॥ प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकास-सुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥ १०.२१॥ व्यथितमपि भृशं मनो हरन्ती परिणतजम्बु-फलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजित-कण्ठरागरम्यम् ॥ १०.२२॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णु- र्न हि महतां सुकरः समाधिभङ्गः ॥ १०.२३॥ धृतबिस-वलयावलिर्वहन्ती कुमुदवनैक-दुकूलमात्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ १०.२४॥ समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशयिनीं समेत्य जग्मु- र्गुणमहतां महते गुणाय योगः ॥ १०.२५॥ सरजसमपहाय केतकीनां प्रसवमुपान्तिक-नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ १०.२६॥ मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाश-चयश्रियं समीयुः ॥ १०.२७॥ अविरलफलिनी-वनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणमसमयजं चिराय लेभे विरलतुषार-कणस्तुषारकालः ॥ १०.२८॥ निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनु- श्चलति नयान्न जिगीषतां हि चेतः ॥ १०.२९॥ कतिपयसहकार-पुष्परम्य- स्तनुतुहिनोऽल्प-विनिद्रसिन्दुवारः । सुरभिमुख-हिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ १०.३०॥ कुसुमनग-वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ १०.३१॥ विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ १०.३२॥ मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ १०.३३॥ श्वसनचलित-पल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥ १०.३४॥ प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ १०.३५॥ कथमिव तव सम्मतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । इति विरचित-मल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ १०.३६॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार ॥ १०.३७॥ श्रुतिसुखमुपवीणितं सहायै- रविरल-लाञ्छनहारिणश्च कालाः । अविहितहरिसूनु-विक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ १०.३८॥ न दलति निचये तथोत्पलानां न च विषमच्छद-गुच्छयूथिकासु । अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ १०.३९॥ मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ १०.४०॥ प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ १०.४१॥ अभिनयमनसः सुराङ्गनाया निहितमलक्तक-वर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धृतनवलोहित-पङ्कजाभिशङ्का ॥ १०.४२॥ अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु । सवपुषमिव चित्तरागमूहु- र्नमितशिखानि कदम्बकेसराणि ॥ १०.४३॥ नृपसुतमभितः समन्मथायाः परिजनगात्र-तिरोहिताङ्गयष्टेः । स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ १०.४४॥ अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ १०.४५॥ धृतबिसवलये निधाय पाणौ मुखमधिरूषित-पाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापा- दमधुमदालसलोचनं निदध्यौ ॥ १०.४६॥ सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ १०.४७॥ चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ १०.४८॥ अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र चास्या- स्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ १०.४९॥ तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ १०.५०॥ जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥ १०.५१॥ सललितचलित-त्रिकाभिरामाः शिरसिज-संयमनाकुलैकपाणिः । सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ १०.५२॥ कुसुमितमवलम्ब्य चूतमुच्चै- स्तनुरिभकुम्भ-पृथुस्तनानताङ्गी । तदभिमुखमनङ्गचापयष्टि- र्विसृतगुणेव समुन्ननाम काचित् ॥ १०.५३॥ सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुण-सन्दितावतस्थे ॥ १०.५४॥ यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्य- स्तव हृदये हृदयेश्वरावकाशम् ॥ १०.५५॥ इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ १०.५६॥ सविनयमपराभिसृत्य साचि स्मितसुभगैक-लसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥ १०.५७॥ करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥ १०.५८॥ असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ १०.५९॥ अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितमुरु-जघनस्थलातिभारा- दुदितपरिश्रम-जिह्मितेक्षणं वा ॥ १०.६०॥ भृशकुसुमशरेषु-पातमोहा- दनवसितार्थ-पदाकुलोऽभिलापः । अधिकविततलोचनं वधूना- मयुगपदुन्नमितभ्रु वीक्षितं च ॥ १०.६१॥ रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ १०.६२॥ स्वयं संराध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहति-ध्वस्तरुचयः सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ १०.६३॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः ॥ १०॥

११. इन्द्रसमागमो नामैकादशः सर्गः

अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया । आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ ११.१॥ मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ ११.२॥ जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैरह्नः पर्यन्त इव सन्ध्यया ॥ ११.३॥ विशदभ्रू-युगच्छन्न-वलितापाङ्गलोचनः । प्रालेयावतति-म्लान-पलाशाब्ज इव ह्रदः ॥ ११.४॥ आसक्तभरनीकाशैरङ्गैः परिकृशैरपि । आद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥ ११.५॥ गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना । अंशुमानिव तन्वभ्र-पटलच्छन्नविग्रहः ॥ ११.६॥ जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ११.७॥ अभितस्तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ११.८॥ आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ११.९॥ त्वया साधु समारम्भि नवे वयसि यत्तपः । ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ ११.१०॥ श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११.११॥ शरदम्बुधरच्छाया-गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ११.१२॥ अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ ११.१३॥ चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता । विरुद्धः केवलं वेषः सन्देहयति मे मनः ॥ ११.१४॥ युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ ११.१५॥ प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ ११.१६॥ भयङ्करः प्राणभृतां मृत्योर्भुज इवापरः । असिस्तव तपस्थस्य न समर्थयते शमम् ॥ ११.१७॥ जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ ११.१८॥ यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ ११.१९॥ मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ ११.२०॥ अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः । उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥ ११.२१॥ या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥ ११.२२॥ दुरासदानरीनुग्रान् धृतेर्विश्वासजन्मनः । भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ ११.२३॥ नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ ११.२४॥ कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥ ११.२५॥ कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ ११.२६॥ शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ ११.२७॥ तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ ११.२८॥ युक्तः प्रमाद्यसि हितादपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ११.२९॥ जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥ ११.३०॥ विजहीहि रणोत्साहं मा तपः साधु नीनशः । उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ११.३१॥ जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ११.३२॥ परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः । अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥ ११.३३॥ श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ ११.३४॥ श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ११.३५॥ विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ११.३६॥ व्याहृत्य मरुतां पत्याविति वाचमवस्थिते । वचः प्रश्रय-गम्भीरमथोवाच कपिध्वजः ॥ ११.३७॥ प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ११.३८॥ न्यायनिर्णीत-सारत्वान्निरपेक्षमिवागमे । अप्रकम्प्यतयान्येषामाम्नाय-वचनोपमम् ॥ ११.३९॥ अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसम्पत्तेः शान्तं चित्तमृषेरिव ॥ ११.४०॥ इदमीदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ११.४१॥ न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ११.४२॥ अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ११.४३॥ श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ११.४४॥ क्षत्रियस्तनयः पाण्डोरहं पार्थो धनञ्जयः । स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ११.४५॥ कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् । भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ ११.४६॥ दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूः । नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ११.४७॥ तेनानुजसहायेन द्रौपद्या च मया विना । भृशमायामियामासु यामिनीष्वभितप्यते ॥ ११.४८॥ हृतोत्तरीयां प्रसभं सभायामागतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥ ११.४९॥ उपाधत्त सपत्नेषु कृष्णाया गुरुसन्निधौ । भावमानयने सत्याः सत्यङ्कारमिवान्तकः ॥ ११.५०॥ तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ११.५१॥ अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येतामितीवास्या नयने बाष्पवारिणा ॥ ११.५२॥ सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ११.५३॥ स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ११.५४॥ धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ११.५५॥ अपवादादभीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥ ११.५६॥ ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ११.५७॥ अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ११.५८॥ शक्तिवैकल्य-नम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ११.५९॥ अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ ११.६०॥ तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ११.६१॥ स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते । नान्यामङ्गुलिमभ्येति सङ्ख्यायामुद्यताङ्गुलिः ॥ ११.६२॥ दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ११.६३॥ गुरून् कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ११.६४॥ उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ११.६५॥ न सुखं प्रार्थये नार्थमुदन्वद्वीचि-चञ्चलम् । नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ११.६६॥ प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् । वैधव्य-तापिताराति-वनितालोचनाम्बुभिः ॥ ११.६७॥ अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थान-विहितायासः कामं जिह्रेतु वा भवान् ॥ ११.६८॥ वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥ ११.६९॥ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ११.७०॥ अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ ११.७१॥ कृतं पुरुषशब्देन जातिमात्रावलम्बिना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ११.७२॥ ग्रसमानमिवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् ॥ ११.७३॥ यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ११.७४॥ स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ११.७५॥ कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ११.७६॥ आसक्ता धूरियं रूढा जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥ ११.७७॥ स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः । पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ११.७८॥ विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ११.७९॥ इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ ११.८०॥ प्रीते पिनाकिनि मया सह लोकपालै- र्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः । लक्ष्मीं समुत्सुकयितासि भृशं परेषा- मुच्चार्य वाचमिति तेन तिरोबभूवे ॥ ११.८१॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये इन्द्रसमागमो नामैकादशः सर्गः ॥ ११॥

१२. ईश्वराभिगमनो नाम द्वादशः सर्गः

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्ति-रहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ १२.१॥ अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥ १२.२॥ वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः । व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥ १२.३॥ न पपात सन्निहितपक्ति- सुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पय- स्यमृतायते हि सुतपः सुकर्मणाम् ॥ १२.४॥ न विसिस्मिये न विषसाद मुहुरलसतां न चाददे । सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ १२.५॥ तपसा कृशं वपुरुवाह स विजित-जगत्त्रयोदयम् । त्रासजननमपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥ १२.६॥ ज्वलतोऽनलादनुनिशीथ- मधिकरुचिरम्भसां निधेः । धैर्यगुणमवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ १२.७॥ जपतः सदा जपमुपांशु वदनमभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥ १२.८॥ कवचं स बिभ्रदुपवीत- पदनिहितसज्यकार्मुकः । शैलपतिरिव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ॥ १२.९॥ प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १२.१०॥ परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ १२.११॥ रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मि-सङ्गमयुजा नभः श्रिया ॥ १२.१२॥ महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ १२.१३॥ तमुदीरितारुण-जटांशु- मधिगुणशरासनं जनाः । रुद्रमनुदित-ललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १२.१४॥ मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ १२.१५॥ न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १२.१६॥ विनयं गुणा इव विवेक- मपनयभिदं नया इव । न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥ १२.१७॥ परिवीतमंशुभिरुदस्त- दिनकर-मयूखमण्डलैः । शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे ॥ १२.१८॥ अथ भूतभव्य-भवदीश- मभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥ १२.१९॥ ककुदे वृषस्य कृतबाहु- मकृशपरिणाहशालिनि । स्पर्शसुखमनुभवन्तमुमा- कुचयुग्ममण्डल इवार्द्रचन्दने ॥ १२.२०॥ स्थितमुन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना । साद्रिजलधि-जलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥ १२.२१॥ अनुजानुमध्यमवसक्त- विततवपुषा महाहिना । लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥ १२.२२॥ परिणाहिना तुहिनराशि- विशदमुपवीतसूत्रताम् । नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ १२.२३॥ प्लुतमालती-सितकपाल- कुमुदमवरुद्धमूर्धजम् । शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ १२.२४॥ मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥ १२.२५॥ तरसैव कोऽपि भुवनैक- पुरुष पुरुषस्तपस्यति । ज्योतिरमलवपुषोऽपि रवे- रभिभूय वृत्र इव भीमविग्रहः ॥ १२.२६॥ स धनुर्महेषुधि बिभर्ति कवचमसिमुत्तमं जटाः । वल्कमजिनमिति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥ १२.२७॥ चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भमनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलम् ॥ १२.२८॥ स तदोजसा विजितसार- ममर-दितिजोपसंहितम् । विश्वमिदमपिदधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् ॥ १२.२९॥ विजिगीषते यदि जगन्ति युगपदथ सञ्जिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः ॥ १२.३०॥ किमुपेक्षसे कथय नाथ न तव विदितं न किञ्चन । त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ १२.३१॥ इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरमन्धकान्तकः ॥ १२.३२॥ बदरी-तपोवननिवास- निरतमवगात मान्यथा । धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ १२.३३॥ द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः । क्रान्तकुलिशकर-वीर्यबलान् मदुपासनं विहितवान्महत्तपः ॥ १२.३४॥ अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः । पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ १२.३५॥ सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः । हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥ १२.३६॥ विवरेऽपि नैनमनिगूढ- मभिभवितुमेष पारयन् । पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ १२.३७॥ निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥ १२.३८॥ तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितमतुलं भुजयो- र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ १२.३९॥ इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ॥ १२.४०॥ वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना । बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ १२.४१॥ बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ १२.४२॥ अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः । शूलपरशु-शरचापभृतै- र्महती वनेचरचमूर्विनिर्ममे ॥ १२.४३॥ विरचय्य काननविभाग- मनुगिरमथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ १२.४४॥ क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥ १२.४५॥ न विरोधिनी रुषमियाय पथि मृगविहङ्ग-संहतिः । घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥ १२.४६॥ चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिराददे धृतिः ॥ १२.४७॥ हरसैनिकाः प्रतिभयेऽपि गजमद-सुगन्धिकेसरैः । स्वस्थमभिददृशिरे सहसा प्रतिबोध-जृम्भितमुखैर्मृगाधिपैः ॥ १२.४८॥ बिभराम्बभूवुरपवृत्त- जठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्ण-चन्दनरसारुणं पयः ॥ १२.४९॥ महिष-क्षतागुरुतमाल- नलदसुरभिः सदागतिः । व्यस्त-शुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ १२.५०॥ मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसी- र्विदधे निदाघ इव सत्त्वसम्प्लवः ॥ १२.५१॥ इति चालयन्नचलसानु- वनगहनजानुमापतिः । प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ १२.५२॥ स तमाससाद घननील- मभिमुखमुपस्थितं मुनेः । पोत्रनिकषण-विभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ १२.५३॥ कच्छान्ते सुरसरितो निधाय सेना- मन्वीतः स कतिपयैः किरातवर्यैः । प्रच्छन्नस्तरुगहनैः सगुल्मजालै- र्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥ १२.५४॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये ईश्वराभिगमनो नाम द्वादशः सर्गः ॥ १२॥

१३. दूतवाक्यं नाम त्रयोदशः सर्गः

वपुषां परमेण भूधराणा- मथ सम्भाव्यपराक्रमं विभेदे । मृगमाशु विलोकयाञ्चकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १३.१॥ स्फुटबद्धसटोन्नतिः स दूरा- दभिधावन्नवधीरितान्यकृत्यः । जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ १३.२॥ घनपोत्रविदीर्ण-शालमूलो निबिडस्कन्ध-निकाषरुग्णवप्रः । अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ १३.३॥ इह वीतभयास्तपोनुभावा- ज्जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥ १३.४॥ अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किमारान् मृगजातीरभियाति मां जवेन ॥ १३.५॥ न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे । विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ १३.६॥ मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ १३.७॥ दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ १३.८॥ अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनी-रवैरकार्षी- च्चकितोद्भ्रान्तमृगाणि काननानि ॥ १३.९॥ बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद्- गणमाशिश्रियदाकुलं तिरश्चाम् ॥ १३.१०॥ अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ १३.११॥ बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ १३.१२॥ कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३.१३॥ इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ १३.१४॥ अनुभाववता गुरु स्थिरत्वा- दविसंवादि धनुर्धनञ्जयेन । स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १३.१५॥ प्रविकर्ष-निनादभिन्नरन्ध्रः पदविष्टम्भ-निपीडितस्तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ १३.१६॥ ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायत-चापमण्डलस्थः । रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥ १३.१७॥ विचकर्ष च संहितेषुरुच्चै- श्चरणास्कन्दन-नामिताचलेन्द्रः । धनुरायतभोग-वासुकिज्या- वदनग्रन्थि-विमुक्तवह्नि शम्भुः ॥ १३.१८॥ स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुराप पराभवाय मध्यं प्रकृति-प्रत्यययोरिवानुबन्धः ॥ १३.१९॥ अथ दीपित-वारिवाहवर्त्मा रववित्रासित-वारणादवार्यः । निपपात जवादिषुः पिनाकान्- महतोऽभ्रादिव वैद्युतः कृशानुः ॥ १३.२०॥ व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपात-वेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ १३.२१॥ नयनादिव शूलिनः प्रवृत्तै- र्मनसोऽप्याशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ १३.२२॥ अपयन् धनुषः शिवान्तिकस्थै- र्विवरेसद्भिरभिख्यया जिहानः । युगपद्ददृशे विशन् वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ १३.२३॥ स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतमीक्षितो नभःस्थै- र्जगतीं ग्राह इवापगां जगाहे ॥ १३.२४॥ सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद । कुपितान्तक-तर्जनाङ्गुलिश्री- र्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ १३.२५॥ परमास्त्र-परिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु । स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ १३.२६॥ अविभावित-निष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्ते- रपतित्वा नु चकार लक्ष्यभेदम् ॥ १३.२७॥ स वृषध्वज-सायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ १३.२८॥ अविवेक-वृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् । विजिगीषुमिवानय-प्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ १३.२९॥ अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ १३.३०॥ स गतः क्षितिमुष्ण-शोणितार्द्रः खुरदंष्ट्राग्र-निपात-दारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनु- र्विहितामर्ष-गुरुध्वनिर्निरासे ॥ १३.३१॥ स्फुटपौरुषमापपात पार्थ- स्तमथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः ॥ १३.३२॥ उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिरवाङ्मुखो गुरुत्वा- ज्जनितव्रीड इवात्मपौरुषेण ॥ १३.३३॥ स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः । अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ १३.३४॥ तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । सन्निकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ १३.३५॥ स प्रयुज्य तनये महीपते- रात्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ १३.३६॥ शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसा- मन्ववायमवदातमाकृतिः ॥ १३.३७॥ दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः । राजसे मुनिरपीह कारय- न्नाधिपत्यमिव शातमन्यवम् ॥ १३.३८॥ तापसोऽपि विभुतामुपेयिवा- नास्पदं त्वमसि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनै- रन्वितस्य सचिवैरिव द्युतिः ॥ १३.३९॥ विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी । ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ १३.४०॥ ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः । हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ १३.४१॥ स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः । ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥ १३.४२॥ आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपथान्महापदः । योगशक्तिजित-जन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ १३.४३॥ तिष्ठतां तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ १३.४४॥ नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः । सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ १३.४५॥ अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते । निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ १३.४६॥ सन्ततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः । कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ १३.४७॥ अन्यदोषमिव सः स्वकं गुणं ख्यापयेत् कथमधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग्विभिन्न-बुधसेतुमर्थिताम् ॥ १३.४८॥ दुर्वचं तदथ मा स्म भून्मृग- स्त्वय्यसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ १३.४९॥ को न्विमं हरितुरङ्गमायुध- स्थेयसीं दधतमङ्गसंहतिम् । वेगवत्तरमृते चमूपते- र्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ १३.५०॥ मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ १३.५१॥ लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः । स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ॥ १३.५२॥ चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम् ॥ १३.५३॥ जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता सङ्गतेन तपसः फलं त्वया ॥ १३.५४॥ वाजिभूमिरिभराज-काननं सन्ति रत्ननिचयाश्च भूरिशः । काञ्चनेन किमिवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ १३.५५॥ सावलेपमुपलिप्सिते परै- रभ्युपैति विकृतिं रजस्यपि । अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ १३.५६॥ तत्तदीय-विशिखातिसर्जना- दस्तु वां गुरु यदृच्छयागतम् । राघव-प्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ १३.५७॥ नाभियोक्तुमनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ १३.५८॥ मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदमेत्य सोऽर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ १३.५९॥ तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा । सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥ १३.६०॥ शक्तिरर्थपतिषु स्वयङ्ग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ १३.६१॥ अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥ १३.६२॥ अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ १३.६३॥ जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । आपदेत्युभय-लोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ १३.६४॥ यष्टुमिच्छसि पितॄन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥ १३.६५॥ सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥ १३.६६॥ अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ १३.६७॥ तत्तितिक्षितमिदं मया मुने- रित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिश- न्नाप्नुहि त्वमपि सर्वसम्पदः ॥ १३.६८॥ आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्यनेक-फलभाजि मा स्म भू- दर्थिता कथमिवार्यसङ्गमे ॥ १३.६९॥ दृश्यतामयमनोकहान्तरे तिग्महेति-पृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ १३.७०॥ सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन् हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ १३.७१॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये दूतवाक्यं नाम त्रयोदशः सर्गः ॥ १३॥

१४. अर्जुनाभिगमनो नाम चौर्दशः सर्गः

ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः । जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ १४.१॥ सलेशमुल्लिङ्गित-शात्रवेङ्गितः कृती गिरां विस्तर-तत्त्वसङ्ग्रहे । अयं प्रमाणीकृत-कालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ १४.२॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ १४.३॥ भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ॥ १४.४॥ स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ १४.५॥ समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीम् । प्रगल्भमात्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ १४.६॥ प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥ १४.७॥ विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिमिच्छता सहार्थनाशेन नृपोऽनुजीविना ॥ १४.८॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः । न युक्तमत्रार्य-जनातिलङ्घनं दिशत्यपायं हि सतामतिक्रमः ॥ १४.९॥ अतीतसङ्ख्या विहिता ममाग्निना शिलीमुखाः खाण्डवमत्तुमिच्छता । अनादृतस्यामर-सायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ १४.१०॥ यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥ १४.११॥ गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥ १४.१२॥ वनाश्रयाः कस्य मृगाः परिग्रहाः श‍ृणाति यस्तान् प्रसभेन तस्य ते । प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ १४.१३॥ न वर्त्म कस्मैचिदपि प्रदीयता- मिति व्रतं मे विहितं महर्षिणा । जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतामलङ्क्रिया ॥ १४.१४॥ मृगान् विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः । कृपेति चेदस्तु मृगः क्षतः क्षणा- दनेन पूर्वं न मयेति का गतिः ॥ १४.१५॥ अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा । शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ १४.१६॥ अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥ १४.१७॥ यदात्थ कामं भवता स याच्यता- मिति क्षमं नैतदनल्पचेतसाम् । कथं प्रसह्याहरणैषिणां प्रियाः परावनत्या मलिनीकृताः श्रियः ॥ १४.१८॥ अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः । विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ १४.१९॥ असिः शरा वर्म धनुश्च नोच्चकै- र्विविच्य किं प्रार्थितमीश्वरेण ते । अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयङ्ग्रहः ॥ १४.२०॥ सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते । गुणार्जनोच्छ्राय-विरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ १४.२१॥ वयं क्व वर्णाश्रम-रक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः । सहापकृष्टैर्महतां न सङ्गतं भवन्ति गोमायुसखा न दन्तिनः ॥ १४.२२॥ परोऽवजानाति यदज्ञताजड- स्तदुन्नतानां न विहन्ति धीरताम् । समानवीर्यान्वय-पौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ १४.२३॥ यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः । स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ १४.२४॥ मया मृगान् हन्तुरनेन हेतुना विरुद्धमाक्षेप-वचस्तितिक्षितम् । शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ १४.२५॥ इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा । ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ १४.२६॥ ततोऽपवादेन पताकिनीपते- श्चचाल निर्ह्रादवती महाचमूः । युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधि-वीचिसंहतिः ॥ १४.२७॥ रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बित-केतुसन्ततिः । पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ १४.२८॥ जयारव-क्ष्वेडितनादमूर्छितः शरासनज्यातल-वारणध्वनिः । असम्भवन्भूधर-राजकुक्षिषु प्रकम्पयन् गामवतस्तरे दिशः ॥ १४.२९॥ निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् । वनेसदां हेतिषु भिन्नविग्रहै- र्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ १४.३०॥ उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारित-चापमण्डलः । वितत्य पक्षद्वयमायतं बभौ विभुर्गणानामुपरीव मध्यगः ॥ १४.३१॥ सुगेषु दुर्गेषु च तुल्यविक्रमै- र्जवादहम्पूर्विकया यियासुभिः । गणैरविच्छेद-निरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ १४.३२॥ तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसातिरिक्तताम् । किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ १४.३३॥ पृथूरुपर्यस्त-बृहल्लतातति- र्जवानिलाघूर्णित-शालचन्दना । गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ १४.३४॥ ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षाममिवैकवारणम् । परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ १४.३५॥ अनादरोपात्त-धृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् । शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ १४.३६॥ निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । अलङ्घनीयं प्रकृतावपि स्थितं निवात-निष्कम्पमिवापगापतिम् ॥ १४.३७॥ उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥ १४.३८॥ निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥ १४.३९॥ महर्षभस्कन्धमनूनकन्धरं बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥ १४.४०॥ हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ १४.४१॥ गुरुक्रियारम्भ-फलैरलङ्कृतं गतिं प्रतापस्य जगत्प्रमाथिनः । गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ॥ १४.४२॥ यथास्वमाशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे । ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ १४.४३॥ ततः प्रजह्रे सममेव तत्र तै- रपेक्षितान्योन्यबलोपपत्तिभिः । महोदयानामपि सङ्घवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ १४.४४॥ किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः । महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ १४.४५॥ गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु । धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ १४.४६॥ विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्त-नभोदिगन्तरा । महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ १४.४७॥ त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ १४.४८॥ पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः । सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ॥ १४.४९॥ दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् । मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ॥ १४.५०॥ विमुक्तमाशंसितशत्रुनिर्जयै- रनेकमेकावसरं वनेचरैः । स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ १४.५१॥ गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥ १४.५२॥ दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बादुत तिग्मतेजसः । सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ १४.५३॥ गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि । जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥ १४.५४॥ द्विषां क्षतीर्याः प्रथमे शिलीमुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर्मुने- ररुन्तुदत्वं महतां ह्यगोचरः ॥ १४.५५॥ समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पङ्कजावलिं निनाय सङ्कोचमुमापतेश्चमूम् ॥ १४.५६॥ अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ १४.५७॥ शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रेषु-मयूखमालिनम् । तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥ १४.५८॥ मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता । विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ १४.५९॥ तपोबलेनैष विधाय भूयसी- स्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ १४.६०॥ हृता गुणैरस्य भयेन वा मुने- स्तिरोहिताः स्वित्प्रहरन्ति देवताः । कथं न्वमी सन्ततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ १४.६१॥ जयेन कच्चिद्विरमेदयं रणाद्- भवेदपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणै- रिति प्रतर्काकुलिता पताकिनी ॥ १४.६२॥ अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ १४.६३॥ प्रतिदिशं प्लवगाधिप-लक्ष्मणा विशिखसंहति-तापितमूर्तिभिः । रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ॥ १४.६४॥ प्रवितत-शरजालच्छन्न-विश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ । कथमपि जयलक्ष्मीर्भीतभीता विहातुं विषमनयन-सेनापक्षपातं विषेहे ॥ १४.६५॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये अर्जुनाभिगमनो नाम चौर्दशः सर्गः ॥ १४॥

१५. युद्धवर्णनं नाम पञ्चदशः सर्गः

अथ भूतानि वार्त्रघ्न-शरेभ्यस्तत्र तत्रसुः । भेजे दिशः परित्यक्त-महेष्वासा च सा चमूः ॥ १५.१॥ अपश्यद्भिरिवेशानं रणान्निववृते गणैः । मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ १५.२॥ खण्डिताशंसया तेषां पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ १५.३॥ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु । व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ १५.४॥ स सासिः सासुसूः सासो येयायेयाययाययः । ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ॥ १५.५॥ त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः । नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ॥ १५.६॥ अथाग्रे हसता साचि-स्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा ॥ १५.७॥ मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥ १५.८॥ विवस्वदंशुसंश्लेष-द्विगुणीकृततेजसः । अमी वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ १५.९॥ वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् । वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १५.१०॥ पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः । गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ १५.११॥ नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः । ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १५.१२॥ मन्दमस्यन्निषुलतां घृणया मुनिरेष वः । प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १५.१३॥ न नोननुन्नो नुन्नोनो नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १५.१४॥ वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः ॥ १५.१५॥ स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः । स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ १५.१६॥ भवद्भिरधुनाराति-परिहापितपौरुषैः । ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः ॥ १५.१७॥ वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे । यात किं विदिशो जेतुं तुञ्जेशो दिवि किन्तया ॥ १५.१८॥ अयं वः क्लैब्यमापन्नान् दृष्टपृष्ठानरातिना । इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १५.१९॥ ननु हो मथना राघो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ १५.२०॥ किं त्यक्तापास्तदेवत्व-मानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ १५.२१॥ निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी नः स्वाभासो भरवानुत ॥ १५.२२॥ तनुवारभसो भास्वानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ १५.२३॥ विभिन्नपातिताश्वीय-निरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूत-रुधिराम्बुनदाकुले ॥ १५.२४॥ देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ १५.२५॥ प्रनृत्तशववित्रस्त-तुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीर-विक्रुष्टहतसादिनि ॥ १५.२६॥ ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥ १५.२७॥ आसुरे लोकवित्रास-विधायिनि महाहवे । युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ १५.२८॥ इति शासति सेनान्यां गच्छतस्ताननेकधा । निषिध्य हसता किञ्चित्तस्थे तत्राऽन्धकारिणा ॥ १५.२९॥ मुनीषु-दहनातप्तांल्लज्जया निविवृत्सतः । शिवः प्रह्लादयामास तान्निषेध-हिमाम्बुना ॥ १५.३०॥ दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे । भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ १५.३१॥ महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे । प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥ १५.३२॥ स बभार रणापेतां चमूं पश्चादवस्थिताम् । पुरः सूर्यादपावृत्तां छायामिव महातरुः ॥ १५.३३॥ मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः । दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ १५.३४॥ तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः । विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ १५.३५॥ परिमोहयमाणेन शिक्षालाघव-लीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ १५.३६॥ अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः । पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ १५.३७॥ चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥ १५.३८॥ स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः । धृतोल्कानल-योगेन तुल्यमंशुमता बभौ ॥ १५.३९॥ पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिम् । पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥ १५.४०॥ शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना । रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ १५.४१॥ तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ १५.४२॥ द्युवियद्गामिनी तार-संरावविहतश्रुतिः । हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ १५.४३॥ विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः । ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ १५.४४॥ जगतीशरणे युक्तो हरिकान्तः सुधासितः । दानवर्षीकृताशंसो नागराज इवाबभौ ॥ १५.४५॥ विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ १५.४६॥ स पिशङ्गजटावलिः किर- न्नुरुतेजः परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ १५.४७॥ शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने । प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुमघातुकं शिवः ॥ १५.४८॥ शम्भोर्धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः । निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ १५.४९॥ घनं विदार्यार्जुनबाणपूगं ससारवाणोऽयुगलोचनस्य । घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥ १५.५०॥ रुजन् महेषून् बहुधाशुपातिनो मुहुः शरौघैरपवारयन् दिशः । चलाचलोऽनेक इव क्रियावशान्- महर्षिसङ्घैर्बुबुधे धनञ्जयः ॥ १५.५१॥ विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः । विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥ १५.५२॥ सम्पश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभराम्बभूवुः ॥ १५.५३॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये युद्धवर्णनं नाम पञ्चदशः सर्गः ॥ १५॥

१६. किरातार्जुनयुद्धं नाम षोडशः सर्गः

ततः किराताधिपतेरलघ्वी- माजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्क- श्चिरं विचिन्वन्निति कारणानि ॥ १६.१॥ मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ १६.२॥ विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न सन्निरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ १६.३॥ समुल्लसत्प्रास-महोर्मिमालं परिस्फुरच्चामर-फेनपङ्क्ति । विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ १६.४॥ हताहतेत्युद्धतभीमघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ १६.५॥ अभ्यायतः सन्ततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य । रजः प्रतूर्णाश्व-रथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ १६.६॥ भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्यत्र तेजस्विभिरुत्सुकाना- मह्नि प्रदोषः सुरसुन्दरीणाम् ॥ १६.७॥ रथाङ्गसङ्क्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । सङ्घर्षयोगादिव मूर्च्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ १६.८॥ अस्मिन् यशःपौरुषलोलुपाना- मरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ १६.९॥ असृङ्नदीनामुपचीयमानै- र्विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १६.१०॥ परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ १६.११॥ निषादिसन्नाह-मणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥ १६.१२॥ महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीम- मपां निधेराप इव ध्वजिन्यः ॥ १६.१३॥ महारथानां प्रतिदन्त्यनीक- मधिस्यदस्यन्दनमुत्थितानाम् । आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥ १६.१४॥ धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्को- र्निषादिवक्षःस्थलमातनोति ॥ १६.१५॥ उज्झत्सु संहार इवास्तसङ्ख्य- मह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः ॥ १६.१६॥ इयं च दुर्वारमहारथाना- माक्षिप्य वीर्यं महतां बलानाम् । शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ १६.१७॥ माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ १६.१८॥ पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १६.१९॥ धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी । सन्धानमुत्कर्षमिव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥ १६.२०॥ अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ १६.२१॥ प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥ १६.२२॥ परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे । भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ १६.२३॥ अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् । अल्पीयसोऽप्यामयतुल्यवृत्ते- र्महापकाराय रिपोर्विवृद्धिः ॥ १६.२४॥ स सम्प्रधार्यैवमहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ १६.२५॥ प्रसक्त-दावानल-धूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ १६.२६॥ आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ १६.२७॥ गुरुस्थिराण्युत्तम-वंशजत्वा- द्विज्ञातसाराण्यनुशीलनेन । केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ १६.२८॥ कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥ १६.२९॥ अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ १६.३०॥ तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । सुमेरुश‍ृङ्गादिव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥ १६.३१॥ छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् । ययौ विकासं द्युतिरिन्दुमौले- रालोकमभ्यादिशती गणेभ्यः ॥ १६.३२॥ त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव सन्ध्या । निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ १६.३३॥ पृथग्विधान्यस्त्र-विरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ १६.३४॥ द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः । क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ १६.३५॥ महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे । भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ १६.३६॥ जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोल-विषानलानि । त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥ १६.३७॥ दिङ्नाग-हस्ताकृतिमुद्वहद्भि- र्भोगैः प्रशस्तासितरत्ननीलैः । रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ १६.३८॥ निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फण-मण्डलानाम् । गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥ १६.३९॥ प्रतप्त-चामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः । निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ १६.४०॥ आक्षिप्त- सम्पातमपेतशोभ- मुद्वह्नि धूमाकुल-दिग्विभागम् । वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ १६.४१॥ तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ १६.४२॥ प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि । गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥ १६.४३॥ ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन । जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥ १६.४४॥ मनःशिलाभङ्गनिभेन पश्चा- न्निरुध्यमानं निकरेण भासाम् । व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ १६.४५॥ दरीमुखैरासव-रागताम्रं विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णित-सानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ १६.४६॥ प्रवृत्तनक्तन्दिव-सन्धिदीप्तै- र्नभस्तलं गां च पिशङ्गयद्भिः । अन्तर्हितार्कैः परितः पतद्भि- श्छायाः समाचिक्षिपिरे वनानाम् ॥ १६.४७॥ स भोगिसङ्घः शममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ १६.४८॥ साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् । अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ १६.४९॥ ऊर्ध्वं तिरश्चीनमधश्च कीर्णै- र्ज्वालासटैर्लङ्घित-मेघपङ्क्तिः । आयस्त-सिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्निव जातवेदाः ॥ १६.५०॥ भित्त्वेव भाभिः सवितुर्मयूखा- ञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः । विदीर्यमाणाश्म-निनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥ १६.५१॥ चयानिवाद्रीनिव तुङ्गश‍ृङ्गान् क्वचित्पुराणीव हिरण्मयानि । महावनानीव च किंशुकानां ततान वह्निः पवनानुवृत्त्या ॥ १६.५२॥ मुहुश्चलत्पल्लव-लोहिनीभि- रुच्चैः शिखाभिः शिखिनोऽवलीढाः । तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जन-श्यामरुचः पयोदाः ॥ १६.५३॥ लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाह- मस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ १६.५४॥ ततो धरित्रीधर-तुल्यरोधस- स्तडिल्लतालिङ्गित-नीलमूर्तयः । अधोमुखाकाश-सरिन्निपातिनी- रपः प्रसक्तं मुमुचुः पयोमुचः ॥ १६.५५॥ पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्त-समिद्धतेजसि । कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ १६.५६॥ महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्वथनेन फेनताम् । व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसन्ततिः ॥ १६.५७॥ स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः । असंस्थितामादधिरे विभावसो- र्विचित्रचीनांशुक-चारुतां त्विषः ॥ १६.५८॥ जलौघसम्मूर्छनमूर्छितस्वनः प्रसक्त-विद्युल्लसितैधित-द्युतिः । प्रशान्तिमेष्यन् धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ १६.५९॥ प्रवृद्धसिन्धूर्मि-चयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे । उपात्तसन्ध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ १६.६०॥ उपैत्यनन्त-द्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय सङ्क्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ १६.६१॥ अथ विहितविधेयैराशु मुक्ता वितानै- रसितनगनितम्ब-श्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ १६.६२॥ इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम् । विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥ १६.६३॥ वीतप्रभाव-तनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णु- र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ १६.६४॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये किरातार्जुनयुद्धं नाम षोडशः सर्गः ॥ १६॥

१७. सप्तदशः सर्गः

अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु । धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ १७.१॥ भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश्च तदीयवृद्ध्या । स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ १७.२॥ तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् । आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवारिदुर्गे ॥ १७.३॥ वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतामसुभ्यः । समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ १७.४॥ पतिं नगानामिव बद्धमूल- मुन्मूलयिष्यंस्तरसा विपक्षम् । लघुप्रयत्नं निगृहीतवीर्य- स्त्रिमार्गगावेग इवेश्वरेण ॥ १७.५॥ संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ १७.६॥ भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् । स निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ १७.७॥ तस्याहवायास-विलोलमौलेः संरम्भ-ताम्रायतलोचनस्य । निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ १७.८॥ क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः । घनोपरुद्धः प्रभवाय वृष्टे- रूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥ १७.९॥ स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिश‍ृङ्गम् । बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १७.१०॥ सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते । अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ १७.११॥ उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयाम्बभूवुः । अभ्युत्थितस्याद्रिपतेर्नितम्ब- मर्कस्य पादा इव हैमनस्य ॥ १७.१२॥ सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् । विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ १७.१३॥ तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् । चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १७.१४॥ प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति । तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ १७.१५॥ दृष्टावदानाद् व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १७.१६॥ ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७.१७॥ एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् । इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ॥ १७.१८॥ मुनेर्विचित्रैरिषुभिः स भूयान् निन्ये वशं भूतपतेर्बलौघः । सहात्मलाभेन समुत्पतद्भि- र्जातिस्वभावैरिव जीवलोकः ॥ १७.१९॥ वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः । प्रवर्षतः सन्ततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ १७.२०॥ स सायकान् साध्वसविप्लुतानां क्षिपन् परेषामतिसौष्ठवेन । शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥ १७.२१॥ क्षोभेण तेनाथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य । तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ १७.२२॥ प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन् पुरुषे विकारः । आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ १७.२३॥ विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य । भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य ॥ १७.२४॥ सव्यापसव्य-ध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के । पर्याय-सम्पादित-कर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥ १७.२५॥ निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ १७.२६॥ विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः । नेतारिलोकेषु करोति यद्यत् तत्तच्चकारास्य शरेषु शम्भुः ॥ १७.२७॥ सोढावगीत-प्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः । छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ १७.२८॥ अलङ्कृतानामृजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् । सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥ १७.२९॥ बाणच्छिदस्ते विशिखाः स्मरारे- रवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ १७.३०॥ चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान् भवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्वरातिः ॥ १७.३१॥ तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन । हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ १७.३२॥ अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन । सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ १७.३३॥ अस्त्रैः समानामतिरेकिणीं वा पश्यन्नीषूणामपि तस्य शक्तिम् । विषादवक्तव्यबलः प्रमाथी स्वमाललम्बे बलमिन्दुमौलिः ॥ १७.३४॥ तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्यखिलानि जिष्णो- रर्कः पयांसीव समाचचाम ॥ १७.३५॥ रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपतात पाणिः । अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ १७.३६॥ च्युते स तस्मिन्निषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ । तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ १७.३७॥ आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ । विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ॥ १७.३८॥ बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ १७.३९॥ तेनानिमित्तेन तथा न पार्थ- स्तयोर्यथा रिक्ततयानुतेपे । स्वामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ १७.४०॥ प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषमियाय हस्तः । पराङ्मुखत्वेऽपि कृतोपकारात् तूणीमुखान्मित्रकुलादिवार्यः ॥ १७.४१॥ पश्चात्क्रिया तूणयुगस्य भर्तु- र्जज्ञे तदानीमुपकारिणीव । सम्भावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ १७.४२॥ तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद । हृतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ १७.४३॥ जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ १७.४४॥ विकोशनिर्धौत-तनोर्महासेः फणावतश्च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ १७.४५॥ विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्ने- र्विना तनुत्रेण रुचिं स भेजे ॥ १७.४६॥ अचित्ततायामपि नाम युक्ता- मनूर्ध्वतां प्राप्य तदीयकृच्छ्रे । महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगम् ॥ १७.४७॥ स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस्तमजस्रमीश- स्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥ १७.४८॥ संरम्भवेगोज्झित-वेदनेषु गात्रेषु बाधिर्यमुपागतेषु । मुनेर्बभूवागणितेषुराशे- र्लौहस्तिरस्कार इवात्ममन्युः ॥ १७.४९॥ ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः । आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ॥ १७.५०॥ साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ॥ १७.५१॥ रयेण सा सन्निदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः । समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ १७.५२॥ विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ १७.५३॥ उपोढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ १७.५४॥ ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः । तेजःश्रियामाश्रयमुत्तमासिं साक्षादहङ्कारमिवाललम्बे ॥ १७.५५॥ शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥ १७.५६॥ यथा निजे वर्त्मनि भाति भाभि- श्छायामयश्चाप्सु सहस्ररश्मिः । तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ १७.५७॥ शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः । ज्वलन्नसिस्तस्य पपात पाणे- र्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ १७.५८॥ आक्षिप्त-चापावरणेषुजाल- श्छिन्नोत्तमासिः स मृधेऽवधूतः । रिक्तः प्रकाशश्च बभूव भूमे- रुत्सादितोद्यान इव प्रदेशः ॥ १७.५९॥ स खण्डनं प्राप्य परादमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् ॥ १७.६०॥ नीरन्ध्रं परिगमिते क्षयं पृषत्कै- र्भूतानामधिपतिना शिलाविताने । उच्छ्रायस्थगित-नभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ १७.६१॥ निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर्नगैस्तै- रातेने बलिमिव रङ्गदेवताभ्यः ॥ १७.६२॥ उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्या- माजघ्ने विषमविलोचनस्य वक्षः ॥ १७.६३॥ अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्यो- रसुगममरिसैन्यैरङ्कमभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनो- रविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ १७.६४॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सप्तदशः सर्गः ॥ १७॥

१८. धनञ्जयास्त्रलाभो नाम अष्टादशः सर्गः

तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे । धनुरपास्य सबाणधि शङ्करः प्रतिजघान घनैरिव मुष्टिभिः ॥ १८.१॥ हरपृथासुतयोर्ध्वनिरुत्पत- न्नमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिला-रवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ १८.२॥ शिवभुजाहति-भिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवे- दनुकृतेरपि सत्त्ववतां क्षमः ॥ १८.३॥ व्रणमुखच्युत-शोणितशीकर- स्थगितशैलतटाभ-भुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ १८.४॥ उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ १८.५॥ निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥ १८.६॥ अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ १८.७॥ प्रववृतेऽथ महाहवमल्लयो- रचलसञ्चलनाहरणो रणः । करणश‍ृङ्खल-सङ्कलनागुरु- र्गुरुभुजायुध-गर्वितयोस्तयोः ॥ १८.८॥ अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ १८.९॥ प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतौ । वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥ १८.१०॥ करणश‍ृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपात-निपातितरोधसः प्रससृपुः सरितः परितः स्थलीः ॥ १८.११॥ वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश्चरणानमितक्षिति- र्निजगृहे तिसृणां जयिनं पुराम् ॥ १८.१२॥ विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १८.१३॥ तपसा तथा न मुदमस्य ययौ भगवान् यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥ १८.१४॥ अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया । स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १८.१५॥ सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥ १८.१६॥ सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभे- र्ध्वनिरखिलमनाहतस्यानशे ॥ १८.१७॥ आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर्विमानै- र्द्यौराचिता तारकितेव रेजे ॥ १८.१८॥ हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणै- र्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १८.१९॥ मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सान्तानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयाम्बभूवेश्वरम् ॥ १८.२०॥ कृतधृति परिवन्दितेनोच्चकै- र्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ १८.२१॥ शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ १८.२२॥ विपदेति तावदवसादकरी न च कामसम्पदभिकामयते । न नमन्ति चैकपुरुषं पुरुषा- स्तव यावदीश न नतिः क्रियते ॥ १८.२३॥ संसेवन्ते दानशीला विमुक्त्यै सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्य- स्तत्कारुण्यं केवलं न स्वकार्यम् ॥ १८.२४॥ प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय । तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥ १८.२५॥ व्रजति शुचि पदं त्वयि प्रीतिमान् प्रतिहतमतिरेति घोरां गतिम् । इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ १८.२६॥ दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ १८.२७॥ दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः । सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ते साधु विधेयं स विधत्ते ॥ १८.२८॥ युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः । समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥ १८.२९॥ सन्निबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिमिमामतिमाय- स्त्वं बिभर्षि करुणामय मायाम् ॥ १८.३०॥ न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ १८.३१॥ तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥ १८.३२॥ अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ १८.३३॥ आत्मलाभ-परिणामनिरोधै- र्भूतसङ्घ इव न त्वमुपेतः । तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपमेयः ॥ १८.३४॥ त्वमन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ १८.३५॥ रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे त- न्माहात्म्यं भव भवते नमस्क्रियायाः ॥ १८.३६॥ तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते ॥ १८.३७॥ भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ॥ १८.३८॥ आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥ १८.३९॥ यः सर्वेषामावरीता वरीयान् सर्वैर्भावैर्नावृतोऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस्ते- ऽविज्ञेयाय व्योमरूपाय तस्मै ॥ १८.४०॥ अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ १८.४१॥ असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनामपि ॥ १८.४२॥ आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥ १८.४३॥ इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ १८.४४॥ स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥ १८.४५॥ अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलमाशीर्वादमारोपयन्तो विजयि विविधमस्त्रं लोकपाला वितेरुः ॥ १८.४६॥ असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः । स्वधाम्ना लोकानां तमुपरि कृतस्थानममरा- स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ १८.४७॥ व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसङ्घैः । निजगृहमथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ १८.४८॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये धनञ्जयास्त्रलाभो नामाष्टादशः सर्गः ॥ १८॥ इति कवि श्रीभारविविरचितं किरातार्जुनीयं सम्पूर्णम् । Encoded by Harunaga Isaacson Proofread by Harunaga Isaacson, Rajani Arjun Shankar
% Text title            : Kiratarjuniyam
% File name             : kirAtArjunIyam.itx
% itxtitle              : kirAtArjunIyam (bharavikavivirachitam)
% engtitle              : kirAtArjunIyam
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Bharavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harunaga Isaacson
% Proofread by          : Harunaga Isaacson, Rajani Arjun Shankar
% Indexextra            : (1, 2, 3, 4, 5, 6*, 7, Hindi 1, 2, 3, German, Info)
% Acknowledge-Permission: Gretil
% Latest update         : May 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org