॥ लघुतत्त्वसुधा श्रीदक्षिणामूर्तिस्तोत्रव्याख्या ॥

श्री शङ्करभगवत्पादाचार्यप्रणीतं श्री दक्षिणामूर्तिस्तोत्रम् श्री स्वयंप्रकाशयति विरचित लघुतत्त्वसुधाख्यव्याख्यासमेतम् श्री दक्षिणामूर्तिस्तोत्रम् मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलितचिन्मुद्रमानमानन्दमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ लघुतत्त्वसुधा कैवल्यानन्दयोगीन्द्र शुद्धानन्दयतीश्वरौ । नत्वारभे लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥ अवतारिका इह खलु सर्वज्ञो भगवान् भाष्यकारो लोकानुग्रहैकप्रयोजनकृतशरीरपरिग्रहः सकलवेदान्तदुग्धाब्धेः न्यायमन्दरेण विचारनिर्मथनादाविर्भूताद्वैतामृतस्य विन्यासकलशभूतं श्रीदक्षिणामूर्तिस्तोत्रं सकललोकानुजिघृक्षया भोक्तृजीवभोग्यजगत् भोगप्रदपरमेश्वरमोक्षप्रद - गुरूणां अत्यन्ताभेदबोधकं सकृत्पठनश्रवणार्थमननादिमात्रेण परमपुरुषार्थप्रापकमारभमाणः तस्य वेदान्तसारभूत नवनीतपिण्डात्मकत्वेन तदीयविषयादिभिरेव तद्वत्तासिद्धिमभिप्रेत्य आदौ प्रतीचस्सकलजगदधिष्ठानत्वेन परमेश्वरतां दर्शयन् दक्षिणाशामुखं परमेश्वरं मनसा पूजयति -- विश्वमिति । विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥ विश्वम् - विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत्, निजान्तर्गतम् - निजम् - स्वीयम्, अन्तः - मध्यं, गतम् - प्राप्तम् प्रत्यक्स्वरूपे स्थितमिति यावत् । निर्विकारे नीरन्ध्रेऽतिस्वच्छेऽसङ्गे सूक्ष्मे प्रतीचि जगतस्तद्विपरीतस्य स्थितौ तत्सदृशं दृष्टान्तमाह दर्पणदृश्यमाननगरीतुल्यमिति ; दर्पणे - आदर्शे, नीरन्ध्रे असङ्गे स्वच्छे सूक्ष्मे निर्विकारे प्रतिबिम्बिता सती, दृश्यमाना - अवलोक्यमाना या, नगरी पुरी, चतुर्दश सन्निवेशा सप्तवापीयुक्ता नानोपवना दक्षिणोत्तरतोऽतिमनोहरमार्गद्वयविराजिता अनेकक्रीडाशिखरियुता नानाविधजनसंकुला क्वचित् कष्टमार्गप्रदेशयुता च, तत्तुल्यम् - तत्समानम् । तदुक्तं भारतीतीर्थैः -- ``निश्छिद्रदर्पणे भाति वस्तुगर्भं बृहत् वियत् । सच्चित्सुखे तथा नाना जगद् गर्भमिदं वियत्” ॥ (पञ्चदशी १३-१०१) वासिष्ठेऽपि शिलोपाख्याने इदमुक्तम् -- ``द्यौः क्षमा वायुराकाशः पर्वतास्सरितो दिशः । सन्ति तस्यां शिला साच सुषिरा न मनागपि ॥ अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि । विद्यतेन्तर्जगद्बृन्दं व्योम्नीव विततोऽनिलः” ॥ इति । (निर्वाणप्रकरणे ४६ तमे अध्याये) ननु प्रतीचोऽन्तरे यदि सदा विश्वं तिष्ठति, तर्हि रागादिवदन्तरेवानुभूयेतेत्याशङ्क्याह -- आत्मनीत्यादिना । आत्मनि स्वप्रकाशे प्रतीचि विषये आश्रये च, माया - अविद्या, सूर्ये प्रेचकादीनामन्धकारप्रतीतिवन्मामहं न जानामीति भ्रमानुभवसिद्धा, तया मायया, बहिः - स्वस्माद् बाह्यदेशे उद्भूतमिव पश्यन् - अवलोकयन् यः इत्युत्तरत्रसंबन्धः । ``आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला” -- (संक्षेपशारीरकम्) अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे दृष्टान्तमाह -- यथा निद्रयेति -- यथा निद्रया स्वाप्नं जगत् साक्षिणि स्वस्मिन्नध्यस्ततया स्थितमपि स्वस्माद् बहिरवस्थितमिवानुभवति तद्वदेवेमे जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्ततया स्थितमेव स्वाध्यस्तदेहादि तादात्म्याध्यासवशात् स्वस्माद् बहिरिव पश्यति । अन्यथा जडस्य जगतः प्रत्यक्चैतन्येन सह संयोगाद्यन्यतमसंबन्धासंभवेन प्रतीचस्सकाशात् जगद्भानं न स्यात् । तथा च तत्राध्यस्तमेव तत् । तथा च प्रत्यगात्मानं प्रकृत्य श्रुतिर्भवति (१) ``पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् । आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥ (२) एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ (३) मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम्” ॥ इति । (कैवल्योपनिषत् १:१४, १५, १९) (४) ``यथा स्वप्न प्रपञ्चोऽयं मयि मायाविजृम्भितः । एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः” ॥ इति पुराणवचनं च । ततः प्रतीच्येव जाग्रत्प्रपञ्चोऽध्यस्तोनुभूयते भ्रान्त्या बहिरिवेति भावः ॥ ननु स्वात्मनि प्रपञ्चः अध्यस्तश्चेद् बाध्येत, न च कदाचिद् बाधोऽनुभूयते ; अतो नात्मन्यध्यस्तः, किन्तु बहिः परमार्थत एव स विद्यते इत्याशङ्क्य, यथा स्वप्नप्रपञ्चोऽध्यस्तोऽपि तदा सत्य इव भाति प्रबोधसमये बाध्यते, तथैवायमपि जाग्रत्प्रपञ्चः तत्त्वज्ञानात् पूर्वं सत्यत्वेन भातोऽप्याचार्येण परमदयालुना साक्षात्परमेश्वरावताररूपेण उपदिष्टतत्त्वमस्यादिमहावाक्यजन्यप्रत्यक्ब्रह्मैक्यसाक्षात्कारसमये समूलं बाधितः सन् प्रत्यगभिन्नाद्वितीयब्रह्ममात्रतया परिशिष्यते इत्यभिप्रेत्याह -- यस्साक्षादित्यादिना । यः - अध्यस्तप्रपञ्चाधिष्ठानभूतः प्रत्यगात्मा, प्रबोधसमये - गुरूपदिष्टमहावाक्यात् ज्ञानोत्पत्तिकाले, अद्वयम् - सर्वप्रपञ्चस्य समूलस्य बाधितत्वेन वियदादिद्वयरहितं, स्वात्मानमेव - वियदाद्यधिष्ठानभूतब्रह्माभिन्नसच्चिदानन्दात्मकं प्रत्यञ्चमेव, साक्षात्कुरुते - सच्चिदानन्दात्मकं ब्रह्माहमस्मीत्यप्रतिबन्धेनाव्यवधानमनुभवति । ``यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” इत्यादिश्रुतेः । तस्मै - उक्तरूपाय, श्रीगुरुमूर्तये - श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया विविधपरिच्छेदशून्यो ज्ञानोपदेष्टा पुरुषः, तन्मूर्तये - तद्रूपेणावस्थिताय, श्रीदक्षिणामूर्तये - दक्षिणा - दक्षिणदिगभिमुखा, मूर्तिः - विग्रहः, यस्य तस्मै । ``परमाद्वैतविज्ञानं कृपया वै ददाति यः । सोयं गुरुर्गुरुस्साक्षात् शिव एव न संशयः” ॥ इत्यादिवचनशतेभ्यो ज्ञानोपदेष्टा गुरुस्साक्षात्परमेश्वर एव । अथवा - श्रीमती - सच्चिदानन्दात्मिका, गुर्वी - अतिमहत्तरा, मूर्तिः - स्वरूपं यस्य सः, तथा, तस्मै श्रीगुरुमूर्तये ॥ श्रिया - अनाद्यचिन्त्यमायाशक्त्या, दक्षिणः - सृष्टिस्थित्यन्तविरचनानिपुणश्चासौ परमार्थतोऽमूर्तिश्च -- आकारविशेषरहितः, ``अस्थूलमनणु” इत्यादिश्रुतेः । सः - दक्षिणामूर्तिः, तस्मै ``इदम् नमः” प्रह्वीभावः, अस्त्वितिशेषः । प्रह्वीभावश्च, स्वात्मनः परमेश्वरे एकत्वेन समर्पणम् । अत्र च पूर्वार्धेन त्वंपदार्थ उक्तः, उत्तरार्धे ``श्री गुरुमूर्तये श्री दक्षिणामूर्तये” इति पदद्वयेन मूर्तिद्वययुक्तस्तत्पदार्थ उक्तः । ``स्वात्मानमद्वयम्” इति पदद्वयसामानाधिकरण्येन यत्तच्छब्दाभ्यां च प्रत्यक् ब्रह्मैक्यलक्षणो वाक्यार्थ उक्तः । सकलवेदान्तप्रसिद्धोऽयमेवार्थः उत्तरश्लोकैः प्रपञ्च्यते ॥ दर्पणदृश्यमाननगरीतुल्यं, निजान्तर्गतं, विश्वं यथा निद्रया, तथा आत्मनि मायया बहिरुद्भूतमिव पश्यन्, यः प्रबोधसमये अद्वयम् स्वात्मानमेव साक्षात्कुरुते तस्मै श्रीगुरुमूर्तये इदं नमः इत्यन्वयः । एवमेवास्यार्थो वार्तिककारेण संगृह्योक्तः -- `` ईश्वरो गुरुरात्मेति मूर्तिभेदाद्विभागिने । व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः” ॥ इति ॥ १। नन्वात्मनि प्रपञ्चस्यावस्थानं नोपपद्यते, तदकारणत्वात् । तथाहि किमात्मा जगदारम्भकः ? उत तदाकारपरिणामी ? नाद्यः;-- एकस्य विभोश्चिद्रूपस्य जडप्रपञ्चारम्भकत्वासंभवात् । ततो नित्याश्चतुर्विधाः परमाणवो जगदारम्भका इति । यद्वा प्रधानमेव जडं त्रिगुणात्मकं जगदाकारपरिणामि, तत्रैवेदं जगत् परमार्थतोऽस्ति न तु चिदात्मनि इति नैय्यायिकानां सांख्यानां वा मतमाशङ्क्य -- न तावत्परमाण्वारम्भवाद उपपद्यते । १। निरवयवानां तेषां सर्वात्मना संयोगे प्रतिमानुपपत्तेः, २। भिन्नयोर्गवाश्ववत् कार्यकारणभावायोगात्, ३। पूर्वमसतश्च कार्यस्य शशविषाणवदुत्पत्त्यनुपपत्तेः, ४। अत्यन्तभिन्नकार्यारम्भे कार्ये गुरुत्वादितद्वैगुण्यापत्तेः, ५। परमाणुसद्भावे च प्रमाणाभावात्, ६। कार्यद्रव्यस्य स्वन्यूनपरिमाणारब्धत्वनियमस्य स्थूलतूलपिण्डारब्धतन्त्वादावदर्शनाच्च ॥ नापि प्रधानपरिणामवादः; तस्य चेतनानधिष्ठितस्य कार्योत्पादे स्वतोऽसामर्थ्यात्, लोके रथादेश्चेतनाधिष्ठितस्यैव प्रवृत्तिदर्शनात् । तत्सद्भावेऽपि प्रमाणाभावात्, ``अजां” इत्यादिश्रुतेश्च तेजोवन्नादिप्रकृत्यव्याकृतपरत्वाच्च । 'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती सरूपाम्' । किन्तु श्रुतिषु ``सत्यं ज्ञानमनन्तं ब्रह्म” ``तस्माद्वा एतस्मादात्मन आकाशस्संभूतः” “ सदेव सोम्येदमग्र आसीत्” ``तदैक्षत बहुस्यां प्रजायेयेति” ``यतो वा इमानि भूतानि जायन्ते” ``यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते” ॥ इत्यादिषु सहस्रशः परमात्मन एव चेतनाज्जगदुत्पत्तिश्रवणात् । विलक्षणयोरपि कार्यकारणभावस्य गोमयवृश्चिका पुरुषकेशरोमादौ दर्शनात्, आरम्भपरिणामव्यतिरेकेण तत्त्वतोऽन्यथाभाव लक्षणविवर्तरूपप्रकारस्यापि कार्योत्पादे स्वप्नप्रपञ्चशुक्तिरजतादौ दर्शनात्, अत्र विवर्तवादस्य विवक्षितत्वात् । ``सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद” इत्यादिश्रुतौ आत्मनोऽन्यत्र जगद्वेदनस्य निन्दितत्वाच्च; ``घटोऽस्ति पटोऽस्ति” ``घटः स्फुरति पटः स्फुरति” इति सत्तास्फुरणानुविद्धतया अनुभूयमानस्य जगतो मृदनुविद्धघटस्य मृत्कार्यत्ववत् सत्तास्फुरणात्मकात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव जगदुत्पत्त्यादि कारणमित्यभिप्रेत्याह -- बीजस्यान्तरिवेति । बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥ इदं - अनुभूयमानं सर्वं जगत्, प्राक् - उत्पत्तेः पूर्वं, निर्विकल्पं - भोक्तृभोग्यादिविकल्परहितं आत्ममात्रमेवासीत् । ``आत्मा वा इदमेक एवाग्र आसीत्” ``सदेव सोम्येदमग्र आसीत्” इत्यादिश्रुतेः । तत्र दृष्टान्तमाह बीजस्येति । बीजस्यान्तः - मध्ये, अंकुर इव । उपलक्षणमेतत् - पल्लवपत्रपुष्पफलशाखाविटपात्मक वृक्षो यथा उत्पत्तेः पूर्वं निर्विकल्पं बीजमात्रमासीत् तद्वत् । पुनः - पश्चात् सृष्टिसमये, मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं - मायया ईश्वराधिष्ठितया, कल्पितौ यौ देशकालौ, तयोश्चकलना संबन्धः, तद्वैचित्र्येण चित्रीकृतं - नानाविधभेदभिन्नया विभक्तं, ``तं नामरूपाभ्यामेव व्याक्रियत” इति श्रुतेः । ननु कथमीश्वरस्य बाह्यसाधनरहितस्य जगदुत्पादकत्वं ? लोके कुलालादेर्बाह्यसाधनवत एव कार्यकरत्वदर्शनादित्याशङ्क्य, ईश्वरस्यानाद्यनिर्वचनीयमायाशक्त्युपहितस्य स्वेच्छामात्रेणैवैन्द्रजालिकवत्, देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्वमित्यभिप्रेत्याह -- मायावीवेत्यादिना । यः - परमेश्वरः, मायावीव - लोकप्रसिद्धैन्द्रजालिकमायाविवत्, महायोगीव - विश्वामित्रादिमहायोगिवच्च, स्वेच्छया - स्वसंकल्पमात्रेण, विजृम्भयति - इदं जगदुत्पादयति, ``इन्द्रो मायाभिः पुरुरूप ईयते” ``तदात्मानं स्वयमकुरुत” ``सच्चत्यच्चाभवत्” इति श्रुतेः । नापि मायया तस्य सद्वितीयत्वं, तस्या अपि कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वं, जगत्कारणत्वस्यानाद्यनिर्वचनीय मायाघटिततयाकल्पितत्वेनोपलक्षणस्य तत्रविकारानापादकत्वात् । ततश्च तत्र कस्यापि दोषस्याभावाद् ब्रह्मैव प्रत्यगभिन्नं सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः तस्मै नमः ॥ २॥ नन्वसदेव जगतः कारणं १। पिण्डादिनाशादेव घटाद्युत्पत्तिदर्शनात्, २। जागराद्य कालीनकार्यस्य चासत्पूर्वकत्वदर्शनात्, तद्दृष्टान्तेन जगतोऽपि तथात्वानुमानात् ; ३। ``असद्वा इदमग्र आसीत्” इति श्रुतेश्चेत्यसद्वादमाशङ्क्याह -- यस्यैवेति । यस्यैवं स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥ यस्य - प्रत्यगभिन्नस्य परमेश्वरस्य स्वरूपभूतं, सदात्मकं - सद्रूपं, स्फुरणमेव - चैतन्यमेव, असत्कल्पार्थगं - असत्कल्पाः असत्तुल्याः स्वतस्सत्ता रहिताः अनिर्वचनीय ये, अर्थाः - वियदाद्याः तान् गच्छतीत्यसद्कल्पार्थगं अनिर्वचनीयवियदादिपदार्थानिष्टमिति यावत् । भासते - प्रकाशते ॥ अयं भावः जगतोऽसत्कारणत्वे, ``घटः असन् पटः असन्” इत्यसत एव सर्वत्रानुवृत्तिः स्यात्, न तु सतः । किञ्च तस्यासतः अस्वप्रकाशत्वेन तत्र वर्तमानजगतः आन्ध्यमपि स्यात् । जगच्च सदनुविद्धं, प्रकाशते च । तथा च स्वतस्सत्त्वप्रकाशरहितं जगत् तदधिष्ठानभूतात्मसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशवद्भवतीति तत्राध्यस्तत्वेन तत्कारणकमेव जगत् । नापि पिण्डादिनाशस्य घटादिकारणत्वं, अनुगतमृदादेरेव कारणत्वात् । जागराद्यकालीनस्य कार्यस्य चासद्पूर्वकत्वं नास्मत्सम्मतम् । सुषुप्तिकालीनसद्रूपात्मनः कारणत्वाङ्गीकारात्, सुषुप्तौ आत्मसत्त्वस्य च साधयिष्यमाणत्वात् ॥ ``असद्वा इदमग्र आसीत्” इति श्रुतिश्चानभिव्यक्तसद्कारणपरा, ``कथमसतस्सज्जायेत” इति श्रुत्यैवासद्वादस्य प्रतिषेधात् इति । अथवा - ननु घटस्सन् पटस्सन् इत्येवम् सत्त्वेन प्रतीयमानस्य जगतः कथमसत्कल्पत्वमध्यस्तत्वेनोच्यते ? इत्याशङ्क्याह - यस्यैवेत्यादिना । सत्प्रकाशरूपाधिष्ठानात्मसत्तैवारोपित जगन्निष्ठतया प्रतीयते, न तु तस्य स्वतस्सत्त्वम् । ``अथात आदेशो नेति नेति” ``नेह नानाऽस्ति किञ्चन” इत्यादिश्रुत्या प्रपञ्चस्य प्रतिषेधात्, भ्रान्त्यापि तत्प्रतीत्युपपत्तेश्च, तस्यासद्विलक्षणत्वाङ्गीकारान्न शशविषाण समत्वम् । ततोऽपरोक्षप्रतीतिरप्युपपद्यते इति तात्पर्यार्थः । अक्षरार्थस्तु पूर्ववत् । येयमसत्ये प्रपञ्चे सत्यत्वबुद्धिः, अनात्मनि देहादौ चात्मत्वबुद्धिः, इयमेव सकलसंसारनिदानम् । तस्याश्च निवृत्तिः गुरूपदिष्टतत्त्वमस्यादिमहावाक्यजन्यापरोक्षज्ञानेन मूलाज्ञाननिवृत्त्यैवेत्यभिप्रायेणाह - साक्षादित्यादिना । यः - गुरुरूपः परमेश्वरः, आश्रितान् - विधिवदुपसन्नान्, तत्त्वमसीति वेदवचसा - यज्जगत्कारणं सदद्वितीयं ब्रह्म, तत्त्वमसि, न ततो भिन्नोऽसीति, वेदवचसा - वेदवाक्येन, साक्षात् - अपरोक्षत्वेन, तत्त्वं, बोधयति - ज्ञापयतीत्यर्थः । ननु कथं किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मकयोः जीवेश्वरयोः अभेदमयोग्यं वेदो बोधयति ? इति चेदुच्यते -- ``सोयं देवदत्त” इत्यादिवाक्यं तदेतद्देशादिविरुद्धांशं त्यक्त्वा अविरुद्धांशं पिण्डमात्रमादाय भागत्यागलक्षणया यथाऽभेदं बोधयति, तथा तत्त्वमस्यादिमहावाक्यमपि जीवेश्वरयोर्मायान्तःकरणोपाधि तन्निमित्तसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धांशं त्यक्त्वा उभयत्रानुगताविरुद्धचिन्मात्रादानेनाभेदं बोधयति । अत्र महावाक्यार्थविषये या या अनुपपत्तयः परैरुद्भाविताः तास्सर्वास्सर्वैराचार्यैस्सर्वत्र पराक्रम्य निरस्ता इति नास्माभिरत्र यत्यते, संग्रहव्याख्याने प्रवृत्तत्वात् ॥ नन्वेवं वाक्यजन्यज्ञानान्निवृत्तोऽपि संसारः सुषुप्तिप्रलययोरिव पुनरपि कदाचिदुद्भवेत्, इत्याशङ्क्याह यत्साक्षादित्यादिना, यत्साक्षात्करणात् - यस्य - स्वप्रकाशनिष्प्रपञ्चसच्चिदानन्दस्वरूपस्य, ब्रह्मणः, साक्षात्करणात् - अपरोक्षतया सोऽहमस्मीति ज्ञानात्, भवाम्भोनिधौ - संसारसमुद्रे, पुनः - भूयः, आवृत्तिः - आवर्तनमागमनं, न भवेत् - न स्यात्, ``तरति शोकमात्मवित्” ``ब्रह्म वेद ब्रह्मैव भवति” ``न स पुनरावर्तते” इत्यादिश्रुतिशतेभ्यः । सुषुप्तिप्रलययोर्मूलाज्ञानस्य विद्यमानत्वात् पुनरुत्थानम् । तस्य महावाक्यजन्यज्ञानेनात्र नष्टत्वान्न मुक्तस्य पुनरुत्थानमिति भावः ॥ तस्मै नम इति ॥ ३॥ न च जगतः कथमात्मसत्ताभानाभ्यां तद्वत्वम् ? आत्मवत् स्वत एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्क्यम् । आत्मवज्जगतः स्वतस्सत्त्वे तद्वदेवोत्पत्तिविनाशानुपपत्तेः, तद्वदेव करणाद्यनपेक्षया सर्वदा भानप्रसङ्गाच्च, न स्वतस्सत्ताप्रकाशौ भवतो जगतः; किन्तु आत्मसत्ताप्रकाशाभ्यामेव जगतोऽपि सत्ताप्रकाशौ । नन्वेवं तर्हि सर्वस्य जगतः आत्मन्यध्यस्तत्वे भवन्मते कथं करणाद्यपेक्षा ? प्रकाशरूपात्मसंबन्धादेव सर्वं सर्वदा किमिति न भावात् ? सर्वगतचैतन्यस्याप्यविरोधेनाज्ञानावृतत्वे वा कथं कदाचित्कं जगतो भानम् ? अज्ञानस्य चैतन्यातिरिक्तनिवर्तकाभावात्, तस्य चाविरोधित्वात् इत्याशङ्क्याह -- नानाछिद्रेति । नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभान्त्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥ नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं -- नानाच्छिद्रस्य- अनेकरन्ध्र युक्तस्य, घटस्य - कुम्भस्य, उदरे - अन्तः, स्थितः - वर्तमानः यो, महादीपः - तस्य, प्रभेव भास्वर- भासनशीलं, दीपवत्तमोविरोधिलक्षण प्रकाशस्वभावं, यस्य - परमेश्वरस्य, घटवदनेकच्छिद्रयुक्ते देहे अन्तःकरणे प्रतिबिम्बितस्य, साक्षित्वेनावस्थितस्य स्वरूपभूतं, ज्ञानं - चैतन्यं, चक्षुरादिकरणद्वारा - चक्षुःश्रोत्रादीनि यानि, करणानि विषयोपलब्धिसाधनानि, तद्द्वारा - तच्छिद्रेण, बहिः - विषयदेशे, स्पन्दते - गच्छति । इन्द्रियाणां विषयसम्प्रयोगे तद्द्वारा चैतन्योपाध्यन्तःकरणे गच्छति सति तत्प्रतिबिम्बितं चैतन्यमपि गच्छति, गत्वा तं विषयं भासयतीत्यर्थः ॥ अयमभिप्रायः - चैतन्यं तु स्वतोऽज्ञानाविरोध्यपि अन्तःकरणे प्रतिबिम्बितं सत्तद्विरोधि ॥ अत एवान्तःकरणधर्माः रागादयः स्वसत्तायां सर्वदा भासन्ते, घटपटादिविषयश्च बिम्बचैतन्ये ब्रह्मण्येवाध्यस्तस्तिष्ठति । अन्तःकरणेन चक्षुरादिद्वारा विषयदेशं गच्छता घटाद्यधिष्ठानबिम्बचैतन्यमुपाधीयते । तथाचैकोपाधि सम्बन्धादन्तःकरणे प्रतिबिम्ब्यावस्थितेन साक्षिचैतन्येन घटाद्यधिष्ठानचैतन्यमेकीभवति, ततस्साक्षिचैतन्येन तदज्ञाने निवृत्ते घटादिविषयो भासते, न सर्वदा ॥ अतः अज्ञानावरणभङ्गार्थे चक्षुराद्यपेक्षेति न कोऽपि दोषः ॥ केचित्तु -- अचिद्रूपात्मनिष्ठज्ञानेन घटादिविषयो भासते इति वदन्ति । तन्न ; आत्मनिष्ठज्ञानस्य जडस्य स्वप्रकाशस्य वा घटादि विषयेण संयोगादिसंबन्धाभावात्, स्वरूपसम्बन्धस्य चातिप्रसक्तत्वात् । केचित् विषयनिष्ठस्फुरणेन घटादिभानमिति वदन्ति ॥ तदपि न, विषयनिष्ठस्यात्मना सह संबन्धाभावेन ' अहं जानामीति ' सम्बन्धप्रत्ययानुपपत्तेः । तस्मादस्मदुक्तप्रकारेण स्वप्रकाशसाक्षिचैतन्यसंबन्धादेव घटादि विषयभानमिति । तदेतदाह -- जानामीति - घटादिकमहंजानामीति घटादिविषयसंबद्धतया, भान्तं - प्रकाशमानं, तमेव - साक्षित्वेनावस्थितं परमेश्वरमेव, अनु - पश्चात्, एतत् विविधशब्दप्रत्ययगम्यं, समस्तं - सर्वं, जगत् भाति - प्रकाशते । अनुभानमपि न तस्य स्वतः, किन्तु 'अग्निं दहन्तमनु अयो दहति' इतिवदध्यासादेवेत्यर्थः । तथा च श्रुतिः - ' तमेव भान्तमनुभाति सर्वम् तस्य भासा सर्वमिदं विभाति' इति ॥ तस्मै नमः ॥ ४॥ अत्र केचित् -- सर्वमेतदभित्तिचित्रं, देहव्यतिरिक्तात्मन एवाभावात्, देहस्यैव ``गच्छामि, तिष्ठामि, स्थूलोऽहं कृशोऽहं” इत्यात्मत्वानुभवादीति -- वदन्ति ॥ अन्ये केचित् तान् हस्तेन निवारयन्त आहुः -- जीवात्मनिर्गमे शरीरमरणस्य दर्शनात् वच्मि पश्यामि श्रुणोमीत्यादि बुद्धिदर्शनात् इन्द्रियाण्येवात्मेति ॥ ततोप्यन्ये केचिदीषच्छुद्धबुद्धयः चक्षुरादीन्द्रियनाशेऽपि प्राण सत्वे जीवनदर्शनात् अन्यथाऽदर्शनात् बुभुक्षितोऽहं पिपासितोऽहमित्यादिप्रतीतेश्च प्राण एवात्मेति फणन्ति ॥ इतरेतु प्राणस्य बाह्यवायुवज्जडत्वेन भोक्तृत्वाद्यसम्भवात् मन एव चेतनं भोक्तृ आत्मेति च वदन्ति ॥ योगाचारस्तु ``मम मन” इति भिन्नतया प्रतीयमानस्यात्मत्वा सम्भवात् क्षणिकविज्ञानमहमिति प्रतीयमान बुद्धिशब्दापरपर्यायं संसारीति जल्पति ॥ तं धिक्कृत्यान्यः कश्चित् विद्युदभ्रनिमेषादिवद् क्षणिकस्य तस्यात्मत्वानुपपत्तेः सुषुप्तौ तस्याप्यभावात् अन्यस्याप्यनुपलब्धेः शून्यमेवात्मेत्युद्गिरति ॥ एते च स्वस्वपक्षदार्ढ्यायेतस्ततश्च यां कांचित् श्रुतिमादायोदाहरन्ति । अन्ये च केचिदन्यथा आत्मस्वरूपं फणन्ति । सर्वे ते दैवोपह्वचित्ता भ्रान्ताः, सकलश्रुतिस्मृतीतिहासपुराणन्यायविद्वत्प्रत्यक्षविरुद्धार्थपरिग्राहकाः । नैतेषां मार्ग आत्मनः श्रेयोर्थिभिः स्वप्नेप्यनुसरणीय इत्यभिप्रेत्याह -- देहं प्राणमपीति ॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥ देहं - सशिरस्कं पिण्डं, प्राणं - पञ्चवृत्तिकं मुखनासिका सञ्चारिणम्, इन्द्रियाणि चक्षुरादीनि तत्तद्गोलकवृत्तीनि रूपादि ग्राहकाणि, चलां - क्षणिकां सन्ततोदयां, बुद्धिं - विज्ञानं, शून्यं- तुच्छं, चकारात्तार्किकाद्यभिमतात्मानं, वादिनः - चार्वाकादयः, स्त्रीबालान्धजडोपमाः - स्त्रीबालान्धजडवत्, विवेकरहिताः, अत एव, भ्रान्ताः - तत्त्वमन्यथाप्रतिपद्यमानाः, अहमिति विदुः - आत्मत्वेन जानन्ति, अन्यानुपदिशन्ति चेत्यर्थः ॥ नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकाः सन्तोऽन्यथान्यथा तत्त्वं प्रतिपद्यन्ते? इति चेदीश्वरानुग्रहाभावात् । ये त्वास्तिकाः श्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भगवन्तं परमेश्वरं सेवन्ते तेषां परमेश्वरप्रसादान्नैतादृशो व्यामोह इत्यभिप्रेत्याह -- मायेत्यादिना ॥ मायाशक्तिविलासकल्पितमहामोहसंहारिणे - भगवतः परमेश्वरस्यानाद्यनिर्वचनीया या, मायाशक्तिः - परव्यामोहिका, तस्याः, विलासेनैकदेशेन कल्पितो यो महाव्यामोहः महान् अनन्तः अपरिमाणव्यामोहः, देहाद्यात्मत्वभ्रमः तं संहर्तुं नाशयितुं शीलमस्येति स तथोक्तः तस्मै --- नमः ॥ तथा चोक्तं श्रीभागवते -- ॥ येषां स एव भगवान् दययेदनन्त- स्सर्वात्मना श्रितपदो यदि निर्व्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥ ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भात् शून्यमेवात्मेति यदुक्तं, तस्य किं समाधानम् ? इत्याशङ्क्य सुषुप्तावात्मास्तित्वं साधयन् समाधत्ते -- राहुग्रस्तेति ॥ राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रःकरणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्तमिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥ यः पुमान् - प्रत्यग्रूपः परमेश्वरः, करणोपसंहरणतः- विशेषविज्ञानहेतुचक्षुरादिकरणानामुपसंहारात्, सन्मात्रः - पूर्णानन्दादि रूपेण स्फुटमप्रकाशमानतया केवलं सन्मात्रेणावस्थितः सन्, सुषुप्तोभूत् - सुप्तिं प्राप्तोऽभूत् । करणाभावेऽपि पूर्णानन्दभानवतो मुक्तात्मनः सकाशात् सुषुप्तात्मनो वैषम्यमाह -- मायासमाच्छादनादिति । मायया - आत्माविद्यया, समाच्छादनादावरणात् सन्मात्र इति सम्बन्धः स्फुटमप्रकाशमानस्य स्वरूपतः सत्वे दृष्टान्तमाह - राहुग्रस्तेति । राहुग्रस्तदिवाकरेन्दुसदृशः, राहुणा - सैंहिकेयेन, ग्रस्तौ - गृहीतौ, यौ, दिवाकरेन्दु - सूर्यचन्द्रौ । तत्सदृशः - तत्समानस्सन्, सुषुप्तोऽभूदिति संबन्धः ॥ यथा राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न प्रकाशते इत्येतावता दिवाकरस्य, चन्द्रमसो वा नासत्वम्, तद्वत् करणानामुपसंहारात् मायया आवृतत्वाच्च सुषुप्तौ स्फुटमात्मा न भासते इत्येतावता नात्मनोऽसत्वमित्यर्थः ॥ ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावेऽपि चक्षुषा अविशेषतः सर्वैर्ग्रहणादस्ति सत्वम् ॥ न तद्वत् आत्मनः केनचित् सत्वमनुभूयत इत्याशङ्क्य सुषुप्तावात्मनोऽप्यविशेषतो भानं साधयति - प्रागस्वाप्समित्यादिना । यः - सुषुप्तिकालीनात्मा, प्रबोधसमये - सुषुप्तित उत्थानसमये, प्रत्यभिज्ञायते । कथं? प्राक् - योऽहमस्वाप्सं स इदानीं जागर्मीति । न च तदाननुभूतस्य प्रत्यभिज्ञानं सम्भवति, अन्यत्राननुभूते प्रत्यभिज्ञानादर्शनात् । न च तदाकरणेनात्मानुभवः, इन्द्रियादिकरणानां सुषुप्तावभावात् । अतः स्वप्रकाशस्यात्मनः सत्वान्न तदा शून्यत्वं, नापि तस्य क्षणिकत्वं, नापि जडत्वं, उक्तयुक्तेरेव । ``सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति । पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ॥” ``सता सोम्य तदा सम्पन्नो भवति” इत्यादिश्रुतिश्चात्मनः सच्चिदानन्दरूपत्वेन सुषुप्ताववस्थानं दर्शयति । आत्मनः सुखरूपत्वं चोत्थितेन तेनानुसन्धीयते 'सुखमहमस्वाप्समि'ति । अतो न कोपि दोष इति भावः ॥ ६॥ इदानीं मुञ्जादिषीकामिव देहादिभ्यो विविच्य सच्चिदानन्दरूपं प्रत्यगात्मानं प्रदर्श्य तस्य परमेश्वराभेदं श्रुतिगुर्वीश्वरप्रसादलभ्यं प्रदर्शयन्नाह बाल्यादिष्वपीति । बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥ 'बाल्यादिषु' - बाल्यं शैशवं, तदादिषु शैशवकौमारयौवनमध्यवयःस्थाविररूपासु, जाग्रदादिषु - जाग्रत्स्वप्नसुषुप्तिमूर्छाजन्मजरामरणरूपासु, 'तथा' - अन्यास्वपि अवान्तरासु दर्शनश्रवणादि रूपासु कर्तृत्वभोक्तृत्वरूपासु च सर्वास्ववस्थासु दशासु, व्यावृत्तासु - परस्परं व्यावर्तमानासु, अनुवर्तमानं - अनुगततया सर्वास्ववस्थासु वर्तमानम् । अयं भावः - योह्यसत्यजडानानन्दरूपासु सर्वास्ववस्थासु व्यावर्तमानासु ``योऽहं सुप्तौ स्वप्नमद्राक्षं सोऽहमिदानीं जागर्मि” इति अवस्थात्रये योहं बालो युवाचाभूवं सोहमिदानीं वृद्धोऽस्मि” इति बाल्यादिष्वपि च, सत्वेनानुवर्तमानोनुभूयते, तथा द्रष्टॄत्वेनाभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं तत्सकलसाक्षित्वेन यश्चिद्रूपस्सदानुवर्तमानोनुभूयते, तथा प्रियत्वेनामितवित्तपुत्रपिण्डादिषु व्यावर्तमानेषु च यः स्वयं सदा प्रीतिविषयः सर्वशेषित्वेन निरतिशय प्रीतिविषयतया आनन्दरूपत्वेनानुवर्तमानोनुभूयते तद्वदेवाहंबुद्धिविषयतयात्मत्वेनाभिमतेषु देहादिभोक्त्रन्तेषु च व्यावर्तमानेषु यः स्वयमहंबुद्धिमव्यभिचरन् सदा आत्मत्वेनानुवर्तमानोनुभूयते, ततस्सद्रूपत्वं, चिद्रूपत्वमानन्दरूपतया प्रियत्वं, अहंबुद्धिविषयतया प्रत्यक्त्वं च यः कदापि न व्यभिचरति, स एव त्वंपदार्थलक्ष्य आत्मेति । तथा च तापनीयश्रुतिः -- ``तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं, स्वप्नेऽजाग्रतमसुषुप्तं, सुषुप्तेऽजाग्रतमस्वप्नं, तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं, नित्यानन्दसदैकरसं ह्येव, चक्षुषो द्रष्टा, श्रोत्रस्य द्रष्टा, वाचो द्रष्टा, मनसो द्रष्टा, बुद्धेर्द्रष्टा, प्राणस्य द्रष्टा, तमसो द्रष्टा, सर्वस्य द्रष्टा” इति । एतदेवाह - अहमित्यन्तः स्फुरन्तं सदेति । अन्तः - शरीरादिषु मध्ये, अहमिति - अहं बुद्धिविषयत्वेन, सदा - सर्वेष्वपि कालेषु, स्फुरन्तं - भासमानं, उपलक्षणमेतत्, सत्वेन प्रियत्वेन च सदा स्फुरन्तमित्यपि द्रष्टव्यम् ॥ एवं भूतं प्रत्यगात्मानं यः - परमेश्वरः, स्वात्मानमेव स्वं -- ``सत्यं ज्ञानमनन्तं ब्रह्म” ``विज्ञानमानन्दं ब्रह्म” इत्यादिषु श्रुतिषु सच्चिदानन्दात्मकत्वेन त्रिविधपरिच्छेदशून्यतया च प्रसिद्धः परमेश्वर एवात्मा - स्वरूपं यस्य प्रत्यगात्मनः, न तु कर्त्रादिरूपेण प्रतीयमानः आत्मा, सः स्वात्मा, तं स्वात्मानं ब्रह्माभिन्नमिति यावत्, भद्रया - शोभनया, मुद्रया - करकलितज्ञानमुद्रया, भजतां - स्वभक्तानां, प्रकटीकरोति- तेषां प्रत्यगात्मानं ब्रह्मस्वरूपत्वेनाप्रकटं प्रकटं करोति, स्फोरयति ॥ तस्मै ..... नमः ॥ बाल्यादिषु, तथा जाग्रदादिष्वपि, सर्वास्ववस्थासु व्यावृत्तास्वनुवर्तमानं सदा अन्तरहमिति स्फुरन्तं, भजतां, (प्रत्यगात्मानं ) यो भद्रया, मुद्रया, स्वात्मानं प्रकटीकरोति, तस्मै ... ... नमः इत्यन्वयः ॥ ७॥ ननु ब्रह्मव्यतिरिक्तं चेत् किमपि न वस्त्वस्ति तर्हि कथं परमार्थोपदेशादिव्यवहारः ? न हि जातु कश्चित्तत्र बद्धोऽस्ति, येन बन्धनिवृत्तये विद्योपदेशः स्यात्, बन्धहेतोः कस्याप्यभावात् । नापि विद्यावतो मुक्तिस्संभवति, तद्वेतुगुरुशास्त्रादीनामभावादित्याशङ्क्य, अनाद्यनिर्वचनीयपरमात्माध्यस्तमायावशादेव सर्वो व्यवहारः ब्रह्मसाक्षात्कारपर्यन्तं घटते इत्यभिप्रेत्याह -- विश्वं पश्यतीति ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एव पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥ पुरुषः - पूर्णः, यः - श्रुत्यन्तप्रसिद्धः परमेश्वरः, मायापरिभ्रामितः - स्वोपाधिभूतमायया, मलिनसत्त्वप्रधानया, कार्यकारणसंघाताकारेण परिणतया स्वेन प्रविष्टया, परिभ्रामितः- बहुविधं भ्रमं प्रापितः, एषः - सर्वप्राण्यपरोक्षजीवस्सन् संसारित्वेन भावितः, विश्वं - जगत्, भेदतः - बहुभेदभिन्नतया, पश्यति - अवलोकयति । भेदमेव दर्शयति - कार्यकारणतयेत्यादिना । अयमर्थः - यद्यपि परमार्थतो ब्रह्मव्यतिरिक्तं किमपि नास्त्येव, ``नेह नानास्ति किञ्चन” इत्यादिश्रुत्या निषेधात्; तथापि अनाद्यनिर्वाच्याविद्यावशान्मुधैव भ्रान्तो जीवः प्रपञ्चं बहुभेदभिन्नं पश्यति निद्रापरवश इवानेकविधं स्वप्नम् । तस्य च वस्तुतो ब्रह्मैव सन्तमात्मानं निखिलानर्थसङ्कुलतया मायया भ्राम्यतः स्वभ्रान्तिसिद्धगुरुशास्त्रन्यायादिभ्यः विद्योत्पत्तौ अविद्या सवासना निवर्तते, निद्राणस्येव स्वप्नव्याघ्रदर्शनसमुपजातभयेन प्रबुद्धस्य स्वप्नः । ततस्संसारान्मुक्तः स्वस्वरूपे सच्चिदानन्दात्मनि निरतिशयमहत्वसम्पन्न एव रममाणोऽवतिष्ठते ॥ तदुक्तं सर्वज्ञात्ममुनिभिः -- तस्मात् ब्रह्माविद्यया जीवभावं प्राप्य स्थित्वा तावके तु स्वरूपे । त्वच्चित्तेन स्पन्दितं विश्वजातं आकाशादिक्ष्मावसानं च पश्येः ॥ स्वीयाविद्याकल्पिताचार्यवेद - न्यायादिभ्यो जायते तस्य विद्या । विद्याजन्मध्वस्तमोहस्य तस्य स्वीये रूपेऽवस्थितिः स्वप्रकाशे ॥ इति । संक्षेपशारीरकम् अ १६२,१६३ ततः सर्वस्य परमार्थतो ब्रह्ममात्रत्वेऽपि मायावशात् भ्रान्त्या सर्वमुपपद्यत इति ॥ कार्यं - जन्यं, कारणं - जनकं, स्वं -गृहक्षेत्रधनादि, स्वामी - तद्वान् देवदत्तादिः, शिष्यः - विद्याग्रहणार्थं विधिवद्गुरुमुपसन्नः, आचार्यः - विद्योपदेष्टा, पिता - निषेक्ता, पुत्रः - तच्छुक्रसम्भवः, इत्यादिरूपेण, विश्वं यः पश्यति । तस्मै - नम इति संबन्धः ॥ ८॥ इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्त्युपासनं क्रममुक्तिदायकं, उत्तमाधिकारिणां श्रोतव्यादिश्रुतिसिद्धवेदान्त तद्विषयब्रह्मविचारस्साधनमित्यभिप्रेत्याह - भूरम्भांसीति ॥ ८ ॥ भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्मात् विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥ भूः - पृथिवी, अम्भांसि - जलानि, अनलः - अग्निः, अनिलः - वायुः, अम्बरं - आकाशः, अहर्नाथः - सूर्यः, हिमांशुः - चन्द्रः, पुमान् - सकलकर्मविद्याधिकारी जीवः, इति - एवंप्रकारेण, चराचरात्मकमिदं - जगत्, यस्यैव - परमेश्वरस्य सर्वज्ञस्य सर्वशक्तेः सच्चिदानन्दाद्वयस्य सदाशिवस्यैव मूर्त्यष्टकं, मूर्तीनां विग्रहभूतानामष्टकम्, आभाति - आसमन्तात् भाति । अयमर्थः --- उपासकः स्वदेहे वर्तमानपञ्चभूतानि व्यष्टिभूतानि समष्टिभूतैः, प्राणापानौ च सूर्यशशाङ्काभ्यामेकीकृत्य पञ्चभूतात्मकशरीराभिमानिनं स्वात्मानमष्टमूर्तिपरमेश्वरेणैकीकृत्य, सकलव्यापी अष्टमूर्त्यात्मकः सदाशिवोऽस्मीति चिन्तयेत् ॥ ततो भावनातिशयेन तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोऽन्ते तत्प्रसादसादिततत्त्वज्ञानेन तत्त्वसाक्षात्कारेण विमुच्यत इति । विमृशतां - तत्वं विधिवद् गुरुतः श्रुतिभ्यो युक्त्या चानिशं विचारयतां पुरुषाणां, परस्मात् - सर्वकारणात्, विभोः - विविधप्रपञ्चात्मना भवतो विवर्तमानात्, यस्मात् - सर्वाधिष्ठानात् सच्चिदानन्दात्मकात् परमेश्वरादन्यत्- पृथक् किञ्चन - किन्ञ्चिदपि, न विद्यते - न भवति, सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन तन्मात्रत्वात् ॥ तथाचोक्तं महिम्नस्तवे -- त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणतां बिभ्रति गिरं न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥ इति ॥ श्रुतिश्च -- ``विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं चा यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमोऽस्तु ॥ (तैत्तिरीय आरण्यक १०-२४-१) यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णम् पुरुषेण सर्वम् ॥ इत्याद्या ॥ स्तब्धः - निश्चलः, दिवि - स्वप्रकाशे स्वरूपे ॥ तथा चोक्तरूपब्रह्मात्मज्ञानात् उत्तमाधिकारिणामिहैव सच्चिदानन्दाद्वयपरशिवरूपेणावस्थानलक्षणा मुक्तिरासाद्यते ``अत्र ब्रह्म समश्नुते” इत्यादिश्रुतेरिति भावः ॥ तस्मै ज्ञानोपदेष्ट्रे गुरुरूपाय दक्षिणामूर्तये परमेश्वराय नमोऽस्त्विति ॥ ९ ॥ इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणां अवश्यं भावि फलं कीर्तयन् स्तोत्रमुपसंहरति सर्वात्मत्वमिति । सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननात् ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥ इति - उक्तप्रकारेन, अमुष्मिंस्तवे - अस्मिन् स्तोत्रे, इदम्- श्रुतिषु ``इदं सर्वं यदयमात्मा” इत्यादिषु श्रुयमाणं, सर्वात्मत्वं - प्रत्यगात्मनः स्वरूपत्वं, स्फुटीकृतं - स्फुटमावेदितं, यस्मात् तेनास्य - स्तोत्रस्य, श्रवणात् - गुरुतो विधिवच्छ्रवणात्, तदर्थमननात् - श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनात्, ध्यानात् - श्रवणमननाभ्यां निर्णीनस्य तथैव सोहं सर्वात्मा परमेश्वरोऽस्मीति विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययैकविषयीकरणात्, संकीर्तनात् - सम्यक् पाठात्, सम्यक्परेभ्यः कथनाद्वा, सर्वात्मत्वमहाविभूतिसहितं- सर्वात्मत्वमेव महाविभूतिः, महती सिद्धिरणिमाद्यपेक्षया, तस्य त्रिविधपरिच्छेदशून्यत्वात्, तया सहितं युक्तं, ईश्वरत्वं- सत्यज्ञानानन्दलक्षणपरमेश्वरत्वं, तत्- श्रुतिप्रसिद्धं,स्वतः - एव नित्यं विद्यमानं, स्यात् - भवेत् अधुना ज्ञायत इत्यर्थः । पुनः - भूयः,अष्टधा - ष्टप्रकारेण,अरिणतं - मायापरिणामरूपं, अश्वर्यं - च अणिमादिकं, अव्याहतं - क्वचिदप्यप्रतिहतं, सिद्ध्येत् - ``स एकधा भवति त्रिधा भवति, स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते”, इत्यादि श्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १०॥ वमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः । यथामति, तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्र- पादकमलभृङ्गायमाण - स्वयंप्रकाशयति विरचित श्रीदक्षिणामूर्तिस्तोत्रव्याख्या लघुतत्त्वसुधाख्या समाप्ता ॥ ॐ तत् सत् ॥ हरिः ॐ ॥ Encoded Br. Pranipata Chaitanya pranipatachaitanya at yahoo.co.in Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : laghutattvasudhA shrIdakShiNAmUrti stotravyAkhyA
% File name             : laghutattvasudhA.itx
% itxtitle              : laghutattvasudhA shrIdakShiNAmUrtistotravyAkhyA
% engtitle              : laghutattvasudhA Commentary on shrIdakShiNAmUrti stotram
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : svayaMprakAshayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion/vedanta
% Transliterated by     : Br. Pranipata Chaitanya pranipatachaitanya [ at ] yahoo.co.in
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : svayaMprakAshayatirachita dakShiNAmUrtistotra vyAkhyA
% Latest update         : October, 30, 2011
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP