मेघदूतसमस्यालेखः

मेघदूतसमस्यालेखः

meghadUta samasyAlekhaH of Meghavijaya. In this Jain work, the author is sending a message to his Jain Guru through Megha. He has taken 4th line of each shloka of Kalidasa's MeghadUtaM as a Samasya, and composed three more lines to complete the samasya shloka, as a samasyA pUraNa. Thus, the 4th line of each shloka in both kAvyas are identical, though the stories are entirely different. The poetical metre of this work is mandAkrAntA, as expected. NOTE: Another similar work, ᳚pArshvAbhyudaya᳚, a Jain philosophical work, by another Jain poet Jinadasa (8th century) is available, in which all the four lines in all the shlokas of KalidAsa's meghadUtTam, in the original order are used as a samasyA pUrana (so it is much larger than the present work). This work is of interest, since it embodies the oldest version of kAlidAsa's meghadUtam as it was availabe in the 8th century. The introduction in the publication of the present work says the following: अस्मिँलेखे कस्मिँश्चित्पुरे चातुर्मासिकीस्थितिं कुर्वद्भिः कविभिर्मेघदूतद्वारा श्रीदेवपत्तनस्थतपगणपतिश्रीमद्विजयप्रभसूरीश्वराणां कुशलवार्तादिसंसूचकं वचिकं प्रेषयद्भिर्देवगिर्यादीनां वर्णनं कृतमस्ति ॥ अथ महामहोपाध्यायश्रीमेघविजयविरचितो मेघदूतसमस्यालेखः । (मन्दाक्रान्तावृत्तम्) स्वस्ति श्रीमद्भुवनदिनकृद्वीरतीर्थाभिनेतुः प्राप्यादेशं तपगणपतेर्मेघनामा विनेयः । ज्येष्ठस्थित्यां पुरमनुसरन् नव्यरङ्गं ससर्ज स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १॥ तस्यां पुर्यां मुनिगणगुरोर्विप्रयोगी स योगी नीत्वा मासान् कदिचिदचिराद्वाचिकं नेतुकामः । भाद्रे पञ्चम्युदयदिवसे मेघमाश्लिष्टसौधं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २॥ मत्वा तस्याऽभ्युदयनदशां वायुनोन्नीयमानां चेतो वाचं झटिति गमनापेक्षमूचेऽस्य साधोः । प्रत्यासन्नेऽप्ययि ! तव गुरौ कार्यकार्यास्ति योगः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३॥ तद्विज्ज्ञप्त्यै त्वरय रयतः स्वं पुनानाऽऽशुनाना - भावैरेवं किमिव मनसोदीर्णवाक्यः स बालः । हस्ताम्भोजद्वयरचनया निर्मितार्चाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४॥ क्वायं प्रायः पवनसलिलज्योतिषां सन्निकायः क्वार्थश्चायं प्रवणकरणैर्यो विधेयः समर्थः । हर्षोत्कर्षादिति स सहसा चिन्तयन्नूचिवांस्तं कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५॥ जज्ञे भूमावतिविषमताऽन्योन्यसाम्राज्यदौस्थ्या - त्कश्चिन्मां नो नयति यतिनामीशितुर्वार्त्तवार्त्ताम् । तत्त्वां याचे स्ववशमवशासृष्टिविश्वोपकारं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६॥ भ्रातस्त्रातस्त्वमसि भुवने जीवनं जीवनन्दी तापव्यापापहृतिनिपुणस्तत्पयोवाह ! रम्या । गम्या चारै रुचिरनगरी देवकात्पत्तनाख्या बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ७॥ नित्यं चेतः स्फुरति चरणाम्भोजयोः सूरिराजः कायः सर्वैः समयविषयैः सन्निबद्धान्तरायः नो चेदीदृर्ग्गुरुसुरतरुं प्राप्य कः स्याद्दवीयान् न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८॥ श्रेयस्यर्थे प्रभवति बलादन्तरायस्तदस्य प्रध्वंसायाभ्युचितमचिरादाचिरेयं भजस्व । लाभोऽप्यत्र त्रिदशललनानेत्रसंवीक्षणैस्त्वां सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९॥ ॥ अथ प्राप्तनुषङ्गं श्रीशान्तिजिनवर्णनम् ॥ देवः शान्तिर्भवति भविनां दुर्भवाम्भोधिसेतु - र्हेतुर्भूयोऽनुभवभव (?) भोगसंयोगलक्ष्म्या । one syllable (guru) missing दुष्टैः कष्टैर्व्ययभयमयैः सन्नियोगेऽङ्गभाजः सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १०॥ अस्याह्वानस्मरणकरणोद्भूतभूयःप्रभावाः श्रद्धाभाजो विततमुरजस्येव गर्जं निशम्य । नृत्यारम्भे जिनपतिपुरः सञ्जिगीषो स्वरुच्या सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ अर्हत्यस्मिन् सृजति भुवनोद्भासनं दीपरूपे चेतोवृत्तीर्बहलतमसश्छेदनाय प्रपद्य । स्यात्तत्राभिप्रणतमनुजस्वर्गिवर्गस्य चित्रं स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ १२॥ हर्षाद्वर्षाविहितहितकृत्स्नात्रकृत्यः प्रसूनै - र्वातानीतैः प्रणयतु विभोश्चारुचर्यां सपर्याम् । कुर्वन्नुर्वीं स्वतनुमतनुं तीर्थभावाश्रितानां क्षीणः क्षीणः परिलघुपयः स्रोतसं चोपभुज्य ॥ १३॥ देवस्यास्य प्रसवसमये दिक्कुमारीभिरुच्चै - र्गन्धाम्भोदः प्रसृमरसुमाऽऽमोदशाली विचक्रे । पित्रा तत्रार्जितसुकृतततो विश्वशीर्षे त्वमेषि दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४॥ उद्यद्बालारुणघृणिगणोन्मिश्रशुद्धाश्मगर्भ - च्छत्रेणैतां तनुमनुदिनं भासितामस्य पश्य । मन्दारद्रुप्रभवनिचयैः पथ्यनेपथ्यभाजो बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५॥ श्यामीभावं शमयितुमना वामभागे वितत्या प्रादक्षिण्यं नय गुरुमुरुश्रेयसा देवमेनम् । नृत्यासक्तामरवरवधूवेषवस्त्रायमाणः किञ्चित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६॥ शङ्के राकातुहिनकिरणो वैश्वसेनिस्वरूपा - च्चक्रे पूजास्पदमिह मृगं स्वस्य संवाहकं खे । न क्षुद्रेऽपि प्रथमसुकृतोद्भावजन्मोपकारः प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ रङ्कुश्चन्द्रं जिनमुखविभामोषसञ्जातदोषं पादाम्भोजे मखरमिषतोऽभ्यानयत्सप्रसादम् । स्वीयोत्सङ्गे तदिव हरिणो धीयते शीतभासा सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १८॥ गायन्तीनां जिनवरपुरश्चारुलीलावतीनां रूपोत्प्रेक्षाविवशमनसि त्वय्यथाग्रं प्रपन्ने । प्राप्तः स्वाहाशनजनमनःकाम्यतां मण्डपोऽपि मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९॥ नानारत्नाभरणकिरणैर्भूषितां द्यूषितार्च्यां जैनीमर्चां तव विनमतः काऽपि कान्तिर्भवित्री । यामालिक्याभिनवनवनैर्वर्णयिष्यन्ति सिद्धाः भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २०॥ तस्याः स्नात्रे दनुजमनुजैर्गात्रपावित्र्यहेतौ सृष्टे दिष्ट्या प्लुतमविरलं क्षीरमादेयमेव । तन्माहात्म्यात्पवनयवनस्तेऽभिभूत्यै प्रभुर्न रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१॥ लोकाः कुष्ठाद्गलितवपुषो निर्विरोकाः सशोकाः अर्हत्स्नात्रामृतभरसरःस्नातमात्राः क्षणेन । भूत्वा भास्वल्ललिततनवो दिव्यभोगैर्भजन्ति सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्कितानि ॥ २२॥ ॥ इति जिनवर्णनम् ॥ नास्मिन्मार्गेऽस्म्यहमयि ! गतस्तच्च यात्रानुवेश्म गत्वा श्राद्धाः सदयहृदयाः सम्पदां संप्रदायाः । प्रष्टव्यास्ते गुरुमुखघनान्निर्गलद्वाग्जलानां सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २३॥ रत्नश्रेणीरचितनिचितस्वर्णसङ्कीर्णसौधे - ष्वस्यां जालन्तरपरिलसल्लोलनेत्राकलापैः । शुक्लापाङ्कैर्मधुरवचनैर्वन्दनां वक्तुकामैः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २४॥ वृष्टे ह्यत्र त्वयि प्रतिगृहं केतकोत्सेधहेतौ धारायन्त्रावलय उदितोत्तुङ्गरङ्गत्तरङ्गाः । अन्तर्मज्जत्सरसिजदृशां वक्रपद्मैः सपद्माः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५॥ प्रस्थानार्थं तव सवयसं प्रार्थयस्वार्थवन्तं कासारं तं जलजरजसा पीतवासो वसानम् । सिन्ध्वा वध्वा अधरमधुरं यः पिबत्युन्नमय्य सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २६॥ स्थित्वा तीरे ध्रुवमुपसरच्चञ्चलाचञ्चलाक्षीः धाराहस्तैः कुसुममधुरां दर्शयेस्तां वनालीम् । या प्रायोग्यैः सुरतललितप्रक्रियाणां प्रियाणा - मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २७॥ संस्थानेन प्रहितमतुलं वीक्ष्य पक्वान्नवृन्द - मुद्यानेऽपि स्वतरुषु चलच्छाखिकानां मिषेण । पुष्पश्रेणीं प्रहितुमनसि (?) प्रोन्नतानां समेधि च्छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८॥ अस्यां पुर्यां नरपतिनमन्मौलिमालार्चितांह्रिः साहेः पुत्रः सुनयनयनः पाति लोकान् पितेव । गीर्वाणस्त्रीसदृशसुदृशां तस्य सौधोर्द्धगामी लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९॥ नार्यः पुर्यां प्रतिगृहमिह श्रेणिमापूर्य तूर्यै - रुद्दिश्येयं प्रनयरचितं गानमुत्तानयन्ति । श्रुत्वा तास्त्वां रसितमसितैर्मोहयिष्यन्त्यपाङ्गैः स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३०॥ रोदस्योस्त्वां परिचितमिति स्वीयचित्तेऽवधृत्य सीमन्यस्याः कृषिकरजना बीजराजीं वितेनुः । संप्रत्येषाऽङ्कुरमुकुलनैः प्राञ्जलीभूय नम्रा कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१॥ धन्योऽसि त्वं जलदपटले ! दक्षिणस्यां प्रविश्य दृष्टं येन प्रवरनगरं सारमेतज्जगत्याः । भुक्ते भाग्ये भुवि नु मरुतां देवशैलाद्विधाऽपि शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२॥ अत्राश्लेष्टुं कमलवदना वीचिहस्तैः सरस्यः प्रोक्ताः कान्ता इव सुवयसां त्वां विजानन्ति शब्दैः । मुक्त्वा नस्त्वं विरहविधुराः कुत्र गन्तासि भोग्योऽ सि प्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३॥ अस्यां मुक्तामरकतपविश्रीप्रसूनेन्दुरत्न - पूगान् दृष्ट्वा तरणिशशिनोः श्रान्तकान्तिस्वरूपान् । पुण्यश्रेणीविपणिगणिताण् विद्रुमच्छेदराशीन् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४॥ ॥ इत्यवरङ्गावादवर्णनम् ॥ अस्याः प्राच्या सुभगभगिनी देवगिर्याह्वयास्ति पूर्वं प्रत्याश्रयमिह चिरं तस्थिवान् रामचन्द्रः । सस्नौ स्नेहादिह जनकजा लक्ष्मणः केलिमाधा - दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५॥ तस्यां छत्रायितसुरगिरौ वप्रमौलिं दधत्यां राज्ञस्तूर्यैर्द्विगुणितरवैर्नर्त्तयेथा मयूरान् । गेहेषूच्चैः प्रसवनिचयाकीर्णमध्येषु नूनं नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६॥ एतत्पुर्याः पुरपरिसरादम्रकम्रातपत्रा - त्तत्रासीनो नगरसुषमां मार्गयाद्रौ विनिद्राम् । कासाराणां विकचकमलामोदिभिः सेव्यमान - स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३७॥ स्नात्रे श्राद्धैस्त्रिभुवनगुरोस्तत्र निर्मीयमाणे नानारत्नांशुकरचनया भूषिते भूमिभागे । सद्यो वाद्यानुचरचरितैः शब्दयन्नब्दरत्न - मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८॥ पीनोत्तुङ्गस्तनभरनता गात्रसौन्दर्यभाजो वामाः पुष्पैर्वृषभभगवत्पूजनं कर्त्तुकामाः । मूर्त्तेः स्नानादिव समुचितान् प्राप्य वर्षाग्रबिन्दू - नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ ३९॥ आश्लेषार्थं सुहृदिव गिरिः शाखिबाहून् वितत्य तत्रार्चास्तास्तव विरचयिष्यत्यनर्घ्यप्रसूनैः । गृह्णन् जन्माप्यविरलफलं मानयिष्यत्यमर्त्त्यैः शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान् याः ॥ ४०॥ तारुण्येन स्मरपरवशां शिक्षितानां प्रवृत्तिं रात्रौ स्त्रीणामुपपतिगतौ श्रोणिभारालसानाम् । देह्यालम्बं विमलतडिता दर्शयंस्तत्र मार्गं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ४१॥ इत्येतस्मान्नगरयुगलाद्वीक्ष्य केलिस्थलं त्व - मीलोराद्रौ सपदि विनमन्पार्श्वमीशं त्रिलोक्याः । भ्रातः ! प्रातर्व्रज जनपदस्त्रीजनैः पीयमानो मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४२॥ तामुद्यन्तं नभसि सहसाऽवेक्ष्य कान्तां वियुक्ता - स्त्रासव्यासं दधति सरसां पार्श्वमस्माज्जहीहि । रात्रौ म्लाना इह कमलिनीर्मोटितुं भानुमाली प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३॥ मार्गे यान्तं बहुलसलिलैर्दाववह्निप्रशान्ते - र्गोत्रैः क्ळ्प्तोपकृतिसुकृतं रक्षितुं त्वां नियुक्ताः । नद्यस्तासां प्रचितवयसामर्हसि त्वं न धैर्या - न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४४॥ काचित् कान्ता सरिदिह तव प्रेक्ष्य सौभाग्यभङ्गी - मङ्गीकुर्याच्चपलसलिलावर्त्तनाभिप्रकाशम् । चक्रोरोजावरुणकिरणाच्छादनात्पीडयास्याः ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥ ४५॥ वर्त्मन्यस्मिन् विविधगिरयस्त्वत्परिस्यन्दमन्दी - भूतोत्तापाः क्षितिरुहदलैस्तेऽपनेष्यन्ति खेदम् । पुष्पामोदी करिकुलशतैः पीयमानस्तवातः शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४६॥ गत्यौत्सुक्येऽप्यणिकिटणकीदुर्गयोः स्थेयमेव पार्श्वः स्वामी स इह विहृतः पूर्वमुर्वीशसेव्यः । जाग्रद्रूपे विपदि शरणं स्वर्गिलोकेऽभिवन्द्य - मत्यादित्यं हुतवहमुखे सम्भ्र्तं तद्धि तेजः ॥ ४७॥ उत्पत्त्यास्मात्प्रणम विपुले तुङ्गि आ शैलश‍ृङ्गे Note तुङ्गि आ इति नाम । रामं कामं श्रमणवृषभं बोधितारं पशूनाम् । तत्सम्बुद्धान्वयजशिखिनो मूर्त्तिमस्याभिषिच्य पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नत्तयेथाः ॥ ४८॥ वर्षाभिस्ते शिखिरशिखराद्गैरिकाणां प्रवाहैः सिन्धुः पूर्णा ह्यवनिवनिताचङ्गनीरङ्गिकेव । ज्येष्यत्येष्यन्नवजलभरासङ्गमोत्फेनराशिः श्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४९॥ उत्तीर्याथ त्वयि शिखरिणां धोरणेर्निम्नभावा - ल्लीने भूमाविव जलललच्छैवलिन्योः प्रसङ्गे । द्रक्ष्यन्त्योघं त्रिदशवनिताः स्निग्धतापात्रनेत्रै - रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५०॥ एष्यत्यग्रेऽभ्युदयकमलामन्दिरं बन्दिरं श्री - सूर्याख्यं ते नयनविषयं स्वर्णपूर्णं क्रमेण । सङ्गन्तास्मिन् सुहृदपि घनो मालवात्ते स्वगात्रं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१॥ सभ्येभ्यानामहमहमिकावृद्धसौधाग्ररत्नै - रातिथ्यं ते बहु विरचयन्मानयेस्तत् पुरापि । हेमैः श्राद्धव्रज इह गुरोरागमे मार्गणानां धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५२॥ श्रीमान् पार्श्वप्रभुरिह जयत्यग्रजाग्रत्प्रभाव - स्तस्य स्नात्रामृतसमुदयैः पूयते तापिकाऽपि । संसृज्यैनां रुचिररमणीस्नानकर्पूरपूर्णा - मन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५३॥ तस्माद्गच्छेरनु भृगुपुरं सिन्धुबन्धुप्रसक्ता - मद्रेर्बाहामिव शशिसुतां पूर्वगङ्गेति नाम । रक्षन्ती या प्रसृमरजटाघट्टदम्भाद्वटस्य शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५४॥ रेवातीरे भृगुपुरवरस्फाटिकावासराजी तस्या बिम्बं विमलसलिले स्वर्धुनीवाऽपराऽस्ति । तत्र च्छाया परतटमथालम्बते ते तदैषा स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ ५५॥ अग्रे दृष्ट्वा जलमयमहीवन्महीनामसिन्धुं सिन्धोरूर्मीपृथुतरभुजैर्गाढमालिङ्ग्यमानाम् । लब्धा स्तब्धाब्धिकफनिचयाभ्यासवर्त्ती हिमाद्रौ शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५६॥ स्थाने स्थाने सरणिधरणीभृद्भिरागृह्यमाणा तन्वी खेदादुपपति सरेत्तर्हि नीरैस्तथाऽस्याः । कुर्याः पौष्ट्यं स्खलति न यथा भूषिता चक्ररत्नै - रापन्नार्तिप्रशमनफलाः सम्पदोऽह्युत्तमानाम् ॥ ५७॥ उत्तीर्णस्तां हरिगृहपुरं प्राप्य तत्कौतुकार्थी व्यालम्बेथा मणिमयशिलाप्रौढसभ्यालयालीम् । यत्ते द्विष्टाः पवनयवनास्तत्र भङ्गं लभन्ते के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५८॥ तत्र व्यक्तं दृषदि चरणन्यासमासज्य पूज्यं राज्याधीशैर्विजयपदतः सेनसूरेर्भजस्व । तीर्णान्यन्यान्यपि सुमनसो यानि दृष्ट्वेव भव्याः सङ्कल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९॥ स्रीवक्राब्जे भ्रमरललितं सुभ्रुवो प्रेक्ष्य तत्र कान्तारेऽब्धेस्तटमनुसरेस्साभ्रमत्याः प्रसङ्गि । वीचीनृत्यैस्तव घनरवैर्वेणुवादैर्जनस्य सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६०॥ सिन्धोर्वेलाशिखरिषु तवाभ्यागमात्पुष्पितेषु स्थित्वा रात्रावविरतरतश्रान्तविद्युद्वधूकः । किञ्चित्साचीकृतनिजतनुः पश्चिमामाश्रयेथाः श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६१॥ सौराष्ट्रीणां हृदि विरचयन् बिन्दुभिर्मौक्तिकालीं पावित्र्यार्थं ननु निजतनोः सिद्धशैलं भजेथाः । यः श‍ृङ्गस्थोन्नतजिनगृहच्छत्रगौरांशुभासि राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२॥ मन्ये नन्तुं वृषभभगवत्पादयुग्माम्बुजन्म तत्रारूढे त्वयि शिखरिणः स्निग्धवेणीसवर्णे । भृङ्गव्याप्ताविव हि कुमुदस्तस्य शोभा भवित्री - मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३॥ गन्धालीढैः कुसुमसलिलैः पूजनायां जिनेन्दो - र्वृन्देऽलीनां स्फुरति परितो भाविनी काऽपि शोभा । भावार्हन्त्ये चिकुरनिचये वाञ्जनाभे सलीला - मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६४॥ - (पाठान्तरम्) सम्पूज्याऽऽरात्रिकरचनया विद्युतो मारुदेवं स्तोत्रैर्मन्द्रध्वनितजनितैश्चाभिनन्द्यात्मशुद्ध्यै । अभ्रौ स्त्रीणां विषमसरणौ श्रोणिभारालसानां सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६५॥ आस्थाय श्रीवृषभविभुना सोयमष्टापदाभः पूतस्तेनात्मनि जलभृते मानसत्वं विदध्याः । यास्तत्रार्हन्महनविधये स्वर्वशा स्नान्ति नैव क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भापयेस्ताः ॥ ६६॥ वर्षोत्कर्षैर्द्धूमसमुदये विद्रुमाभां वितन्वन् मत्वा सिद्धस्थलमनुपदं नर्त्तयन् मोरसार्थान् । नित्यं शत्रुञ्जयमनुनयन् वातलूनैः प्रसूनै - र्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६७॥ उद्यतोऽस्माद्गुरुयुगपदन्यासमानस्य सम्यग् वार्धावन्तःपुलिननिवसद्द्वीपपुर्यामवेयाः । प्रावृट्काले वहति निलयैर्या जलान्युद्गिरद् वो मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६८॥ श्रेणिभूतापणविलुलितव्यक्तमुक्ताम्बुधाराः कान्ताकान्तिस्फुरिततडितस्तोरणेन्द्रायुधाढ्याः । नित्यं नृत्यप्रहतमुरजस्निग्धगम्भीरनादाः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६९॥ भुक्त्वा सौख्यं चतुरवनितागात्रधारागृहस्त - स्पर्शैः पुष्पोपचनपवनश्लिष्टरम्भाः प्रपश्यन् । रोधः सिन्धोरनुभव मुदा यत्र योधा रमन्ते प्रत्यादिष्टाभरणरुचयश्चन्द्रह्रासव्रणाङ्कैः ॥ ७०॥ गर्जैरूर्जस्वलजलनिधेः क्षोभभावं प्रणेष्यन् क्षेमावाप्तं त्रिदशनगरं त्वं विशेस्तातपूतम् । द्यावाभूम्योः प्रमुदचरितं वक्ति साक्षाद्द्रुमेषु सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१॥ ॥ अथ श्रीदेवकपत्तनवर्णनम् ॥ शस्तीत्येवं गुरुपरिचितं यत्पुरं दह्यमान - धूपव्यक्त्या चिकुरवलयैर्नृत्यकृत्केतुहस्तैः । लक्ष्मीवासाम्बुजमहममी षट्पदास्ते न यद्वा वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७२॥ दण्डश्चैत्ये कुसुमनिचये बन्धनं विप्रयोगो दातुर् द्वारे चलकुटिलता सुभ्रुवोर्नान्यलोके । केशासक्त्या(?) ह्यगुरुदहनोद्धूतधूमस्य मन्ये वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७३॥ - (पाठान्तरम्) रात्रौ यस्यां कथमपि समानीय सञ्चारिकाभि - र्वासावासं प्रणयिसविधे स्थापिता या नवोढा । तासां भोगादरणि रमणे दीपमुद्दिश्य मुक्तो ह्रीमूढानां भवति विफलप्रेरणच्चूर्णमुष्टिः ॥ ७४॥ लक्ष्म्याः स्थानं तदिति मतिमान् वर्धयत्यूर्मिहस्तै - र्मुक्तायुक्तैः पुरपरिसरे स्वाङ्कमासार्य सिन्धुः । तत्सुप्रापैः कनकसिकताराशिगुप्तैः सखीभिः सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७५॥ कामादेशाद्गमनसमयेऽलक्तकव्यक्तपाद - न्यासैर्वासैर्मसृणघुसृणालेपनैर्यत्र भित्तौ । मुक्तास्रग्भ्यो विलुलितकणैः कङ्कणैः शीर्णबन्धै - र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७६॥ मुक्ताहारा इव वरभुवः सन्ति यस्यां विहाराः शाटी पुर्र्याः कुवलयदृशः श्रेयसी पुष्पवाटी । शालास्त्यागप्रकृतिकृतिभिर्निर्मिताः श्रीविशालाः नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७॥ यैरासङ्गादिव जलनिधेः प्रापि रत्नाकरत्वं सार्धं नित्यं मुनिगुरुगुणोद्गातृभिस्तेऽर्थितीर्थाम् । श्रान्तं तारान्वितमिव दिवः खण्डमुद्दण्डपुष्पं बद्धापानां बहिरुपवनं कामिनो निर्विशन्ति ॥ ७८॥ राज्ञःसौधावलिषु तपनोत्सर्पणात्सूर्यकान्तै - स्तप्तैरुष्मा य इह जनितो दुष्कलेस्तापरूपः । तं चैत्यस्थाः सपदि शरदश्चन्द्रपादानुवादा - द्व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७९॥ धन्यास्तेऽस्यां प्रतिदिनमहो श्रीगुरोर्वक्रपद्मान् प्राप्तस्यन्दं प्रवचनरसं ये निपीयैव भव्याः । श‍ृण्वन्त्युच्चैः पदरचनया गायनोद्गीतकीर्तिं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ८०॥ पीनोत्तुङ्गस्तनपरिचयो कञ्चुकः पुष्पजालैः पत्रैश्चित्रैर्भवति रसना पल्लवैः शेखरश्रीः । आम्रो भृङ्गावलिवलयितेऽस्मिन् युगे सातिरेक - मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ८१॥ वातोद्धान्तैः सलिलपृषतैः क्षोभयन्तो मृगाक्षी - र्गातुं वृत्ता गुरुगुणपदं पुष्पलावण्यभाजः । साध्वीस्पर्शादिव कलुषितास्तोयदा यत्र जालै - धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ८२॥ कामोऽपि स्वं प्रगुणयति नो कार्मुकं पुष्परूपं मौर्वीभङ्गादिव नववधूश्वासलोभादलीनाम् । यूनां चेतो व्यथननिपुणैः काक्षबाणैः सनाथै - तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८३॥ तस्यां वप्रः सुरगिरिगुरुः काञ्चनः काञ्चनाभां तुङ्गैः श‍ृङ्गैर्वहति तरणेरप्यनुल्लङ्घनीयः । यन्मूर्धस्तै रसिकपुरुषैः स्पृश्यते स्वर्गतोऽपि हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८४॥ सिन्धोस्तत्रानुज इव लसद्वीचिवासास्तडाग उद्यानान्तस्तरुणवयसो दीर्घिकास्तस्य कान्ताः । तासां चञ्चन्नयननलिनैर्मोहिता मानसाम्भो न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८५॥ बद्धोत्साहा गमनगहने वातवद्वादिराजी राज्ञः स्वर्णाभरणसुभगः सामजानां समूहः । यस्यां दानस्रवणनियतोदस्तहस्तः प्रशस्तः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८६॥ नव्यो भव्यैर्मरकतशिलानिर्मितोऽस्त्याश्रर्मोऽस्यां गर्जद्गानानुगतमुरजः साधुनाथैः सनाथः । नित्यं व्याख्यापरिषदि वृतं तोरणैः काञ्चनीयैः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७॥ - (पाठान्तरम्) ॥ अथ श्रीगुरुवर्णनम् ॥ तत्रास्माकं विभुरभिनवैः पात्रवृन्दैः परीतः स्फीतच्छायो वकुलकमलां सन्निदत्ते प्रतीकैः । किन्त्वक्षुब्धो मनसि भगवांश्चारुनार्या विलासैः काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ ८८॥ नम्रानेकक्षितिपतिशिरोमौलिरत्नैर्नखानां संयोगेन प्रभुचरणयोर्जायते सा विभूषा । व्यक्तेर्बीजं नटनरुचितश्चन्द्रकाणां प्रचारै - र्यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ ८९॥ नित्याह्लादैः श्रमणमणिभिस्तत्र सेव्यांह्रिपद्म - स्तेजोराशिः प्रसृमरयशा राजते सूरिसूर्यः । यद्दूरस्थो विदुरमघवाऽप्याप्नुते तां न शोभां सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ९०॥ गत्वा सूर्योदयनपुरतस्तत्र शोणाणुमूर्त्या भक्तिं चन्द्रोदयरचनया व्यञ्जयन्नस्य सूरेः । दर्शं दर्शं वदनमलसां मोदपूर्णं मोदपूर्णां पुनीथाः खद्योताली विलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ९१॥ यस्य ब्रह्मव्रतमतिरतं बिभ्रतश्चित्तवृत्तिं शच्यास्तस्या अपि मधुरता नेतुमीशा न मोहम् । पीनोरोजा सरसिजमुखी क्षाममध्याऽऽयताक्षी या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥ ९२॥ प्राप्तक्षोभा विजयिनि गुरौ देवनाम्नीह पूर्वं मोहादीनामसमपरिषच्छङ्कया शङ्कुकल्पा । साम्राज्येऽस्य प्रशमपवनैर्वेपमानां भयात्तां जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् ॥ ९३॥ var शिशिरमथितां स्वामिन्यस्मिन्नधिगतवति प्राज्यसाम्राज्यलक्ष्मीं कीर्त्तिक्षीरैर्जगति बहुलैः प्लावितं पङ्कजालम् । तस्या लेपादिव खलमुखं श्यामिका व्याप्तिदम्भा - दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ९४॥ ॥ अत्रान्तरे स्वामिचरितं किञ्चिदुच्यते ॥ जम्बूद्वीपे भरतवसुधामण्डनं कच्छदेशो यत्राम्भोधिर्भुवमनुकलं पूजयत्येव रत्नैः । पृच्छन् पूता जननललनैः सूरिणा यैरमूनि कच्चित् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९५॥ चिन्तामण्याह्वयजिनयशो गातुकामेक्षुवाटे शालेये वा जनयति भृशं गोपिका सिद्धमोहम् । वीणापाणिर्लयमुपगता तद्गुणैर्यत्र रागा - द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ९६॥ आस्ते तस्मिन्नगरमुदितं श्रीमनोरम्यनाम योगे दूरादुपगतवतां यत्र सांयात्रिकाणाम् । लोके रात्रिं नयति लववत्तद्वधूस्तत्र देशे तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९७॥ तत्र श्रेष्ठी शिवगुण इति प्रेयसी तस्य भाण्णी तद्वेश्मोत्थैर्मणिभरकरैर्लोहिते व्योमभागे । प्रातर्भ्रान्त्या गमयति तमीं कोककान्ताशुभोगै - स्तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९८॥ - (पाठान्तरम्) सुप्तान्येद्युः कुसुमतलिने श्रेष्ठिनः कामिनी सा स्वप्ने सिंहं त्रिदशमहसापन्नसत्वा ददर्श । हर्षोल्लासाद्विकचनयने किञ्चिदाकुञ्च्य निद्रा - माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ९९॥ प्रासौत्सूनुं जयमिव शची द्यौरिवेन्दुं समग्रं भर्तुस्तस्मादतिशयिरसाद्वल्लभत्वं गता सा । गायत्युच्चैर्हसति रमते मोदते स्मालिवर्गैः प्रायेणैतेऽरमणविरहेष्वङ्गनानां विनोदाः ॥ १००॥ स्फीतो बालः सुरतरुरिवानुक्रमाद्वैरिसिंहे - त्याख्यां बिभ्रद्विजयपदतो देवसूरेः कदाचित् । वाक्यैर्बुद्ध्वा प्रणयविवशां मातरं प्राह दान्त - स्तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ १०१॥ मतर्याचे विषयविरतस्त्वन्निवेशं व्रताय मायाजालं विकृतिविरसं कस्य नोद्वेगहेतुः । स्री विक्षेप्तुं विरहविकृतां न प्रगल्भाऽपि शक्ता गल्लाभोगात् कठिनविषमामेकवेणीं करेण ॥ १०२॥ var गण्डाभोगात् श्रुत्वाऽकस्मादिति सुतवचो विद्युदापातकल्पं मूर्च्छाऽतुच्छव्यथनकथनैः सङ्कुचद्विस्मिताक्षी । जातामाताऽवचनविषयाऽसह्यदुःखाभिघातात् साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ता ॥ १०३॥ मातुर्दुःखोदयमपदयं भावयित्वा कुमारो वीरेत्याख्यामिव नियमयन् भाविनीं वर्धमानः । पित्रो सत्त्वे व्रतपरिचयो नेत्ययं निश्चिकाय प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०४॥ मातापित्रोर्दिवि परिगमे स स्वयं प्रात्तदीक्ष - श्चक्रे वक्रेतरमतिधृतिः सूरिराजा स्वशिष्यः । तस्य ज्ञानं चरणमरुणप्रौढतेजं स्तुमः किं प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥ १०५॥ पट्टे न्यस्तः स इह गुरुण बन्दिरे गन्धपुर्यां खैकाद्रीला १७१० शरदि समहं राधसम्यग्दशम्याम् । ? लोकैस्तत्रानिमिषसमता ??? नेत्रे यदेतन् - two syllables missing मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०६॥ मत्वा गच्छे वरसरसि नः सोऽयमुद्भूतपद्मेऽ - मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०६॥ - (पाठान्तरम्) last two lines सोयं स्वामी विजयपदतः श्रीप्रभेत्याह्वयैव लक्ष्म्या वाण्या जयति निलयो दर्शनादस्य पूर्वम् । वार्त्तां वक्तुं कृतनरतनोर्दक्षिणस्ते शुभाय यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०७॥ एतद्वृत्तं सुरशिखरिणस्तुङ्गश‍ृङ्गेषु सिद्धै - र्गीतं पीत्वा परमरसिका स्वर्जनानां वधूट्यः । रम्भास्तम्भाऽऽलयमुपगता भर्तृयोगे भजन्ति सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०८॥ तेजःपुञ्जैर्दिनकरकरस्पर्द्धिभिर्दुर्निरीक्ष्यं शान्तस्वान्तं तपनरपतिं प्राप्य नम्रीकृताङ्गः । अत्रोद्भूतां सुकृतसरसां किंवदन्तीं विदग्धो वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ १०९॥ प्रातुर्भूते दिनमुखसखे सौरतेजस्त्रिधाऽपि विश्वं व्याप्तं कथयति महीनाथ ! नान्दी विशेषः । कामक्रीडानिरतमिथुनायुत्सृजंस्त्यक्तनिद्रं मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ ११०॥ सभ्यास्थायामिह भगवतीपाठपूर्वोत्तराद्या - ध्यायव्याख्या भवति तदनु श्रीगुरोर्गीतवृत्तैः । गन्धर्वाली सुखयति जनं सोत्सवं श्रोत्रपेयैः कान्तोदन्तः सुहृदुपहृतः सङ्गमात्किञ्चिदूनः ॥ १११॥ शिष्याध्यायोऽव्रतविरमणं तत्र बापूर्दिदेश कीर्त्यङ्कूरानिव रजतजद्वादशोद्यद्दशाङ्कान् । वात्सल्यानि प्रवरवसनैर्नामजापोऽर्हदादेः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ११२॥ var सुरलविपदां अर्हत्पूजाकुसुमरचनैर्नन्द्यमन्दोत्सवश्री - र्दानं पात्रेष्वभयसहितं भावना भावनाट्यम् । पर्वण्येवं नवनवभवैर्वार्षिके कल्पपाठः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ११३॥ var सुरलविपदां (पाठान्तरम्) कर्तुं कश्चित्स्पृहयति पुनस्तीर्थयात्रां ससङ्घं कश्चिद्वोढुं व्रतविधिभरं वोपधानाणि काचित् । इत्थं सङ्घो गुरुगुरुलसद्भक्तिरद्यापि धर्मे सङ्कल्पैस्तैर्विशति विधिनाऽवैरिणाऽरुद्धमार्गः ॥ ११४॥ एवं नित्योत्सवपरिचयैराश्रितोऽपि प्रकामं मेघः शिष्यो गुरुपदयुगासेवया विप्रयुक्तः । सर्वं बाह्यं मनसि रसिको मन्यमानः सुनेत - स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११५॥ पूर्णाचन्द्रस्तव मुखविभां भावयत्येष पूर्णां तेजस्वित्वं स्पृशति तरणिर्धीरतां मेरुरद्रिः । अम्भोवाहः प्रवहति तथाऽन्योपकारप्रकारं हन्तैकस्थं क्वचिदपि न तेऽभीरुसादृश्यमस्ति ॥ ११६॥ तस्मादस्माद्दशजनमनस्त्वन्निरीक्षामृतेन दिष्ट्या पुष्टं क्वचिदपि रतिं नाप्नुते वस्तुगत्या । नामालम्बात्सहमहमहो वासराणि व्रजन्ति दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११७॥ राकाचन्द्रेऽभ्युदयिनि भवद्वक्रमारोप्य बुध्या ध्यानाधीनः क्षणमपि सुखं चेतसि स्थापयामि । अश्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११८॥ वक्रार्थं ते समधित विधिः शारदेन्दोर्विभूषां सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन् मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ११९॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक - खण्डं मन्ये सरसि हसितं निर्मिमेते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान् पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १२०॥ जाने दिग्भिः पवनचमरैर्वीज्यसे त्वं तदेता - श्चन्द्रो ज्योत्स्नामलयजरसैरर्चयन् पश्चिमायाम् । नत्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १२१॥ पृथ्वीपाथः पवनतरवश्चन्द्रसूर्यादिदेवा - स्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्वं वा गगनशकलं दूयते केवलं यद् गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२॥ चेतोवाक्ये मम निगदतोऽन्योन्यमाश्वासनाय ध्यानाधीनैः स्तवनकथनैर्नीयते दिष्टमेवम् । पश्चात्साक्षात्सुभग ! भगवत्सङ्गमे सर्ववृत्तं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ १२३॥ धन्यां मन्यस्तदुषसि विभो ! स्यामहं विश्वविश्वे यस्यां रात्रौ लयनिलयगः संलये त्वां निषेवे । तां निद्रामप्यतिशयमुदा संस्तुवे ध्यानमुद्रां दृष्टः स्वप्नेऽकितव ! रमयन् कामपि त्वं मयेति ॥ १२४॥ बालस्याऽनुक्षणकृतनतेर्मे स्वविज्ञप्तिरेषा भाव्या स्वामिन् ! हृदयविषये सन्निधेयो विधेयः । अर्याश्चर्यानुगतमनसो वर्तमाने यदर्था - दिष्टे वस्तुन्युपचितरसाः प्रेमराशी भवन्ति ॥ १२५॥ विज्ञप्यैवं प्रवचननृपं श्रीविनीताभिधानो - पाध्यायेन्द्रैर्विपुलमतिभिः सेवितं तन्निवृत्तः । तत्प्रत्युक्तानुनमनमुखोदन्तवृन्दैर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२६॥ एवं देव ! त्वयि विनिहितं कार्यमार्यंं विचार्य व्यक्तां शक्तिं सहृदयसुहृत् ! तावकीमत्र चार्थे । अङ्गीकारं द्रढयति तवाध्वानधाराप्रसारः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२७॥ पूर्वं मोदात्तपनृपतिनामे स्वसेवाकुमारी सौभाग्याढ्या प्रणयसरसोद्वाहिता तद्वियुक्तेः । तापं हृत्वा विचर जलदाभीष्टदेशान् यथेच्छं मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२८॥ स्थित्वास्थायां मुनिपतिपुरोऽसौ निसृष्टार्थरूपी दिव्यध्वानैर्जलधरवरो वाचिकं व्याचचक्षे । जातस्तस्मान्मुनिनरपतिः सप्रसादो विनेये केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२९॥ प्रत्यागत्य प्रणयिहृदयाम्भोधरेणादरेणा - दिष्टां वार्तां गुरुगुरुतरानुग्रहव्यञ्जनीं सः । श्रुत्वा ज्ञानाचरणचरणोद्भूतभाग्यप्रतिष्ठान् भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १३०॥ माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः । समस्यार्थं समस्यार्थं निर्ममे मेघपण्डितः ॥ १३१॥ ॥ इति महामहोपाध्यायश्रीमेघविजयविरचितो श्रीमेघदूतसमस्यालेखः सम्पूर्णः ॥ Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : Meghadutasamasyalekhah  by Meghavijaya
% File name             : meghadUtasamasyAlekhaHmeghavijaya.itx
% itxtitle              : meghadUtasamasyAlekhaH (meghavijayavirachitaH)
% engtitle              : meghadUtasamasyAlekhaH by meghavijaya
% Category              : major_works, jaina
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Meghavijaya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : A message to Meghavijaya's Jain Guru through Megha taking 4th line of each shloka of Kalidasa's MeghadUtaM as a Samasya pUrti
% Indexextra            : (Scan)
% Latest update         : August 18, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org