॥ मेघदूत (कालिदास) ॥

MeghadUta Kalidasa's Cloud Messenger Encoded and proofread by Avinash Sathaye sohum at ms.uky.edu OR Jost Gippert gippert at em.uni-frankfurt.de PUrvamegha कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्र(श)थमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हरयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४॥ धूमज्योतिः सलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६॥ संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ७॥ त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८॥ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९॥ तां चावश्यं दिवसगणनातत्परामेकपत्नीं अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १०॥ कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यां तच्छ्रुत्व अ ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ १२॥ मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीनः क्षीणः परिलघु पयः स्रोतसं चोपभुज्य ॥ १३॥ अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर् द्र्ष्टोत्साहच्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५॥ त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयमवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २०॥ नीपं दृष्ट्वा हरितकपिशं केषरैरर्धरूढैः आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २२॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३॥ तेषं दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २४॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोः त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५॥ विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न उद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७॥ वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८॥ वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९॥ प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम् ॥ ३०॥ दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१॥ जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपैः बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहारः । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ ३२॥ (नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ ३२॥) भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्याः तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३॥ अप्यन्यस्मिञ् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयां आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४॥ पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ ३५॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६॥ गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ३७॥ तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुःऋदामभ्युपेतार्थकृत्याः ॥ ३८॥ तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्रं कमलवदनात् सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ३९॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मात् तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४०॥ तस्याः किं चित् करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ ४१॥ त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां अत्यादित्यं हुतवहमुखे संभ्र्तं तद् धि तेजः ॥ ४३॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयपदप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४॥ आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीः एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६॥ तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७॥ ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४८॥ हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सौम्य सारस्वतीनां अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९॥ तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५०॥ तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५२॥ तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रैः आपन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ ५३॥ (ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मिन् दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् ।) ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वान सपदि शरभा लङ्घयेयुर्भवन्तम् । तान् कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत् सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः । यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ५६॥ प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ५८॥ उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीं अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥ हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६०॥ तत्रावश्यं वलयकुलिशोद्धट्टनोग्दीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६१॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातैः नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६२॥ (धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि च्छायाभिन्नः स्फटिकविशदं निर्विशेः पर्वतं तम् ॥ ६२॥) तष्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३॥ Uttaramegha विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६४॥ हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ६५॥ आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैः नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् । नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगपपत्तिः वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ६६॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ६७॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतमुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ६८॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिष्टुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणच्चूर्णमुष्टिः ॥ ६९॥ नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः आलेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गैः धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७०॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७१॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैः उद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ७२॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरश्छिन्नसूत्रैश्च हारैः नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७३॥ मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैः तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ७४॥ वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७५॥ तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तय वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ७६॥ वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ७७॥ तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ७८॥ रक्ताशोकश्ः चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ ७९॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ ८०॥ एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ८१॥ गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसाणौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ८२॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥ ८३॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ ८४॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ८५॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चित् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ८६॥ उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ८७॥ शेषान् मासान् विरहदिवसप्रस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । (संयोगं) मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ८८॥ सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ८९॥ आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ९०॥ पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ ९१॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् । मत्संभोगः कथमुपनयेत् स्वप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ९२॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥ ९३॥ सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ९४॥ जाने सख्यास्तव मयि मनः संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥ ९५॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विष्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ९६॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ९७॥ तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ९८॥ तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ ९९॥ भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ १००॥ इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव । श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात्किंचिदूनः ॥ १०१॥ तामायुष्मन् मम च वचनादात्मनः चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०२॥ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०३॥ शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टः त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १०४॥ श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्दि साद्र्श्यमस्ति ॥ १०५॥ त्वामालिख्य प्रणयकुपिता धातुरागैः शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ १०६॥ मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ १०७॥ धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयुः दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ १०८॥ भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०९॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११०॥ नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत् कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १११॥ शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११२॥ भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे द्र्ष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ ११३॥ एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ११४॥ आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११५॥ कच्चित् सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११६॥ एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या । इष्टान् देशान् विचर प्रावृषा संभृतश्रीः मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ११७॥ अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटः तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः । आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ ? ॥ अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ ? ॥ हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्खशुक्तीः शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ? ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पाद् इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञाः ॥ ? ॥ पत्त्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ ? ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ? ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैः उद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ? ॥ वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानं विकल्पम् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्यां एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ? ॥ स्निग्धाः सख्यः क्षणमपि दिवा तां न मोक्ष्यन्ति तन्वीं एकप्रख्या भवति हि जगत्यङ्गनानां प्रवृत्तिः । स त्वं रात्रौ जलद शयनासन्नवातायानस्थः कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः ॥ ? ॥ अन्वेष्टव्यामवनिशयने सन्निकीर्णैकपार्श्वां तत्पर्यन्तप्रगलितलवैश्छिन्नःआरैरिवास्रैः । भूयो भूयः कठिनविषमां सारयन्तीं कपोलाद् आमोक्तव्यामयमितनखेनैकवेणीं करेण ॥ ? ॥ धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । घर्मान्तेऽस्मिन् विगणय कथं वासराणि व्रजेयुः दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ ? ॥ इत्याख्याते सुरपतिसखः शैलकुल्यापुरीषु स्थित्वा स्थित्वा धनपतिपुरीं वासरैः कैश्चिदाप । मत्वागारं कनकरुचिरं लक्षणैः पूर्वमुक्तैः तस्योत्सङ्गे क्षितितलगतां तां च दीनां ददर्श ॥ ? ॥ तस्मादद्रेर्निगदितुमथो शीघ्रमेत्यालकायां यक्षागारं विगलितनिभं दिष्टचिह्नैर्विदित्वा । यत् संदिष्टं प्रणयमधुरं गुह्यकेन प्रयत्नात् तद्गेहिन्याः सकलमवदत् कामरूपी पयोदः ॥ ? ॥ तत्संदेशं जलधरवरो दिव्यवाचाऽऽचचक्षे प्राणांस्तस्या जनहितरतो रक्षितुं यक्षवध्वाः । प्राप्योदन्तं प्रमुदितमनाः सापि तस्थौ स्वभर्तुः केषां न स्यादवितथफला प्रार्थना ह्युत्तमेषु ॥ ? ॥ श्रुत्वा वार्त्तां जलदकथितां तां धनेशोऽपि सद्यः शापस्यान्तं सदयहृदयः संविधायास्तकोपः । संयोज्यैतौ विगलितशुचौ दंपती हृष्टचित्तौ भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ? ॥ इत्थंभूतं सुरचितपदं मेघदूताभिधानं कामक्रीडाविरहितजने विप्रयोगे विनोदः । मेघस्यास्मिन्नतिनिपुणता बुद्धिभावः कवीनां नत्वार्यायाश्चरणकमलं कालिदासश्चकार ॥ ? ॥

% Text title            : meghadUta (kAlidAsa)
% File name             : meghanew.itx
% itxtitle              : meghadUta (kAlidAsarachitam)
% engtitle              : meghadUta (kAlidAsa)
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Avinash Sathaye sohum at ms.uky.edu
% Proofread by          : Avinash Sathaye sohum at ms.uky.edu
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP