नैष्कर्म्यसिद्धिः
अथ प्रथमोऽध्यायः ।
आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि
दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था
प्रवृत्तिरस्ति स्वरसत एव ।
दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च
पूर्वोपचितधर्माधर्ममूलत्वादनुच्छित्तिः ।
तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः ।
कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च
शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य
चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य
च शुक्तिकारजतादिवत्सर्वस्यापि
स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः ।
अतः सर्वानर्थहेतुरात्मानवबोध एव । सुखस्य
चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः
पिधानम् । अतस्तस्यात्यन्तोच्छित्तावशेषपुरुषार्थपरि-
समाप्तिः । अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ-
मात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वात्मानवबोध-
विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा-
द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् ।
अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते ।
तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय
चायमाद्यः श्लोकः ।
खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः ।
ध्वान्तच्छिदे नमस्तस्मै हरये बुद्धिसाक्षिणे ॥ १॥
स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय
विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया ।
अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः ।
गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २॥
नमस्कारनिमित्तस्वाशयाविष्करणार्थः ।
वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् ।
ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३॥
किंविशयं प्रकरणमिति चेत्तदुपन्यासः ।
यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन ।
प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४॥
विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण-
शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् ।
गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः ।
सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् ॥ ५॥
गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ
ख्यात्याद्यप्रामाण्य-
कारणाशङ्केति चेत्तद्व्युदासार्थमाह ।
न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते ।
स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु ॥ ६॥
अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप
-
नायोपन्यासः । ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया ।
साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥ ७॥
पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः ।
वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः ।
दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥ ८॥
प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः ।
तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः ।
मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् ।
कथं चेच्छृणु तत्सर्वं प्रणिधाय मनो यथा ॥ ९॥
अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा ।
नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः ॥ १०॥
किमतो भवति ।
काम्यकर्मफलं तस्माद्देवादीमं न ढौकते ।
निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् ॥ ११॥
देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः
समानौ चोद्यपरिहारौ ।
वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् ।
आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः ॥ १२॥
काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य
तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं
नित्यानुष्ठानेनेति चेत्तन्न । तदकरणादप्यनर्थप्रसक्तेः ।
नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् ।
अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् ॥ १३॥
अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं
ज्ञानमस्ति । तत्प्रतिपादकप्रमाणाभावात् ।
यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह ।
विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् ॥ १४॥
स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न । यतः ।
यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् ।
श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥ १५॥
स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न । यतः ।
अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् ।
न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६॥
अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च ।
᳚आम्नायस्य क्रियार्थत्वादानर्थक्यम् ᳚ इतोऽन्यथा ।
इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् ॥ १७॥
मन्त्रवर्णाच्च ।
᳚कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ᳚ ।
इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् ॥ १८॥
ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च
क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः ।
विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि ।
न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥ १९॥
ज्ञानाभ्युपगमेऽपि न दोषः । यतः ।
कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा ।
सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः ॥ २०॥
यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः ।
अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः ।
स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥ २१॥
असदर्थप्रलापोऽयमिति दूषणसम्भावनायाह ।
इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् ।
घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल ॥ २२॥
दूषणोपक्रमावधिज्ञापनायाह ।
अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः ।
वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥ २३॥
चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुक्तेः
कर्मकार्यत्वम् ।
अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् ।
कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः ॥ २४॥
कर्मकार्यत्वाभ्युपगमेऽपि दोष एव ।
एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः ।
प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५॥
सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि-
सम्बन्धान्न परिशेष्यन्यायसिद्धिः ।
दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये ।
स्वर्गादिफलसम्बन्धात्काम्यं कर्म तथैव न ॥ २६॥
प्रमाणासम्भवाच्च ।
साध्यसाधनभावोऽयं वचनात्पारलौकिकः ।
नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन ॥ २७॥
अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो
निष्प्रयोजनः प्रलापः ।
निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया ।
नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः ॥ २८॥
एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति
निरस्तोऽयं
पक्षः । अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन
यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव
सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम
आह ।
इह चेदं परीक्ष्यते । किं यथा प्रतिषिद्धेषु
यादृच्छिकेषु च कर्मसु
स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं
हितमिदमहितमिति विशेषान् परिकल्प्य
मृगतृष्णिकोदकपिपासुरिव
लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय
हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च
तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं
वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति । किंचातः ।
यद्येवं श्रुणु । यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं
प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति
निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा
हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक-
प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च । अथ
मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति-
विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं
हताः स्थ यूयमिति ।
हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् ।
उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् ॥ २९॥
एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो
निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च
षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवंस्वाभाव्या-
त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति
मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्-
प्रवृत्तिनिमित्तमिति निर्धारितम् । शास्त्रं च न
पदार्थशक्त्याधानकृदिति । अथैतस्यैवोत्तरत्र प्रपञ्च
आरभ्यते ।
न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि ।
निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् ॥ ३०॥
उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव
विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति ।
लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा ।
वर्जितं च स्वतो भ्रान्त्या छायायामात्मनो यथा ॥ ३१॥
भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति ।
पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२॥
तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय
च विभज्य न्यायः प्रदर्श्यते ।
प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्छृतेः पृथक् ।
कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३॥
अथावशिष्टयोः स्वभावत एव ।
परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा ।
मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः ॥ ३४॥
कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित-
निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु
कर्मणेति । उच्यते ।
कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये ।
सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५॥
नन्वात्मज्ञानमप्यविद्योपादानम् । न हि
शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं
लभतः इति । नैष दोषः । यत आत्मज्ञानं हि
स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत्
पन्न
कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते
नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं
च । न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय
स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः । न च
क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन
कर्तारं सम्बध्नाति । आत्मज्ञानं पुनः पुरुषार्थसिद्धौ
नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं
वापेक्षते । कुत एतत् । यतः ।
बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते ।
आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् ॥ ३६॥
स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क-
मुपसंह्रियते ।
तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये ।
सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः ॥ ३७॥
ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन
बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि
कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया
आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां
प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः ।
बाधितत्वादविद्याया विद्यां सा नैव बाधते ।
तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् ॥ ३८॥
᳚कर्माज्ञानसमुत्थत्वात् ᳚ इत्युक्तो हेतुस्तस्य च
समर्थनं पूर्वमेवाभिहितं ᳚हितं सम्प्रेप्सताम् ᳚
इत्यादिना । तदभ्युच्चयार्थमविद्यान्वयेन च
संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह ।
ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् ।
श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु ॥ ३९॥
यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत
इत्युच्यते ।
दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः ।
वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥ ४०॥
अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत-
कर्तृत्वाद्यशेषकर्माधिकारकारणो
विधिप्रतिषेधचोदनासंदंशोपदष्टः
कर्मसु प्रवर्तमानः ।
शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् ।
उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१॥
आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ
घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख-
मोहविद्युच्चपलसम्पातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल-
कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभा-
शुभव्यामिश्रकर्मवायुसमीरितः ।
एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः ।
पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२॥
यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः ।
श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये ।
तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः ॥ ४३॥
का त्वसौ श्रुतिरिति चेत् ।
᳚यदा सर्वे प्रमुच्यन्त ᳚ ᳚इति नु ᳚ इति च
वाजिनः ।
कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे ॥ ४४॥
एष संसारपन्था व्याख्यातः । अथेदानीं तद्व्यावृत्तये
कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते
तथाभिधीयते ।
तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् ।
नित्येहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५॥
कीदृग्वैराग्यमुत्पद्यत इति । उच्यते ।
नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि ।
यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति ॥ ४६॥
एवं नित्यनैमित्तिककर्मानुष्ठानेन ।
शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥ ४७॥
यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं
कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते
तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध-
रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं
बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना-
नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं
चित्तदर्पणमवतिष्टते । अत इदमभिधीयते ।
व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते ।
तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४८॥
अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ
कृतसम्प्रत्तिकानि चरितार्थानि सन्ति ।
प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः ।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९॥
यतो नित्यकर्मानुष्ठानस्यैष महिमा ।
तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः ।
नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये ॥ ५०॥
यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् ।
᳚आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शम᳚ एवेति च स्मृतिः ॥ ५१॥
नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः
पापहानिस्ततश्चित्तशुद्धिस्ततः
संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं
ततस्तदुपायपर्येषणं
ततः सर्वकर्मतत्साधनसंन्यासस्ततो
योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता
ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं
ततोऽविद्योच्छेदस्ततश्च स्वात्मन्ये-
वावस्थानं ᳚ब्रह्मैव सन् ब्रह्माप्येति ᳚
᳚विमुक्तश्च विमुच्यते ᳚ इति ।
पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये ।
ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति ॥ ५२॥
न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ
यत्सम्भवति तत्कर्मापेक्षते । तदुच्यते ।
उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् ।
नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३॥
एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न
पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानत-
द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव
उक्तो ᳚हितं सम्प्रेप्सताम् ᳚ इत्यादिना ।
यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां
समुच्चयः सम्भवति तथा प्रतिपादितम् । अविद्योच्छित्तौ तु
लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं
साधकतमत्वं
नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते ।
तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह ।
संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।
साध्यसाधनभावत्वादेककालानवस्थितेः ॥ ५४॥
समप्रधानयोरप्यसम्भव एव ।
बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव ।
एकदेशानवस्थानान्न समुच्चयता तयोः ॥ ५५॥
कुतो बाध्यबाधकभावः । यस्मात् ।
अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी ।
समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६॥
तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म-
चोदनानामचोद्यस्वाभाव्यात्कुण्ठता । कथं तत् ।
अभिधीयते ।
बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते ।
ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि ॥ ५७॥
यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह ।
विदेहो वीतसन्देहो नेतिनेत्यवशेषितः ।
देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न ॥ ५८॥
तस्यार्थस्याविष्करणार्थमुदाहरणम् ।
मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति ।
अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते ॥ ५९॥
न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे । यत्र
प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते
निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते ।
स्थाणुं चोरधियालाय भीतो यद्वत्पलायते ।
बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते ॥ ६०॥
एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र
सर्वत्रायं न्यायः । यत्र तु न समकालं नापि
क्रमेणोपपद्यते
समुच्चयः सविषय उच्यते ।
स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते ।
आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ॥ ६१॥
यस्माद्गुणस्यैतत्स्वाभाव्यम् ।
यद्धि यस्यानुरोधेन स्वभावमनुवर्तते ।
तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ॥ ६२॥
यस्मात् ।
कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् ।
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३॥
स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः ।
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् ॥ ६४॥
समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् ।
यस्मात् ।
अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति ।
विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५॥
इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि ।
हेतुस्वरूपकार्याणि प्रकाशतमसोरिव ।
विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः ॥ ६६॥
एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे-
तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव
स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि । अहन्यहनि
द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम्
अज्ञानमपगच्छति ᳚देवो भूत्वा देवानप्येति ᳚ इति
श्रुतेः । अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति
विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न
भवति । किं तर्हि ।
एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं
विज्ञानान्तरमुत्पद्यते । अस्य पक्षद्वयस्य निवृत्तय
इदमभिधीयते ।
सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् ।
अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥ ६७॥
एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो
निराकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि
प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते ।
अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः ।
तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः ॥ ६८॥
तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये ।
ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् ।
आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९॥
तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म
प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र-
मेवानाप्तिनिमित्तं तस्मिन्पक्षे ।
मोहापिधानभङ्गाय नैव कर्माणि कारणम् ।
ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् ॥ ७०॥
अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते
नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य
स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् ।
तत्रैवम् ।
अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसम्भवः ।
तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते ॥ ७१॥
अपरस्मिंस्तु पक्षे विधिः ।
परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः ।
द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना ॥ ७२॥
इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् । कथम् ।
समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः ।
ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ॥ ७३॥
सर्वकर्मनिमित्तसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च
प्राप्नोति । यस्मात् ।
सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसम्भवः ।
विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४॥
स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् । यस्मात् ।
न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः ।
विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५॥
अज्ञानकार्यत्वान्न समकालं नापि क्रमेण
ज्ञानकर्मणोर्वस्त्ववस्तु-
तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं
वावलम्ब्याह ॥
अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् ।
स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् ॥ ७६॥
सिद्धत्वाच्च न साध्यम् । यतः ।
सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः ।
निश्श्वासोच्छ्वासवत्तस्मान्न नियोगमपेक्षते । ॥ ७७॥
अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म । तथा च सति
ज्ञानकर्मणो सम्भवतो भेदाभेदविषयत्वात्तयोः । तत्र
तावदयं पक्ष एव न सम्भवति । किं कारणम् । न हि
भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः
पदार्थमालिङ्गते । एवं ह्यनभ्युपगमे भिन्नाभिन्न-
पदार्थयोरलौकिकत्वं प्रसज्येत । अथ निष्प्रमाणकम-
प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि
ब्रह्म स्यादत आह ।
भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् ।
अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् ॥ ७८॥
तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय
इत्युपसंह्रियते ।
तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा ।
वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता ॥ ७९॥
यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं
नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय
यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते ।
᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इत्याद्यनुचितं बहु ।
यदभाणि तदन्याय्यं यथा तदधुनोच्यते ॥ ८०॥
योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते
सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् ।
कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः
सम्भवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य
प्रायश्चित्तैरिति । तृतीयोऽपि त्यागप्रकारोऽकर्त्रा-
त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता
नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि
तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् ।
अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् ।
किं कारणम् । अनिवृत्तेः । अनिर्वृत्तं हि चिकीर्षितं
कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः
स्वातन्त्र्यात् । निर्वृत्ते तु कर्मणि तदसम्भवाद्दुरनुष्ठेयः
प्रतिज्ञानार्थः । अशक्यप्रतिज्ञानाच्च ।
न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि
प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि
सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च ।
न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी
कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन
क्षपयेदिति । आनन्त्याच्च । न चोपचितानां
कर्मणामियत्तास्ति संसारस्यानादित्वात् । न च काम्यैः
प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये
सत्यविरोधादित्याह ।
न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते ।
निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु ॥ ८१॥
स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् ।
क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः ।
निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् ॥ ८२॥
प्रमाणाभावाच्च । कथम् ।
पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा ।
गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः ॥ ८३॥
अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो
भविष्यतीति । तन्न । यतः ।
पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया ।
काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ८४॥
एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति
निराकृतम् ॥
अथात्मज्ञानस्य सद्भावे प्रमाणासम्भव
उक्तस्तत्परिहारायाह ।
श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह ।
विदधत्युरुयत्नेन कर्मातो बहुकामदम् ॥ ८५॥
न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । अत आह ।
प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् ।
वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता ॥ ८६॥
यत्तूक्तं ᳚यत्नतो वीक्षमाणोऽपि ᳚ इति -- तत्रापि
भवत एवापराधः । कस्मात् । यतः ।
᳚परीक्ष्य लोकान् ᳚ इत्याद्या आत्मज्ञानविधायिनीः ।
नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न शृणोषि ताः ॥
८७॥
ननु ᳚ आत्मेत्येवोपासीत ᳚ ᳚आत्मा वा अरे
द्रष्टव्यः᳚ इत्यपूर्वविधिश्रुतेः
पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नैवम् ।
अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य
सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति ।
विध्यभ्युपगमेऽपि नापूर्वविधिरयम् । अत आह ।
नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः ।
अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ८८॥
यच्चोक्तं ᳚विश्वासो नान्यतोऽस्ति नः᳚ इति -- तदपि
निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् । किं
कारणम् । न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह
ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् । अत एव
सर्वप्रमाणावतारासम्भवं वक्ष्यति ।
प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् ।
अत आह ।
वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् ।
नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि ॥ ८९॥
यदप्युक्तं ᳚अन्तरेण विधिम् ᳚ इति--
तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति ।
यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते ।
आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने
नैतत्समञ्जसमित्याह ।
ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि ।
उपकाराय तन्नेति न न्याय्यं भाति नो वचः ॥ ९०॥
यदपि जैमिनीयं वचनमुद्घाटयसि -- तदपि
तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किं कारणम् । यतो न
जैमिनेरयमभिप्राय आम्नायः । सर्व एव क्रियार्थ इति ।
यदि ह्ययमभिप्रायोऽभविष्यत् ᳚ अथातो ब्रह्मजिज्ञासा ।
जन्माद्यस्य यतः ᳚
इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं
गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं
श्रीमच्छारीरकं नासूत्रयिष्यत् । असूत्रयच्च ।
तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां
स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत-
वस्तुपरिच्छेदसाम्यादिति । अत इदमभिधीयते ।
अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता ।
तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् ॥ ९१॥
अपि च । ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि
प्रवृत्तिर्दुर्लक्ष्या । यतः ।
स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि ।
देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् ॥ ९२॥
न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव-
स्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् ।
सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः ।
युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् ॥ ९३॥
प्रवृत्तिकारणाभावाच्च । यस्मात् ।
सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते ।
पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् ॥ ९४॥
किंच ।
न तावद्योग एवास्ति शरीरेणात्मनः सदा ।
विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५॥
यस्मादन्यथा नोपपद्यते ।
नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् ।
मन्त्र आहोररीकृत्य ᳚कुर्वन्᳚ इति न निर्द्वयम् ॥ ९६॥
यच्चोक्तं ᳚विरहय्य ᳚ इति तदपि न सम्यगेव । तथापि
तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या
यत्राभिप्रेतसम्बन्धं घटयितुं शक्नोत्याकाङ्क्षां च
वाक्यस्य पूरयति सैवाध्याहरणीया । एवंविशिष्टा च
क्रियास्माभिरभ्युपगतैव । सा तूपादित्सितवाक्यार्था-
विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति ।
षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष-
द्वैतानर्थस्यापराधीनप्रकाशस्य
विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं
स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न
विपरीतार्थप्रतिपादनपरमिति ।
धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते ।
एधीत्यादि तथा नेच्छेत्स्वतः सिद्धार्थवाचिनि ॥ ९७॥
न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण
तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति
शक्यमध्यवसातुमित्याह ।
तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् ।
अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि ॥ ९८॥
यस्मादेवम् ।
अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः ।
स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥ ९९॥
तस्माच्च कारणादेतदप्युपपन्नम् ।
स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः ।
श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १००।
इति प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ।
प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक-
विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या-
त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं
वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस
एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् ।
अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय
द्वितीयोऽध्याय आरभ्यते ।
श्रावितो वेत्ति वाक्यार्थं नचेत्तत्त्वमसीत्यतः ।
त्वम्पदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते ॥ १॥
योऽयमहम्ब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति
प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य
विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते ।
कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् ।
श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २॥
एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह ।
वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् ।
त्रिषु यादृच्छिकी सिद्धिः स्मार्यमाणे तु निश्चिता ॥ ३॥
नायमनैकान्तिको हेतुः । यतः ।
सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः ।
वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः ॥ ४॥
वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव
सर्वप्रमाणानामप्येवंवृत्तत्वात् ।
नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि ।
विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५॥
नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् ।
न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६॥
न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् ।
न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥ ७॥
तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् ।
अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ ॥ ८॥
अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् ।
न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते ॥ ९॥
विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः ।
तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते ॥ १०॥
वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते ।
तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११॥
आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः ।
प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया ।
स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२॥
अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीराद्-
अशुचिराशेर्निराशो भविष्यसि ।
मन्यसे तावदस्मीति यावदस्मान्न नीयसे ।
श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे ॥ १३॥
शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः ।
दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४॥
श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह ।
बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा ।
बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५॥
यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते
विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः ।
वर्चस्के सम्परित्यक्ते दोषतश्चावधारिते ।
यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥ १६॥
तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः ।
यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥ १७॥
एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं
यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः ।
तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म-
न्यवतिष्ठत इत्याह ।
रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः ।
विवेकिनः कुतः कोपः स्वदेहावयवेश्विव ॥ १८॥
इतश्चानात्मा देहादिः ।
घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः ।
स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः ॥ १९॥
देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः
प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते ।
चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् ।
तूलायते तदेवाहंधियाघ्रातमचेतसाम् ॥ २०॥
प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह ।
स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव ।
देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१॥
कथं देहं सूक्ष्मं निराकृर्यादिति । उच्यते ।
अहंममत्वयत्नेच्छा नात्मधर्माः कृशत्ववत् ।
कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२॥
वैधर्म्ये दृष्टान्तः ।
नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् ।
तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३॥
एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा
मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्ग्राहक
आत्मेति तन्निवृत्त्यर्थमाह ।
यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः ।
घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः ॥ २४॥
अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे
तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति
चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः ।
यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु ।
द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत्
॥ २५॥
प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्-
सुस्थमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च
विकल्पदूषणाभिधानम् ।
नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते ।
अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः ॥ २६॥
न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो
ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह ।
द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता ।
कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते ॥ २७॥
सन्तु काममनात्मधर्मा ममत्वादयो
यथोक्तन्यायबलादनात्मतयैव
च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव
प्रसिद्धेरहम्ब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति
चेत्तन्न ।
अहन्धर्मस्त्वभिन्नश्चेदहम्ब्रह्मेति वाक्यतः ।
गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् ॥ २८॥
कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते ।
योऽयं स्थाणुः पुमानेष पुन्धिया स्थाणुधीरिव ।
ब्रह्मास्मीतिधियाशेषा ह्यहम्बुद्धिर्निवर्त्यते ॥ २९॥
अहम्परिच्छेदव्यावृत्तौ न किंचिदव्यावृत्तं
द्वैतजातमवशिष्यते
द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह ।
निवृत्तायामहम्बुद्धौ ममधीः प्रविलीयते ।
अहम्बीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी ॥ ३०॥
विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या ।
तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् ।
भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते ॥ ३१॥
अनन्वयाच्च नात्मधर्मोऽहङ्कारः ।
आत्मनश्चेदहन्धर्मो यायान्मुक्तिसुषुप्तयोः ।
यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२॥
आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च ।
यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् ।
नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्ध्रुवम् ॥
३३॥
स्यात्परिहारः
स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति
चेत्तन्न ।
आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः ।
अविकारि तु तद्ब्रह्म ᳚न हि द्रष्टुरि᳚तिश्रुतेः ॥ ३४॥
अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं
प्राप्नोति ।
आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः ।
उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् ॥ ३५॥
अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न ।
सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते ।
अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६॥
एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् ।
प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः ।
यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ ३७॥
धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः ।
धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः ।
मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति ॥ ३८॥
तस्माद्विस्रब्धमुपगम्यताम् ।
द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् ।
दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ॥
३९॥
सर्वसंव्यवहारलोपश्च प्राप्नोति । यस्मात् ।
द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः ।
यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्छृतिः ॥ ४०॥
कुतः । यस्मात् ।
नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः ।
स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१॥
उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः ।
आर्तमन्यद्दृशेः सर्वं ᳚नेति नेती᳚ति चासकृत् ।
वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२॥
᳚महाभूतान्यहंकार᳚ इत्येतत्क्षेत्रमुच्यते ।
न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि ॥ ४३॥
अधुना प्रकृतार्थोऽपसंहारः ।
एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् ।
मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः ॥ ४४॥
कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् ।
न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः ।
आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि ॥ ४५॥
तस्मादज्ञानविजृम्भितमेतत् ।
दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् ।
अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्छति ॥४६॥
तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः ।
दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् ।
जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७॥
यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः ।
मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् ।
अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः ॥ ४८॥
अपहारो यथा भानोः सर्वतो जलपात्रकैः ।
तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९॥
न च विरुद्धधर्मणामेकत्रानुपपत्तिः ।
कल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः ।
कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति ॥ ५०॥
न चायं क्रियाकारकफलात्मक आभास ईषदपि
परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् ।
अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् ।
असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१॥
वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् ।
सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी ।
कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् ॥ ५२॥
सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव
तस्यात्मनात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया
तत्कार्येण वा सम्बधोऽभूदस्ति भविष्यति वा
तस्यापरिलिप्तदृष्टिस्वाभाव्यात् ।
दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् ।
अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः ॥ ५३॥
इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत-
योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः
संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहम्पदार्थयोः
सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं
प्राप्नोति । वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते
प्रसिद्धलक्षणागुणवृत्तिभिः ।
नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि ।
अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥ ५४॥
प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् ।
अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते ॥ ५५॥
आत्मना चाविनाभावमथवा विलयं व्रजेत् ।
न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६॥
कीदृक्पुनर्वस्तु लक्ष्यम् ।
नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः ।
स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः ॥ ५७॥
अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं
परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी
चेत्यहंकारादेरनात्मधर्मत्वमुक्तं
केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च ।
अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य
कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह ।
एष सर्वधियां नृत्तमविलुप्तैकदर्शनः ।
वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् ॥ ५८॥
ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा-
दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि
विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं
सर्वतार्किकोपद्रवापसर्पणाय वर्त्म सम्भावयामः ।
उच्यते । विस्रब्धैः सम्भाव्यतामनुभवमात्रशरणत्वात्-
सर्वतार्किकप्रस्थानानाम् । तदभिधीयते ।
इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः ।
त्वाच्छिरस्कवचोजालैर्मोहयन्तीतरेतरम् ॥ ५९॥
अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन-
भ्युपगमेऽपि दोष एव । यस्मादाह ।
᳚वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् ।
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ᳚ ॥ ६०॥
बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१॥
अस्य परिहारः ।
ऊर्ध्वं गच्छति धूमे खं भिद्यते स्विन्न भिद्यते ।
न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का ॥ ६२॥
इत्येतत्प्रतिपत्त्यर्थमाह ।
अविक्रियस्य भोक्तृत्वं स्यादहम्बुद्धिविभ्रमात् ।
नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् ॥ ६३॥
यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् ।
यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ।
संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥ ६४॥
अयमत्रांशो विवक्षित इति ज्ञापनायाह ।
यदवस्था व्यनक्तीति तदवस्थैव सा पुनः ।
भण्यते न व्यनक्तीति घटादीनामसंनिधौ ॥ ६५॥
तत्र च ।
सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः ।
संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः ॥ ६६॥
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते ।
उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः ॥ ६७॥
मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति । यतः ।
यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् ।
भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६८॥
तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः ।
शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा ।
नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् ॥ ६९॥
एवं च सति बुद्धेः परिणामित्वं युक्तम् ।
अतीतानागतेहत्यान्युगपत्सर्वगोचरान् ।
वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७०॥
ततश्चैतत्सिद्धम् ।
अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा ।
निर्यत्नोऽविक्रियोऽनिच्छन्निच्छन्तीं चाप्यलुप्तदृक् ॥ ७१॥
द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः ।
निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि ॥ ७२॥
अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् ।
स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३॥
सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः ।
निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् ॥ ७४॥
निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः ।
सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति ॥ ७५॥
एतस्माच्च कारणादयमर्थो व्यवसीयताम् ।
दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् ।
दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा ॥ ७६॥
पूर्वस्यैव व्याख्यानार्थमाह ।
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७॥
एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो
व्यवस्थापनायाह ।
प्रमाणतन्निभेष्वस्या नोच्छित्तिर्मम संविदः ।
मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि ॥ ७८॥
उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा ।
नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ॥७९॥
सुखदुःखसम्बन्धानां च प्रत्यक्षत्वान्न
श्रद्धामात्रग्राह्यमेतत् ।
सुखदुःखादिसम्बन्धां यथा दण्डेन दण्डिनम् ।
राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ८०॥
एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् ।
येनैवास्या भवेद्योगः सुखकुम्भादिना धियः ।
तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी ॥ ८१॥
अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी । न हि
कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि-
सिद्धिरस्ति ।
परिणामिधियां वृत्तं नित्याक्रमदृगात्मना ।
षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा ॥ ८२॥
सत आत्मनश्चाविकारित्वे युक्तिः ।
स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः ।
दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः ॥ ८३॥
एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन
निरस्ताशेषविकारैकात्म्यं
प्रतिपादितमुपपत्तिभिः । अथाधुना श्रौतीं
प्रक्रियामवलम्ब्योच्यते ।
अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः ।
कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता ॥ ८४॥
षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि ।
दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः ॥ ८५॥
प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च
कूटस्थत्वं युक्तिभिरुच्यते ।
प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः ।
न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ८६॥
स्वसम्बद्धार्थ एव ।
सावशेषपरिच्छेदिन्यत एव न कृत्स्नवित् ।
नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् ॥ ८७॥
अतोऽवगतेरेकत्वात् ।
चण्डालबुद्धेर्यर्दृष्टृ तदेव ब्रह्मबुद्धिदृक् ।
एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् ॥ ८८॥
कस्मात् ।
अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः ।
तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते ॥ ८९॥
सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या-
प्यप्रतिबुद्धदेहसम्बद्धादशेषदुःखसम्बन्ध इति चेत्तन्न ।
बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः ।
बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९०॥
न चेयं स्वमनीषिकेति ग्राह्यम् । कुतः ।
श्रुत्यवष्टम्भात् ।
शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी ।
भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः ॥ ९१॥
का त्वसौ श्रुतिः ।
दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया ।
विज्ञातारमरे केन विजानीयाद्धियां पतिम् ॥ ९२॥
यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो
जात्यन्धा इवानुकम्पनीया इत्याह ।
तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः ।
जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते ॥ ९३॥
प्रमाणोपपनस्यार्थस्यासम्भावनात्तदनुकम्पनीयत्वसिद्धिः ।
तदेतदाह ।
यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् ।
खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः ॥ ९४॥
अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत
आह ।
अवगत्यात्मनो यस्मादागमापायि कुम्भवत् ।
साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् ॥ ९५॥
सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् ।
तदुच्यते ।
बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति ।
आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति ॥ ९६॥
यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक
आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया
निर्माल्यवदपविद्धः । तथापि तु नैवासौ स्वतस्सिद्धात्म-
व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव ।
किं तर्हि ।
स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र-
शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव
तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह ।
ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् ।
एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७॥
यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय
एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् । नैव हि कार्यं
स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति ।
अत आह ।
व्यवधीयन्त एवामी बुद्धिदेहघटादयः ।
आत्मत्वादात्मनः केन व्यवधानं मनागपि ॥ ९८॥
स्वयमनवगमात्मकत्वादनवगमात्कत्वं च
मोहमात्रोपादानत्वात् ।
प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता ।
अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते ॥ ९९॥
वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः ।
घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता ।
अहम्बुद्धेरहङ्गम्याद्दुःखिनश्च तथा दृशेः ॥ १००॥
एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु-
सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह ।
अभ्रयानं यथा मोहाच्छशभृत्यध्यवस्यति ।
सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते ॥ १०१ ॥
दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः ।
चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२॥
सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म-
न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः ।
अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति
चेत्तदाह ।
दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी ।
मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् ॥ १०३॥
तद्बाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत
आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः ।
अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते ।
अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा ॥ १०४॥
लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः
प्रमाणफलम् ।
अविद्यानाशमात्रं तु फलमित्युपचर्यते ।
नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः ॥ १०५॥
यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् ।
न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः ।
न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् ॥ १०६॥
द्रष्ट्रादेरसाधारणरूपज्ञापनायाह ।
बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् ।
अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा ॥ १०७॥
सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति
कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह ।
ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् ।
हानोपादानयोस्साक्षी हानोपादानवर्जितः ॥ १०८॥
ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः
कस्मान्नेति चेत्तदाह ।
स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः ।
अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९॥
ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः
स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा-
दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत
आह ।
धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः ।
निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् ॥ ११०॥
यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव
तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् ।
उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते ।
जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११॥
स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव-
बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे-
रनात्मनो द्वैतेन्द्रजालस्य ।
न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः ।
नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया ॥ ११२॥
यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः ।
नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः ।
अस्थूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३॥
सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध-
मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा-
नुपादेयत्वात् ।
आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः ।
षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ ११४॥
कुतो न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् ।
नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् ।
सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः ॥ ११५॥
यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं
फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध-
मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील-
त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक-
संसारोऽहंममत्वयत्नेच्छादिमिथ्याध्यास एवेति
सिद्धमिममर्थमाह ।
अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया ।
इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः ॥ ११६॥
तस्यास्य मुमुक्षोः श्रौताद्वचसः
स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं
निश्चितार्था प्रमा जायते ।
नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः ।
भानाविव तमोध्यासोऽपह्नवश्च तथा मयि ॥ ११७॥
सोऽयमेवम्प्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति ।
यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् ।
प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् ॥ ११८॥
इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः ।
विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् ॥ ११९॥
इति द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण
आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश
उपपत्तिभिरतिष्ठिपम् । आत्मा च
जन्मादिषड्भावविकारवर्जितः
कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च
मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं
सम्बन्धोऽन्यत्र चोदनापरिप्रापितात् यथा
᳚इयमेवर्गग्निः साम᳚ इति । तच्चाज्ञानं
स्वात्ममात्र निमित्तं न सम्भवतीति
कस्यचित्कस्मिंश्चिद्विषये
भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं
निर्द्धारितमात्मानात्मा च ।
तत्रानात्मनस्तावन्नाज्ञानेनाभिसम्बन्धः । तस्य हि
स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते ।
सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् ।
न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं
स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् ।
न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत
आश्रयस्याश्रयि सम्भवति । तदनपेक्षस्य च तस्य
निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो
नानात्मविषयमज्ञानं
सम्भवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं
नापि
तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं
तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । ᳚सोऽहं भगवो
मन्त्रविदेवास्मि नात्मवित् ᳚इति श्रुतेः ।
न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या-
दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च
सम्भवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं
कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव
स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं
पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः ।
नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च
ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते ।
घटत एव । कथम् ।
अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः ।
तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च
वाक्यादेव तत्पदपदार्थाभिज्ञस्य ।
अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन
प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः
कृतान्वयव्यतिरेकः ।
यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्छति ।
प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥ १॥
यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां
प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत
एतद्ध्यवसीयते । यस्मात् ।
तत्पदं प्रकृतार्थं स्यात्त्वम्पदं प्रत्यगात्मनि ।
नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥ २॥
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत
इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः ।
सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥ ३॥
अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं
वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो
न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं
विधिपरिप्रापितः किं वा स्वरसत एवात्र
पुमान्प्रवर्तत इति । किंचातः । शृणु ।
यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं
न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय
व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना
अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति ।
अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो
भवति । यदि पुनर्यदृच्छातः प्रवर्तते तदा न
कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह ।
शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा ।
अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥ ४॥
युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः ।
वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥ ५॥
अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि-
ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं
तन्निबन्धनो ह्यात्मनोऽनेकानर्थसम्बन्धस्तस्य
चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं
तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष
महिमा योऽयमात्मानात्मनोर्विभाग इति ।
तन्निराकरणायेदमुच्यते ।
भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि ।
कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६॥
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् ।
मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं
वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य
चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः
सज्जन्मेष्यते ᳚कुतस्तु खलु सोम्यैवं स्यात् ᳚ इति
᳚कथमसतः सज्जायेत ᳚ इति श्रुतेरिति । अत्रोच्यते ।
अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः ।
एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥ ७॥
सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन ।
कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह ।
प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः ।
स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥ ८॥
अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा
तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति ।
अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति
विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः
प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते ।
तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति
तन्निराकरणायेदमुच्यते ।
सामानाधिकरण्यादेर्घटेतरखयोरिव ।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ९॥
कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं
विशेषणविशेष्ययोः सामर्थ्योक्तिः ।
निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् ।
प्रत्यक्ता च तदर्थस्य त्वम्पदेनास्य संनिधेः ॥ १०॥
उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च
संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह ।
कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः ।
बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११॥
बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे
ये त्वसाधारणे तयोर्विशेषवचनम् ।
बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया ।
तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥ १२॥
यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य-
विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह ।
धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः ।
प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥ १३॥
भेदहेतसम्भवं दर्शयन्नाह ।
न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा ।
व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥ १४॥
यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो
नात्मनस्तस्मादेतत्सिद्धम् ।
कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः ।
कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥ १५॥
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च
लक्षणमुच्यते ।
विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते ।
प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६॥
सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् ।
व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥ १७॥
आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं
तयोरसाधारणलक्षणाभिधानार्थमाह ।
बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् ।
आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १८॥
बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः ।
आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥ १९॥
तयोः कूटस्थपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न
पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह ।
सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते ।
हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २०॥
कुतः कूटस्थात्मसिद्धिरिति चेद्यतः ।
न हानं हानमात्रेण नोदयोऽपीयता यतः ।
तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥ २१॥
एवम् ।
आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः ।
ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥ २२॥
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं
प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि-
त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते ।
तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण
प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह ।
तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् ।
अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥ २३॥
त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु ।
संसारितामसंत्यज्य सापि स्यादभिधानजा ॥ २४॥
विरुद्धोद्देशनत्वाच्च
पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह ।
उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् ।
आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥ २५॥
यत एतदेवमतोऽनुपादित्सितयोरपि
तत्त्वमर्थयोर्विशेषणविशेष्यभावो
भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः ।
तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा ।
लक्ष्यलक्षणसम्बन्धस्तयोः स्यात्प्रत्यगात्मना ॥ २६॥
कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् ।
लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा ।
तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥ २७॥
इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव ।
यस्मात् ।
यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति ।
तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ २८॥
कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा
तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते ।
प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं
बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना-
त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप
एव केवलोऽवशिष्यते तस्मादुच्यते ।
देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः ।
पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥ २९॥
यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् ।
प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता ।
चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥ ३०॥
यस्मादेवमतो विशुद्धमवसीयताम् ।
पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः ।
पदार्थाँल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥ ३१॥
कुतः पुनः सामान्यमात्रवृत्तेः पदस्य
वाक्यार्थप्रतिपत्तिहेतुत्वमिति । बाढम् ।
सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः ।
श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥ ३२॥
अन्वयव्यतिरेकपुरस्सरं वाक्यमेव
सामानाधिकरण्यादिनाविद्या-
पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न
त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह ।
बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति ।
निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३॥
न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न
प्राप्नोतीत्यनर्थं चाप्नोतीत्याह ।
अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः ।
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥ ३४॥
न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं
प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा
विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा
प्रतिपादनमिति-- न चैतेषामन्यतमदपि कारणमस्ति ।
यत आह ।
मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा ।
बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५॥
न च संशयितव्यमवगमयति । यतः ।
सर्वसंशयहेतौ हि निरस्ते कथमात्मनि ।
जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६॥
अपि च ।
यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः ।
न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥ ३७॥
अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह ।
बोधेऽप्यनुभवो यस्य न कथंचन जायते ।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८॥
अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं
प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न
श्रुत्युदाहरणमुपन्यस्यति ।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।
स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥ ३९॥
यथा ᳚तत्सत्यं स आत्मा तत्त्वमसि ᳚ इत्यस्य
शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा ᳚य एषोऽक्षिणि
पुरुषो
दृश्यते ᳚ इत्याद्या ᳚अथ यो वेदेदं जिघ्राणि ᳚
इत्यन्ता तथा ᳚अहं ब्रह्मास्मि ᳚ इत्यस्य शेषः ।
अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः ।
बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥ ४०॥
कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो
बुबोधयिषित इति । यतः ।
एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः ।
इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥ ४१॥
निर्णेनेक्ति च पृष्टो मुनिः ।
आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते ।
बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२॥
यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो
जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव
वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह ।
अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्छति ।
तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३॥
अत एव च यः प्रतिज्ञातोऽर्थो ᳚नाहंग्राह्ये न
तद्धीने ᳚इत्यादिः स युक्तिभिरुपपादित इति
कृत्वोपसंह्रियते ।
गृहीताहम्पदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते ।
प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४॥
पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह ।
पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि ।
प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥ ४५॥
तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो
हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां
मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं
निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं
विजानीयात् । तदेतदाह ।
अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः ।
अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥ ४६॥
प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य-
कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द-
लक्षणमात्मानं तत्त्वमस्यहम्ब्रह्मास्मीत्यादिवाक्यं
संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन
साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे-
त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै-
र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न
यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् ।
न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया
नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् ।
अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं
प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ-
मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ-
विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक-
वाक्यस्येव वक्तव्यमित्ययमारम्भः ।
नित्यावगतिरूपत्वादन्यमानानपेक्षणात् ।
शब्दादिगुणहीनत्वात्संशयानवतारतः ॥ ४७॥
तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते ।
प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥ ४८॥
श्रुतिरपीममर्थं निर्वदति ।
दिद्दक्षितपरिछिन्नपराग्रूपादिसंश्रयात् ।
विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥ ४९॥
न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः ।
न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५०॥
अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते ।
प्रत्यक्षस्य पराक्त्वान्न सम्बन्धग्रहणं यतः ।
आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥ ५१॥
एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव
पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् ।
एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह ।
प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः ।
सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥ ५२॥
यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहम्ब्रह्मास्मीति
वाक्यार्थस्तस्मात् ।
अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः ।
वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३॥
सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त-
दभिज्ञस्याहम्ब्रह्मास्मीत्याविर्भवति ।
द्रष्टृदृश्यविभागेनागमापायि-
साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते ।
दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि ।
मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥ ५४॥
तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि ।
प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा ।
अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५॥
तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं
प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्-
धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः
शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया
व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ-
पूर्वकत्वमवसीयते । तदेतदाह ।
घटादयो यथा लिङ्गं स्युः परम्परयाहमः ।
दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥ ५६॥
ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते-
ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स
आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः
प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य
इति ।
यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित-
विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि
वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः ।
लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा-
दात्मस्वभावेनानात्मनो हानोपादानयोः
सम्बन्धग्रहणात्कमतिशयं
वाक्यं कुर्यात् । मैवं वोचः ।
लिङ्गाधीनत्वात्तत्प्रतिपत्तेः ।
न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति
᳚यमेवैष वृणुते तेन लभ्यः ᳚ इति श्रुतेः । अत आह ।
लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् ।
सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥ ५७॥
ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं
वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया
तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं
निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते
वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् ।
किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य
सुषुप्ते सम्भवात् । यदि हि सुषुप्तेऽज्ञानं
नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन-
निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण-
भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो-
च्छित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य-
मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य
एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्-
किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं
सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान-
मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य-
द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं
प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् ।
कथमभिव्यञ्जकाभाव इति चेच्छृणु ।
बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा ।
नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥ ५८॥
कश्चिदतिक्रान्तं प्रतिस्मृत्य ᳚दृश्यत्वादहमप्येवं
लिङ्गं स्याद्द्रष्टुरात्मनः ᳚ इति
निर्युक्तिकमभिहितमित्याह । किं कारणम् ।
अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह
घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो
लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति
तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते ।
दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः ।
ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥
एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त-
रूपावच्छेदायाहंवृत्तिर्व्याप्रियते । तयावच्छिन्नं
सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया
विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो-
रवभासकावभास्यसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धान्तर-
मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं
परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये-
णोपकारिणापकारिणा वात्मात्मीयं सम्बन्धं प्रतिपद्यते ।
तदभिधीयते ।
इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः ।
अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६०॥
एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि
विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् ।
अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये
ममप्रत्ययो भवति विपर्यये चेदम्प्रत्यय इति कथमवगम्यते ।
अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह ।
अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम ।
घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१॥
मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः
पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण
व्यतिरेकप्रदर्शनार्थाह ।
विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः ।
उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२॥
आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह ।
वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते ।
अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥ ६३॥
द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् ।
तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म-
न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति
न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि
वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय-
शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च
श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा
तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं
प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः ।
यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते
यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः
कथं वाक्यं श्राव्यत इति । उच्यते ।
नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा ।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ ६४॥
अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे
समर्पयिष्यन्नाह ।
अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना ।
वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥ ६५॥
नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते
प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह ।
सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी ।
सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६॥
तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण
निवृत्तिः ।
बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् ।
प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥ ६७॥
कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः ।
जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः ।
त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८॥
सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव ।
न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन
प्रतिपादयति ।
दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते ।
आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९॥
एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि ।
सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥ ७०॥
प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते ।
किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि-
कारकभेदानपह्नवेन जायते तथैवोताशेषकारक-
ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते ।
प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् ।
अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१॥
यस्मादेवम् ।
विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते ।
दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥ ७२॥
आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ
कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते
प्रतिविधीयते ।
भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया ।
अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥ ७३॥
इममर्थं दृष्टान्तेन बुद्धावारोहयति ।
स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति ।
व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥ ७४॥
यस्माच्छ्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं
तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव ।
विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना-
नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का
सामान्यलिङ्गतत्वात्तयोर्न विपर्यये ।
अनालिङ्गितसामान्यौ न जिहासितवादिनौ ।
व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥ ७५॥
अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन
च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो-
रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु
नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् ।
तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः ।
नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥ ७६॥
अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते ।
प्रत्यगात्मार्थाभिधायिनस्त्वम्पदादुभयं प्रतीयतेऽहं
दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं
दुःखीत्यनेनाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक
एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति
प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति
नावध्रियते । तत इदमभिधीयते ।
पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् ।
प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥ ७७॥
कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं
सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न
चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि ।
त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता
सानेनावबोध्यते ।
अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य
परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि-
चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते ।
तत्त्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् ।
नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥ ७८॥
कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन
प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं
निहन्तीति । उच्यते । विरोधात् । तदुच्यते ।
संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह ।
प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥ ७९॥
तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते ।
अज्ञातपुरुषार्थत्वाच्छ्रौतत्वात्तत्त्वमर्थयोः ।
स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥ ८०॥
एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न
प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते ।
यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं
वाक्यार्थं सम्भावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत
एव तस्मिन्नपि पक्ष उच्यते ।
प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् ।
स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥ ८१॥
यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं
न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो
दुस्सम्भाव्य इति । तदुच्यते ।
वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता ।
वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसम्भवः ॥ ८२॥
भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् ।
उच्यते ।
अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् ।
न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥ ८३॥
य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं
ब्रूयात् ।
नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा ।
इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥ ८४॥
प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव
भिन्नविषयत्वात् ।
ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव
बाध्यबाधकभावः स्यात् । अतस्तदुच्यते ।
प्रत्यक्षं चेन्न शाब्दं स्याच्छाब्दं चेदक्षजं
कथम् ।
प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥ ८५॥
न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति
शब्दादीनां प्रत्येकं प्रमाणत्वादत आह ।
स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् ।
इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ८६॥
न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः
प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः
प्रत्यक्षादिप्रमाणैरुद्धाट्यते ।
दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् ।
कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥ ८७॥
अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं
सम्भावितदोषान्मुच्यते । अत आह ।
प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते ।
अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ८८॥
अथ मतम् ।
निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् ।
प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥ ८९॥
ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय-
व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते
तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां
प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति ।
यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः
पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः ।
अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् ।
न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥ ९०॥
अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् ।
नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥ ९१॥
अपि चाह ।
दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता ।
स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥ ९२॥
ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् ।
यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य ।
न हि पदार्थशक्त्याधानकृच्छास्त्रम् । प्रसिद्धं च
लोके ।
भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् ।
न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥ ९३॥
यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् ।
तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति
निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य
च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु
व्यभिचारित्वा-
त्सम्भावनायाश्च पुरुषपरिकल्पनामात्राव-
ष्टम्भत्वाच्चेति ।
निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता ।
को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥ ९४॥
सम्बन्धार्थ एव ।
अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि ।
᳚पराञ्चि खानि᳚ त्येतस्माद्वचसो गम्यते श्रुतेः ॥ ९५॥
अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण
विरुध्यत इत्यसकृदवोचाम । यत्रापि
वाक्यप्रत्यक्षयोर्विरोधाशङ्का
तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति ।
अत आह ।
प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् ।
गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासम्भवाद्बुधः ॥ ९६॥
तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् ।
अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः ।
यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७॥
कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया
कल्पनयेति तत्राह ।
त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते ।
समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९८॥
कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः
साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः
अत आह ।
व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः ।
कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९॥
ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासम्भवे समानेऽहंवृत्तौ
कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि
विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते ।
चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः ।
पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादात्मानयोच्यते ॥ १००॥
वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः ।
अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१॥
यथोक्तेन ।
अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया ।
लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२॥
नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् ।
षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः ।
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १०३॥
यदि शब्दोऽभिधानाभिधेयत्वसम्बन्धाङ्गीकारेण नात्मनि
वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः ।
उच्यते ।
असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते ।
आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥ १०४॥
कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं
सदनभिधेयेऽर्थे
प्रमां जनयतीति । शृणु यथानभिसम्बद्धमप्यनभिधे-
येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह ।
शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः ।
सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५॥
न हि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः ।
तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥ १०६॥
यथा च ।
बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा ।
बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥ १०७॥
᳚असत्ये वर्त्मनि स्थित्वा᳚ इत्युपश्रुत्यातिविस्मितो महता
सम्भ्रमेण कश्चिच्चोदयति ।
नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये ।
नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥ १०८॥
इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना ।
सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥ १०९॥
एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते ।
प्रकृतं
चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं
जनयतीति । तत्रैव कारणान्तरमुच्यते ।
अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता ।
निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥ ११०॥
अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो
दुस्सम्भाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव
तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते ।
अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते ।
प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११॥
यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत
आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्सम्भावनाप्यस्ति
यत आह ।
ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् ।
सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२॥
सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि
सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते
यतोऽतः ।
अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः ।
ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥ ११३॥
न व्यावृत्तिर्यथा भावाद्भावेनैवाविशेषतः ।
अभावादप्यभावत्वाद्व्यावृत्तिर्न तथेष्यते ॥ ११४॥
भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति
चेच्छृणु ।
यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि
स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् ।
अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया ।
भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ ११५॥
अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्सम्भाव्या
अविद्येति । नैतदेवम् । कुतः । यत आह ।
कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसम्भवात् ।
कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसम्भवः ॥ ११६॥
यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां
निरन्वयामपनुदति तस्मात् ।
अद्धातममनादृत्य प्रमाणं सदसीति ये ।
बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥ ११७॥
एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं
कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि
प्रतिपत्तिः स्यादत आह ।
इदं चेदनृतं ब्रूयात्सत्यामवगतावपि ।
न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥ ११८॥
न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं
युक्तम् । यस्मात् ।
न चेदनुभवोऽतः स्यात्पदार्थावगतावपि ।
कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥ ११९॥
न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते ।
कोऽसौ न्याय इत्याह ।
नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः ।
निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥ १२०॥
भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् ।
अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥ १२१॥
न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं
प्राप्नोति । तदाह ।
यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्छ्रुतम् ।
प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥ १२२॥
अथ मन्यसे ।
जानीयाच्चेत्प्रसंख्यानाच्छब्दस्सत्यवचाः कथम् ।
पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥
१२३॥
न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव-
त्प्रतिपत्तिर्भविष्यतीति सम्भावयामः । यस्मात् ।
युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् ।
साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥ १२४॥
अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न
शक्नोषीति चेच्छ्रवणादावेव सम्पादयिष्यामः । कथम् ।
प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः ।
ईषच्छ्रुतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति ॥ १२५॥
ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या
बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति
ततश्चारूढपतितत्वं
न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते ।
त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः ।
तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥ १२६॥
इति तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् ।
संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥ १॥
संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् ।
वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥ २॥
आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः ।
सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३॥
अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः ।
ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥
असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः ।
अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः ॥ ५॥
इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि ।
द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६॥
केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः
क्रियत इति । उच्यते ।
न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् ।
तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७॥
विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा ।
अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा ॥ ८॥
उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति ।
उच्यते । अन्वयव्यतिरेकाभ्याम् ।
त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते ।
नावगच्छाम्यहं यस्मान्निजात्मानमनात्मनः ॥ ९॥
अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति
प्रमाणाद्विनिश्चित्य
किमिति बुभुत्सातो नोपरमते । शृणु ।
अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः ।
दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः ॥ १०॥
अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः
किमिति न प्रतिपद्यत इति। यस्मात् ।
यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते ।
दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति ॥ ११॥
कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि-
रात्मानमनात्मवन्न वीक्षत इति । उच्यते ।
चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् ।
यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति ॥ १२॥
प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन
तावत्तददर्शनकारणमुक्तम् ।
अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते ।
धीविक्रियासहस्राणां हानोपादानधर्मिणाम् ।
सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते ॥ १३॥
क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति । किंचातः ।
यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् ।
अथानात्मनि तस्याप्यचैतन्यान्न विवेकसम्बन्ध इति । उच्यते ।
᳚दाह्यदाहकतैकत्र᳚ इत्युक्तपरिहारात् ।
बुद्धावेव विवेकोऽयं यदनात्मतया भिदा ।
बुद्धिमेवोपमृद्नाति कदलीं तत्फलं यथा ॥ १४॥
सोऽयमतत्त्वे तत्त्वदृक् ।
अनुमानप्रदीपेन हित्वा सर्वाननात्मनः ।
संसारैकावलम्बिन्या तदभावं धियेप्सति ॥ १५॥
योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग
लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्-
प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक-
प्रबोधववदित्यत आह ।
संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति ।
शशो निमीलनेनेव मृत्युं परिजिहीर्षति ॥ १६॥
अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् ।
इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् ।
᳚यच्चक्षुषे᳚ति विस्रब्धं ᳚न दृष्टे ᳚रिति
च स्फुटम् ॥ १७॥
बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः ।
श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी ॥ १८॥
एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः ।
सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद-
लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष-
सिद्धस्वभावत्वात्कैश्चिच्छ्रद्धधानैर्न प्रतीयते ।
तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् ।
भगवत्पूज्यपादैश्च उदाहार्येवमेव तु ।
सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९॥
किं परमात्मन उपदेश उतापरमात्मन इति । किं चातः ।
यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक
उपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार-
स्वभावत्वान्निष्फल उपदेशः । एवमुभयत्रापि
दोषवत्त्वादत आह ।
᳚अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा ᳚ ।
इति पक्षमुपादाय पूर्वपक्षं निशात्य च ॥ २०॥
तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् ।
युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः ।
यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् ॥ २१॥
तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं
प्रतिपद्यते । शृणु ।
᳚अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।
स्यादेतदहमित्यत्र युक्तिरेवावधारणम् ᳚ ॥ २२॥
कथं तौ युक्तिरित्यत्राह ।
᳚नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि ।
न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ᳚ ॥ २३॥
᳚एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः ।
श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये ᳚ ॥ २४॥
तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते ।
᳚अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि ।
सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ᳚ ॥ २५॥
अन्यच्चान्वयव्यतिरेकोदाहरणम् । तथा ।
᳚छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते ।
तथा शिष्टेन सर्वेण येनयेन विशेष्यते ॥ २६॥
विशेषणमिदं सर्वं साध्वलंकरणं यथा ।
अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् ॥ २७॥
तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् ।
अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः ॥ २८॥
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः ।
अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् ᳚ ॥ २९॥
᳚दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् ।
तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः ᳚ ॥ ३०॥
सर्वन्यायोपसंग्रहः ।
᳚नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः ।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ ३१॥
अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् ।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ ३२॥
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ᳚ ॥ ३३॥
वीक्षापन्नस्योदाहरणम् ।
᳚नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् ।
अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥ ३४॥
अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा ।
विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ᳚ ॥ ३५॥
सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन्
कथमुत्थाप्यत इत्याह ।
यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः ।
करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः ॥ ३६॥
अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः ।
गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥ ३७॥
स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत
उत नेतीति । अत्र ब्रूमः । कूटस्थावगतिशेषमात्रत्वा-
त्प्रतिपत्तेरत आह ।
दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा ।
नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३८॥
कुत एतत् । यस्मात् ।
पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् ।
अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९॥
तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते । यस्मात् ।
अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते ।
अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः ॥ ४०॥
अस्यार्थस्य द्रढिम्न उदाहरणम् ।
᳚कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ᳚ ॥ ४१॥
᳚अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ᳚ ॥ ४२॥
तथा भगवत्पादीयमुदाहरणम् ।
᳚सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् ᳚ ॥
४३॥
एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः ।
अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः ॥ ४४॥
तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म
एवेत्याह ।
इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् ।
योऽविकारो विजानाति परागेवास्य तत्तमः ॥ ४५॥
यत एतदेवमतस्तस्यैव
बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य
स्वकार्यद्वितीयाभिसम्बन्धो न त्वविकारिण आत्मन इत्याह
दृष्टान्तेन ।
रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः ।
सुखदुःखादिसम्बन्धश्चित्तस्यैवं विकारिणः ॥ ४६॥
तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह ।
सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि ।
पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि ॥ ४७॥
सोऽयं कूटस्थज्ञानमूर्तिरात्मा ।
यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः ।
पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति ॥ ४८॥
एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः ।
भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९॥
तत्र दृष्टान्तः ।
आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः ।
बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः ॥ ५०॥
स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् ।
सर्वमेवानुजानाति सर्वमेव निषेधति ।
भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः ॥ ५१॥
सर्वस्योक्तत्वादुपसंहारः ।
परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् ।
तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया ॥ ५२॥
एतावदिहोक्तम् ।
नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन ।
इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः ॥ ५३॥
एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि-
न्मुक्तप्रग्रहतेति । उच्यते ।
ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः ।
न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते ॥ ५४॥
कुत एतज्ज्ञेयाभिन्नमिति । यतः ।
प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः ।
प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः ॥ ५५॥
एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव-
स्तत्कारणस्योत्सारितत्वादित्याह ।
वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् ।
निवृत्तिमपि मृद्नाति सम्यग्बोधः प्रवृत्तिवत् ॥ ५६॥
सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् ।
ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७॥
देशकालाद्यसम्बद्धाद्देशादेर्मोहकार्यतः ।
नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ॥ ५८॥
सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः ।
सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ॥ ५९॥
वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न
किंचिदवशिष्यत इत्युक्तः परिहारः । अथापरस्साम्प्रदायिकः
परिहारः ।
निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति ।
विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् ॥ ६०॥
यतः प्रवृत्तिबीजमुच्छिन्नं तस्मात् ।
तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः ।
तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः ॥ ६१॥
अथालेपकपक्षनिरासार्थमाह ।
बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२॥
कस्मान्न भवति । यस्मात् ।
अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः ।
धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३॥
प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः ।
᳚यस्य सर्वे समारम्भाः ᳚ ᳚प्रकाशं चे ᳚ति
सर्वदृक् ॥ ६४॥
तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं
मुमुक्ष्ववस्थायामपि न सम्भवति यथेष्टाचरणम् ।
तदाह ।
᳚ यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते ।
लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते ᳚ ॥ ६५॥
तत्र दृष्टान्तः ।
᳚क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति ।
मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति ᳚ ॥ ६६॥
यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि
घटते मुमुक्षुत्वेऽपि च तस्मात् ।
रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु ।
कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥ ६७॥
सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः
प्रसूतिरिति । उच्यते ।
अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः ।
ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६८॥
उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या-
त्मकामानित्वदयो निवर्तन्त उत नेति । नेति ब्रूमः । किं
कारणम् । निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो
न तु नियोगवशात् । कथं तर्हि । शृणु ।
उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः ।
अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९॥
यत एतदेवमतः ।
इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः ।
यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् ॥ ७०॥
न दातव्यश्चायं ग्रन्थः ।
नाविरक्ताय संसारान्नानिरस्तैषणाय च ।
न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१॥
ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते ।
न चानिरस्तकर्मेदं जानीयादञ्जसा ततः ॥ ७२॥
निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः ।
निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् ॥ ७३॥
श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान्
ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् ।
मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः
सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥
७४॥
सुभाषितं चार्वपि नामहात्मनां
दिवाकरो नक्तदृशामिवामलः ।
प्रभाति भात्येव विशुद्धचेतसां
निधिर्यथापास्ततृषां महाधनः ॥ ७५॥
विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप
योगात्
सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य
भक्तया ।
विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां
कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६॥
वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्छिदस्मद्धियो
दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् ।
यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः
प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः ॥ ७७॥
सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता ।
नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्ध्रुवम्
॥ ७८॥
इति चतुर्थोऽध्यायः ॥ ४॥
इति ।
Encoded and proofread by Sunder Hattangadi