॥ नाट्यशास्त्रम् अध्याय २ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः । भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ १॥ अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥ २॥ इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ ३॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥ ४॥ दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । (यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ॥) नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ ५॥ श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ ६॥ इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥ ७॥ विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥ ८॥ प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥ ९॥ अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥ १०॥ देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ ११॥ (प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥) प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १२॥ अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ १३॥ अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥ १४॥ यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् । अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ १५॥ चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ १६॥ चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥ १७॥ अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ १८॥ मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥ १९॥ यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् ॥ २०॥ प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ २१॥ [प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥) कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ]॥ देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥ २२॥ तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २३॥ भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥ २४॥ समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ २५॥ प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥ २६॥ शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । (त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ।, हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि ।) पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥ २७॥ कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥ २८॥ अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥ २९॥ छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥ ३०॥ तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ ३१॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥ ३२॥ शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥ ३३॥ पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥ ३४॥ पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥ ३५॥ शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ ३६॥ सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥ ३७॥ काषायवसनाश्चैव विकलाश्चैअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥ ३८॥ गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥ ३९॥ पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ ४०॥ तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ ४१॥ मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ ४२॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ ४३॥ भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ ४४॥ स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥ ४५॥ स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥ ४६॥ सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ ४७॥ सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ ४८॥ सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ ४९॥ नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥ ५०॥ निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ ५१॥ वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥ ५२॥ सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ ५३॥ स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥ ५४॥ ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥ ५५॥ स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥ ५६॥ कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥ ५७॥ पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥ ५८॥ मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥ ५९॥ कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ ६०॥ अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः । 'यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥ ६१॥ जयावहो नरेन्द्रस्य तथा त्वमचलो भव ।' स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ ६२॥ एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ ६३॥ चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥ ६४॥ उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ ६५॥ नानावर्णानि देयानि तथा भूतप्रियो बलिः । आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥ ६६॥ भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् । एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ ६७॥ रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥ ६८॥ कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ ६९॥ लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥ ७०॥ कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः । अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥ ७१॥ एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ ७२॥ शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ ७३॥ वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ ७४॥ एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् । ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥ ७५॥ नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ ७६॥ निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥ ७७॥ सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ ७८॥ एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ ७९॥ कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ ८०॥ मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ ८१॥ गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ ८२॥ सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ ८३॥ समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥ ८४॥ लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् । एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ ८५॥ पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥ ८६॥ शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥ ८७॥ विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ ८८॥ बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ ८९॥ दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥ ९०॥ इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ ९१॥ रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥ ९२॥ विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे । अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ ९३॥ स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥ ९४॥ तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥ ९५॥ नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥ ९६॥ जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ ९७॥ अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥ ९८॥ पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ ९९॥ समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥ १००॥ एवमेतेन विधिना चतुरश्रं गृहं भवेत् । अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ १०१॥ त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ १०२॥ द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ १०३॥ विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ १०४॥ एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥ १०५॥ इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 2
% File name             : natya02.itx
% itxtitle              : nATyashAstram adhyAyaH 02
% engtitle              : Natya Shastra Chapter 2
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP