॥ नाट्यशास्त्रम् अध्याय ५ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः । भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ १॥ यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥ २॥ तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ३॥ पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ४॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ ५॥ पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ ६॥ यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ ७॥ अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥ ८॥ प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ ९॥ सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥ १०॥ एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥११॥ ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥ १२॥ गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ १३॥ ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ १४॥ चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥ १५॥ एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ १६॥ कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥ १७॥ परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥ १८॥ वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥ १९॥ तथा पाणिविभागार्थं भवेत्संघोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥ २०॥ कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥ २१॥ [अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् ।] यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ २२॥ यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥ २३॥ आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ २४॥ अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥ २५॥ यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ २६॥ शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ २७॥ विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥ २८॥ उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥ २९॥ अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥ ३०॥ चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ ३१॥ नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ ३२॥ तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ ३३॥ सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥३४॥ सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा ॥ ३५॥ ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ ३६॥ एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥ ३७॥ देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ ३८॥ किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥ ३९॥ निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥ ४०॥ एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ ४१॥ धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ॥ ४२॥ निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥४३॥ निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥ ४४॥ आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ ४५॥ परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥ ४६॥ मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥४७॥ वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ ४८॥ तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः ॥ ४९॥ युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥५०॥ रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ ५१॥ तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ ५२॥ आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ ५३॥ देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥ ५४॥ सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥५५॥ दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ ५६॥ [या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ॥ ] निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ ५७॥ प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ ५८॥ अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥ ५९॥ चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥ ६०॥ परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥ ६१॥ शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥ ६२॥ एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥ ६३॥ पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ६४॥ एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ ६५॥ पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ ६६॥ स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ ६७॥ भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥ ६८॥ पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ ६९॥ त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ ७०॥ एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥ ७१॥ पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ ७२॥ ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ ७३॥ कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥ ७४॥ द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥७५॥ भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥७६॥ वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ ७७॥ ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥ ७८॥ भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ ७९॥ आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ ८०॥ सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥८१॥ तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥ ८२॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ ८३॥ वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः ॥ ८४॥ चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥ ८५॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ ८६॥ आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ ८७॥ चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः । यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥ ८८॥ भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ ८९॥ ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् । ९०॥ वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ ९१॥ ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥९२॥ वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥ ९३॥ वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ ९४॥ दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥९५॥ प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥ ९६॥ दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ ९७॥ वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥ ९८॥ परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ ९९॥ यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ १००॥ तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥ १०१॥ चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ १०२॥ गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥ १०३॥ [चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ॥ ] सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥ १०४॥ नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ १०५॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ १०६॥ राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥ १०७॥ काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ १०८॥ नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ १०९॥ एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥ ११०॥ नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ १११॥ यथा - दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ ११२॥ ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ ११३॥ राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ ११४॥ पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥ ११५॥ पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥ ११६॥ चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥ ११७॥ यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ ११८॥ सहोमया क्रीडितवान्नानाभावविचेष्टतैः । कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ ११९॥ चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ १२०॥ वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥ १२१॥ वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ १२२॥ चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥ १२३॥ पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ १२४॥ चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥ १२५॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥ १२६॥ (यथा-) पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य ॥ १२७॥ भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ १२८॥ अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥ १२९॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ १३०॥ पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ १३१॥ ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ १३२॥ तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥ १३३॥ विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥ १३४॥ (वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥ पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ॥) प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ १३५॥ सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ १३६॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥ १३७॥ अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ १३८॥ शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ १३९॥ अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः ॥ १४०॥ आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ १४१॥ वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥ १४२॥ वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥ १४३॥ हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥ १४४॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ १४५॥ केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ १४६॥ आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ १४७॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ १४८॥ एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ १४९॥ वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥ १५०॥ उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥ १५१॥ सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ १५२॥ यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥ १५३॥ नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ १५४॥ एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ १५५॥ ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ १५६॥ पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ १५७॥ कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥ १५८॥ खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ १५९॥ ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ॥ लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥ प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः । (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥ कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥ अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ॥ पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः ।) प्रयुज्य विधिनैवं तु पूर्वरऽगं प्रयोगतः ॥ १६१॥ स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् ॥ १६२॥ प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्स्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा ॥ १६३॥ त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥ १६४॥ सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥ १६५॥ प्रस्तवा। ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥१६६॥ दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा ॥ १६७॥ मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥१६८॥ प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ १६९॥ य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ १७०॥ यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥ १७१॥ न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ १७२॥ इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः । कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ १७३॥ एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ १७४॥ इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः । Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 5
% File name             : natya05.itx
% itxtitle              : nATyashAstram adhyAyaH 05
% engtitle              : Natya Shastra Chapter 5
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP