॥ नाट्यशास्त्रम् अध्याय ६ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षष्ठोऽध्यायः । पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ १॥ ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ २॥ भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ ३॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ४॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ ५॥ न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ ६॥ एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ ७॥ किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ ८॥ विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ९॥ रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ १०॥ अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ ११॥ नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ १२॥ स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ १३॥ सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ १४॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ १५॥ एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ १६॥ रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ १७॥ निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ १८॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १९॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ २०॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ २१॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ २२॥ आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ २३॥ लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ २४॥ चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ २५॥ पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ २६॥ शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥] ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥ चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ २८॥ घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥२९॥ गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ ३०॥ एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ३१॥ तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह - यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि - गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह - रस इति कः पदार्थः । उच्यते - आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः । अत्रानुवंश्यौ श्लोकौ भवतः - यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ३२॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ ३३॥ अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः - नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३४॥ नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥ ३५॥ न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ३६॥ व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ३७॥ यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ ३८॥ तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा - शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र - शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ ३९॥ शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ४०॥ वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ ४१॥ अथ वर्णाः - श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ ४२॥ गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ ४३॥ अथ दैवतानि - शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ ४४॥ बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ४५॥ एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः । स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते । तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार- वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद- मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः । अत्राह - यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ ४६॥ अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः । ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ४७॥ नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४८॥ अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन- दोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दन- दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ ४९॥ विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥५०॥ स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ ५१॥ स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ॥५२॥ तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ ५३॥ अत्र श्लोकाः - ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ५४॥ उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ५५॥ अथ मध्यमानाम् - आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत्॥५६॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ ५७॥ अथाधमानाम् - अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ ५८॥ संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ ५९॥ हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६०॥ इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ ६१॥ अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात- व्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास- स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि- जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु- स्वरभेदादयः । अत्रार्ये भवतः - इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम संभवति ॥ ६२॥ सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ६३॥ अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च- गद्गदादयः । अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते - अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः । अत्रानुवंश्ये आर्ये भवतः - युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ ६४॥ नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६५॥ इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६६॥ अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायन- विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः । अत्रार्ये रसविचारमुखे - उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ ६७॥ स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६८॥ अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध- दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते ।तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग- चापलजडतात्रासापस्मारमरणादयः । अत्रार्याः - विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६९॥ गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ ७०॥ एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥७१॥ करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ७२॥ अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः - अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ ७३॥ मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ ७४॥ अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः । अत्रानुवंश्ये आर्ये भवतः - यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ ७५॥ स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ७६॥ शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ ७७॥ धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ ७८॥ दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ ७९॥ व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ ८०॥ बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ ८१॥ दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ ८२॥ [ अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभि- रनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचाणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः । अत्रार्याः श्लोकाश्च भवन्ति - मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥ बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥ न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥ पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥] एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ८३॥ इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 6
% File name             : natya06.itx
% itxtitle              : nATyashAstram adhyAyaH 06
% engtitle              : Natya Shastra Chapter 6
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP