॥ नाट्यशास्त्रम् अध्याय ७ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ सप्तमोऽध्यायः । भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते - वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र- विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ १॥ वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २॥ नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३॥ अथ विभाव इति कस्मात् । उच्यते-विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञा- तमित्यनर्थान्तरम् । अत्र श्लोकः - बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ ४॥ अथानुभाव इति कस्मात् । उच्यते- अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति । अत्र श्लोकः - वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ ५ ॥ एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् । भवति चात्र श्लोकः - लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ ६॥ तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते । अत्र श्लोकः- योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ ७॥ अत्राह- यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते- यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज- त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह- को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः - यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥ ८॥ लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः - रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना- प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथन- भ्रूक्षेपकटाक्षादिभिरनुभावैः । अत्र श्लोकः - इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ ९॥ हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः । भवति चात्र श्लोकः - परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ १०॥ शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते। तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि- पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा- वैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधम् - आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति । भवन्ति चात्रार्याः - [आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥] हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ ११॥ पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ १२॥ प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ १३॥ स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ १४॥ क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुट- गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः॥ १५॥ अत्रार्या भवन्ति - भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ १६॥ किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ १७॥ अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ १८॥ अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ १९॥ कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ २०॥ उत्साहो नाम उत्तमप्रकृतिः। स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै- रुत्पद्यते। तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकः - असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ २१॥ भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन-कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन- स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्र श्लोकाः - गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥ २२॥ गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ २३॥ सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ २४॥ अत्रार्या भवति - करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयोऽस्य ॥ २५॥ जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि- भिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः - नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ २६॥ विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि- रनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः - कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ २७॥ एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः । व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह - व्यभिचारिण इति कस्मात् । उच्यते - वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह - कथं नयन्तीति । उच्यते - लोकसिद्धान्त एषः - यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्र- यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः । तत्र निर्वेदो नाम दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन- वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् । अत्र श्लोकः - दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ २८॥ अत्रानुवंश्ये आर्ये भवतः - इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ २९॥ बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ ३०॥ ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन- सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना- नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः - वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ ३१॥ गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥ ३२॥ शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहण- नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य- स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ ३३॥ अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् । अत्रार्ये भवतः - द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ ३४॥ किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥३५॥ असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा- नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः - परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ ३६॥ भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ ३७॥ मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति - ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ ३८॥ कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ३९॥ उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ ४०॥ स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥४१॥ स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ ४२॥ नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ ४३॥ रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ४४॥ सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ ४५॥ एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ ४६॥ श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन- वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या - नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४७॥ आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाषशयना- सननिद्रातन्द्रीसेवनादिभिरनुभावैः । अत्रार्या - आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥ ४८॥ दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना- दिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या - चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥ ४९॥ चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन- तनुकार्श्यादिभिरनुभावैः । अत्रार्ये भवतः - ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ ५०॥ सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ ५१॥ मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा- नुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमण- पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकस्तावदार्या च - अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ५२॥ व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ ५३॥ स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण- चिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनये- च्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः - सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥ ५४॥ स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ ५५॥ धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक- मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्रा- प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु- शोचनादिभिरनुभावैः । अत्रार्ये भवतः - विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ५६॥ प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥ ५७॥ व्रीडा नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञान-प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श- नखनिकृन्तनादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः - किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥ ५८॥ लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ ५९॥ चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार- ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति - अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ ६०॥ हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव- गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन- कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः । अत्रार्ये भवतः - अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ ६१॥ नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः । ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ ६२॥ आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवण- व्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद- विस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र- सङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्ग- सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन- भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवण- कृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन- विलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पण- शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ ६३॥ अत्रार्ये भवतः - अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥ ६४॥ अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ ६५॥ जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन- व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण- तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः । अत्रार्या भवति - इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः ॥ ६६॥ गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा- ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि- क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः अत्रार्या भवति - विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ६७॥ विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य- निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा- निःश्वसितध्यानादिभिरनुभावैः । अत्रार्या श्लोकौ - कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ ६८॥ वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥६९॥ औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना- दिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुख- विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति - इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥ ७०॥ निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार- स्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन- गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन- मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः । अत्रार्ये भवतः - आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ ७१॥ तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः॥ ७२॥ अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच-ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि- कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद- स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः - भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ ७३॥ सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ ७४॥ सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन- प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्वसितंसन्नगात्राक्षिनिमीलन- सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः - निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ ७५॥ सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ ७६॥ विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त- तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः । अत्रार्या भवति - आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ ७७॥ अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः । अत्र श्लोकौ - आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ ७८॥ उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ ७९॥ अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजय- गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकित- कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोको भवति - धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ ८०॥ उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् । अत्रार्या भवति - चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ ८१॥ भवति चात्र श्लोकः - नानाशात्रार्थबोधेन मतिः संजायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥८२॥ व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना- ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख- शोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि- लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र- स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना- दिभिरनुभावैरभिनेयाः । अत्र श्लोको भवति - समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ ८३॥ उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात- वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित- प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल- चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा- नुकरणादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः - इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ ८४॥ अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ ८५॥ मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्य- गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात- विनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः - तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन- हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् । अत्र श्लोको भवति - व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ ८६॥ अभिघातजे तु नानाप्रकाराअभिनयविशेषाः। शस्त्रक्षताहिदष्टविषपीत- गजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपन- स्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः । अत्र श्लोकौ भवतः - कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ ८७॥ फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ ८८॥ अत्रार्या भवति - श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ ८९॥ इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ ९०॥ त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु- रवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु- स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः । अत्र श्लोको भवति - महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ९१॥ वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिन- येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः । अत्र श्लोको भवति - विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ ९२॥ एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्था- नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ ९३॥ अत्राह - किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते - इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः - इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे - स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ ९४॥ अत्रार्याः । तत्र - क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ ९५॥ हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ ९६॥ आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् । अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ ९७॥ शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ॥ ९८॥ स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ ९९॥ एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ १००॥ निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥ १०१॥ व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ १०२॥ मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ १०३॥ स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ १०४॥ मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ १०५॥ बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ॥१०६॥ निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ १०७॥ एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ १०८॥ [ अत्र श्लोकाः - शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥] आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ १०९॥ [ यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ॥] ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ ११०॥ निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ १११॥ गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ ११२॥ असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ ११३॥ रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ ११४॥ स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा । त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥ ११५॥ अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ ११६॥ स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ ११७॥ ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ ११८॥ न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ ११९॥ [ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥] नानाभावार्थसम्पन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ १२०॥ एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ १२१॥ इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 7
% File name             : natya07.itx
% itxtitle              : nATyashAstram adhyAyaH 07
% engtitle              : Natya Shastra Chapter 7
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001, March 19, 2011
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP