॥ नाट्यशास्त्रम् अध्याय १९ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनविंशोऽध्यायः । इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् । पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः ॥ १॥ इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् । आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् ॥ २॥ यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते । तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः ॥ ३॥ कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् । तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ ४॥ कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् । कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च ॥ ५॥ (लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा । दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता ॥) ६॥ संसारे फलयागे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः ॥ ७॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ ८॥ औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते । महतः फलयोगस्य स फलारम्भ इष्यते ॥ ९॥ अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति । परं चौत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः ॥ १०॥ ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते । भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ ११॥ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तां फलप्राप्तिं सगुणां परिचक्षते ॥ १२॥ अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ १३॥ सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः । एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १४॥ आसां स्वभावभिन्नानां परस्परसमागमात् । विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १५॥ इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् । तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १६॥ पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः । नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् ॥ १७॥ एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः । द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १८॥ प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् । यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः ॥ १९॥ इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ २०॥ बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २१॥ स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति । फलावसानं यच्चैव बीजं तत्परिकीर्तितम् ॥ २२॥ प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ २३॥ यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम् प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २४॥ फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् ॥ २५। यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते । तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ २६॥ एतेषां यस्य येनार्थो यतश्च गुण इष्यते । तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २७॥ एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् । प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते ॥ २८॥ आगर्भादाविमर्शाद्वा पताका विनिवर्तते । कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ २९॥ यत्रार्थे चिन्तितेऽन्यस्मिन्स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३०। सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३१॥ वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् ॥ ३२॥ अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ ३३॥ द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥ ३४॥ [यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् । विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ]॥ ३५॥ चतुष्पताकापरमं नाटके कार्ययिष्यते । पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ॥३६॥ मुखं प्रतिमुखं चैव गर्भो विमर्श एव च । तथा निर्वहणं चेति नाटके पञ्च सन्धयः ॥ ३७॥ [पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते । शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः ]॥ ३८॥ यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३९॥ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ४०॥ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ४१॥ गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा । क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४२॥ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ४३॥ एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः । तथा प्रकरणास्यापि शेषाणां च निबोधत ॥ ४४॥ डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ । न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४५॥ व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ । गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ ४६॥ द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च । मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा ॥ ४७॥ [वीथी चैव हि भाणश्च तथा प्रहसनं पुनः । कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ]॥ ४८॥ एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः । पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत ॥ ४९॥ सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः । स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥५०॥ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ५१॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ॥५२॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ ५३॥ उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् । हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः ॥ ५४॥ काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् । दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ ५५॥ [तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् । कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ॥ ५६॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ ५७॥ उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे । तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः ॥ ५८॥ विलासः परिसर्पश्च विधूतं‍ तापनं तथा । नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः ॥ ५९॥ निरोधश्चैव विज्ञेयः पर्युपासनमेव च । पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ ६०॥ एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ ६१॥ संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च । तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ॥६२॥ एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत । अपवादश्च संफेटो विद्रवः शक्तिरेव च ॥ ६३॥ व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ॥ विरोधनमथादानं छादनं च प्ररोचना ॥ ६४॥ व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च । सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ६५॥ द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् । भाषणं पूर्ववाक्यं च काव्यसंहार एव च ॥ ६६॥ प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः । चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ ६७॥ [सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च । कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ] ॥ ६८॥ पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् । काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ ६९॥ यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ ७०॥ गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् । सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते ॥ ७१॥ सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता । बीजार्थस्योपगमनं समाधानमिति स्मृतम् ॥ ७२॥ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् । कुतूहलोत्तरावेगो विज्ञेया परिभावना ॥ ७३॥ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः । प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ॥ ७४॥ संघातभेदनार्थो यः स भेद इति कीर्तितः । [एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ॥ ७५॥ समीहा रतिभोगार्था विलास इति संज्ञितः । दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ ७६॥ कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः । अपायदर्शनं यत्तु तापनं नाम तद्भवीत् ॥ ७७॥ क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम् दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता ॥ ७८॥ उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः । या तु व्यसनसम्प्राप्तिः स निरोधः प्रकीर्तितः ॥ ७९॥ क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् । विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ ८०॥ प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते । उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः ॥ ८१॥ चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ ८२॥ तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते । चित्रार्थसमवाये तु वितर्को रूपमिष्यते । यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ ८३॥ भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते । सामदानादिसम्पन्नः संग्रहः परिकीर्तितः ॥ ८४॥ रूपानुरूपगमनमनुमानमिति स्मृतम् । रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् । गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ ८६॥ संरम्भवचनं चैव तोटकं त्विति संज्ञितम् । कपटेनातिसंधानं ब्रुवतेऽधिबलं बुधाः ॥ ८७॥ भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः । शङ्का भयत्रासकृतो विद्रयः समुदाहृतः ॥ ८८॥ दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः । रोषग्रथितवाक्यं तु सम्फेटः परिकीर्तितः ॥ ८९॥ गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः । विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ॥९०॥ व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः । प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् ॥ ९१॥ वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता । मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ ९२॥ ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः । कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ ९३॥ बीजकार्योपगमनमातानमिति संज्ञितम् । अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ ९४॥ प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी । [प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ ९५॥ सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता । ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत] ॥ ९६॥ [एतान्यवमृशेऽङ्गानि संहारे तु निबोधत] । मुखबीजोपगमनं सन्धिरित्यभिधीयते ॥ ९७॥ कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः । उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ॥ ९८॥ अनुभूतार्थकथनं निर्णयः समुदाहृतः । परिवादकृतं यस्यात्तदाहुः परिभाषणम् ॥ ९९॥ लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः । समागमस्तथार्थानामानन्दः परिकीर्तितः ॥ १००॥ दुःखस्यापगमो यस्तु समयः स निगद्यते । शुश्रूषाद्युपसम्पन्नः प्रसादः प्रीतिरुच्यते ॥ १०१॥ अद्भुतस्य तु सम्प्राप्तिरूपगूहनमिष्यते । सामदानादि सम्पन्नं भाषणं समुदाहृतम् ॥१०२॥ पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् । वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते ॥ १०३॥ नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ १०४॥ कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ १०५॥ ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु । एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ १०६॥ सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः । सामभेदस्तथा दण्डः प्रदानं वध एव च ॥ १०७॥ प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च । साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ १०८॥ ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् । दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् ॥ १०९॥ [विष्कम्भचूलिका चैव तथ चैव प्रवेशकः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥११०॥ मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः । विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ १११॥ शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ११२॥ अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा । अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ ११३॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ ११४॥ अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य । बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ ११५॥ विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा । यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ] ॥ ११६॥ अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि । अस्माद्विनिःसृतानि तु भाण इवैअकप्रयोज्यानि ॥ ११७॥ [भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा । प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ॥ ११८॥ गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका । प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ ११९॥ उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ १२०॥ आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् । गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते ॥ १२१॥ [या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् । साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते ] ॥ १२२॥ प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता । मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ १२३॥ [बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् । चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ]॥ १२४॥ आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् । अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् ॥ १२५॥ नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् । चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका ॥ १२६॥ [यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् । सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ १२७॥ नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् । स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ॥ १२८॥ प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः । स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥ १२९॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् ॥ १३०॥ पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् । प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ १३१॥ [रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् । नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ॥ १३२॥ मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् । श्लिष्टभावरसोपेतं वैचित्र्यार्थं द्विमूढके ॥ १३३॥ उत्तमोत्तमकं विद्यादनेकरससंश्रयम् । विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् ॥ १३४॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ॥ १३५॥ यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् । मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥ १३६॥ दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता । करोतिविविधान् भावांस्तद्वै भाविकमुच्यते ॥ १३७॥ एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः । तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ॥१३८॥ पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् ॥ १३९॥ महारसं महाभोगमुदात्तवचनान्वितम् । महापुरुषसंचारं साध्वाचारजनप्रियम् ॥१४०॥ सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥१४१॥ अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । नानापुरुषसंचारा नाटकेऽसौ विधीयते ॥ १४२॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । न तत् कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते ॥ १४३॥ योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ १४४॥ देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्। ॥१४५॥ यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्। ॥१४६॥ सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः । नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १४७॥ [अनेकशिल्पजातानि नैककर्मक्रिअयाणि च । तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ] ॥ १४८॥ लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् । संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् ॥ १४९॥ भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः ॥ १५०॥ कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च । सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ १५१॥ तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् । मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ।१५२॥ चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये । वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः ॥ १५३॥ दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः । अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥१५४॥ इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 19
% File name             : natya19.itx
% itxtitle              : nATyashAstram adhyAyaH 19
% engtitle              : Natya Shastra Chapter 19
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : October 6, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP