॥ नाट्यशास्त्रम् अध्याय २५ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् पञ्चविंशोऽध्यायः । अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ १॥ उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ २॥ प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ ३॥ दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ ४॥ एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् सम्प्रदर्शयेत् ॥ ५॥ स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ ६॥ वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ॥ ७॥ ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥८॥ यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ॥ ९॥ यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ १०॥ गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ ११॥ यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ॥ १२॥ भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ॥ १३॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ १४॥ विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा । त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः ॥ १५॥ उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ १६॥ वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् ॥ १७॥ कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥१८॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ १९॥ एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा । नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् ॥ २०॥ दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ २१॥ दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २२॥ छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ २३॥ एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते ॥ २४॥ उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ २५॥ उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ २६॥ अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ २७॥ सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ २८॥ गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ २९॥ शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ ३०॥ अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् ॥ ३१॥ ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ ३२॥ प्रमोदजननारंभैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ ३३॥ स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ ३४॥ कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ ३५॥ मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ ३६॥ यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ ३७॥ एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ ३८॥ यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसंकारः सर्वं पश्यति तन्मयम् ॥ ३९॥ भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ ४०॥ विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ ४१॥ गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ ४२॥ यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः ॥ ४३॥ एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ॥ ४४॥ यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते । सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ ४५॥ एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ ४६॥ स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ ४७॥ प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ ४८॥ धैर्यलीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ ४९॥ करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ ५०॥ यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ ५१॥ भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ ५२॥ तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः । क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना ॥ ५३॥ कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ ५४॥ निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् ॥ ५५॥ शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ ५६॥ आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ ५७॥ आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ ५८॥ भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा ॥ ५९ ॥ यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । संभ्रमावेगचेष्टाभिश्शस्त्रसम्पातनेन च ॥ ६० ॥ पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ ६१॥ सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ ६२॥ प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ ६३॥ मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ ६४॥ गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ ६५॥ पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ ६६॥ धैर्यमाधुर्यसम्पन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ ६७॥ शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ॥ ६८॥ रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ ६९॥ गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ ७०॥ अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ ७१॥ प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ ७२॥ अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ ७३॥ नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ ७४॥ दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ ७५॥ तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ ७६॥ परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ ७७॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ ७८॥ पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ ७९॥ ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ ८०॥ विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ ८१॥ कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ ८२॥ एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ ८३॥ संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ ८४॥ आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ ८५॥ अपवारितकं चैव जनान्तिकमथापि च । दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ॥ ८६॥ परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं सम्प्रयोजयेत् ॥ ८७॥ नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ ८८॥ सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ॥ ८९॥ कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ ९०॥ इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ ९१॥ पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥८२॥ अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ ९३॥ हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ ९४॥ स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ॥ ९५॥ मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ॥ ९६॥ प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ ९७॥ हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ ९८॥ वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ ९९॥ नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ १००॥ व्याधिप्लुते च मरणं निषण्णगात्रैस्तु सम्प्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् ॥ १०१॥ विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसम्प्रयुक्तं विस्फुरितांगक्रियोपेतम् ॥ १०२॥ प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ १०३॥ फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ १०४॥ तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ॥ १०५॥ सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ १०६॥ उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ १०७॥ उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च ॥ १०८॥ अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ १०९॥ संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ ११०॥ संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ १११॥ साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् ॥ ११२॥ प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ ११३॥ भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ ११४॥ पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ ११५॥ एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ ११६॥ नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ ११७॥ या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ ११८॥ एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ ११९॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ १२०॥ वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ १२१॥ न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ १२२॥ नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ १२३॥ एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ १२४॥ एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ १२५॥ इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम पञ्चविंशोऽध्यायः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 25
% File name             : natya25.itx
% itxtitle              : nATyashAstram adhyAyaH 25
% engtitle              : Natya Shastra Chapter 25
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : November 23, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP