॥ पञ्चदशी ॥

पञ्चदशी श्लोक सङ्ख्या १५७० १ तत्त्वविवेकः । ६५ २ भूतविवेकः । १०३ ३ पञ्चकोषविवेकः । ४३ ४ द्वैतविवेकः । ६७ ५ महावाक्यविवेकः । ८ ६ चित्रदीपः । २९० ७ तृप्तिदीपः । २९७ ८ कूटस्थ दीपः । ७६ ९ ध्यानदीपः । १५८ १० नाटक दीपः । २६ ११ ब्रह्मानन्दे योगानन्दः । १३४ १२ ब्रह्मानन्दे आत्मानन्दः । ९० १३ ब्रह्मानन्दे अद्वैतानन्दः । १०५ १४ ब्रह्मानन्दे विद्यानन्दः । ६५ १५ ब्रह्मानन्दे विषयानन्दः । ३५
तत्त्वविवेकोनाम - प्रथमः परिच्छेदः । नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने । सविलासमहामोहग्राहग्रासैककर्मणे ॥ १॥ तत्पादाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् । सुखबोधाय तत्त्वस्य विवेकोऽयं विधीयते ॥ २॥ शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् । ततोविभक्ता तत्संविदैक्यरूप्यान्न भिद्यते ॥ ३॥ तथा स्वप्नेऽत्र वेद्यन्तु न स्थिरं जागरे स्थिरम् । तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते ॥ ४॥ सुप्तोत्त्थितस्य सौषुप्ततमोबोधो भवेत्स्मृतिः । सा चावबुद्धविषयावबुद्धं तत्तदा ततः ॥ ५॥ सबोधोविषयाद्भिन्नो न बोधात्स्वप्नबोधवत् । एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६॥ मासाब्दायुगकल्पेषु गतागम्येष्वनेकधा । नोदेति नास्तमेत्येका संविदेषा स्वयंप्रभा ॥ ७॥ इयमात्मा परानन्दः परप्रेमास्पदं यतः । मा न भुवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥ तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमन्तेन परमानन्दतात्मनः ॥ ९॥ इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् । परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥ अभाने न परं प्रेम भाने न विषयस्पृहा । अतोभानेऽप्यभाताऽसौ परमानन्दतात्मनः ॥ ११॥ अध्येतृवर्गमध्यस्थ पुत्राध्ययन शब्दवत् । भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥ प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि । तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३॥ तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ । इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४॥ चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता । तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥ सत्त्वशुद्धाविशुद्धिभ्यां मायाऽविद्ये च ते मते । मायाबिम्बोवशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥ अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । सा कारणशरीरं स्यात्प्राज्ञस्तत्राभिमानवान् ॥ १७॥ तमः प्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत्पवनतेजोऽम्बु भुवोभूतानि जज्ञिरे ॥ १८॥ सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् । श्रोत्रत्वगक्षिरसनघ्राणाख्यामुपजायते ॥ १९॥ तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्द्विधा । मनोविमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका ॥ २०॥ रजोंऽशैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु । वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥ २१॥ तैः सर्वैः सहितैः प्राणोवृत्तिभेदात्स पञ्चधा । प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः ॥ २२॥ बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥ २३॥ प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते । हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥ समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥ तद्भोगाय पुनर्भोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान्प्रत्येकं वियदादिकम् ॥ २६॥ द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ॥ २७॥ तैरण्डस्तत्र भुवनभोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् । तैजसा विश्वतां याता देव तिर्यङ्नरादयः ॥ २८॥ ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ॥ २९॥ कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते । नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते । व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥ ३०॥ सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः । प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ ३१॥ उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः । पञ्चकोषविवेकेन लभन्ते निर्वृतिं पराम् ॥ ३२॥ अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते । कोषास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ॥ ३३॥ स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्न संज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह ॥ ३४॥ सात्त्विकैर्धीन्द्रियैः साकं विमर्षात्मा मनोमयः । तैरेव साकं विज्ञानमयोधीर्निश्चयात्मिका ॥ ३५॥ कारणे सत्त्वमानन्दमयोमोदादिवृत्तिभिः । तत्तत्कोषैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥ ३६॥ अन्वयव्यतिरेकाभ्यां पञ्चकोष विवेकतः । स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७॥ अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः । सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥ ३८॥ लिङ्गभाने सुषुप्तौ स्यादात्मनो भानमन्वयः । व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९॥ तद्विवेकाद्विविक्ताः स्युः कोषाः प्राणमनोधियः । ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४०॥ सुषुप्त्यभाने भानन्तु समाधावात्मनोऽन्वयः । व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥ ४१॥ यथामुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२॥ परापरात्मनोरेवं युक्त्या सम्भावितैकता । तत्त्वमस्यादिवाक्यैः सा भागत्यागेन लक्ष्यते ॥ ४३॥ जगतो यदुपादानं मायामादाय तामसीम् । निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्गिरा ॥ ४४॥ यदा मलिनसत्त्वां तां कामकर्मादिदूषितम् । आदत्ते तत्परं ब्रह्म त्वं पदेन तदोच्यते ॥ ४५॥ त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् । अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६॥ सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्त्वयोः । त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७॥ मायाविद्ये विहायैवमुपाधी परजीवयोः । अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते ॥ ४८॥ सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता । निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४९॥ विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् । आद्ये व्याहतिरन्यत्रानवस्थात्माश्रयादयः ॥ ५०॥ इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु । समन्तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥ ५१॥ विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि । विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः ॥ ५२॥ इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मननन्तु तत् ॥ ५३॥ ताभ्यां निर्विचिकित्सेऽर्थे चेतसःस्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ५४॥ ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् । निर्वातदीपवच्चित्तं समाधिरभिधीयते ॥ ५५॥ वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः । स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥ ५६॥ वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि । अदृष्टासकृदभ्याससंस्कारः सचिराद्भवेत् ॥ ५७॥ यथा दीपो निवातस्थ इत्यादिभिरनेकधा । भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥ ५८॥ अनादाविह संसारे सञ्चिताः कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९॥ धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यतो धर्मामृतधाराः सहस्रशः ॥ ६०॥ अमुना वासनाजाले निःशेषं प्रविलापिते । समूलोन्मूलिते पुण्यपापाख्ये कर्म सञ्चये ॥ ६१॥ वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते । करामलकवद्बोधमपरोक्षं प्रसूयते ॥ ६२॥ परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् । बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६३॥ अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् । संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४॥ इत्थं तत्त्वविवेकं विधाय विधिवन्मनः समाधाय । विगलितसंसृतिबन्धः प्राप्नोति पारं पदं नरो न हिरात् ॥ ६५॥ इति तत्त्वविवेकः समाप्तः ॥ १॥
भूतविवेकोनाम- द्वितीयः परिच्छेदः । सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः । बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते ॥ १॥ शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे । एकद्वित्रिचतुः पञ्चगुणा व्योमादिषु क्रमात् ॥ २॥ प्रतिध्वनिर्वियच्छब्दो वायौ वीसीति शब्दनम् । अनुष्णाशीतसंस्पर्शो वह्नो भुगुभुगुध्वनिः । उष्णः स्पर्शः प्रभा रूपं जले बुलु बुलु ध्वनिः । शीतास्पर्शः शुक्लरूपं रसो माधुर्यमीरितम् । भूमौ कडकडाशब्दः काठिन्यं स्पर्श इष्यते । नीलादिकं चित्ररूपं मधुराम्लादिको रसः । सुरभीतरगन्धौ द्वौ गुणाः सम्यग्विवेचिताः ॥ ३॥ श्रोत्रं त्वक्चक्षुषि जिह्वा घ्राणं चेन्द्रियपञ्चकम् । कर्णादिगोलकस्थं तच्छब्दादिग्राहकं क्रमात् । सौक्ष्म्यात्कार्यानुमेयं तत्प्रायो धावेद्बहिर्मुखम् ॥ ४॥ कदाचित्पिहिते कर्णे श्रूयते शब्द आन्तरः । प्राणवायौ जाठराग्नौ जलपानेऽन्नभक्षणे । व्याज्यान्ते ह्यान्तराः स्पर्शामीलने चान्तरं तमः । उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः ॥ ५॥ पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः । कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि ॥ ६॥ वाक्पाणिपादपायूपस्थैरक्षैस्तत्क्रियाजनिः । मुखादिगोलकेष्वास्ते तत्कर्मेन्द्रियपञ्चकम् ॥ ७॥ मनो दशेन्द्रियाध्यक्षं हृत्पद्मगोलके स्थितम् । तच्चान्तःकरणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः ॥ ८॥ अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम् । सत्त्वं रजस्तमश्चास्य गुणा विक्रियते हि तैः ॥ ९॥ वैराग्यं क्षान्तिरौदार्यमित्याद्याः सत्त्वसम्भवाः । कामक्रोधौ लोभयत्नावित्याद्या रजसोत्थिताः । आलस्यभ्रान्तितन्द्राद्या विकारास्तमसोत्थिताः ॥ १०॥ सात्त्विकैः पुण्यनिष्पत्तिः पापौत्पत्तिश्च राजसैः । तामसैर्नोभयं किन्तु वृथायुःक्षपणं भवेत् । अत्राहम्प्रत्ययी कर्तेत्येवं लोकव्यवस्थितिः ॥ ११॥ स्पष्टशब्दादियुक्तेषु भौतिकत्वमतिस्फुटम् । अक्षादावपि तच्छास्त्रयुक्तिभ्यामवधार्यताम् ॥ १२॥ एकादशेन्द्रियैर्युक्त्या शास्त्रेणाप्यवगम्यते । यावत्किंचिद्भवेदेतदिदं शब्दोदितं जगत् ॥ १३॥ इदं सर्वं पुरा सृष्टेरेकमेवद्वितीयकम् । सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः ॥ १४॥ वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ १५॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ १६॥ सतो नावयवाः शंक्यास्तदंशस्यानिरूपणात् । नामरूपे न तस्य अंशौ तयोरद्याप्यनुद्भवात् ॥ १७॥ नामरूपोद्भवस्यैव सृष्टित्वात्सृष्टितः पुरा । न तयोरुद्भवस्तस्मात्सन्निरंशं यथा वियत् ॥ १८॥ सदन्तरं सजातीयं न वैलक्षण्यवर्जनात् । नामरूपोपाधिभेदं विना नैव सतो भिदा ॥ १९॥ विजातीयमसत्तत्तु न खल्वस्तीति गम्यते । नास्यातः प्रतियोगित्वं विजातीयाद्भिदा कुतः ॥ २०॥ एकमेवाद्वितीयं सत्सिद्धमत्र तु केचन । विह्वला असदेवेदं पुरासीदित्यवर्णयन् ॥ २१॥ मग्नस्याब्धौ यथाऽक्षाणि विह्वलानि तथाऽस्य धीः । अखण्डैकरसं श्रुत्वा निःप्रचारा बिभेत्यतः ॥ २२॥ गौडाचार्या निर्विकल्पे समाधावन्ययोगिनाम् । साकारध्याननिष्ठानामत्यन्तं भयमूचिरे ॥ २३॥ अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ २४॥ भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् । आहुर्माध्यमिकान्भ्रान्तानचिन्त्येऽस्मिन्सदात्मनि ॥ २५॥ अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धस्तपस्विनः । आपेदिरे निरामत्वमनुमानैकचक्षुशः ॥ २६॥ शून्यमासीदिति ब्रूषे सद्योगं वा सदात्मताम् । शून्यस्य न तु तद्युक्तमुभयं व्याह तत्त्वतः ॥ २७॥ न युक्तस्तमसा सूर्यो नापि चासौ तमोमयः । सच्छून्ययोर्विरोधित्वाच्छून्यमासीत्कथं वद ॥ २८॥ वियदादेर्नामरूपे मायया सति कल्पिते । शून्यस्य नामरूपे च तथा चेज्जीव्यतां चिरम् ॥ २९॥ सतोऽपि नामरूपे द्वे कल्पिते चेत्तदा वद । कुत्रेति निरधिष्ठानो न भ्रमः क्वचिदीक्ष्यते ॥ ३०॥ सदासीदिति शब्दार्थभेदे द्वैगुण्यमापतेत् । अभेदे पुनरुक्तिः स्यान्मैवं लोके तथेक्षणात् ॥ ३१॥ कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम् । इत्यादिवासनाविष्टं प्रत्यासीत्सदितीरणम् ॥ ३२॥ कालाभावे पुरेत्युक्तिः कालवासनयायुतम् । शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शंक्यते ॥ ३३॥ चोद्यं वा परिहारो वा क्रियतां द्वैतभाषया । अद्वैतभाषया चोद्यं नास्ति नापि तदुत्तरम् ॥ ३४॥ अतस्तिमितगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥ ३५॥ ननु भूम्यादिकं मा भूत्परमाण्वन्त नाशतः । कथं ते वियतोऽसत्त्वं बुद्धिमारोहतीति चेत् ॥ ३६॥ अत्यन्तं निर्जगद्व्योम यथा ते बुद्धिमाश्रितम् । तथैव सन्निराकाशं कुतो नाश्रयते मतिम् ॥ ३७॥ निर्जगद्व्योम दृष्टं चेत्प्रकाशतमसी विना । क्व दृष्टं किंच ते पक्षे न प्रत्यक्षं वियत्खलु ॥ ३८॥ सद्वस्तु सिद्धन्त्वस्माभिर्निश्चितैरनुभूयते । तूष्णीं स्थितौ न शून्यत्वं शून्यबुद्धेस्तु वर्जनात् ॥ ३९॥ सद्बुद्धिरपि चेन्नास्ति मास्त्वस्य स्वप्रभत्वतः । निर्मनस्कत्वसाक्षित्वात्सन्मात्रं सुगमं नृणाम् ॥ ४०॥ मनोजृम्भनराहित्ये यथा साक्षी निराकुलः । मायाजृम्भणतः पूर्वं सत्तथैव निराकुलम् ॥ ४१॥ निस्तत्त्वा कार्यगम्यास्य शक्तिर्मायाग्निशक्तिवत् । न हि शक्ति क्वचित्कैश्चिद्बुद्ध्यते कारयतः पुरा ॥ ४२॥ न सद्वस्तु सतः शक्तिर्न हि वह्नेः स्वशक्तिता । सद्विलक्षणतायान्तु शक्तेः किं तत्त्वमुच्यताम् ॥ ४३॥ शून्यत्वमिति चेच्छून्यं मायाकार्यमितीरितम् । नशून्यं नापि सद्यादृक्तादृक्तत्त्वमिहेष्यताम् ॥ ४४॥ नासदासीन्नो सदासीत्तदानीं किन्त्वभूत्तमः । सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् ॥ ४५॥ अतएव द्वितीयत्वं शून्यवन्नहि गण्यते । न लोके चैत्रतच्छक्त्योर्जीवितं गण्यते पृथक् ॥ ४६॥ शक्त्याधिक्ये जीवितं चेद्वर्धते तत्र वृद्धिकृत् । न शक्तिः किन्तु तत्कार्यं युद्धकृष्यादिकं तथा । सर्वथा शक्तिमात्रस्य न पृथग्गणना क्वचित् । शक्तिकार्यं तु नैवास्ति द्वितीयं शंक्यते कथम् ॥ ४७॥ न कृत्स्नब्रह्मवृत्तिः सा शक्तिः किन्त्वेकदेशभाक् । घटशक्तिर्यथा भूमौ स्निग्धमृद्येव वर्तते ॥ ४८॥ पादोऽस्य विश्वा भूतानि त्रिपादस्ति स्वयं प्रभः । इत्येकदेशवृत्तित्वं मायाया वदति श्रुतिः ॥ ४९॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । इति कृष्णोर्जुनायाह जगतस्त्वेकदेशताम् ॥ ५०॥ सभूमिं सर्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् । विकारावर्ति चात्रास्ति श्रुतिसूत्रकृतोर्वचः ॥ ५१॥ निरंशेऽप्यंशमारोप्य कृत्स्नेंऽशे वेति पृच्छतः । तद्भाषयोत्तरं ब्रूते श्रुतिः श्रोतुर्हितैषिणी ॥ ५२॥ सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः । वर्णाभित्तिगताभित्तौ चित्रं नानाविधं यथा ॥ ५३॥ आद्यो विकार आकाशः सोऽवकाशस्वभावान् । आकाशोऽस्तीति सत्तत्त्वमाकाशेऽप्यनुगच्छति ॥ ५४॥ एकस्वभावं सत्तत्त्वमाकाशो द्विस्वभावकः । नावकाशः सति व्योम्नि स चैषोऽपि द्वयं स्थितम् ॥ ५५॥ यद्वा प्रतिध्वनिर्व्योम्नो गुणो नासौ सतीक्ष्यते । व्योम्नि द्वौ सद्ध्वनी तेन सदेकं द्विगुणं वियत् ॥ ५६॥ या शक्तिः कल्पयेद्व्योम सा सद्व्योम्नोरभिन्नताम् । आपाद्य धर्मधर्मित्वं व्यत्ययेनावकल्पयेत् ॥ ५७॥ सतो व्योमत्वमापन्नं व्योम्नः सत्तान्तु लौकिकाः । तार्किकाश्चावगच्छन्ति मायाया उचितं हि तत् ॥ ५८॥ यद्यथा वर्तते तस्य तथात्वं भाति मानतः । अन्यथात्वं भ्रमेणेति न्यायोऽयं सर्वलौकिकः ॥ ५९॥ एवं श्रुतिविचारात्प्राक्यद्यथा वस्तु भासते । विचारेण विपर्येति ततस्तच्चिन्त्यतां वियत् ॥ ६०॥ भिन्ने वियत्सती शब्दभेदाद्बुद्धेश्च भेदतः । वाय्वादिष्वनुवृत्तं सन्न तु व्योमेति भेदधीः ॥ ६१॥ सद्वस्त्वधिकवृत्तित्वाद्धर्मि व्योम्नस्तु धर्मता । धिया सतः पृथक्कारे ब्रूहि व्योम किमात्मकम् ॥ ६२॥ अवकाशात्मकं तच्चेदसत्तदिति चिन्त्यताम् । भिन्नं सतोऽसच्च नेति वक्षि चेद्व्याहतिस्तव ॥ ६३॥ भातीति चेद्भातु नाम भूषणं मायिकस्य तत् । यदसद्भासमानन्तन्मिथ्या स्वप्नगजादिवत् ॥ ६४॥ जातिव्यक्तो देहिदेहौ गुणद्रव्ये यथा पृथक् । वियत्सतोस्तथैवास्तु पार्थक्यं कोऽत्र विस्मयः ॥ ६५॥ बुद्धोऽपि भेदो नो चित्ते निरुढिं याति चेत्तदा । अनैकाग्र्यात्संशयाद्वा रूढ्यभावोऽस्य ते वद ॥ ६६॥ अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन्विवेचनम् । कुरु प्रमाणयुक्तिभ्यां ततो रूढतमो भवेत् ॥ ६७॥ ध्यानान्मानाद्युक्तितोऽपि रूढे भेद वियत्सतोः । न कदाचिद्वियत्सत्यं सद्वस्तु छिद्रवन्न च ॥ ६८॥ ज्ञस्य भाति सदा व्योम निस्तत्त्वोल्लेखपूर्वकम् । सद्वस्त्वपि विभात्यस्य निश्छिद्रत्वपुरःसरम् ॥ ६९॥ वासनायां विवृद्धायां वियत्सत्यत्ववादिनम् । सन्मात्राबोधयुक्तं च दृष्ट्वा विस्मयते बुधः ॥ ७०॥ एवमाकाशमिथ्यात्वे सत्सत्यत्वे च वासिते । न्यायेनानेन वाय्वादेः सद्वस्तु प्रविविच्यताम् ॥ ७१॥ सद्वस्तुन्येकदेशस्था माया तत्रैकदेशगम् । वियत्तत्राप्येकदेशगतो वायु प्रकल्पितः ॥ ७२॥ शोषस्पर्शौ गतिर्वेगो वायुधर्मा इमे मताः । त्रयः स्वभावाः सन्मायाव्योम्नां ये तेऽपि वायुगाः ॥ ७३॥ वायुरस्तीति सद्भावः सतो वायौ पृथक्कृते । निस्तत्त्वरूपता मायास्वभावो व्योमगो ध्वनिः ॥ ७४॥ सतोऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरोदितम् । व्योमानुवृत्तिरधुना कथं नव्याहतं वचः ॥ ७५॥ छिद्रानुवृत्तिर्नेतीति पूर्वोक्तिरधुना त्वियम् । शब्दानुवृत्तिरेवोक्ता वचसो व्याहतिः कुतः ॥ ७६॥ ननु सद्वस्तुपार्थक्यादसत्त्वं चेत्तदा कथम् । अव्यक्तमायावैषम्यादमायामयतापि नो ॥ ७७॥ निस्तत्त्वरूपतैवात्र मायात्वस्य प्रयोजिका । सा शक्तिकार्ययोस्तुल्या व्यक्ताव्यक्तत्वभेदिनोः ॥ ७८॥ सदसत्त्वविवेकस्य प्रस्तुतत्त्वात्सचिन्त्यताम् । असतोऽवान्तरो भेद आस्तां तच्चिन्तयात्र किम् ॥ ७९॥ सद्वस्तुब्रह्मशिष्टोंऽशोवायुर्मिथ्या यथा वियत् । वासयित्वा चिरं वायोर्मिथ्यात्वं मरुतं त्यजेत् ॥ ८०॥ चिन्तयेद्वह्निमप्येवं मरुतो न्यूनवर्तिनम् । ब्रह्माण्डावरणेष्वेषां न्यूनाधिकविचारणा ॥ ८१॥ वायोर्दशांशतोन्यूनोवह्निर्वायौ प्रकल्पितः । पुराणोक्तं तारतम्यं दशांशैर्भूतपञ्चके ॥ ८२॥ वह्निरुष्णप्रकाशात्मा पूर्वानुगतिरत्र च । अस्ति वह्निः सनिस्तत्त्वः शब्दवान्स्पर्शवानपि ॥ ८३॥ सन्मयाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजो गुणः । रूपं तत्र सतः सर्वमन्यद्बुद्ध्या विविच्यताम् ॥ ८४॥ सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते । आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥ ८५॥ सन्त्यापोऽमूः शून्यतत्त्वाः सशबदस्पर्शसंयुताः । रूपवत्योऽन्यधर्मानुवृत्या स्वीयो रसो गुणः ॥ ८६॥ सतो विवेचितास्वप्सु तन्मिथ्यात्वे च वासिते । भूमिर्दशांशतो न्यूना कल्पिताप्स्विति चिन्तयेत् ॥ ८७॥ अस्ति भूस्तत्त्वशून्यास्याः शब्दस्पर्शौ स्वरूपकौ । रसश्च परतो नैजो गन्धः सत्ता विविच्यताम् ॥ ८८॥ पृथक्कृतायां सत्तायां भूमिर्मिथ्यावशिष्यते । भूमेर्दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥ ८९॥ ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश । भुवनेषु वसन्त्येषु प्राणिदेहा यथायथम् ॥ ९०॥ ब्रह्माण्डलोकदेहेषु सद्वस्तुनि पृथक्कृते । असन्तोऽण्डादयो भान्तु तद्भानेऽपीह का क्षतिः ॥ ९१॥ भूतभौतिकमायानामसमत्वेऽत्यन्तवासिते । सद्वस्त्वद्वैतमित्येषा धीर्विपर्येति न क्वचित् ॥ ९२॥ सदद्वैतात्पृथग्भूते द्वैते भूम्यादिरूपिणि । तत्तदर्थक्रिया लोके यथा दृष्टा तथैव सा ॥ ९३॥ सांख्यकाणादबौद्धाद्यैर्जगद्भेदो यथा यथा । उत्प्रेक्ष्यतेऽनेकयुक्त्या भवत्वेष तथा तथा ॥ ९४॥ अवज्ञातं सदद्वैतं निःशंकैरन्यवादिभिः । एवं का क्षतिर्रस्माकं तद्द्वैतमवजानताम् ॥ ९५॥ द्वैतावज्ञा सुस्थिता चेदद्वैता धीः स्थिरा भवेत् । स्थैर्ये तस्याः पुमानेष जीवन्मुक्त इतीर्यते ॥ ९६॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ९७॥ सदद्वैतेऽनृतद्वैते यदन्योऽन्यैक्यवीक्षणम् । तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः ॥ ९८॥ यद्वान्तकालः प्राणस्य वियोगोस्तु प्रसिद्धितः । तस्मिन्कालेऽपि न भ्रान्तेर्गतायाः पुनरागमः ॥ ९९॥ नीरोग उपविष्टो वा रुग्णो वा विलुठन्भुवि । मूर्च्छितो वा त्यजेदेष प्राणान्भ्रान्तिर्न सर्वथा ॥ १००॥ दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्ययम् । परेद्युर्नानधीतः स्यात्तत्त्वविद्या न नश्यति ॥ १०१॥ प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना । न नश्यति न वेदान्तात्प्रबलं मानमीक्षते ॥ १०२॥ तस्माद्वेदान्तसंसिद्धं सदद्वैतं न बाध्यते । अन्तकालेऽप्यतो भूतविवेकान्निर्वृतिः स्थिता ॥ १०३॥ इति भूतविवेकनाम द्वितीयः परिच्छेदः ॥ २॥
पञ्चकोषविवेकोनाम - तृतीयः परिच्छेदः । गुहाहितं ब्रह्म यत्तत्पञ्चकोष विवेकतः । बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते ॥ १॥ देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः । ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २॥ पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते । देहः सोऽन्नमयो नात्मा प्राक्चोर्ध्वं तदभावतः ॥ ३॥ पूर्वजन्मन्यसत्त्वे तज्जन्म सम्पादयेत्कथम् । भाविजन्मन्यसत्कर्म न भुञ्जीतेह संचितम् ॥ ४॥ पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्तकः । वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् ॥ ५॥ अहन्तां ममतां देहे गृहादौ च करोति यः । कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥ ६॥ लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा । चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥ ७॥ कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् । विज्ञानमनसी अन्तर्बहिश्चैते परस्परम् ॥ ८॥ काचिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् । पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ ९॥ कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् । बिम्बभूतो य आनन्द आत्मासौ सर्वदा स्थितेः ॥ १०॥ ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु । माभूदात्मत्वमन्यस्तु न कश्चिदनुभूयते ॥ ११॥ बाढं निद्रादयः सर्वेऽनुभूयन्ते न चेतरः । तथाप्येतेऽनुभूयन्ते येन तं को निवारयेत् ॥ १२॥ स्वयमेवानुभूतित्वात्विद्यते नानुभाव्यता । ज्ञातृज्ञानान्तराभावादज्ञेयो न त्वसत्तया ॥ १३॥ माधुर्यादिस्वभावानामन्यत्र स्वगुणार्पिणाम् । स्वस्मिंस्तदर्पणापेक्षा नो न चास्तान्यदर्पकम् ॥ १४॥ अर्पकान्तराराहित्येप्यस्त्येषां तत्स्वभावता । माभूत्तथानुभाव्यत्वं बोधात्मा तु न हीयते ॥ १५॥ स्वयंज्योतिर्भवत्येष पुरोऽस्मात्भासतेऽखिलात् । तमेव भान्तमन्वेति तद्भासा भासते जगत् ॥ १६॥ येनेदं जानते सर्वं तं केनान्येन जानताम् । विज्ञातारं केन विद्याच्छक्तं वेद्ये तु साधनम् ॥ १७॥ स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता । विदिताविदिताभ्यां तत्पृथक्बोधस्वरूपकम् ॥ १८॥ बोधेऽप्यनुभवो यस्य न कथंचन जायते । तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ १९॥ जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा । न बुध्यते मया बोधो बोद्धव्य इति तादृषी ॥ २०॥ यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे । यद्बोधमात्रं तद्ब्रह्मेत्येवं धीर्ब्रह्मनिश्चयः ॥ २१॥ पञ्चकोषपरित्यागे साक्षिबोधावशेषतः । स्वस्वरूपं स एव स्याच्छून्यत्वं तस्य दुर्घटम् ॥ २२॥ अस्ति तावत्स्वयं नाम विवादाविषयत्वतः । स्वस्मिन्नपि विवादश्चेत्प्रतिवाद्यत्र को भवेत् ॥ २३॥ स्वासत्त्वन्तु न कस्मैचिद्रोचते विभ्रमं विना । अतएव श्रुतिर्बाधं ब्रूते चासत्त्ववादिनः ॥ २४॥ असद्ब्रह्मेति चेद्वेद स्वयमेव भवेदसन् । अतोऽस्य माभूद्वेद्यत्वं स्वसत्त्वन्त्वभ्युपेयताम् ॥ २५॥ कीदृक्तर्हीति चेत्पृच्छेदीदृक्ता नास्ति तत्र हि । यदनीदृगतादृक्च तत्स्वरूपं विनिश्चिनु ॥ २६॥ अक्षाणां विषयस्त्वीदृक्परोक्षस्तादृगुच्यते । विषयो नाक्षविषयः स्वत्त्वान्नास्यपरोक्षता ॥ २७॥ अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् । सत्यं ज्ञानमनन्तं चेत्यस्तीह ब्रह्मलक्षणम् ॥ २८॥ सत्यत्वं बाधराहित्यं जगद्बाधैकसाक्षिणः । बाधः किंसाक्षिको ब्रूहि न त्वसाक्षिक इष्यते ॥ २९॥ अपनीतेषु मूर्तेषु ह्यमूर्तं शिष्यते वियत् । शक्येषु बाधितेष्वन्ते शिष्यते यत्तदेव तत् ॥ ३०॥ सर्वबाधे न किंचिच्चेद्यन्न किंचित् तदेव तत् । भाषा एवात्र भिद्यन्ते निर्बाधं तावदस्ति हि ॥ ३१॥ अत एव श्रुतिर्बाध्यं बाधित्वा शेषयत्यदः । स एष नेति नेत्यात्मेत्यतद्व्यावृत्तिरूपतः ॥ ३२॥ इदं रूपं तु यद्याव तत्त्यक्तुं शक्यतेऽखिलम् । अशक्यो ह्यनिदं रूपः स आत्मा बाधवर्जितः ॥ ३३॥ सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरोदितम् । स्वयमेवानुभूतित्वादित्यादिवचनैः स्फुटम् ॥ ३४॥ न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः । न वस्तुतोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ॥ ३५॥ देशकालान्यवस्तूनां कल्पितत्वाच्च मायया । न देषादिकृतोऽन्तोऽस्ति ब्रह्मानन्त्यं स्फुटन्ततः ॥ ३६॥ सत्यं ज्ञानमनन्तं यद्ब्रह्म तद्वस्तु तस्य तत् । ईश्वरत्वन्तु जीवत्वमुपाधिद्वयकल्पितम् ॥ ३७॥ शक्तिरस्त्यैश्वरी काचित्सर्ववस्तुनियामिका । आनन्दमयमारभ्य गूढा सर्वेषु वस्तुषु ॥ ३८॥ वस्तुधर्मा नियम्येरं शक्त्या नैव यदा तदा । अन्योन्यधर्मसांकर्याद्विप्लवेत जगत्खलु ॥ ३९॥ चिच्छायावेशतः शक्तिश्चेतनेव विभाति सा । तच्छक्त्युपाधिसंयोगाद्ब्रह्मैवेश्वरतां व्रजेत् ॥ ४०॥ कोषोपाधिविवक्षायां याति ब्रह्मैव जीवताम् । पिता पितामहश्चैकः पुत्रपौत्रौ यथा प्रति ॥ ४१॥ पुत्रादेरविवक्षायां न पिता न पितामहः । तद्वन्नेशो नापि जीवः शक्तिकोषाविवक्षणे ॥ ४२॥ य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् । ब्रह्मणो नास्ति जन्मातः पुनरेष न जायते ॥ ४३॥ इति पञ्चकोषोविवेकोनाम तृतीयः परिच्छेदः ॥ ३॥
द्वैतविवेको नाम - चतुर्थः परिच्छेदः । ईश्वरेणापि जीवेन सृष्टं द्वैतं प्रपञ्च्यते । विवेके सति जीवेन हेयो बन्धः स्फुटीभवेत् ॥ १॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । स मायी सृजतीत्याहुः श्वेताश्वतर शाखिनः ॥ २॥ आत्मा वा इदमग्रेऽभूत्स ऐक्षत सृजा इति । सङ्कल्पेनासृजल्लोकान्स एतानिति बह्वृचाः ॥ ३॥ खंवाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी । सम्भूता ब्रह्मणस्तस्मादेतस्मादात्मनोऽखिलाः ॥ ४॥ बहु स्यामहमेवातः प्रजायेयेति कामतः । तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तैत्तिरिः ॥ ५॥ इदमग्रे सदेवासीद्बहुत्वाय तदैक्षत । तेजोऽवन्नाण्डजादीनि ससर्जेति च सामगाः ॥ ६॥ विस्फुलिङ्गा यथा वह्नेर्जायन्तेऽक्षरतस्तथा । विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः ॥ ७॥ जगदव्याकृतं पूर्वमासीद्व्याक्रियतेऽधुना । दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटाः । विराणानुर्नरो गावः खराश्वाजावयस्तथा । पिपीलिकावधिद्वन्द्वमिति वाजसनेयिनः ॥ ८॥ कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः । इति ताः श्रुतयः प्राहु जीवत्वं प्राणधारणात् ॥ ९॥ चैतन्यं यदधिष्ठानं लिङ्गदेहश्च यः पुनः । चिच्छाया लिङ्गदेहस्था तत्संघोजीव उच्यते ॥ १०॥ माहेश्वरी तु या माया तस्या निर्माणशक्तिवत् । विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ ॥ ११॥ मोहादनीशतां प्राप्य मग्नो वपुषि शोचति । ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः ॥ १२॥ सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपञ्चितम् । अन्नानि सप्तज्ञानेन कर्मणाजनयत्पिता ॥ १३॥ मर्त्यानामेकं देवान्ने द्वे पश्वान्नं चतुर्थकम् । अन्नत्रितयमात्मार्थमन्नानां विनियोजनम् ॥ १४॥ व्रीह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः । वाक्प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् ॥ १५॥ ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः । तथापि ज्ञानकर्माभ्यां जीवो कार्षीत्तदन्नताम् ॥ १६॥ ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् । पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् ॥ १७॥ मायावृत्त्यात्मको हीशसंकल्पः साधनं जनौ । मनो वृत्त्यात्मको जीवो संकल्पो भोगसाधनम् ॥ १८॥ ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते । भोक्तृधीवृत्तिनानात्वात्तद्भोगो बहुधेष्यते ॥ १९॥ हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्यो ह्यलाभतः । पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति ॥ २०॥ प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः । सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु ॥ २१॥ भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा । प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः ॥ २२॥ ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते । योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः ॥ २३॥ मैवं मांसमयी योषित्काचिदन्या मनोमयी । मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ २४॥ भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् । जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् ॥ २५॥ बाधं माने तु मेयेन योगात्स्याद्विषयाकृतिः । भाष्यवार्तिककाराभ्यामयमर्थ उदाहृतः ॥ २६॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ २७॥ व्यञ्जको वा यथा लोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते ॥ २८॥ मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् । मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ॥ २९॥ सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ । मृण्मयो मानमेयः स्यात्साक्षिभाष्यस्तु धीमयः ॥ ३०॥ अन्वयव्यतिरेकाभ्यां धीमयो जीवबन्धकृत् । सत्यस्मिन्सुखदुःखे स्त स्तस्मिन्नसति न द्वयम् ॥ ३१॥ असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः । समाधिसुप्तिमूर्च्छासु सत्यप्यस्मिन्न बध्यते ॥ ३२॥ दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता । विप्रलम्भकवाक्येन मृतं मत्वा प्ररोदिति ॥ ३३॥ मृतेऽपि तस्मिन्वार्तायामश्रुतायां न रोदिति । अतः सर्वस्य जीवस्य बन्धकृन्मानसं जगत् ॥ ३४॥ विज्ञानवादो बाह्यार्थवैयर्थ्यात्स्यादिहेति चेत् । न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्त्वतः ॥ ३५॥ वैयार्थ्यमस्तु वा बाह्यं न वारयितुमीश्महे । प्रयोजनमपेक्षन्ते न मानानिति हि स्थितिः ॥ ३६॥ बन्धश्चेन्मानसं द्वैतं तन्निरोधेन शाम्यति । अभ्यासेद्योगमेवातो ब्रह्मज्ञानेन किं वद ॥ ३७॥ तात्कालिक द्वैतशान्तावप्यागामीजनीक्षयः । ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिण्डिमः ॥ ३८॥ अनिवृत्तेऽपीशसृष्टे द्वैते तस्य मृषात्मताम् । बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिना ॥ ३९॥ प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः । विरोधिद्वैताभावेऽपि न शक्यं बोद्धुमद्वयम् ॥ ४०॥ अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् । अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः ॥ ४१॥ जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा । उपाददीता शास्त्रीयमातत्त्वस्यावबोधनात् ॥ ४२॥ आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् । बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् ॥ ४३॥ शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः । परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ ४४॥ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ ४५॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ४६॥ तमेवैकं विजानीत ह्यन्या वाचो विमुञ्चथ । यच्चेद्वाङ्मनसी प्राज्ञ इत्याद्याः श्रुतयः स्फुटाः ॥ ४७॥ अशास्त्रीयमपि द्वैतं तीव्रं मन्दमिति द्विधा । कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥ ४८॥ उभयं तत्त्वबोधात्प्राङ्निवार्यं बोधसिद्धये । समः समाहितत्वं च साधनेषु श्रुतं यतः ॥ ४९॥ बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये । कामादिक्लेशबन्धेन युक्तस्य न हि मुक्तता ॥ ५०॥ जीवन्मुक्तिरियं मा भुज्जन्माभावे त्वहं कृती । तर्हि जन्मापि तेऽस्त्येव स्वर्गमात्रात्कृती भवान् ॥ ५१॥ क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा । स्वयं दोषतमात्मायं कामादिः किं न हीयते ॥ ५२॥ तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् । यथेष्टाचरणं ते स्यात्कर्मशास्त्रातिलङ्घिनः ॥ ५३॥ बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव कोभेदोऽशुचिभक्षणे ॥ ५४॥ बोधात् पुरा मनोदोषमात्रात्क्लिष्टोऽस्यथाधुना । अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् ॥ ५५॥ विड्वराहादितुल्यत्वं मा काङ्क्षीस्तत्त्वविद् भवान् । सर्वधीदोषसंत्यागाल्लोकैः पूज्यस्व देववत् ॥ ५६॥ काम्यादिदोषदृष्ट्याद्याः कामादित्यागहेतवः । प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥ ५७॥ त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः । अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता ॥ ५८॥ ध्यायते विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ५९॥ शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः । सुसम्पादः क्रमात्सोऽपि सविकल्पसमाधिना ॥ ६०॥ बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना । दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते ॥ ६१॥ जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् । एतत्पदं वशिष्ठेन रामाय बहुधेरितम् ॥ ६२॥ दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सम्पन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः । विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः । सन्त्यक्तवासनान्मौनादृते न्यस्त्युत्तमं पदम् ॥ ६३॥ विक्षिप्यते कदाचिद्धीः कर्मणा भोगदायिना । पुनः समाहिता सा स्यात्तदैवाभ्यासपाटवात् ॥ ६४॥ विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते । ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः ॥ ६५॥ दर्शनादर्शने हित्वा स्वयं केवलरूपतः । यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम् ॥ ६६॥ जीवन्मुक्तेः परा काष्ठा जीवद्वैतविवर्जनात् । लभ्यतेऽसावतोऽत्रेदमीशद्वैताद्विवेचितम् ॥ ६७॥ इति द्वैतविवेकनाम चतुर्थः परिच्छेदः ॥ ४॥
महावाक्यविवेकोनाम - । पञ्चमः परिच्छेदः । येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥ चतुर्मुखेन्द्रदेवेषु मनुष्याश्वश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्ममय्यपि ॥ २॥ परिपूर्णः परात्मास्मिन्देहे विद्याअधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३॥ स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४॥ एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ५॥ श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वं पदेरितम् । एकता गृह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६॥ स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहङ्कारादिदेहान्तात्प्रत्यगात्मेति गीयते ॥ ७॥ दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ८॥ इति महावाक्यविवेकोनाम पञ्चमः परिच्छेदः ॥ ५॥
चित्रदीपोनाम - षष्ठः परिच्छेदः । यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम् । परमात्मनि विज्ञेयं तथावस्थाचतुष्टयम् ॥ १॥ यथा धौतो घट्टितश्च लाञ्छितो रञ्जितः पटः । चिदन्तर्यामि सूत्राणि विराट् चात्मा तथेर्यते ॥ २॥ स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् । मस्याकारैर्लाञ्छितः स्याद्रञ्जितो वर्णपूरणात् ॥ ३॥ स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः । सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते परः ॥ ४॥ ब्रह्माद्याःस्तम्बपर्यन्ताः प्राणिनोऽत्र जडा अपि । उत्तमाधमभावेन वर्तन्ते पटचित्रवत् ॥ ५॥ चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक्पृथक् । चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः ॥ ६॥ पृथक्पृथक्चिदाभासाश्चैतन्याध्यस्तदेहिनाम् । कल्पान्ते जीवनामानो बहुधा संसरन्त्यमी ॥ ७॥ वस्त्राभासस्थितान्वर्णान्यद्वदाधारवस्त्रगान् । वदन्त्यज्ञास्तथा जीवसंसारं चिद्गतं विदुः ॥ ८॥ चित्रस्थ पर्वतादीनां वस्त्राभासो न लिख्यते । सृष्टिस्थमृत्तिकादीनां चिदाभासास्तथा न हि ॥ ९॥ संसारः परमार्थोऽयं संलग्नः स्वात्मवस्तुनि । इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते ॥ १०॥ आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः । इति बोधो भवेद्विद्या लभ्यतेऽसौ विचारणात् ॥ ११॥ सदा विचारयेत्तस्माज्जगत्ज्जीवपरात्मनः । जीवभावजगद्भावबाधे स्वात्मैव शिष्यते ॥ १२॥ नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः । नो चेत्सुषुप्तिमूर्च्छादौ मुच्येता यत्नतो जनः ॥ १३॥ परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः । न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न सम्भवेत् ॥ १४॥ परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा । तत्रापरोक्ष विद्याप्तौ विचारोऽयं समाप्यते ॥ १५॥ अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते ॥ १६॥ तत्साक्षात्कारसिद्ध्यर्थमात्मतत्त्वं विविच्यते । येनायं सर्वसंसारात्सद्य एव विमुच्यते ॥ १७॥ कूटस्थो ब्रह्मजीवेषावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा ॥ १८॥ घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिम्बितः । साभ्रनक्षत्र-आकाशो जलाकाश-उदीर्यते ॥ १९॥ महाकाशस्य मध्ये यन्मेघमण्डलमीक्ष्यते । प्रतिबिम्बतया तत्र मेघाकाशो जले स्थितः ॥ २०॥ मेघांशरूपमुदकं तुषाराकारसंस्थितम् । तत्र स्वप्रतिबिम्बोऽयं नीरत्वादनुमीयते ॥ २१॥ अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकारेण स्थितः कूटस्थ-उच्यते ॥ २२॥ कूटस्थे कल्पिता बुद्धिस्तत्र चित् प्रतिबिम्बकः । प्राणानां धारणाज्जीवः संसारेण स युज्यते ॥ २३॥ जलव्योम्ना घटाकाशोयथा सर्वस्तिरोहितः । तथा जीवेन कूटस्थः सोऽन्योऽन्याध्यास उच्यते ॥ २४॥ अयं जीवो न कूटस्थं विविनक्ति कदाचन । अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ २५॥ विक्षेपावृतिरूपाभ्यां द्विधाविद्या प्रकल्पिता । न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥ २६॥ अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते । न भाति नास्ति कूटस्थ इति बुद्ध्वा वदत्यपि ॥ २७॥ स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः । इत्यादितर्कजालानि स्वानुभूतिर्ग्रसत्यसौ ॥ २८॥ स्वानुभूतावविश्वासे तर्कस्याप्यनवस्थिते । कथं वा तार्किकंमन्यस्तत्त्वनिश्चयमाप्नुयात् ॥ २९॥ बुद्ध्यारोहाय तर्कश्चेदपेक्षेत तथा सति । स्वानुभूतियनुसारेण तर्क्यतां मा कुतर्क्यताम् ॥ ३०॥ स्वानुभूतिरविद्यायामावृतौ च प्रदर्शिता । अतः कूटस्थचैतन्यमविरोधीति तर्क्यताम् ॥ ३१॥ तच्चेद्विरोधि केनएयमावृतिर्ह्यनुभूयताम् । विवेकस्तु विरोधीस्यात्तत्त्वज्ञानिनि दृश्यताम् ॥ ३२॥ अविद्यावृतकूटस्थे देहद्वययुता चितिः । शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि ॥ ३३॥ इदमंशस्य सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते । स्वयन्त्वं वस्तुता चैवं विक्षेपे वीक्ष्यतेऽन्यगम् ॥ ३४॥ नीलपृष्ठत्रिकोणत्वं यथा शुक्तौ तिरोहितम् । असङ्गानन्दताद्येवं कूटस्थेऽपि तिरोहितम् ॥ ३५॥ आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा । कूटस्थाध्यस्तविक्षेपनामाहमिति निश्चयः ॥ ३६॥ इदमंशं स्वतः पश्यन् रूप्यमित्यभिमन्यते । तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते ॥ ३७॥ इदंत्वरूप्यते भिन्ने स्वत्वाहन्ते तथेक्ष्यताम् । सामान्यं च विशेषश्चेत्युभयत्रापि गम्यते ॥ ३८॥ देवदत्तः स्वयं गच्छेत्त्वं वीक्षस्व स्वयं तथा । अहं स्वयं न शक्नोमीत्येवं लौके प्रयुज्यते ॥ ३९॥ इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा । असौ त्वमहमित्येषु स्वयमित्यभिमन्यते ॥ ४०॥ अहन्त्वाद्भिद्यतां स्वत्वं कूटस्थे तेन किं तव । स्वयं शब्दार्थ एवैष कूटस्थ इति मे भवेत् ॥ ४१॥ अन्यत्ववारकं स्वत्वमिति चेदन्यवारणम् । कूटस्थस्यात्मतां वक्तुरिष्टमेव हि तद्भवेत् ॥ ४२॥ स्वयमात्मेति पर्यायस्तेन लोके तयोः सह । प्रयोगो नास्त्यतः स्वत्वमात्मत्वं चान्यवारकम् ॥ ४३॥ घटः स्वयं न जानातीत्येवं स्वत्वं घटादिषु । अचेतनेषु दृष्टं चेद्दृश्यतामात्मसत्त्वतः ॥ ४४॥ चेतनाचेतनभिदा कूटस्थात्मकृता न हि । किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ ४५॥ यथा चेतन आभासः कूटस्थे भ्रान्तिकल्पितः । अचेतनो घटादिश्च तथा तत्रैव कल्पितः ॥ ४६॥ तत्त्वेदन्तेऽपि स्वत्वमिव त्वमहमादिषु । सर्वत्रानुगते तेन तयोरप्यात्मतेति चेत् ॥ ४७॥ ते आत्मत्वेऽप्यनुगते तत्त्वेदन्ते ततस्तयोः । आत्मत्वं नैव सम्भाव्यं सम्यक्त्वादेर्यथा तथा ॥ ४८॥ तत्त्वेदन्ते स्वतान्यत्वे त्वन्ताअहन्ते परस्परम् । प्रतिद्वन्द्वितया लोके प्रसिद्धेनास्ति संशयः ॥ ४९॥ अन्यतायाः प्रतिद्वन्द्वी स्वयं कूटस्थ इष्यताम् । त्वंतायाः प्रतियोग्येषोऽहमित्यात्मनि कल्पितः ॥ ५०॥ अहंतास्वत्वयोर्भेदे रूप्यतेदन्तयोरिव । स्पष्टेऽपि मोहमापन्ना एकत्वं प्रतिपेदिरे ॥ ५१॥ तादात्म्याध्यास एवात्र पूर्वोक्ताविद्यया कृतः । अविद्यायां निवृत्तायां तत्कार्यं विनिवर्तते ॥ ५२॥ अविद्यावृतितादात्म्ये विद्ययैव विनश्यतः । विक्षेपस्य स्वरूपं तु प्रारब्धक्षयमीक्ष्यते ॥ ५३॥ उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्ष्यते । इत्याहुस्तार्किकास्तद्वदस्माकं किं न सम्भवेत् ॥ ५४॥ तन्तूनां दिनसंख्यानां तैस्तादृक्क्षण ईरितः । भ्रमस्यासंख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ ५५॥ विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते । श्रुतियुक्त्यनुभूतिभ्यो वदतां किन्नु दुःशकम् ॥ ५६॥ आस्तां दुस्तार्किकैः साकं विवादः प्रकृतं ब्रुवे । स्वाहमोः सिद्धमेकत्वं कूटस्थपरिणामिनोः ॥ ५७॥ भ्राम्यन्ते पण्डितंमन्याः सर्वे लौकिकतार्किकाः । अनादृत्य श्रुतिं मौर्ख्यात्केवलां युक्तिमाश्रिताः ॥ ५८॥ पूर्वापरपरामर्शविकलास्तत्र केचन । वाक्याभासान्स्वस्वपक्षे योजयन्त्यप्यलज्जया ॥ ५९॥ कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः । लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः ॥ ६०॥ श्रौतीकर्तुं स्वपक्षन्ते कोषमन्नमयं तथा । विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे ॥ ६१॥ जीवात्मनिर्गमे देहमरणस्यात्र दर्शनात् । देहातिरिक्त एवात्मेत्याहुर्लोकायताः परे ॥ ६२॥ प्रत्यक्षत्वेनाभिमताहं धीर्देहातिरेकिणम् । गमयेदिन्द्रियात्मानं वच्मीत्यादिप्रयोगतः ॥ ६३॥ वागादिनामिन्द्रियाणां कलहः श्रुतिषु श्रुतः । तेन चैतन्यमेतेषामात्मत्वं तत एव हि ॥ ६४॥ हैरण्यगर्भाः प्राणात्मवादिनस्त्वेवमूचिरे । चक्षुराद्यक्षलोपेऽपि प्राणसत्त्वे तु जीवति ॥ ६५॥ प्राणो जागर्ति सुप्तेषु प्राणश्रैष्ठ्यादिकं श्रुतम् । कोषः प्राणमयः सम्यग्विस्तरेण प्रपञ्चितः ॥ ६६॥ मन आत्मा इति मन्यन्त उपासनपरा जनाः । प्राणस्याभोक्तृता स्पष्टा भोक्तृत्वं मनसस्ततः ॥ ६७॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । श्रुतो मनोमयः कोषस्तेनात्मेतीरितं मनः ॥ ६८॥ विज्ञानमात्मेति पर आहुः क्षणिकवादिनः । यतोविज्ञानमूलत्वं मनसो गम्यते स्फुटम् ॥ ६९॥ अहं वृत्तिरिदं वृत्तिरित्यन्तःकरणं द्विधा । विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत् ॥ ७०॥ अहंप्रत्ययबीजत्वमिदंवृत्तेरितिस्फुटम् । अविदित्वा स्वमात्मानं बाह्यं वेद न तु क्वचित् ॥ ७१॥ क्षणे क्षणे जन्मनाशावहंवृत्तिर्मितौ यतः । विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतो मितेः ॥ ७२॥ विज्ञानमयकोशोऽयं जीव इत्यागमा जगुः । सर्वसंसार एतस्य जन्मनाशसुखादिकः ॥ ७३॥ विज्ञानं क्षणिकं नात्मा विद्युदभ्रनिमेषवत् । अन्यस्यानुपलब्धत्वाच्छून्यं माध्यमिका जगुः ॥ ७४॥ असदेवेदमित्यादाविदमेव श्रुतं ततः । ज्ञानज्ञेयात्मकं सर्वं जगद्भ्रान्तिप्रकल्पितम् ॥ ७५॥ निरधिष्ठानविभ्रान्तेरभावादात्मनोऽस्तिता । शून्यस्यापि ससाक्षित्वादन्यथा नोक्तिरस्य ते ॥ ७६॥ अन्यो विज्ञानमयत आनन्दमय आन्तरः । अस्तीत्येवोपलब्धव्य इति वैदिकदर्शनम् ॥ ७७॥ अणुर्महान्मध्यमो वेत्येवं तत्रापि वादिनः । बहुधा विवदन्ते हि श्रुतियुक्तिसमाश्रयात् ॥ ७८॥ अणुं वदन्त्यन्तरालाः सूक्ष्मनाडीप्रचारतः । रोम्णः सहस्रभागेन तुल्यासु प्रचरत्ययम् ॥ ७९॥ अणोरणीयानेषोऽणुः सूक्ष्मात्सूक्ष्मतरं त्विति ॥ अणुत्वमाहुः श्रुतयः शतशोऽथ सहस्रशः ॥ ८०॥ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेय इति चाहपरा श्रुतिः ॥ ८१॥ दिगम्बरा मध्यमत्वमाहुरापादमस्तकम् । चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥ ८२॥ सूक्ष्मनाडी प्रचारस्तु सूक्ष्मैरवयवैर्भवेत् । स्थूलदेहस्य हस्ताभ्यां कञ्चुकप्रतिमोकवत् ॥ ८३॥ न्यूनाधिकशरीरेषु प्रवेशोऽपि गमाअगमैः । आत्मांशानां भवेत्तेन मध्यमत्वं सुनिश्चितम् ॥ ८४॥ संशस्य घटवन्नाशो भवत्येव तथा सति । कृतनाशाकृताभ्यागमयोः को वारको भवेत् ॥ ८५॥ तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः । आकाशवत्सर्वगतो निरंशः श्रुतिसंमतः ॥ ८६॥ इत्युक्त्वा तद्विशेषेऽपि बहुधा कलहं ययुः । अचिद्रूपोऽथ चिद्रूपाश्चिदचिद्रूप इत्यपि ॥ ८७॥ प्राभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् । आकाशवद्द्रव्यमात्मा शब्दवत्तद्गुणश्चितिः ॥ ८८॥ इच्छाद्वेषप्रयत्नाश्च धर्माधर्मौ सुखासुखे । तत्संस्काराश्च तस्यैते गुणाश्चितिवदीरिताः ॥ ८९॥ आत्मनो मनसा योगे स्वादृष्टवशतो गुणाः । जायन्तेऽथ प्रलीयन्ते सुषुप्तेऽदृष्टसंक्षयात् ॥ ९०॥ चितिमत्त्वाच्चेतनोऽयमिच्छाद्वेषप्रयत्नवान् । स्याद्धर्माधर्मयोः कर्ता भोक्ता दुःखादिमत्त्वतः ॥ ९१॥ यथाअत्र कर्मवशतः कादादिकं मुखादिकम् । तथा लोकान्तरे देहे कर्मणेच्छादि जन्यते ॥ ९२॥ एवं च सर्वगस्यापि सम्भवेतां गमागमौ । कर्मकाण्डः समग्रोऽत्र प्रमाणमिति तेऽवदन् ॥ ९३॥ आनन्दमयकोषो यः सुषुप्तौ परिशिष्यते । अस्पष्टचित्स आत्मैषां पूर्वकोशोऽस्य ते गुणाः ॥ ९४॥ गूढं चैतन्यमुत्प्रेक्ष्य बोधाबोधस्वरूपताम् । आत्मनो ब्रुवते भाट्टाश्चिदुत्प्रेक्ष्योत्थितस्मृतेः ॥ ९५॥ जडो भूत्वा तदास्वाप्समिति जाड्यस्मृतिस्तदा । विना जाड्यानुभूतिं न कथंचिदुपपद्यते ॥ ९६॥ द्रष्टुर्दृष्टेरलोपश्च श्रुतः सुप्तौ ततस्त्वयम् । अप्रकाशप्रकाशाभ्यामात्मा खद्योतवद्युतः ॥ ९७॥ निरंशस्योभयात्मत्वं न कथंचिद्घटिष्यते । तेन चिद्रूप एवात्मेत्याहुः सांख्या विवेकिनः ॥ ९८॥ जाड्यांशः प्रकृतेरूपं विकारि त्रिगुणं च तत् । चितो भोगापवर्गार्थं प्रकृतिः सा प्रवर्तते ॥ ९९॥ असङ्गायाश्चितेर्बन्धमोक्षौ भेदाग्रहान्मतौ । बन्धमोक्षव्यवस्थार्थं पूर्वेषामिव चिद्भिदा ॥ १००॥ महतः परमव्यक्तमिति प्रकृतिरुच्यते । श्रुताक्सङ्गता तद्वदसङ्गो हीत्यतः स्फुटा ॥ १०१॥ चित्सन्निधौ प्रवृत्ताया प्रकृतेर्हि नियामकम् । ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः ॥ १०२॥ प्रधानक्षेत्रज्ञपतिर्गुणेश इति हि श्रुतिः । आरण्यके संभ्रमेण ह्यन्तर्याम्युपपादितः ॥ १०३॥ अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । वाक्यान्यपि यथाप्रज्ञं दार्ढ्यायोदाहरन्ति हि ॥ १०४॥ क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः । पुंविशेषो भवेदीशो जीववत्सोऽप्यसङ्गचित् ॥ १०५॥ तथापि पुंविशेषत्वाद्घटतेऽस्य नियन्तृता । अव्यवस्थौ बन्धमोक्षावापतेतामिहान्यथा ॥ १०६॥ भीषास्मादित्येवमादावसङ्गस्य परात्मनः । श्रुतं तद्युक्तमप्यस्य क्लेशकर्माद्यसङ्गमात् ॥ १०७॥ जीवानामप्यसङ्गत्वात्क्लेशादि न ह्यथापि च । विवेकाग्रहतः क्लेशकर्मादि प्रागुदीरितम् ॥ १०८॥ नित्यज्ञानप्रयत्नेच्छागुणानीशस्य मन्वते । असङ्गस्य नियन्तृत्वमयुक्तमिति तार्किकाः ॥ १०९॥ पुंविशेषत्वमप्यस्य गुणैरेव न चान्यथा । सत्यकामः सत्यसंकल्प इत्यादिश्रुतिर्जगौ ॥ ११०॥ नित्यज्ञानादिमत्त्वेऽस्य सृष्टिरेव सदा भवेत् । हिरण्यगर्भ ईशोऽतो लिङ्गदेहेन संयुतः ॥ १११॥ उद्गीथब्राह्मणे तस्य माहात्म्यमतिविस्तृतम् । लिङ्गसत्त्वेऽपि जीवत्वं नास्य कर्माद्यभावतः ॥ ११२॥ स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते । वैराजो देह ईशोऽतः सर्वतो मस्तकादिमान् ॥ ११३॥ सहस्रशीर्षेत्येवं हि विश्वतश्चक्षुरित्यपि । श्रुतमित्याहुरनिशं विश्वरूपस्य चिन्तकाः ॥ ११४॥ सर्वतः पाणिपादत्वे कृम्यादेरपि चेशता । ततश्चतुर्मुखो देव एवेशो नेतरः पुमान् ॥ ११५॥ पुत्रार्थं तमुपासीना एवमाहुः प्रजापतिः । प्रजा असृजतेत्यादिश्रुतिश्चोदाहरन्त्यमी ॥ ११६॥ विष्णोर्नाभेः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥ ११७॥ शिवस्य पादावन्वेष्टुं शार्ङ्ग्यशक्तस्ततः शिवः । ईशो न विष्णुरित्याहुः शैवा आगममानिनः ॥ ११८॥ पुरत्रयं सादयितुं विघ्नेशं सोऽप्यपूजयत् । विनायकं प्राहुरीशं गाणपत्यमते रताः ॥ ११९॥ एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा । मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे ॥ १२०॥ अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः । सन्त्यश्वत्थार्कवंशादेः कुलदैवत्वदर्शनात् ॥ १२१॥ तत्त्वनिश्चयकामेन न्यायागमविचारिणाम् । एकैव प्रतिपत्तिः स्यात्साप्यत्र स्फुटमुच्यते ॥ १२२॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १२३॥ इति श्रुत्यनुसारेण न्यायो निर्णय ईश्वरे । तथा सत्यविरोधः स्यात्स्थावरान्तेशवादिनाम् ॥ १२४॥ माया चेयं तमोरूपा तापनीये तदीरणात् । अनुभूतिं तत्र मानं प्रतियज्ञे श्रुतिः स्वयम् ॥ १२५॥ जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः । आबालगोपं स्पष्टत्वादानन्त्यं तस्य साब्रवीत् ॥ १२६॥ अचिदात्मघटादिनां यत्स्वरूपं जडं हि तत् । यत्र कुण्ठीभवेद्बुद्धिः स मोह इति लौकिकाः ॥ १२७॥ इत्थं लौकिकदृष्ट्यैतत्सर्वैरप्यनुभूयते । युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदितिश्रुतेः ॥ १२८॥ नासदासीद्विभातत्वान्नो सदासीच्च बाधनात् । विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ॥ १२९॥ तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः ॥ १३०॥ अस्य सत्त्वमसत्त्वं च जगतो दर्शयत्यसौ । प्रसारणाच्च संकोचाद्यथा चित्रपटस्तथा ॥ १३१॥ अस्वतन्त्रा हि माया स्यादप्रतीतेर्विना चितिम् । स्वतन्त्रापि तथैव स्यादसङ्गस्यान्यथाकृतेः ॥ १३२॥ कूटस्थासङ्गमात्मानं जडत्त्वेन करोति सा । चिदाभासस्वरूपेण जीवेशावपि निर्ममे ॥ १३३॥ कूटस्थमनुपाऋत्य करोति जगदादिकम् । दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः ॥ १३४॥ द्रवत्वमुदके वह्नावुष्ण्यं काठिन्यमश्मनि । मायाया दुर्घटत्वं च स्वतः सिद्ध्यति नान्यथा ॥ १३५॥ न वेत्ति मायिनं लोको यावत्तावच्चमत्कृतिम् । धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति ॥ १३६॥ प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु । न चोदनीयं मायायां तस्याच्चोद्यैकरूपतः ॥ १३७॥ चोद्येऽपि यदि चोद्यं स्यात्तच्चोद्ये चोद्यते मया । परिहार्यं ततश्चोद्यं न पुनः प्रतिचोद्यताम् ॥ १३८॥ विस्मयैकशरीराया मायायाश्चोद्यरूपतः । अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः ॥ १३९॥ मायात्वमेव निश्चेयमिति चेत्तर्हि निश्चिनु । लोकप्रसिद्धमायाया लक्षणं यत्तदीक्ष्यताम् ॥ १४०॥ न निरूपयितुं शक्या विस्पष्टं भासते च या । सा मायेतीन्द्रजालादौ लोकाः सम्प्रतिपेदिरे ॥ १४१॥ स्पष्टं भाति जगच्चेदमशक्यं तन्निरूपणम् । मायामयं जगत्तस्मादीक्षस्वापक्षपाततः ॥ १४२॥ निरूपयितुमारब्धे निखिलैरपि पण्डितैः । अज्ञानं पुरतस्तेषां भाति कक्षासु कासुचित् ॥ १४३॥ देहेन्द्रियादयो भावा वीर्येणोत्पादिताः कथम् । कथं वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम् ॥ १४४॥ वीर्यस्यैष स्वभावश्चेत्कथं तद्विदितं त्वया । अन्वयव्यतिरेकौ यौ भग्नौ तौ व्यर्थवीर्यतः ॥ १४५॥ न जानामि किमप्येतदित्यन्ते शरणं तव । अत एव महन्तोऽस्याः प्रवदन्तीन्द्रजालताम् ॥ १४६॥ एतस्मान्किमिवेन्द्रजालमपरं यद्गर्भवासस्थितम् रेतश्चेतति हस्तमस्तकपदं प्रोद्भूतनानाङ्कुरम् । पर्यायेण शिशुत्वयौवनजरारोगैरनेकैर्वृतम् पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथागच्छति ॥ १४७॥ देहवद्वटधानादौ सुविचार्यावलोक्यताम् । क्व धाना कुत्र वा वृक्षस्तस्मान्मायेति निश्चिनु ॥ १४८॥ निरुक्तावभिमानं ये दधते तार्किकादयः । हर्षमिश्रादिभिस्ते तु खण्डनादौ सुशिक्षिताः ॥ १४९॥ अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत् । अचिन्त्यरचनारूपं मनसापि जगत्खलु ॥ १५०॥ अचिन्त्यरचनाशक्तिबीजं मायेति निश्चिनु । मायाबीजं तदेवैकं सुषुप्तावनुभूयते ॥ १५१॥ जाग्रत्स्वप्नजगत्तत्र लीनं बीज इव द्रुमः । तस्मादशेषजगतो वासनास्तत्र संस्थिताः ॥ १५२॥ या बुद्धिवासनास्तासु चैतन्यं प्रतिबिम्बति । मेघाकाशवदस्पष्टश्चिदाभासोऽनुमीयताम् ॥ १५३॥ साभासमेव तद्बीजं धीरूपेण प्ररोहति । अतो बुद्धौ चिदाभासो विस्पष्टं प्रतिभासते ॥ १५४॥ मायाभासेन जीवेशौ करोतीति श्रुतौ श्रुतम् । मेघाकाशजलाकाशाविव तौ सुव्यवस्थितौ ॥ १५५॥ मेघवद्वर्तते माया मेघस्थिततुषारवत् । धीवासनाश्चिदाभासस्तुषारस्थखवत्स्थितः ॥ १५६॥ मायाधीनश्चिदाभासः श्रुतौ मायी महेश्वरः । अन्तर्यामी च सर्वज्ञो जगद्योनिः स एव हि ॥ १५७॥ सौषुप्तमानन्दमयं प्रक्रम्यैवं श्रुतिर्जगौ । एष सर्वेश्वर इति सोऽयं वेदोक्त ईश्वरः ॥ १५८॥ सर्वज्ञत्वादिके तस्य नैव विप्रतिपद्यताम् । श्रौतार्थस्यावितर्क्यत्वान्मायायां सर्वसम्भवात् ॥ १५९॥ अयं यत्सृजते विश्वं तदन्यथयितुं पुमान् । न कोऽपि शक्तस्तेनायं सर्वेश्वर इति ईरितः ॥ १६०॥ अशेषप्राणिबुद्धीनां वासनास्तत्र संस्थिताः । ताभिः क्रोडीकृतं सर्वं तेन सर्वज्ञ ईरितः ॥ १६१॥ वासनानां परोक्षत्वात्सर्वज्ञत्वं न हीक्ष्यते । सर्वबुद्धिषु तद्दृष्ट्वा वासनास्वनुमीयताम् ॥ १६२॥ विज्ञानमयमुख्येषु कोषेष्वन्यत्र चैव हि । अन्तस्तिष्ठन्यमयति तेनान्तर्यामितां व्रजेत् ॥ १६३॥ बुद्धौ तिष्ठन्नान्तरोऽस्याधियानीक्ष्यश्च धीवपुः । धियमन्तर्यमयतीत्येवं वेदेन घोषितम् ॥ १६४॥ तन्तुः पटे स्थितो यद्वदुपादानतया तथा । सर्वोपादानरूपत्वात्सर्वत्रायमवस्थितः ॥ १६५॥ पटादप्यान्तरस्तन्तुस्तन्तोरप्यंशुरान्तरः । आन्तरत्वस्य विश्रान्तिर्यत्रासावनुमीयताम् ॥ १६६॥ द्वित्र्यान्तरत्वकक्षाणां दर्शनेऽप्ययमान्तरः । न वीक्ष्यते ततो युक्तिश्रुतिभ्यामेव निर्णयः ॥ १६७॥ पटरूपेण संस्थानात्पटस्तन्तोर्वपुर्यथा । सर्वरूपेण संस्थानात्सर्वमस्य वपुस्तथा ॥ १६८॥ तन्तोः संकोचविस्तारचलनादौ पटस्तथा । अवश्यमेव भवति न स्वातन्त्र्यं पटे मनाक् ॥ १६९॥ तथान्तर्याम्ययं यत्र यया वासनया यथा । विक्रीयते तथावश्यं भवत्येव न संशयः ॥ १७०॥ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १७१॥ सर्वभूतानि विज्ञानमयास्ते हृदये स्थिताः । तदुपादानभूतेशस्तत्र विक्रियते खलु ॥ १७२॥ देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिसिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥ १७३॥ विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः । स्वशक्त्येशो विक्रियते मायया भ्रामणं हि तत् ॥ १७४॥ अन्तर्यमयतीत्युक्त्या यमेवार्थः श्रुतौ श्रुतः । पृथिव्यादिषु सर्वत्र न्यायोऽयं योज्यतां धिया ॥ १७५॥ जानामि धर्मं न च मे प्रवृत्ति- र्जानाम्यधर्मं न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ १७६॥ नार्थः पुरुषकारेणेत्येवं मा शंक्यतां यतः । ईशः पुरुषकारस्य रूपेणापि विवर्तते ॥ १७७॥ ईदृग्बोधेनेश्वरस्य प्रवृत्तिर्मैव वार्यताम् । तथापीशस्य बोधेन स्वात्मासङ्गत्वधीजनिः ॥ १७८॥ तावता मुक्तिरित्याहुः श्रुतयः स्मृतयस्तथा । श्रुतिस्मृती ममैवाज्ञे इत्यपीश्वरभाषितम् ॥ १७९॥ आज्ञाया भीतिहेतुत्वं भीषास्मादिति हि श्रुतम् । सर्वेश्वरत्वमेतत्स्यादन्तर्यामित्वतः पृथक् ॥ १८०॥ एतस्य वा अक्षरस्य प्रशासन इति श्रुतिः । अन्तः प्रविष्टः शास्तायं जनानामिति च श्रुतिः ॥ १८१॥ जगद्योनिर्भवेदेष प्रभवाप्ययकृद्यतः । आविर्भावतिरोभावावुत्पत्तिप्रलयौ मतौ ॥ १८२॥ आविर्भावयति स्वस्मिन्विलीनं सकलं जगत् । प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः ॥ १८३॥ पुनस्तिरोभावयति स्वात्मन्येवाखिलं जगत् । प्राणिकर्मक्षयवशात्संकोचितपटो यथा ॥ १८४॥ रात्रिघस्रौ सुप्तिबोधावुन्मीलननिमीलने । तूष्णींभावमनोराज्ये इव सृष्टिलयाविमौ ॥ १८५॥ आविर्भावतिरोभावशक्तिमत्त्वेन हेतुना । आरम्भपरिणामादिचोद्यानां नात्र सम्भवः ॥ १८६॥ अचेतनानां हेतुः स्याज्जाड्यांशेनेश्वरस्तथा । चिदाभासांशतस्त्वेष जीवानां कारणं भवेत् ॥ १८७॥ तमः प्रधानः क्षेत्राणां चित्प्रधानाश्चिदात्मनाम् । परः कारणतामेति भावनाज्ञानकर्मभिः ॥ १८८॥ इति वार्तिककारेण जडचेतनहेतुता । परमात्मन एवोक्ता नेश्वरस्येति चेच्छ्हृणु ॥ १८९॥ अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव । ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥ १९०॥ सत्यं ज्ञानमनन्तं यद्ब्रह्म तस्मात्समुत्थिताः । खं वाय्वग्निजलोर्व्योषध्यन्नदेहाः इति श्रुतिः ॥ १९१॥ आपातदृष्टितस्तत्र ब्रह्मणो भाति हेतुता । हेतोश्च सत्यता तस्मादन्योन्याध्यास इष्यते ॥ १९२॥ अन्योन्याध्यासरूपोऽसावन्नलिप्तः पटो यथा । घट्टितेनैकतामेति तद्वद्भ्रान्तैकतांगतः ॥ १९३॥ मेघाकाशमहाकाशौ विविच्येते न पामरैः । तद्वद्ब्रह्मएशयोरैक्यं पश्यन्त्यापातदर्शिनः ॥ १९४॥ उपक्रमादिभिर्लिङ्गैस्तात्पर्यस्य विचारणात् । असङ्गं ब्रह्म मायावी सृजत्येष महेश्वरः ॥ १९५॥ सत्यं ज्ञानमनन्तं चेत्युपक्रम्योपसंहृतः । यतो वाचो निवर्तन्ते इत्यसङ्गत्वनिर्णयः ॥ १९६॥ मायी सृजति विश्वं संनिरुद्धस्तत्र मायया । अन्य इत्यपरा ब्रूते श्रुतिस्तेनेश्वरः सृजेत् ॥ १९७॥ आनन्दमय ईशोऽयं बहु स्यामित्यवैक्षत । हिरण्यगर्भरूपोऽभूत्सुप्तिः स्वप्नो यथा भवेत् ॥ १९८॥ क्रमेण युगपद्वैषा सृष्टिर्ज्ञेया यथाश्रुति । द्विविधश्रुतिसद्भावाद्द्विविधस्वप्नदर्शनात् ॥ १९९॥ सूत्रात्मा सूक्ष्मदेहाख्यः सर्वजीवघनात्मकः । सर्वाहंमानधारित्वात्क्रियाज्ञानादिशक्तिमान् ॥ २००॥ प्रत्यूषे वा प्रदोषे वा मग्नो मन्दे तमस्ययम् । लोको भाति यथा तद्वदस्पष्टं जगदीक्ष्यते ॥ २०१॥ सर्वतो लाञ्छितो मस्या यथा स्याद्घट्टितः पटः । सूक्ष्माकारैस्तथेशस्य वपुः सर्वत्र लाञ्छितम् ॥ २०२॥ शस्यं वा शाकजातं वा सर्वतोऽङ्कुरितं यथा । कोमलं तद्वदेवैष पेलवो जगदङ्कुरः ॥ २०३॥ आतपाभातलोको वा पटो वा वर्णपूरितः । शस्यं वा फलितं यदवत्तथा स्पष्टवपुर्विराट् ॥ २०४॥ विश्वरूपाध्याय एष उक्तः सूक्तेऽपि पौरुषे । धात्रादिस्तम्बपर्यन्तानेतस्यावयवान् विदुः ॥ २०५॥ ईशसूत्रविराट्वेधोविष्णुरुद्रएन्द्रवह्नयः । विघ्नभैरवमैरालमारिका यक्षराक्षसाः ॥ २०६॥ विप्रक्षत्रियविट्शूद्रा गवाश्वमृगपक्षिणः । अश्वत्थवटचूताद्या यववृहितृणादयः ॥ २०७॥ जलपाषाणमृत्काष्ठवास्याकुद्दालकादयः । ईश्वराः सर्व एवैते पूजिताः फलदायिनः ॥ २०८॥ यथा यथोपासते तं फलमीयुस्तथा तथा । फलोत्कर्षापकर्षौ तु पूज्यपूजानुसारतः ॥ २०९॥ मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । स्वप्रबोधं विना नैव स्वस्वप्नं हीयते यथा ॥ २१०॥ अद्वितीयब्रह्मतत्त्वे स्वप्नोऽयमखिलं जगत् । ईशजीवाद्रूपेण चेतनाचेतनात्मकम् ॥ २११॥ आनन्दमयविज्ञानमयावीश्वरजीवकौ । मायया कल्पितावेतौ ताभ्यां सर्वं प्रकल्पितम् ॥ २१२॥ ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ २१३॥ अद्वितीयं ब्रह्मतत्त्वमसङ्गं तन्न जानते । जीवएशयोर्मायिकयोर्वृथैव कलहं ययुः ॥ २१४॥ ज्ञात्वा सदा तत्त्वनिष्ठाननुमोदामहे वयम् । अनुशोचाम एवान्यान्न भ्रान्तैर्विवदामहे ॥ २१५॥ तृणार्चकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः । लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥ २१६॥ अद्वितीयब्रह्मतत्त्वं न जानन्ति यदा तदा । भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥ २१७॥ उत्तमाधमभावश्चेत्तेषां स्यादस्तु तेन किम् । स्वप्नस्थराज्यभिक्षाभ्यां न बुद्धः स्पृश्यते खलु ॥ २१८॥ तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः । कार्या किंतु ब्रह्मतत्त्वं विचार्य बुध्यतां च तत् ॥ २१९॥ पूर्वपक्षतया तौ चेत्तत्त्वनिश्चयहेतुताम् । प्राप्नुतोऽस्तु निमज्जस्य तयोर्नैतावता वशः ॥ २२०॥ असङ्गचिद्विभुर्जीवः सांख्योक्तस्तादृगीश्वरः । योगोक्तस्तत्त्वमोरर्थौ शुद्धौ ताविति चेच्छृणु ॥ २२१॥ न तत्त्वमोरुभावार्थावस्मत्सिद्धान्ततां गतौ । अद्वैतबोधनायैव सा कक्षा काचिदिष्यते ॥ २२२॥ अनादिमायया भ्रान्ता जीवेशौ सुविलक्षणौ । मन्यन्ते तद्व्युदासाय केवलं शोधनं तयोः ॥ २२३॥ अत एवात्र दृष्टान्तो योग्यः प्राक्सम्यगीरितः । घटाकाशमहाकाशजलाकाशाभ्रखात्मकः ॥ २२४॥ जलाभ्रोपाध्यधीने ते जलाकाशाभ्रखे तयोः । आधारौ तु घटाकाशमहाकाशौ सुनिर्मलौ ॥ २२५॥ एवमानन्दविज्ञानमयौ मायाधियोर्वशौ । तदधिष्ठानकूटस्थब्रह्मणी तु सुनिर्मले ॥ २२६॥ एतत्कक्षोपयोगेन सांख्ययोगौ मतौ यदि । देहोऽन्नमयकक्षत्वादात्मत्वेनाभ्युपेयताम् ॥ २२७॥ आत्मभेदो जगत्सत्यमीशोऽन्य इति चेत्त्रयम् । त्यज्यते तैस्तदा सांख्ययोगवेदान्तसंमतिः ॥ २२८॥ जीवासङ्गत्वमात्रेण कृतार्थ इति चेत्तदा । स्रक्चन्दनादिनित्यत्वमात्रेणापि कृतार्थता ॥ २२९॥ यथा स्रगादिनित्यत्वं दुःसम्पाद्यं तथात्मनः । असङ्गत्वं न सम्भाव्यं जीवतोर्जगदीशयोः ॥ २३०॥ अवश्यं प्रकृतिः सङ्गं पुरेवापादयेत्तथा । नियच्छत्येतमीशोऽपि कोऽस्य मोक्षस्तथा सति ॥ २३१॥ अविवेककृतः सङ्गो नियमश्चेति चेत्तदा । बलादापतितो मायावादः सांख्यस्य दुर्मतेः ॥ २३२॥ बन्धमोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् । इति चेन्न यतो माया व्यवस्थापयितुं क्षमा ॥ २३३॥ दुर्घटं घटयामीति विरुद्धं किं न पश्यसि । वास्तवौ बन्धमोक्षौ तु श्रुतिर्न सहतेतराम् ॥ २३४॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २३५॥ मायाख्याया कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिबतां द्वैतं तत्त्वं त्वद्वैतमेव हि ॥ २३६॥ कूटस्थब्रह्मणोर्भेदो नाममात्रादृते न हि । घटाकाशमहाकाशौ वियुज्येते न हि क्वचित् ॥ २३७॥ यदद्वैतं श्रुतं सृष्टेः प्राक्तदेवाद्य चोपरि । मुक्तावपि वृथा माया भ्रामयत्यखिलान् जनान् ॥ २३८॥ ये वदन्तीत्थमेतेऽपि भ्राम्यन्तेऽविद्ययात्र किम् । न यथा पूर्वमेतेषामत्र भ्रान्तेरदर्शनात् ॥ २३९॥ ऐहिकामुष्मिकः सर्वः संसारो वास्तवस्ततः । न भाति नास्ति चाद्वैतमित्यज्ञानिविनिश्चयः ॥ २४०॥ ज्ञानीनां विपरीतोऽस्मान्निश्चयः सम्यगीक्ष्यते । स्वस्वनिश्चयतो बद्धो मुक्तोऽहं वेति मन्यते ॥ २४१॥ नाद्वैतमपरोक्षं चेन्न चिद्रूपेण भासनात् । अशेषेण न भातं चेद्द्वैतं किं भासतेऽखिलम् ॥ २४२॥ दिङ्मात्रेण विभानं तु द्वयोरपि समं खलु । द्वैतसिद्धिवदद्वैतसिद्धिस्त्वेतावता न किम् ॥ २४३॥ द्वैतेन हीनमद्वैतं द्वैतज्ञाने कथं त्विदम् । चिद्भानं त्वविरोध्यस्य द्वैतस्यातोऽसमे उभे ॥ २४४॥ एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः । तेन वास्तवमद्वैतं परिशेषाद्विभासते ॥ २४५॥ अचिन्त्यरचनारूपं मायैव सकलं जगत् । इति निश्चित्य वस्तुत्वमद्वैते परिशेष्यताम् ॥ २४६॥ पुनर्द्वैतस्य वस्तुत्वं भाति चेत्त्वं तथा पुनः । परिशीलय को वात्र प्रयासस्तेन ते वद ॥ २४७॥ कियन्तं कालमिति चेत्खेदोऽयं द्वैत इष्यताम् । अद्वैते तु न युक्तोऽयं सर्वानार्थनिवारणात् ॥ २४८॥ क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् । मच्छब्दवाच्येऽहङ्कारे दृश्यतां नेति को वदेत् ॥ २४९॥ चिद्रूपेऽपि प्रसज्येरन् तादात्म्याध्यासतो यदि । माध्यासं कुरु किन्तु त्वं विवेकं कुरु सर्वदा ॥ २५०॥ झटित्यध्यास आयाति दृढवासनयेति चेत् । आवर्तयेत्द्विवेकं च दृढं वासयितुं सदा ॥ २५१॥ विवेके द्वैतमिथ्यात्वं युक्त्यै वेति न मण्यताम् । अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी ॥ २५२॥ चिदप्यचिन्त्यरचना यदि तर्ह्यस्तु नो वयम् । चितिं स्वचिन्त्यरचनां ब्रूमो नित्यत्वकारणात् ॥ २५३॥ प्रागभावो नानुभूतश्चितेर्नित्या ततश्चितिः । द्वैतस्य प्रागभावस्तु चैतन्येनानुभूयते ॥ २५४॥ प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् । तथापि रचना चिन्त्या मिथ्या तेनेन्द्रजालवत् ॥ २५५॥ चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते । नाद्वैतमपरोक्षं चेत्येतन्न व्याहतं कथम् ॥ २५६॥ इत्थं ज्ञात्वाप्यसन्तुष्टाः केचित्कुत इतीर्य ताम् । चार्वाकादेः प्रबुद्धस्याप्यात्मा देहः कुतो वद ॥ २५७॥ सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा । असन्तुष्टाश्च शास्त्रार्थं न त्वीक्षन्ते विशेषतः ॥ २५८॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । इति श्रौतं फलं दृष्टं नेति चेद्दृष्टमेव तत् ॥ २५९॥ यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति । कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः ॥ २६०॥ अहङ्कारचिदात्मानवीकीकृत्याविवेकतः । इदं मे स्यादिदं मे स्यादितीच्छाः कामशब्दिताः ॥ २६१॥ अप्रवेश्य चिदात्मानं पृथक्पश्यन्नहङ्कृतिम् । इच्छस्तु कोटिवस्तूनि न बाधो ग्रन्थिभेदतः ॥ २६२॥ ग्रन्थिभेदेऽपि सम्भाव्या इच्छाः प्रारब्धदोषतः । बुध्वापि पापबाहुल्यादसन्तोषो यथा तव ॥ २६३॥ अहङ्कारगतेच्छाद्यैर्देहव्याधिदिभिस्तथा । वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत् ॥ २६४॥ ग्रन्थिभेदात्पुराप्येवमिति चेत्तन्न विस्मर । अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् ॥ २६५॥ नैवं जानन्ति मूढाश्चेत्सोऽयं ग्रन्थिर्नचापरः । ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः ॥ २६६॥ प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोधियाम् । न किंचिदपि वैषम्यमस्त्यज्ञानिविबुद्धयोः ॥ २६७॥ व्रात्यश्रोत्रिययोर्वेदपाठापाठकृताभिदा । नाहारादवस्ति भेदः सोऽयं न्यायोऽत्र योज्यताम् ॥ २६८॥ न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति । उदासीनवदासीन इति ग्रन्थिभिदोच्यते ॥ २६९॥ औदासीन्यं विधेयं चेद्वच्छशब्द व्यर्थता तदा । न शक्ता ह्यस्य देहाद्या इति चेद्रोग एव सः ॥ २७०॥ तत्त्वबोधं क्षयव्याधिं मन्यन्ते ये महाधियः । तेषं प्रज्ञातिविशदा किं तेषां दुःशकं वद ॥ २७१॥ भरतादेरप्रवृत्तिः पुराणोक्तेति चेत्तदा । जक्षत्क्रीडन्रतिं विन्दन्नित्यश्रौषीर्न किं श्रुतिम् ॥ २७२॥ न ह्याहारादि सन्त्यज्य भरताद्याः स्थिताः क्वचित् । काष्ठपाषाणवत्किन्तु सङ्गभीता उदासते ॥ २७३॥ सङ्गी हि बाध्यते लोके निःसङ्गः सुखमश्नुते । तेन सङ्गः परित्याज्यः सर्वदा सुखमिच्छता ॥ २७४॥ अज्ञात्वा शास्त्रहृदयं मूढो वक्त्यन्यथान्यथा । मूर्खाणां निर्णय स्वास्तामस्मत्सिद्धान्त उच्यते ॥ २७५॥ वैराग्यबोधोपरमाः सहायास्ते परस्परम् । प्रायेण सह वर्तन्ते वियुज्यन्ते क्वचित्क्वचित् ॥ २७६॥ हेतुस्वरूपकार्याणि भिन्नान्येषामसंकरः । यथावदवगन्तव्यः शास्त्रार्थप्रविविच्यता ॥ २७७॥ दोषदृष्टिर्जिहासा च पुनर्भोगेष्वदीनता । असाधारणहेत्वाद्या वैराग्यस्य त्रयोऽप्यमी ॥ २७८॥ श्रवणादित्रयं तद्वत्तत्त्वमित्थाविवेचनम् । पुनर्ग्रन्थेरनुदयो बोधस्येते त्रयो मताः ॥ २७९॥ यमादिर्धीनिरोधश्च व्यवहारस्य संक्षयः । स्युर्हेत्वाद्या उपरतेरित्यसंकर ईरितः ॥ २८०॥ तत्त्वबोधः प्रधानं स्यात्साक्षान्मोक्ष प्रदत्वतः । बोधोपकारिणावेतौ वैराग्योपरमावुभौ ॥ २८१॥ त्रयोऽप्यत्यन्तपक्वाश्चेन्महतस्तपसः फलम् । दुरितेन क्वचित्किंचित्कदाचित्प्रतिबध्यते ॥ २८२॥ वैराग्योपरती पूर्णे बोधस्तु प्रतिबध्यते । यस्य तस्य न मोक्षोऽस्ति पुण्यलोकस्तपोबलात् ॥ २८३॥ पूर्णे बोधे तदन्यौ द्वौ प्रतिबद्धौ यदा तदा । मोक्षो विनिश्चितः किन्तु दृष्टदुःखं न नश्यति ॥ २८४॥ ब्रह्मलोकतृणीकारो वैराग्यस्यावधिर्मतः । देहात्मवत्परात्मत्वदार्ढ्ये बोधः समाप्यते ॥ २८५॥ सुप्तिवद्विस्मृतिः सीमा भवेदुपरमस्य हि । दिशानया विनिश्चेयं तारतम्यमवान्तरम् ॥ २८६॥ आरब्धकर्मनानात्वाद्बुद्धानामन्यथान्यथा । वर्तनन्तेन शास्त्रार्थे भ्रमितव्यं न पण्डितैः ॥ २८७॥ स्वस्वकर्मानुसारेण वर्ततन्तां ते यथा तथा । अविशिष्टः सर्वबोधः समा मुक्तिरिति स्थितिः ॥ २८८॥ जगच्चित्रं स्वचैतन्ये पटे चित्रमिवार्पितम् । मायया तदपेक्षैव चैतन्ये परिशिष्यताम् ॥ २८९॥ चित्रदीपमिमं नित्यं येऽनुसन्दधते बुधाः । पश्यन्तोऽपि जगच्चित्रं ते मुह्यन्ति न पूर्ववत् ॥ २९०॥ इति चित्रदीपोनाम षष्ठः परिच्छेदः ॥ ६॥
तृप्तिदीपोनाम - सप्तमः परिच्छेदः । आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ १॥ अस्याः श्रुतेरभिप्रायः सम्यगत्र विचार्यते । जीवन्मुक्तस्य या तृप्तिः सा तेन विशदायते ॥ २॥ मायाभासेन जीवेशौ करोतीति श्रुतत्वतः । कल्पितावेव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् ॥ ३॥ ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ४॥ भ्रमाधिष्ठानभूतात्मा कूटस्थासङ्गचिद्वपुः । अन्योन्याध्यासतोऽसङ्गधीस्थजीवोऽत्र पूरुषः ॥ ५॥ साधिष्ठानो विमोक्षादौ जीवोऽधिक्रियते न तु । केवलो निरधिष्ठानविभ्रान्तेः क्वाप्यसिद्धितः ॥ ६॥ अधिष्ठानांशसंयुक्तं भ्रमांशमवलम्बते । यदा तदाहं संसारीत्येवं जीवोऽतिमन्यते ॥ ७॥ भ्रमांशस्य तिरस्कारादधिष्ठानप्रधानता । यदा तदा चिदात्माहमसङ्गोऽस्मीति बुद्ध्यते ॥ ८॥ नासङ्गेऽहंकृतिर्युक्ता कथमस्मीति चेच्छृणु । एको मुख्यो द्वावमुख्यावित्यर्थस्त्रिविधोऽहमः ॥ ९॥ अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः । एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रपूज्यते ॥ १०॥ पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् । पर्यायेण प्रयुङ्क्तेऽहंशब्दं लोके च वैदिके ॥ ११॥ लौकिकव्यवहारेऽहं गच्छामीत्यादिके बुधः । विविच्यैव चिदाभासं कूटस्थात्तं विवक्षति ॥ १२॥ असङ्गोऽहं चिदात्माहमिति शास्त्रीयदृष्टितः । अहंशब्दं प्रयुङ्क्तेयं कूटस्थे केवले बुधः ॥ १३॥ ज्ञानिताज्ञानिते त्वात्माभासस्यैव न चात्मनः । तथा च कथमाभासः कूटस्थोऽस्मीति बुद्ध्यताम् ॥ १४॥ नायं दोषश्चिदाभासः कूटस्थैकस्वभाववान् । आभासत्वस्य मिथ्यात्वात्कूटस्थत्वावशेषणात् ॥ १५॥ कूटस्थोऽस्मीति बोधोऽपि मिथ्या चेन्नेति को वदेत् । न हि सत्यतयाभीष्टं रज्जुसर्पविसर्पणम् ॥ १६॥ तादृशेनापि बोधेन संसारो विनिवर्तते । यक्षानुरूपो हि बलिरित्याहुर्लौकिका जनाः ॥ १७॥ तस्मादाभासपुरुषः सकूटस्थो विविच्य तम् । कूटस्थोऽस्मीति विज्ञातुमर्हतीत्यभ्यधात् श्रुतिः ॥ १८॥ असंदिग्ध अविपर्यस्त बोधो देह आत्मनीक्ष्यते । तद्वदत्रेति निर्णेतुमयमित्यभिधीयते ॥ १९॥ देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ २०॥ अयमित्यपरोक्षत्वमुच्यते चेत्तदुच्यताम् । स्वयंप्रकाशचैतन्यमपरोक्षं सदा यतः ॥ २१॥ परोक्षमपरोक्षं च ज्ञानमज्ञानमित्यदः । नित्यापरोक्षरूपेऽपि द्वयं स्याद्दशमे यथा ॥ २२॥ नवसंख्याहृतज्ञानो दशमो विभ्रमात्तदा । न वेत्ति दशमोऽस्मीति वीक्ष्यमाणोऽपि तान्नव ॥ २३॥ न भाति नास्ति दशम इति स्वं दहमं तदा । मत्वा वक्ति तदज्ञानकृतमावरणं विदुः ॥ २४॥ नद्यां ममार दशम इति शोचन्प्ररोदिति । अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधः ॥ २५॥ न मृतो दशमोऽस्तीति श्रुत्वाप्तवचनं तदा । परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् ॥ २६॥ त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः । अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति ॥ २७॥ अज्ञान अवृतिविक्षेप द्विविधा ज्ञान तृप्तयः । शोकापगम इत्येते योजनीयाश्चिदात्मनि ॥ २८॥ संसारासक्तचित्तः संश्चिदाभासः कदाचन । स्वयंप्रकाशकूटस्थं स्वतत्त्वं नैव वेत्त्ययम् ॥ २९॥ न भाति नास्ति कूटस्थ इति वक्ति प्रसङ्गतः । कर्ता भोक्ताहमस्मीति विक्षेपं प्रतिपद्यते ॥ ३०॥ अस्ति कूटस्थ इत्यादौ परोक्षं वेत्ति वार्त्तया । पश्चात्कूटस्थ एवास्मीत्येवं वेत्ति विचारतः ॥ ३१॥ कर्ता भोक्तेत्येवमादिशोकजातं प्रमुञ्चति । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यति ॥ ३२॥ अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः । अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरङ्कुशा ॥ ३३॥ सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ । बन्धमोक्षौ स्थितौ तत्र तिस्रो बन्धकृतः स्मृताः ॥ ३४॥ न जानामीत्युदासीनव्यवहारस्य कारणम् । विचारप्रागभावेन युक्तमज्ञानमीरितम् ॥ ३५॥ अमार्गेण विचार्याथ नास्ति नो भाति चेत्यसौ । विपरीतव्यवहृतिरावृतेः कार्यमिष्यते ॥ ३६॥ देहद्वयचिदाभासरूपो विक्षेप ईरितः । कर्तृत्वाद्यखिलः शोकः संसाराख्योऽस्य बन्धकः ॥ ३७॥ अज्ञानमावृतिश्चैते विक्षेपात्प्राक्प्रसिद्ध्यतः । यद्यप्यथाप्यवस्थेते विक्षेपस्यैव नात्मनः ॥ ३८॥ विक्षेपोत्पत्तितः पूर्वमपि विक्षेपसंस्कृतिः । अस्त्येव तदवस्थात्वमविरुद्धं ततस्तयोः ॥ ३९॥ ब्रह्मण्यारोपितत्वेन ब्रह्मावस्थे इमे इति । नशङ्कनीयं सर्वासां ब्रह्मण्येवाधिरोपणात् ॥ ४०॥ संसार्यहं विबुद्धोऽहं निःशोकस्तुष्ट इत्यपि । जीवगा उत्तरावस्था भान्ति न ब्रह्मगा यदि ॥ ४१॥ तर्ह्यज्ञोऽहं ब्रह्मसत्त्वभाने मद्दृष्टितो न हि । इति पूर्वे अवस्थे च भासेते जीवगे खलु ॥ ४२॥ अज्ञानस्याश्रयो ब्रह्मेत्यधिष्ठानतया जगुः । जीवावस्थात्वमज्ञानाभिमानित्वादवादिषम् ॥ ४३॥ ज्ञानद्वयेन नष्टेऽस्मिन्नज्ञाने तत्कृतावृतिः । न भाति नास्ति चेत्येषा द्विविधापि विनश्यति ॥ ४४॥ परोक्षज्ञानतो नश्येदसत्त्वावृत्तिहेतुता । अपरोक्षज्ञाननाश्या ह्यभानावृत्तिहेतुता ॥ ४५॥ अभानावरणे नष्टे जीवत्वारोपसंक्षयात् । कर्तृत्वाद्यखिलः शोकः संसाराख्यः निवर्तते ॥ ४६॥ निवृत्ते सर्वसंसारे नित्यमुक्तत्वभासनात् । निरङ्कुशा भवेत्तृप्तिः पुनः शोकासमुद्भवात् ॥ ४७॥ अपरोक्षज्ञानशोकनिवृत्ताख्ये उभे इमे । अवस्थे जीवगे ब्रूते आत्मानं चेदिति श्रुतिः ॥ ४८॥ अयमित्यपरोक्षत्वमुक्तं तद्द्विविधं भवेत् । विषयस्वप्रकाशत्वाद्धियाप्येवं तदीक्षणात् ॥ ४९॥ परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता । समाब्रह्म स्वप्रकाशमस्तीत्येवं विबोधनात् ॥ ५०॥ अहं ब्रह्मेत्यनुल्लिख्य ब्रह्मास्तीत्येवमुल्लिख्त् । परोक्षज्ञानमेतं न भ्रान्तं बाधानिरूपणात् ॥ ५१॥ ब्रह्म नास्तीति मानं चेत्स्याद्बाध्येत तदा ध्रुवम् । न चैवं प्रबलं मनं पश्यामोऽतो न बाध्यते ॥ ५२॥ व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे स्वर्गधीरपि । भ्रान्तिः स्याद्व्यक्त्यनुल्लेखात्सामान्योल्लेखदर्शनात् ॥ ५३॥ अपरोक्षत्व योग्यस्य न परोक्षमतिर्भ्रमः । परोक्षमित्यनुल्लेखादर्थात्पारोक्ष्यसम्भवात् ॥ ५४॥ अंशागृहीतिर्भ्रान्तिश्चेद् घटज्ञां भ्रमो भवेत् । निरंशस्यापि संशत्वं व्यावर्त्यांशविभेदतः ॥ ५५॥ असत्वांशो निवर्तेत परोक्षज्ञानतस्तथा । अभानांशनिवृत्तिः स्यादपरोक्षधिया कृता ॥ ५६॥ दशमोऽस्तीत्यविभ्रान्तं परोक्षज्ञानमीक्ष्यते । ब्रह्मास्तीत्यपि तद्वत्स्यादज्ञानावरणं समम् ॥ ५७॥ आत्मा ब्रह्मेति वाक्यार्थे निःशेषेण विचारिते । व्यक्तिरुल्लिख्यते यद्वद्दशमस्त्वमसीत्यतः ॥ ५८॥ दशमः क इति प्रश्ने त्वमेवेति निराकृते । गणयित्वा स्वेन सह स्वमेव दशमं स्मरेत् ॥ ५९॥ दशमोऽस्मीति वाक्योत्था न धीरस्य विहन्यते । आदिमध्यावसानेषु न नवत्वस्य संशयः ॥ ६०॥ सदेवेत्यादिवाक्येन ब्रह्मसत्त्वं परोक्षतः । गृहीत्वा तत्त्वमस्यादिवाक्याद्व्यक्तिं समुल्लिखेत् ॥ ६१॥ आदि मध्यावसानेषु स्वस्य ब्रह्मत्वधीरियम् । नैव व्यभिचरेत्तस्मादापरोक्षं प्रतिष्ठितम् ॥ ६२॥ जन्मादिकारणत्वाख्यलक्षणेन भृगुः पुरा । परोक्षेण गृहीत्वाथ विचारात् व्यक्तिमैक्षत ॥ ६३॥ यद्यपि त्वमसीत्यत्र वाक्यं नोचे भृगोः पिता । तथाप्यन्नं प्राणमिति विचार्यस्थलमुक्तवान् ॥ ६४॥ अन्नप्राणादि कोषेषु सुविचार्य पुनः पुनः । आनन्दव्यक्तिमीक्षित्वा ब्रह्मलक्षाप्ययूयुजत् ॥ ६५॥ सत्यं ज्ञानमनन्तं चेत्येवं ब्रह्मस्वलक्षणम् । उक्त्वा गुहाहितत्वेन कोशेष्वेतत् प्रदर्शितम् ॥ ६६॥ पारोक्ष्येण विबुध्येन्द्रो य आत्मेयादिलक्षणात् । अपरोक्षीकर्तुमिच्छंश्चतुर्वारं गुरुं ययौ ॥ ६७॥ आत्मा वा इअदमित्यादौ परोक्षं ब्रह्मलक्षितम् । अध्यारोपापवादाभ्यां प्रज्ञानं ब्रह्म दर्शितम् ॥ ६८॥ अवान्तरेण वाक्येन परोक्षब्रह्मधीर्भवेत् । सर्वत्रैव महावाक्यविचारात्त्वपरोक्षधीः ॥ ६९॥ ब्रह्मापारोक्ष्यसिद्ध्यर्थं महावाक्यमितीरितम् । वाक्यवृत्तावतो ब्रह्मापरोक्ष्ये विमतिर्नहि ॥ ७०॥ आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसम्भिन्नबोधः सत्त्वम्पदाभिधः ॥ ७१॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ७२॥ प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुद्ध्येते यतस्तस्माल्लक्षणा सम्प्रवर्तते ॥ ७३॥ तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ७४॥ संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ७५॥ प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ७६॥ इत्थमन्योऽन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यवर्त्येत तदैव हि । तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवशिष्यते ॥ ७७॥ एवं सति महावाक्यात्परोक्षज्ञानमीर्यते । यैस्तेषां शास्त्रसिद्धान्तविज्ञानं शोभतेतराम् ॥ ७८॥ आस्तां शास्त्रस्य सिद्धान्तो युक्त्या वाक्यात्परोक्षधीः । स्वर्गादिवाक्यवन्नेवं दशमे व्यभिचारतः ॥ ७९॥ स्वतोऽपरोक्षजीवस्य ब्रह्मत्वमभिवांछतः । नश्येत्सिद्धपरोक्षत्वमिति युक्तिर्महत्यहो ॥ ८०॥ वृद्धिमिष्टवतो मूलमपि नष्टमितीरितम् । लौकिकं वचनं सार्थं सम्पन्नं त्वत्प्रसादतः ॥ ८१॥ अन्तःकरणसंभिन्नबोधो जीवोऽपरोक्षताम् । अर्हत्युपाधिसद्भावान्न तु ब्रह्मानुपाधितः ॥ ८२॥ नैवं ब्रह्मत्वबोधस्य सोपाधिविषयत्वतः । यावद्विदेहकैवल्यमुपाधेरनिवारणात् ॥ ८३॥ अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते । उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा ॥ ८४॥ यथा विधिरुपाधिः स्यात्प्रतिषेधस्तथा न किम् । सुवर्णलौहभेदेन शृङ्खलात्वं न भिद्यते ॥ ८५॥ अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च । वेदान्तानां प्रवृत्तिः स्याद्द्विधेत्याचार्यभाषितम् ॥ ८६॥ अहमर्थपरित्यागादहं ब्रह्मेति धीः कुतः । नैवमंशस्य हि त्यागो भागलक्षणयोदितः ॥ ८७॥ अन्तःकरणसन्त्यागादवशिष्टे चिदात्मनि । अहं ब्रह्मेति वाक्येन ब्रह्मत्वं साक्षिणीक्ष्यते ॥ ८८॥ स्वप्रकाशोऽपि साक्ष्येष धीवृत्त्या व्याप्यतेऽन्यवत् । फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ॥ ८९॥ बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ ९०॥ ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । स्वयं स्फुरणरूपत्वान्नाभास उपयुज्यते ॥ ९१॥ चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने तथा । न दीपदर्शने किन्तु चक्षुरेकमपेक्ष्यते ॥ ९२॥ स्थितोऽप्यसौ चिदाभासो ब्रह्मण्येकीभवेत्परम् । न तु ब्रह्मणि अतीशयं फलं कुर्याद्घट आदिवत् ॥ ९३॥ अप्रमेयमनादिं चेत्यत्र श्रुत्येदमीरितम् । मनसैवेदमाप्तव्यमिति धीव्याप्यता श्रुता ॥ ९४॥ आत्मानं चेद्विजानीयादयमस्मीति वाक्यतः । ब्रह्मात्मव्यक्तिमुल्लिख्य यो बोधः सोऽभिधीयते ॥ ९५॥ अस्तु बोधोऽपरोक्षोऽत्र महावाक्यात् तथाप्यसौ । न दृढः श्रवणादीनामाचार्यैः पुनरीरणात् ॥ ९६॥ अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ ९७॥ बाधं सन्ति ह्यदार्ढ्यस्य हेतवः श्रुत्यनेकता । असम्भाव्यत्वमर्थस्य विपरीत च भावना ॥ ९८॥ शाखाभेदात्कामभेदाच्छ्रुतं कर्माण्यथान्यथा । एवमत्रापि माशङ्कीत्यतः श्रवणमाचरेत् ॥ ९९॥ वेदान्तानामशेषाणामादिमध्यावसानतः । ब्रह्मात्मन्येव तात्पर्यमितिधीः श्रवणं भवेत् ॥ १००॥ समन्वयाध्याय एतत्सूक्तं धीस्वास्थ्यकारिभिः । तर्कैः सम्भावनार्थस्य द्वितीयाध्यायः ईरिता ॥ १०१॥ बहुजन्मदृढाभ्यासाद्देहादिष्वात्मधीः क्षणात् । पुनः पुनरुदेत्येवं जगत्सत्यत्वधीरपि ॥ १०२॥ विपरीता भावनेयमैकाग्र्यात्सा निवर्तते । तत्त्वोपदेशात् प्रागेव भवत्येतदुपासनात् ॥ १०३॥ उपास्तयोऽत एवत्र ब्रह्मशास्त्रेऽपि चिन्तिताः । प्रागनभ्यासिनः पश्चाद्ब्रह्माभ्यासेन तद्भवेत् ॥ १०४॥ तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १०५॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहुञ्छब्दान्वाचो विग्लापनं हि तत् ॥ १०६॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ १०७॥ इति श्रुतिस्मृती नित्यमात्मन्येकाग्रतां धियः । विधत्तो विपरीताया भावनायाः क्षयाय हि ॥ १०८॥ यद् यथा वर्तते तस्य तत्त्वं हित्वान्यथात्वधीः । विपरीत भावना स्यात्पित्रादावरिधीर्यथा ॥ १०९॥ आत्मा देहादिभिन्नोऽयं मिथ्या चेदं जगत् तयोः । देहाद्यात्मत्वसत्यत्वधीर्विपर्ययभावना ॥ ११०॥ तत्त्वभावनया नश्येत्सातो देहातिरिक्तताम् । आत्मनो भावयेत्तद्वन्मिथ्यात्वं जगतोऽनिशम् ॥ १११॥ किं मन्त्रजपवन्मूर्तिध्यानवच्चात्मभेदधीः । जगन्मिथ्यात्वधीश्चात्र व्यावर्त्या स्यादुतान्यथा ॥ ११२॥ अन्यथेति विजानीहि दृष्टार्थत्वेन भुक्तिवत् । बुभुक्षुर्जपवद्भुङ्क्ते न कश्चिन्नियतः क्वचित् ॥ ११३॥ अश्नाति वा न वाश्नाति भुङ्क्ते वा स्वेच्छयान्यथा । येन केन प्रकारेण क्षुधामपनिनीशति ॥ ११४॥ नियमेन जपं कुर्यादकृतौ प्रत्यवायतः । अन्यथाकरणेऽनर्थः स्वरवर्णविपर्ययात् ॥ ११५॥ क्षुधेव दृष्टबाधाकृद्विपरीता च भावना । जेया केनाप्युपायेन नास्त्यत्रानुष्ठितेः क्रमः ॥ ११६॥ उपायः पूर्वमेवोक्तस्तच्चिन्ताकथनादिकः । एतदेकपरत्वेऽपि निर्बन्धो ध्यानवन्न हि ॥ ११७॥ मूर्तिप्रत्ययसान्तत्यमन्यानन्तरितं धियः । ध्यानं तत्रातिनिर्बन्धो मनसश्चञ्चलात्मनः ॥ ११८॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ११९॥ अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्न्यशनात् साधो विषम्श्चित्तनिग्रहः ॥ १२०॥ कथनादौ न निर्बन्धः शृङ्खलाबद्धदेहवत् । किन्त्वनन्तेतिहासाद्यैर्विनोदो नाट्यवद्धियः ॥ १२१॥ चिदेवात्मा जगन्मिथ्येत्यत्र पर्यवसानतः । निदिध्यासनविक्षेपो नेतिहासादिभिर्भवेत् ॥ १२२॥ कृषिवाणिज्यसेवादौ काव्यतर्कादिकेषु च । विक्षिप्यते प्रवृत्ता धीस्तैस्तत्त्वस्मृत्यसम्भवात् ॥ १२३॥ अनुसन्दधतैवात्र भोजनादौ प्रवर्तितुम् । शक्यतेऽत्यन्तविक्षेपाभावादाशु पुनः स्मृतेः ॥ १२४॥ तत्त्वविस्मृतिमात्रान्नानर्थः किन्तु विपर्ययात् । विपर्येतुं न कालोऽस्ति झटिति स्मरतः क्वचित् ॥ १२५॥ तत्त्व स्मृतेरवसरो नास्त्यन्याभ्यासशालिनः । प्रत्युताभ्यासघतित्वाद्बलात्तत्त्वमपेक्ष्यते ॥ १२६॥ तमेवैकं विजानीत ह्यन्या वाचो विमुञ्चथ । इति श्रुतं तथान्यत्र वाचो विग्लापनन्त्विति ॥ १२७॥ आहारादि त्यजन्नैव जीवेच्छास्त्रान्तरं त्यजन् । किं न जीवसि येनैवं करोष्यत्र दुराग्रहम् ॥ १२८॥ जनकादेः कथं राज्यमिति चेद्दृढबोधतः । तथा तवापि चेत्तर्कं पठ यद्वा कृषिं कुरु ॥ १२९॥ मिथ्यात्ववासनादार्ढ्ये प्रारब्धक्षयकाङ्क्षया । अक्लिश्यन्तः प्रवर्तन्ते स्वस्वकर्मानुसारतः ॥ १३०॥ अतिप्रसङ्गो मा शक्यः स्वकर्मवशवर्तिनाम् । अस्तु वा कः अत्र शक्येत कर्म वारयितुं वद ॥ १३१॥ ज्ञानिनोऽज्ञानिन्श्चात्र समेऽप्यारब्धकर्मणि । न क्लेषो ज्ञानिनो धैर्यान्मूढः क्लिश्यत्यधैर्यतः ॥ १३२॥ मार्गे गन्त्रोर्द्वयोः श्रान्तौ समायामप्यदूरताम् । जानन्धैर्याद्द्रुतं गच्छेदन्यस्तिष्ठति दीनधीः ॥ १३३॥ साक्षात्कृतात्मधीः सम्यगविपर्ययबाधितः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ १३४॥ जगन्मिथ्यात्वधीभावादाक्षिप्तौ काम्यकामुकौ । तयोरभावे सन्तापः शाम्येन्निःस्नेहदीपवत् ॥ १३५॥ गन्धर्वपत्तने किंचिन्नेन्द्रजालिकनिर्मितम् । जानन् कामयते किन्तु जिहासति हसन्निदम् ॥ १३६॥ आपातरमणीयेषु भोगेष्वेवं विचारवान् । नानुरज्जति किन्त्वेतान् दोषदृष्ट्या जिहासति ॥ १३७॥ अर्थानामर्जने क्लेशस्तथैव परिरक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थान्क्लेशकारिणः ॥ १३८॥ मांसपाञ्चातिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ॥ १३९॥ एवमादिषु शास्त्रेषु दोषाः सम्यक्प्रपञ्चिताः । विमृशन्ननिशन्तानि कथं दुःखेषु मज्जति ॥ १४०॥ क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड्जानन्नामूढस्तज्जिघत्सति ॥ १४१॥ प्रारब्धकर्मप्राबल्याद्भोगेष्विच्छा भवेद्यदि । क्लिश्यनेव तदाप्येष भुङ्क्ते विष्टिगृहीतवत् ॥ १४२॥ भुञ्जानास्तानपि बुधाः श्रद्धावन्तः कुटुम्बिनः । नाद्यापि कर्म नश्छिन्नमिति क्लिश्यन्ति सन्ततम् ॥ १४३॥ नायं क्लेशोऽत्र संसारतापः किन्तु विरक्तता । भ्रान्तिज्ञाननिदानो हि तापः सांसारिकः स्मृतः ॥ १४४॥ विवेकेन परिक्लिश्यन्नल्पभोगेन तृप्यति । अन्यथानन्तभोगेऽपि नैव तृप्यति कर्हिचित् ॥ १४५॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एव अभिवर्धते ॥ १४६॥ परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्चौरी मैत्रीमेति न चौरताम् ॥ १४७॥ मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः । तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥ १४८॥ बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति । परैर्न बद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते ॥ १४९॥ विवेके जाग्रति सति दोषदर्शनलक्षणे । कथमारब्धकर्मापि भोगेच्छां जनयिष्यति ॥ १५०॥ नैष दोषो यतोऽनेकविधं प्रारब्धमीक्ष्यते । इच्छानिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥ १५१॥ अपथ्यसेविन्श्चौरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥ १५२॥ न चात्रैतद्वारयितुमीश्वरेणापि शक्यते । यत ईश्वर एवाह गीतायामर्जुनं प्रति ॥ १५३॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ १५४॥ अवश्यं भाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन् नलरामयुधिष्ठिराः ॥ १५५॥ न चेश्वरत्वमीशस्य हीयते तावता यतः । अवश्यं भाविताप्येषईश्वरेण एव निर्मिता ॥ १५६॥ प्रश्नोत्तराभ्यामेवैतद्गम्यतेऽर्जुनकृष्णयोः । अनिच्छापूर्वकं चास्ति प्रारब्धमिति तच्छृणु ॥ १५७॥ अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ १५८॥ काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ १५९॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १६०॥ नानिच्छन्तो न चेच्छन्तः परदाक्षिण्यसंयुताः । सुखदुःखे भजन्त्येतत्परेच्छा पूर्वकर्म हि ॥ १६१॥ कथं तर्हि किमिच्छन्नित्येवमिच्छा निषिध्यते । नेच्छानिषेधः किन्त्विच्छाबाधो भर्जितबीजवत् ॥ १६२॥ भर्जितानि तु बीजानि सन्त्यकार्यकराणि च । विद्वदिच्छा यथेष्टव्या सत्त्वबोधान्न कार्यकृत् ॥ १६३॥ दग्धबीजमरोहेऽपि भक्षणायोपयुज्यते । विद्वदिच्छाप्यल्पभोगं कुर्यान्न व्यसनं बहु ॥ १६४॥ भोगेन चरितार्थत्वात्प्रारब्धं कर्म हीयते । भोक्तव्यसत्यताभ्रान्त्याव्यसनं तत्र जायते ॥ १६५॥ मा विनश्यत्वयं भोगो वर्धतामुत्तरोत्तरम् । मा विघ्नाः प्रतिबध्नन्तु धन्योऽस्म्यस्मादिति भ्रमः ॥ १६६॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिन्ताविषग्नोऽयं बोधो भ्रमनिवर्तकः ॥ १६७॥ समेऽपि भोगे व्यसनं भ्रान्तो गच्छेन्न बुद्धिमान् । अशक्यार्थस्य सङ्कल्पाद्भ्रान्तस्य व्यसनं बहु ॥ १६८॥ मायामयत्वं भोग्यस्य बुद्ध्वास्थामुपसंहरन् । भुञ्जानोऽपि न सङ्कल्पं कुरुते व्यसनं कुतः ॥ १६९॥ स्वप्नेन्द्रजालसदृशमचिन्त्यरचनात्मकम् । दृष्टनष्टं जगत्पश्यन्कथं तत्रानुरज्जति ॥ १७०॥ स्वस्वप्नमापरोक्षेण दृष्ट्वा पश्यन्स्वजागरम् । चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः ॥ १७१॥ चिरं तयोः सर्वसाम्यमनुसन्धाय जागरे । सत्यत्वबुद्धिं संत्यज्य नानुरज्जति पूर्ववत् ॥ १७२॥ इन्द्रजालमिदं द्वैतमचिन्त्यरचनात्वतः । इत्यविस्मरतो हानिः का वा प्रारब्धभोगतः ॥ १७३॥ निर्बन्धस्तत्त्वविद्याया इन्द्रजालत्वसंस्मृतौ । प्रारब्धस्याग्रहो भोगे जीवस्य सुखदुःखयोः ॥ १७४॥ विद्यारब्धे विरुद्ध्येते न भिन्नविषयत्वतः । जानद्भिरप्यैन्द्रजालो विनोदो दृश्यते खलु ॥ १७५॥ जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि । तदा विरोधि विद्याया भोगमात्रान्न सत्यता ॥ १७६॥ अन्न्यूनो जायते भोगः कल्पितैः स्वप्नवस्तुभिः । जाग्रत्वस्तुभिरप्येवमसत्यैर्भोग इष्यताम् ॥ १७७॥ यदि विद्यापह्नुवित जगत्प्रारब्ध घातिनी । तदा स्यान्न तु मायात्वबोधेन तदपह्नवः ॥ १७८॥ अनपह्नुत्य लोकास्तदिन्द्रजालमिदं त्विति । जानन्त्येवानपह्नुत्य भोगं मायात्वधीस्तथा ॥ १७९॥ यत्र त्वस्य जगत् स्वात्मा पश्येत्कस्तत्र केन किम् । किं जिघ्रेत्किं वदेद्वेति श्रुतौ तु बहु घोषितम् ॥ १८०॥ तेन द्वैतमपह्नुत्य विद्योदेति न चान्यथा । तथा च विदुषो भोगः कथं स्यादिति चेत् शृणु ॥ १८१॥ सुषुप्तिविषया मुक्तिविषया वा श्रुतिस्त्विति । उक्तं स्वाप्ययसम्पत्योरिति सूत्रे ह्यतिस्फुटम् ॥ १८२॥ अन्यया याज्ञवल्क्यादेराचार्यत्वं न सम्भवेत् । द्वैतदृष्टावविद्वत्ता द्वैतादृष्टौ न वाग्वदेत् ॥ १८३॥ निर्विकल्पसमाधौ तु द्वैतादर्शनहेतुतः । सैवापरोक्षविद्येति चेत्सुषुप्तिस्तथा न किम् ॥ १८४॥ आत्मतत्त्वं न जानाति सुप्तौ यदि तदा त्वया । आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः ॥ १८५॥ उभयं मिलितं विद्या यदि तर्हि घटादयः । अर्धविद्याभाजिनः स्युः सकलद्वैतविस्मृतेः ॥ १८६॥ मशकध्वनिमुख्यानां विक्षेपाणां बहुत्वतः । तत्त्वविद्या तथा न स्याद्घटादीनां यथा दृढा ॥ १८७॥ आत्मधीरेव विद्येति यदि तर्हि सुखी भव । दुष्टचित्तं निरुन्ध्याच्चेन्निरुन्धि त्वं यथासुखम् ॥ १८८॥ तदिष्टमेष्टव्यमायामयत्वस्य समीक्षणात् । इच्छन्नप्यज्ञवन्नेच्छेत्किमिच्छन्निति हि श्रुतम् ॥ १८९॥ रागो लिङ्गमबोधस्य सन्तु रागादयो बुधे । इति शास्त्रद्वयं सार्थमेवं सत्यविरोधतः ॥ १९०॥ जगन्मिथ्यात्ववत् स्वात्मासङ्गत्वस्य समीक्षणात् । कस्य कामायेति वचो भोक्त्रभावविवक्षया ॥ १९१॥ पतिजायादिकं सर्वं तत्तद्भोगाय नेच्छति । किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ १९२॥ किं कूटस्थश्चिदाभासोऽथ वा किमुभयात्मकः । भोक्ता तत्र न कूटस्थोऽसङ्गत्वाद्भोक्तृतां व्रजेत् ॥ १९३॥ सुखदुःखाभिमानाख्यो विकारो भोग उच्यते । कूटस्थस्य विकारी चेत्येतन्न व्याहतं कथम् ॥ १९४॥ विकारिबुद्ध्यधीनत्वादाभासे विकृतावपि । निरधिष्ठानविभ्रान्तिः केवला न हि तिष्ठति ॥ १९५॥ उभयात्मक एवातो लोके भोक्ता निगद्यते । तदृगात्मानमारभ्य कूटस्थः शेषितः श्रुतौ ॥ १९६॥ आत्मा कतम इत्युक्ते याज्ञवल्क्यो विबोधयन् । विज्ञानमयमारभ्यासङ्गं तं पर्यशेषयत् ॥ १९७॥ कोऽयमात्मेत्येवमादौ सर्वत्रात्मविचारतः । उभयात्मकमारभ्य कूटस्थः शेष्यते श्रुतौ ॥ १९८॥ कूटस्थसत्यतां स्वस्मिन्नध्यस्यात्मा विवेकतः । तात्विकीं भोक्तृतां मत्वा न कदाचिज्जिहासति ॥ १९९॥ भोक्ता स्वस्यैव भोगाय पतिजायादिमिच्छति । एष लौकिकवृत्तान्तः श्रुत्या सम्यगनूदितः ॥ २००॥ भोग्यानां भोक्तृशेषत्वान्मा भोग्येष्वनुरज्यताम् । भोक्तर्येव प्रधानेऽतोऽनुरागं तं विधित्सति ॥ २०१॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ २०२॥ इति न्यायेन सर्वस्माद्भोग्यजाताद्विरक्तधीः । उपसंहृत्य तां प्रीतिं भोक्तर्येवं बुभुत्सते ॥ २०३॥ स्रक्चन्दनवधूवस्त्रसुवर्णादिषु पामरः । अप्रमत्तो यथा तद्वन्न प्रमाद्यति भोक्तरि ॥ २०४॥ काव्यनाटकतर्कादिमभ्यस्यति निरन्तरम् । विजिगीषुर्यथा तद्वन्मुमुक्षुः स्वं विचारयेत् ॥ २०५॥ जपयागोपासनादि कुरुते श्रद्धया यथा । स्वर्गादिवाञ्छया तद्वच्छ्रद्दध्यात्स्वे मुमुक्षया ॥ २०६॥ चित्तैकाग्र्यं यथा योगी महायासेन साधयेत् । अणिमादिप्रेप्सयैवं विविच्यात्स्वं मुमुक्षया ॥ २०७॥ कौशलानि विवर्धन्ते तेषामभ्यासपाटवात् । यथा तद्वद्विवेकोऽस्याप्यभ्यासाद्विशदायते ॥ २०८॥ विविञ्चता भोक्तृतत्त्वं जाग्रदादिष्वसङ्गता । अन्वयव्यतिरेकाभ्यां साक्षिण्यध्यवसीयते ॥ २९॥ यत्र यद्दृश्यते द्रष्टा जाग्रत्स्वप्नसुषुप्तिषु । तत्रैव तन्नेतरत्रेत्यनुभूतिर्हि संमता ॥ २१०॥ स यत्तत्रेक्षते किंचित्तेनानन्वागतो भवेत् । दृष्ट्वैव पुण्यं पापं चेत्येवं श्रुतिषु डिण्डिमः ॥ २११॥ जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ २१२॥ एक एव आत्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ २१३॥ त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ २१४॥ एवं विवेचिते तत्त्वे विज्ञामयशब्दितः । चिदाभासो विकारी यो भोक्तृत्वं तस्य शिष्यते ॥ २१५॥ मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत्प्रोक्तं तदन्तःपात्ययं यतः ॥ २१६॥ विलोपोऽस्य सुषुप्त्यादौ साक्षिणा ह्यनुभूयते । एतादृशं स्वस्वभावं विविनक्ति पुनः पुनः ॥ २१७॥ विविच्य नाशं निश्चित्य पुनर्भोगं न वाञ्छति । मुमूर्षुः शायितो भूमौ विवाहं कोऽभिवाञ्छति ॥ २१८॥ जिह्रेति व्यवहर्तुं च भोक्ताहमिति पूर्ववत् । छिन्ननाश इव ह्रितः क्लिश्यन्नारब्धमश्नुते ॥ २१९॥ यदा स्वस्यापि भोक्तृत्वं मन्तुं जिह्रेत्ययं तदा । साक्षिण्यारोपयेदेतदिति कैव कथा वृथा ॥ २२०॥ इत्यभिप्रेत्य भोक्तारमाक्षिपत्यविशङ्कया । कस्य कामायेति ततः शरीरानुज्वरो न हि ॥ २२१॥ स्थूलं सूक्ष्मं कारणं च शरीरं त्रिविधं स्मृतम् । अवश्यं त्रिविधोऽस्त्येव तत्र तत्रोचितो ज्वरः ॥ २२२॥ वातपित्तश्लेष्मजन्या व्याधयः कोटिशस्तनौ । दुर्गन्धित्वं कुरूपत्वं दाहभङ्गादयस्तथा ॥ २२३॥ कामक्रोधादयः शान्तिदान्त्याद्या लिङ्गदेहगाः । ज्वराद्वयेऽपि बाधन्ते प्राप्त्याप्राप्त्या नरं क्रमात् ॥ २२४॥ स्वं परं च न वेत्त्यात्मा विनष्ट इव कारणे । आगामिदुःखबीजं चेत्येतदिन्द्रेण दर्शितम् ॥ २२५॥ एते ज्वराः शरीरेषु त्रिषु स्वाभाविका मताः । वियोगे तु ज्वरैस्तानि शरीराण्येव नासते ॥ २२६॥ तन्तोर्वियुज्येन्न पटो वालेभ्यः कम्बलो यथा । मृदो घटस्तथा देहो ज्वरेभ्योऽपीति दृश्यताम् ॥ २२७॥ चिदाभासे स्वतः कोऽपि ज्वरो नास्ति यतश्चितः । प्रकाशैकस्वभावत्वमेव दृष्टं न चेतरत् ॥ २२८॥ चिदाभासेऽप्यसम्भाव्या ज्वराः साक्षिणि का कथा । एवमेवैकतां मेने चिदाभासो ह्यविद्यया ॥ २२९॥ साक्षिसत्यत्वमध्यस्य स्वेनोपेते वपुस्त्रये । तत्सर्वं वास्तवं स्वस्य स्वरूपमिति मन्यते ॥ २३०॥ एतस्मिन्भ्रान्तिकालेऽयं शरीरेषु ज्वरत्स्वथ । स्वयमेव ज्वरामीति मन्यते हि कुटुम्बिवत् ॥ २३१॥ पुत्रदारेषु तृप्यत्सु तृप्यामीति यथा वृथा । मन्यते पुरुषस्तद्वदाभासोऽप्यभिमन्यते ॥ २३२॥ विविच्य भ्रान्तिमुज्झित्वा स्वमप्यगणयन् सदा । चिन्तयन्साक्षिणं कस्माच्छरीरमनुसंज्वरेत् ॥ २३३॥ अयथावस्तुसर्पादिज्ञानं हेतुः पलायने । रज्जुज्ञानेऽहिधीध्वस्तौ कृतमप्यनुशोचति ॥ २३४॥ मिथ्याभियोगदोषस्य प्रायश्चित्तत्वसिद्धये । क्षमापयन्निवात्मानं साक्षिणं शरणं गतः ॥ २३५॥ आवृत्तपापनूत्यर्थं स्नानाद्यावर्तते यथा । आवर्तयन्निव ध्यानं सदा साक्षिपरायणः ॥ २३६॥ उपस्थकुष्ठिनी वेश्या विलासेषु विलज्जते । जानतोऽग्रे तथाभासः स्वप्रख्यातौ विलज्जते ॥ २३७॥ गृहीतो ब्राह्मणो म्लेच्छैः प्रायश्चित्तं चरन्पुनः । म्लेच्छैः सङ्कीर्यते नैव तथाभासः शरीरकैः ॥ २३८॥ यौवराज्ये स्थितो राजपुत्रः साम्राज्यवाञ्छया । राजानुकारी भवति तथा साक्ष्यनुकार्ययम् ॥ २३९॥ यो ब्रह्म वेद ब्रह्मैव भवत्येवेति श्रुतिम् । श्रुत्वा तदेकचित्तः सन्ब्रह्म वेत्ति न चेतरत् ॥ २४०॥ देवत्वकामा ह्यग्न्यादौ प्रविशन्ति यथा तथा । साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति ॥ २४१॥ यावत्स्वदेहदाहं स नरत्वं नैव मुञ्चति । तावदारब्धदेहः स्यान्नाभासत्वविमोचनम् ॥ २४२॥ रज्जुज्ञानेऽपि कम्पादिः शनैरेवोपशाम्यति । पुनर्मन्दान्धकारि सा रज्जुः क्षिप्तोरगी भवेत् ॥ २४३॥ एवमारब्धभोगोऽपि शनैः शाम्यति नो हठात् । भोगकाले कदाचित्तु मर्त्योऽहमिति भासते ॥ २४४॥ नैतावतापराधेन तत्त्वज्ञानं विनश्यति । जीवन्मुक्तिव्रतं नेदं किन्तु वस्तुस्थितिः खलु ॥ २४५॥ दशमोऽपि शिरस्ताडं रुदन्बुद्ध्वा न रोदिति । शिरोव्रणस्तु मासेन शनैः शाम्यति नो तदा ॥ २४६॥ दशमामृतिलाभेन जातो हर्षो व्रणव्यथाम् । तिरोधत्ते मुक्तिलाभस्तथा प्रारब्धदुःखिताम् ॥ २४७॥ व्रताभावाद्यदाध्यासस्तदा भूयो विविच्यताम् । रससेवी दिने भुङ्क्ते भूयो भूयो यथा तथा ॥ २४८॥ शमयत्यौषधेनायं दशमः स्वव्रणं यथा । भोगेन शमयित्वैतत्प्रारब्धं मुच्यते तथा ॥ २४९॥ किमिच्छन्निति वाक्योक्तः शोकमोक्ष उदीरितः । आभासस्य ह्यवस्थैषा षष्ठी तृप्तिस्तु सप्तामि ॥ २५०॥ साङ्कुशा विषयैस्तृप्तिरियं तृप्तिर्निरङ्कुशा । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तृप्यति ॥ २५१॥ ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये । बहु कृत्यं पुरास्याभूत्तत्सर्वमधुना कृतम् ॥ २५२॥ तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् । अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ २५३॥ दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ २५४॥ अनुतिष्ठन्तु कर्माणि परलोकायियासवः । सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ २५५॥ व्याचक्षतान्ते शास्त्राणि वेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ २५६॥ निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् ॥ २५७॥ गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना । नान्यारोपितसंसारधर्मानेवमहं भजे ॥ २५८॥ शृण्वन्त्वज्ञाततत्त्वास्ते जानं कस्माच्छृणोम्यहम् । मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ २५९॥ विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये । देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ २६०॥ अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् । विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ २६१॥ प्रारब्धकर्मणि क्षीणे व्यवहारो निवर्तते । कर्माक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः ॥ २६२॥ विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते । अबाधिकां व्यवहृतिं पश्य ध्यायाम्यहं कुतः ॥ २६३॥ विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ॥ २६४॥ नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः ॥ २६५॥ व्यवहारो लौकिको वा शास्त्रीयोऽप्यन्यथापि वा । ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २६६॥ अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया । शास्त्रीयेणैव मार्गेण वर्तेऽहं का मम क्षतिः ॥ २६७॥ देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः । तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ २६८॥ विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥ २६९॥ एवं च कलहः कुत्र सम्भवेत्कर्मिण मम । विभिन्नविषयत्वेन पूर्वापरसमुद्रवत् ॥ २७०॥ वपुर्वाग्धीषु निर्बन्धः कर्मिणो न तु साक्षिणि । ज्ञानिनः साक्ष्यलेपत्वे निर्बन्धो नेतरत्र हि ॥ २७१॥ एवं चान्योन्यवृत्तान्तानभिज्ञौ बधिराविव । विवदेतां बुद्धिमन्तो हसन्त्येव विलोक्य तौ ॥ २७२॥ यं कर्मी न विजानाति साक्षिणं तस्य तत्त्ववित् । ब्रह्मत्वं बुध्यतां तत्र कर्मिणः किं विहीयते ॥ २७३॥ देहवाग्बुद्धयस्त्यक्ता ज्ञानिनानृतबुद्धितः । कर्मी प्रवर्तयवाभिर्ज्ञानिनो हीयतेऽत्र किम् ॥ २७४॥ प्रवृत्तिर्नोपयुक्ता चेन्निवृत्तिः क्वोपयुज्यते । बोधे हेतुर्निवृत्तिश्चेद्बुभुत्सायां तथेतरा ॥ २७५॥ बुद्धश्चेन्न बुभुत्सेत नाप्यसौ बुध्यते पुनः । अबाधादनुवर्तेत बोधो न त्वन्यसाधनात् ॥ २७६॥ नाविद्या नापि तत्कार्यं बोधं बाधितुमर्हति । पुरैव तत्त्वबोधेन बाधिते ते उभे यतः ॥ २७७॥ बाधितं दृश्यतामक्षैस्तेन बाधो न शङ्क्यते । जीवन्नाखुर्न मार्जारं हन्ति हन्यात्कथं मृतः ॥ २७८॥ अपि पाशुपतास्त्रेण विद्वश्चेन्न ममार यः । निष्फलेषुवितुन्नाङ्गो नङ्क्ष्यतीत्यत्र का प्रमा ॥ २७९॥ आदावविद्यया चित्रैः स्वकार्यैर्जृम्भमाणया । युद्ध्वा बोधोऽजयत्सोद्य सुदृढो बाध्यतां कथम् ॥ २८०॥ तिष्ठन्तुवज्ञानतत्कार्यशवाबोधेन मारिताः । न हानीर्बीध सम्राजः कीर्तिः प्रत्युत तस्य तैः ॥ २८१॥ य एवमतिशूरेण बोधेन न वियुज्यते । निवृत्त्या वा प्रवृत्त्या वा देहादिगतयास्य किम् ॥ २८२॥ प्रवृत्तावाग्रहो न्याय्यो बोधहीनस्य सर्वथा । स्वर्गाय वापवर्गाय योजितव्यं यतो नृभिः ॥ २८३॥ विद्वांश्चेत्तादृशां मध्ये तिष्ठेत्तदनुरोधतः । कायेन मनसा वाचा करोत्येवाखिलाः क्रियाः ॥ २८४॥ एष मध्ये बुभुत्सानां यदा तिष्ठेत्तदा पुनः । बोधायैषां क्रियाः सर्वा दूषयंस्त्यजतु स्वयम् ॥ २८५॥ अविद्वदनुसारेण वृत्तिर्बुद्धस्य युज्यते । स्तनन्धयानुसारेण वर्तते तत्पिता यतः ॥ २८६॥ अधिक्षिप्तस्ताडितो वा बालेन स्वपिता तदा । न क्लिश्यति न कुप्येच्च बालं प्रत्युत लालयेत् ॥ २८७॥ निन्दितः स्तूयमानो वा विद्वानज्ञैर्न निन्दति । न स्तौति किन्तु तेषां स्याद्यथा बोधस्तथा चरेत् ॥ २८८॥ येनायं नटनेनात्र बुध्यते कार्यमेव तत् । अज्ञप्रबोधान्नैवान्यत्कार्यमस्त्यत्र तद्विदः ॥ २८९॥ कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः । तृप्यनेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ॥ २९०॥ धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ २९१॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ २९२॥ धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किञ्चित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य सम्पन्नम् ॥ २९३॥ धन्योऽहं धन्योऽहं तृप्तिर्मे कोपमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्यो धन्यो धन्यः पुनः पुनः ॥ २९४॥ अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥ २९५॥ अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः । अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ॥ २९६॥ तृप्तिदीपमिमं नित्यं येऽनुसन्दधते बुधाः । ब्रह्मानन्दे निमज्जन्तस्ते तृप्यन्ति निरन्तरम् ॥ २९७॥ इति तृप्तिदीपोनाम सप्तमः परिच्छेदः ॥ ७॥
कूटस्थदीपोनाम - अष्टमः परिच्छेदः । खादित्यदीपिते कुड्ये दर्पणादित्यदीप्तिवत् । कूटस्थभासितो देहो धीस्थजीवेन भास्यते ॥ १॥ अनेकदर्पणादित्यदीप्तीनां बहुसन्धिषु । इतरा व्यज्यते तासामभावेऽपि प्रकाशते ॥ २॥ चिदाभासविशिष्टानां तथानेकधियामसौ । सन्धिं धियामभावं च भासयन्प्रविविच्यताम् ॥ ३॥ घटैकाकारधीस्था चिद्घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते ॥ ४॥ अज्ञातत्वेन ज्ञातोऽयं घटो बुद्ध्युदयात्पुरा । ब्रह्मणैवोपरिष्टात्तु ज्ञातत्वेनेत्यसौ भिदा ॥ ५॥ चिदाभासान्तधीवृत्तिर्ज्ञानं लोहान्तकुन्तवत् । जाड्यमज्ञानमेताभ्यां व्याप्तः कुम्भो द्विधोच्यते ॥ ६॥ अज्ञातो ब्रह्मणा भास्यो ज्ञातः कुम्भस्तथा न किम् । ज्ञातत्वजननेनैव चिदाभासपरिक्षयः ॥ ७॥ आभासहीनया बुद्ध्या ज्ञातत्वं नैव जन्यते । तादृग्बुद्धेर्विशेषः को मृदादेः स्याद्विकारिणः ॥ ८॥ ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् । धीमात्रव्याप्तकुम्भस्य ज्ञातत्वं नेष्यते तथा ॥ ९॥ ज्ञातत्वं नाम कुम्भेऽतश्चिदाभासफलोदयः । न फलं ब्रह्मचैतन्यं मनात्प्रागपि सत्वतः ॥ १०॥ परागर्थप्रमेयेषु या फलत्वेन संमता । संवित्सैवेह मेयोऽर्थो वेदान्तोक्ति प्रमाणतः ॥ इति वार्तिककारेण चित्सदृश्यं विवक्षितम् । ब्रह्मचित्फलयोर्भेदः साहस्र्यां विश्रुतो यतः ॥ ११॥ आभास उदितस्तस्माज्ज्ञातत्वं जनयेद्घटे । तत्पुनःर्ब्रह्मणा भास्यमज्ञातत्ववदेव हि ॥ १२॥ धीवृत्त्याभासकुम्भानां समूहो भास्यते चिता । कुम्भमात्रफलत्वात्स एक आभासतः स्फुरेत् ॥ १३॥ चैतन्यं द्विगुणं कुम्भे ज्ञातत्वेन स्फुरेत्ततः । अन्येऽनुव्यवसायाख्यमाहुरेतद्यथोदितम् ॥ १४॥ घटोऽयमित्यसावुक्तिराभासस्य प्रसादतः । विज्ञातो घट इत्युक्तिर्ब्रह्मानुग्रहतो भवेत् ॥ १५॥ आभासब्रह्मणी देहाद्बहिर्यद्वद्विवेचिते । तद्वदाभासकूटस्थौ विविच्येतां वपुष्यपि ॥ १६॥ अहंवृत्तौ चिदाभासः कामक्रोधादिकासु च । संव्याप्य वर्तते तप्ते लोहे वह्निर्यथा तथा ॥ १७॥ स्वमात्रं भासयेत्तप्तं लोहं नान्यत्कदाचन । एवमाभाससहिता वृत्तयः स्वस्वभासिकाः ॥ १८॥ क्रमाद्विच्छिद्य विच्छिद्य जायन्ते वृत्तयोऽखिलाः । सर्वा अपि विलीयन्ते सुप्तिमूर्च्छासमाधिषु ॥ १९॥ सन्धयोऽखिलवृत्तीनामभावाश्चावभासिताः । निर्विकारेण येनासौ कूटस्थ इति गीयते ॥ २०॥ घटे द्विगुणचैतन्यं यथा बाह्ये तथान्तरे । वृत्तिष्वपि ततस्तत्र वैशद्यं सन्धितोऽधिकम् ॥ २१॥ ज्ञातताज्ञातते न स्तो घटवद्वृत्तिषु क्वचित् । स्वस्य स्वेनागृहीतत्वात्ताभिश्चाज्ञाननाशनात् ॥ २२॥ द्विगुणीकृतचैतन्ये जन्मनाशानुभूतितः । अकूटस्थं तदन्यत्तु कूटस्थमविकारितः ॥ २३॥ अन्तःकरणतद्वृत्तिसाक्षीत्यादावनेकधा । कूटस्थः एव सर्वत्र पूर्वाचार्यैर्विनिश्चितः ॥ २४॥ आत्माभासाश्रयश्चैवं मुखाभासाश्रया यथा । गम्यन्ते शास्त्रयुक्तिभ्यामित्याभासश्च वर्णितः ॥ २५॥ बुद्ध्यवच्छिन्नकूटस्थो लोकान्तरगमागमौ । कर्तुं शक्तो घटाकाश इवाभासेन किं वद ॥ २६॥ शृण्वसङ्गः परिच्छेदमात्राज्जीवो भवेन्न हि । अन्यथा घटकुड्याद्यैरवच्छिन्नस्य जीवता ॥ २७॥ न कुड्यसादृशी बुद्धिः स्वच्छत्वादिति चेत्तथा । अस्तु नाम परिच्छेदे किं स्वाच्छ्येन भवेत्तव ॥ २८॥ प्रस्थेन दारुजन्येन कांस्यजन्येन वा न हि । विक्रेतुस्तण्डुलादिनां परिमाणं विशिष्यते ॥ २९॥ परिमाणविशेषेऽपि प्रतिबिम्बो विशिष्यते । कांस्ये यदि तदा बुद्धावप्याभासो भवेद्बलात् ॥ ३०॥ ईषद्भासनमाभासः प्रतिबिम्बस्तथाविधः । बिम्बलक्षणहीनः सन्बिम्बवद्भासते स हि ॥ ३१॥ ससङ्गत्वविकाराभ्यां बिम्बलक्षणहीनता । स्फूर्तिरूपत्वमेतस्य बिम्बवद्भासनं विदुः ॥ ३२॥ न हि धीभावभावित्वादाभासोऽस्ति धियः पृथक् । इति चेदल्पमेवोक्तं धीरप्येवं स्वदेहतः ॥ ३३॥ देहे मृतेऽपि बुद्धिश्चेच्छास्त्रादस्ति तथा सति । बुद्धेरन्यश्चिदाभासः प्रवेशश्रुतिषु श्रुतः ॥ ३४॥ धीयुक्तस्य प्रवेशश्चेन्नैतरेये धियः पृथक् । आत्मा प्रवेशं सङ्कल्प्य प्रविष्ट इति गीयते ॥ ३५॥ कथं न्विदं साक्षदेहं मदृते स्यादितीरणात् । विदार्य मूर्ध्नः सीमानं प्रविष्टः संसरत्ययम् ॥ ३६॥ कथं प्रविष्टोऽसङ्गश्चेत्सृष्टिर्वास्य कथं वद । मायिकत्वं तयोस्तुल्यं विनाशश्च समस्तयोः ॥ ३७॥ समुप्त्यायैव भूतेभ्यस्तान्येवानुविनश्यति । विस्पष्टमिति मैत्रेय्य याज्ञवल्क्य उवाच हि ॥ ३८॥ अविनाश्ययमात्मेति कूटस्थः प्रविवेचितः । मात्रासंसर्ग इत्येवमसङ्गत्वस्य कीर्तनात् ॥ ३९॥ जीवापेतं वाव किल शरीरं म्रियते न सः । इत्यत्र न विमोक्षोऽर्थः किन्तु लोकान्तरे गतिः ॥ ४०॥ नाहं ब्रह्मेति बुध्येत स विनाशीति चेन्न तत् । सामानाधिकरण्यस्य बाधायामपि सम्भवात् ॥ ४१॥ योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव । ब्रह्मास्मीति धिया शेषा ह्यहं बुद्धिर्निवर्तते ॥ ४२॥ नैष्कर्म्यसिद्धावप्येवमाचार्यैः स्पष्टमीरितम् । सामानाधिकरण्यस्य बाधार्थत्वं ततोऽस्तु तत् ॥ ४३॥ सर्वं ब्रह्मेति जगता सामानाधिकरण्यवत् । अहं ब्रह्मेति जीवेन सामानाधिकृतिर्भवेत् ॥ ४४॥ सामानाधिकरण्यस्य बाधार्थत्वं निराकृतम् । प्रयत्नतो विवरणे कूटस्थत्वविवक्षया ॥ ४५॥ शोधितस्त्वं पदार्थो यः कूटस्थो ब्रह्मरूपताम् । तस्य वक्तुं विवरणे तथोक्तमितरत्र च ॥ ४६॥ देहेन्द्रियादियुक्तस्य जीवाभासभ्रमस्य या । अधिष्ठानचितिः सैषा कूटस्थात्र विवक्षिता ॥ ४७॥ जगद्भ्रमस्य सर्वस्य यदधिष्ठानमीरितम् । त्रय्यन्तेषु तदत्र स्याद्ब्रह्मशब्दविवक्षितम् ॥ ४८॥ एतस्मिन्नेव चैतन्ये जगदारोप्यते यदा । तदा तदेकदेशस्य जीवाभासस्य का कथा ॥ ४९॥ जगत्तदेकदेशाख्यसमारोप्यस्य भेदतः । तत्त्वंपदार्थौ भिन्नौ स्तो वस्तुतस्त्वेकता चितः ॥ ५०॥ कर्तृत्वादीन्बुद्धिधर्मान्स्फूर्त्याख्यां चात्मरूपताम् । दधद्विभाति पुरत आभासोऽतो भ्रमो भवेत् ॥ ५१॥ का बुद्धिः कोऽयमाभासः को वात्रात्मा जगत्कथम् । इत्यनिर्णयतो मोहः सोऽयं संसार इष्यते ॥ ५२॥ बुद्ध्यादीनां स्वरूपं यो विविनक्ति स तत्त्ववित् । स एव मुक्त इत्येवं वेदान्तेषु विनिश्चयः ॥ ५३॥ एवं च सति बन्धः स्यात्कस्येत्यादिकुतर्कजाः । विडम्बनादृढं खण्ड्याः खण्डनोक्तिप्रकारतः ॥ ५४॥ वृत्तेः साक्षितया वृत्तेः प्रागभावस्य च स्थितः । बुभुत्सायां तथाज्ञोऽस्मीत्याभासाज्ञानवस्तुनः ॥ ५५॥ असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः ॥ ५६॥ आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना । सर्व सम्बन्धवत्त्वेन सम्पूर्णः शिवसंज्ञितः ॥ ५७॥ इति शैवपुराणेषु कूटस्थः प्रविवेचितः । जीवेशत्वादिरहितः केवलः स्वप्रभः शिवः ॥ ५८॥ मायाभासेन जीवेशौ करोतीति श्रुतत्वतः । मायिकावेव जीवेशौ स्वच्छौ तौ काचकुम्भवत् ॥ ५९॥ अन्नजन्यं मनोदेहात्स्वच्छं यद्वत्तथैव तौ । मायिकावपि सर्वस्मादन्यस्मात्स्वच्छतां गतौ ॥ ६०॥ चिद्रूपत्वं च सम्भाव्यं चित्त्वेनैव प्रकाशनात् । सर्वकल्पनशक्ताया मायाया दुष्करं न हि ॥ ६१॥ अस्मन्निद्रापि जीवेशौ चेतनौ स्वप्नगौ सृजेत् । महामाया सृजत्येतावित्याश्चर्यं किमत्र ते ॥ ६२॥ सर्वज्ञत्वादिकं चेशे कल्पयित्वा प्रदर्शयेत् । धर्मिणं कल्पयेद्यास्याः को भारो धर्मकल्पने ॥ ६३॥ कूटस्थेऽप्यतिशङ्क्य स्यादिति चेन्मातिशंक्यताम् । कूटास्थमायिकत्वे तु प्रमाणं न हि वर्तते ॥ ६४॥ वस्तुत्वं घोषयन्त्यस्य वेदान्ताः सकला अपि । सपत्नरूपं वस्त्वन्यन्न सहन्तेऽत्र किंचन ॥ ६५॥ श्रुत्यर्थं विशदीकुर्मो न तर्कान्वच्मि किंचन । तेन तार्किकशंकानामत्र कोऽवसरो वद ॥ ६६॥ तस्मात्कुतर्कं सन्त्यज्य मुमुक्षुः श्रुतिमाश्रयेत् । श्रुतौ तु मायाजीवेशौ करोतीति प्रदर्शितम् ॥ ६७॥ ईक्षणादिप्रवेशान्ता सृष्टिरीशकृता भवेत् । जाग्रदादिविमोक्षन्तः संसारो जीवकर्तृकः ॥ ६८॥ असङ्ग एव कूटस्थः सर्वदा नास्य कश्चन । भवत्यतिशयस्तेन मनस्येवं विचार्यताम् ॥ ६९॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ७०॥ अवाङ्मनसगम्यं तं श्रुतिर्बोधयितुं सदा । जीवमीशं जगद्वापि समाश्रित्यावबोधयेत् ॥ ७१॥ यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात्साध्वीत्याचार्यभाषितम् ॥ ७२॥ श्रुतितात्पर्यमखिलमबुध्वा भ्राम्यते जडः । विवेकी त्वखिलं बुध्वा तिष्ठत्यानन्दवारिधौ ॥ ७३॥ मायामेघो जगन्नीरं वर्षत्वेष यथा तथा । चिदाकाशस्य नो हानिर्न वा लाभ इति स्थितिः ॥ ७४॥ इमं कूटस्थदीपं योऽनुसन्धत्ते निरन्तरम् । स्वयं कूटस्थरूपेण दीप्यतेऽसौ निरन्तरम् ॥ ७६॥ इति कूटस्थदीपो नाम अष्टमः परिच्छेदः ॥ ८।
ध्यानदीपोनाम नवमः परिच्छेदः । संवादिभ्रमवद्ब्रह्मतत्त्वोपास्त्यापि मुच्यते । उत्तरे तापनियेऽतः श्रुतोपास्तिरनेकधा ॥ १॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ २॥ दीपोपवरकस्यान्तर्वर्तते तत्प्रभा बहिः । दृश्यते द्वार्यथान्यत्र तद्वद्दृष्टा मणेः प्रभा ॥ ३॥ दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याभिधावतोः । प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानं द्वयोरपि ॥ ४॥ न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता । प्रभायां धावतावश्यं लभ्यतैव मणिर्मणेः ॥ ५॥ दीपप्रभामणिभ्रान्तिर्विसंवादिभ्रमः स्मृतः । मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते ॥ ६॥ बाष्पं धूमतया बुध्वा तत्राङ्गारानुमानतः । वह्निर्यदृच्छया लब्धः स संवादिभ्रमो मतः ॥ ७॥ गोदावर्युदकं गङ्गोदकं मत्वा विशुद्धये । सम्प्रोक्ष्य शुद्धिमाप्नोति स संवादिभ्रमो मतः ॥ ८॥ ज्वरेणाप्तः सन्निपातं भ्रान्त्या नारायणं स्मरन् । मृतः स्वर्गमवाप्नोति स संवादिभ्रमो मतः ॥ ९॥ प्रत्यक्षस्यानुमानस्य तथा शास्त्रस्य गोचरे । उक्तन्यायेन संवादिभ्रमाः सन्तीह कोटिशः ॥ १०॥ अन्यथा मृत्तिकादारुशिलाः स्युर्देवताः कथम् । अग्नित्वादिधियोपास्याः कथं वा योषिदादयः ॥ ११॥ अयथावस्तुविज्ञानात्फलं लभ्यत ईप्सितम् । काकतालीयतः सोऽयं संवादिभ्रम उच्यते ॥ १२॥ स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः । ब्रह्मतत्त्वोपासनापि तथा मुक्तिफलप्रदा ॥ १३॥ वेदान्तेभ्यो ब्रह्मतत्त्वमखण्डैकरसात्मकम् । परोक्षमवगम्यैतदहमस्मीत्युपासते ॥ १४॥ प्रत्यग्व्यक्तिमनुल्लिख्य शास्त्राद्विष्ण्वादिमूर्तिवत् । अस्ति ब्रह्मेति सामान्यज्ञानमत्रं परोक्षधीः ॥ १५॥ चतुर्भुजाद्यवगतावपि मूर्तिमनुल्लिखन् । अक्षैः परोक्षज्ञान्येव न तदा विष्णुमीक्षते ॥ १६॥ परोक्षत्वापराधेन भवेन्नातत्त्ववेदनम् । प्रमाणेनैव शास्त्रेण सत्यमूर्तेर्विभासनात् ॥ १७॥ सच्चिदानन्दरूपस्य शास्त्राद्भानेऽप्यनुल्लिखन् । प्रत्यंचं साक्षिणं तत्तु ब्रह्म साक्षान्न वीक्षते ॥ १८॥ शास्त्रोक्तेनैव मार्गेण सच्चिदानन्दनिर्णयात् । परोक्षमपि तज्ज्ञानं तत्त्वज्ञानं न तु भ्रमः ॥ १९॥ ब्रह्म यद्यपि शास्त्रेषु प्रत्यक्त्वेनैव वर्णितम् । महावाक्यैस्तथाप्येतद्दुर्बोधमविचारिणः ॥ २०॥ देहाद्यात्मत्वविभ्रान्तौ जागृत्यां न हठात्पुमान् । ब्रह्मात्मत्वेन विज्ञातुं क्षमते मन्दधीत्वतः ॥ २१॥ ब्रह्ममात्रं सुविज्ञेयं श्रद्धालोः शास्त्रदर्शिनः । अपरोक्षद्वैतबुद्धिः परोक्षद्वैतबुद्ध्यनुत् ॥ २२॥ अपरोक्षशिलाबुद्धिर्न परोक्षेशतां नुदेत् । प्रतिमादिषु विष्णुत्वे को वा विप्रतिपद्यते ॥ २३॥ अश्रद्धालोरविश्वासोः नोदाहरणमर्हति । श्रद्धालोरेव सर्वत्र वैदिकेष्वधिकारतः ॥ २४॥ सकृदाप्तोपदेशेन परोक्षज्ञानमुद्भवेत् । विष्णुमूर्त्युपदेशो हि न मीमांसामपेक्षते ॥ २५॥ कर्मोपास्ती विचार्येतेऽनुष्ठेयाविनिर्णयात् । बहुशाखाविप्रकीर्णं निर्णेतुं कः प्रभुर्नरः ॥ २६॥ निर्णितोऽर्थः कल्पसूत्रैर्ग्रथितस्तावतास्तिकः । विचारमन्तरेणापि शक्तोऽनुष्ठातुमञ्जसा ॥ २७॥ उपास्तीनामनुष्ठानमार्षग्रन्थेषु वर्णितम् । विचाराक्षममर्त्याश्च तत्श्रुत्वोपासते गुरोः ॥ २८॥ वेदवाक्यानि निर्णेतुमिच्छन्मीमांसतां जनः । आप्तोपदेशमन्त्रेण ह्यनुष्ठानं तु सम्भवेत् ॥ २९॥ ब्रह्मसाक्षात्कृतिस्त्वेवं विचारेण विना नृणाम् । आप्तोपदेशमात्रेण न सम्भवति कुत्रचित् ॥ ३०॥ परोक्षज्ञानमश्रद्धा प्रतिबध्नाति नेतरत् । अविचारोऽपरोक्षस्य ज्ञानस्य प्रतिबन्धकः ॥ ३१॥ विचाराप्यपरोक्षेण ब्रह्मात्मानं न वेत्ति चेत् । आपरोक्ष्यावसानत्वाद्भूयोभूयो विचारयेत् ॥ ३२॥ विचारयन्नामरणं नैवात्मानं लभेत चेत् । जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति ॥ ३३॥ इह वामुत्र वा विद्येत्येवं सूत्रकृतोदितम् । शृण्वन्तोऽप्यत्र बहवो यन्न विद्युरिति श्रुतिः ॥ ३४॥ गर्भ एव शयानः सन्वामदेवोऽवबुद्धवान् । पूर्वाभ्यस्तविचारेण यद्वदध्ययनादिषु ॥ ३५॥ बहुवारमधीतेऽपि तदा नायाति चेत्पुनः । दिनान्तरेऽनधीत्यैव पूर्वाधीतं स्मरेत्पुमान् ॥ ३६॥ कालेन परिपच्यन्ते कृषिदर्भादयो यथा । तद्वदात्मविचारोऽपि शनैः कालेन पच्यते ॥ ३७॥ पुनःपुनर्विचारोऽपि त्रिविधप्रतिबन्धतः । न वेत्ति तत्त्वमित्येतद्वार्तिके सम्यगीरितम् ॥ ३८॥ कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् । असावपि च भूतो वा भावी वा वर्तते तथा ॥ ३९॥ अधीतवेदवेदार्थोऽप्यत एव न मुच्यते । हिरण्यनिधिदृष्टान्तादिदमेव हि दर्शितम् ॥ ४०॥ अतीतेनापि महिषीस्नेहेन प्रतिबन्धतः । भिक्षुस्तत्त्वं न वेदेति गाथा लोके प्रगीयते ॥ ४१॥ अनुसृत्य गुरुः स्नेहं महिष्यां तत्त्वमुक्तवान् । ततो यथावद्वेदैष प्रतिबन्धस्य संक्षयात् ॥ ४२॥ प्रतिबन्धो वर्तमानो विषयासक्तिलक्षणः । प्रज्ञामान्द्यं कुतर्कश्च विपर्ययदुराग्रहः ॥ ४३॥ शमाद्यैः श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम् । नीतेऽस्मिन्प्रतिबन्धेऽतः स्वस्य ब्रह्मत्वमश्नुते ॥ ४४॥ आगामिप्रतिबन्धश्च वामदेवे समीरितः । एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥ ४५॥ योगभ्रष्टस्य गीतायामतीते बहुजन्मनि । प्रतिबन्धक्षयः प्रोक्तो न विचारोऽप्यनर्थकः ॥ ४६॥ प्राप्य पुण्यकृतां लोकानात्मतत्त्वविचारतः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४७॥ अथवा योगिनामेव कुले भवति धीमताम् । निस्पृहः ब्रह्मतत्त्वस्य विचारात्तद्धि दुर्लभम् ॥ ४८॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयस्तस्मादेतद्धि दुर्लभम् ॥ ४९॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ५०॥ ब्रह्मलोकाभिवाञ्छायां सम्यक्सत्यां निरुध्यताम् । विचारयेद्य आत्मानं न तु साक्षात्करोत्ययम् ॥ ५१॥ वेदान्तविज्ञानसुनिश्चितार्थाः इति शास्त्रतः । ब्रह्मलोके सकल्पान्ते ब्रह्मणा सह मुच्यते ॥ ५२॥ केषांचित्स विचारोऽपि कर्मणा प्रतिबद्ध्यते । श्रवणायापि बहुभिर्यो न लभ्य इति श्रुतेः ॥ ५३॥ अत्यन्तबुद्धिमान्द्याद्वा सामग्र्या वाप्यसम्भवात् । यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम् ॥ ५४॥ निर्गुणब्रह्मतत्त्वस्य न ह्युपास्तेरसम्भवः । सगुणब्रह्मणीवात्र प्रत्ययावृत्तिसम्भवात् ॥ ५५॥ अवाङ्मनसगम्यं तन्नोपास्यमिति चेत्तदा । अवाङ्मनसगम्यस्य वेदनं च न सम्भवेत् ॥ ५६॥ वागाद्यगोचराकारमित्येवं यदि वेत्त्यसौ । वागाद्यगोचराकारमित्युपासित नो कुतः ॥ ५७॥ सगुणत्वमुपास्यत्वाद्यदि वेद्यत्वतोऽपि तत् । वेद्यं चेल्लक्षणावृत्त्या लक्षितं समुपास्यताम् ॥ ५८॥ ब्रह्म विद्धि तदेव त्वं नत्विदं यदुपासते । इति श्रुतेरुपास्यत्वं निषिद्धं ब्रह्मणो यदि ॥ ५९॥ विदितादन्यदेवेति श्रुतेर्वेद्यत्वमस्य न । यथा श्रुत्यैव वेद्यं तत्तथा श्रुत्याप्युपास्यताम् ॥ ६०॥ अवास्तवी वेद्यता चेदुपास्यत्वं तथा न किम् । वृत्तिव्याप्तिर्वेद्यता चेदुपास्यत्वेऽपि तत्समम् ॥ ६१॥ का ते भक्तिरुपास्तौ चेत्कस्ते द्वेषस्तदीरय । मानाभावो न वाच्योऽस्यां बहुश्रुतिषु दर्शनात् ॥ ६२॥ उत्तरस्मिंस्तापनीये शैब्यप्रश्नेऽथ काठके । माण्डुक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिता ॥ ६३॥ अनुष्ठानप्रकारोऽस्याः पञ्चीकरण ईरितः । ज्ञानसाधनमेतच्चेन्नेति केनात्र वर्णितम् ॥ ६४॥ नानुतिष्ठति कोऽप्येतदिति चेन्नानुतिष्ठतु । पुरुषस्यापराधेन किमुपास्तिः प्रदुष्यति ॥ ६५॥ इतोऽप्यतिशयं मत्वा मन्त्रान्वश्याअदिकारिणः । मूढा जपन्तु तेभ्योऽतिमूढाः कृषिमुपासताम् ॥ ६६॥ तिष्ठन्तु मूढाः प्रकृता निर्गुणोपास्तिरीर्यते । विद्यैक्यात्सर्वशाखास्थान्गुणानत्रोपसंहरेत् ॥ ६७॥ आनन्दादेर्विधेयस्य गुणसङ्घस्य संहृतिः । आनन्दादय इत्यस्मिन्सूत्रे व्यासेन वर्णिता ॥ ६८॥ अस्थूलादेर्निषेध्यस्य गुणसङ्घस्य संहृतिः । तथा व्यासेन सूत्रेऽस्मिनुक्ताक्षरधियान्त्विति ॥ ६९॥ निर्गुणब्रह्मतत्त्वस्य विद्यायां गुणसंहृतिः । न युज्येतेत्युपालम्भो व्यासं प्रत्येव मां तु न ॥ ७०॥ हिरण्यस्मश्रुसूर्यादिमूर्तीनामनुदाहृतेः । अविरुद्धं निर्गुणत्वमिति चेत्तुष्यतां त्वया ॥ ७१॥ गुणानां लक्षकत्वेन न तत्त्वेऽन्तःप्रवेशनम् । इति चेदस्त्वेवमेव ब्रह्मतत्त्वमुपास्यताम् ॥ ७२॥ आनन्दादिभिरस्थूलादिभिःस्वात्मात्र लक्षितः । अखण्डैकरसः सोऽहमस्मीत्येवमुपासते ॥ ७३॥ बोधोपास्त्योर्विशेषः क इति चेदुच्यते शृणु । वस्तुतत्न्त्रो भवेद्बोधः कर्तृतन्त्रमुपासनम् ॥ ७४॥ विचाराज्जायते बोधोऽनिच्छा यं न निवर्तयेत् । स्वोत्पत्तिमात्रात्संसारे दहत्यखिलसत्यताम् ॥ ७५॥ तावता कृतकृत्यः सन्नित्यतृप्तिमुपागतः । जीवन्मुक्तिमनुप्राप्य प्रारब्धक्षयमीक्षते ॥ ७६॥ आप्तोपदेशं विश्वस्य श्रद्धालुरविचारयन् । चिन्तयेत्प्रत्ययैरन्यैरनन्तरितवृत्तिभिः ॥ ७७॥ यावच्चिन्त्यस्वरूपत्वाभिमानः स्वस्य जायते । तावद्विचिन्त्य पश्चाच्च तथैवामृति धारयेत् ॥ ७८॥ ब्रह्मचारी भिक्षमाणो युतः संवर्गविद्यया । संवर्गरूपतां चित्ते धारयित्वा ह्यभिक्षता ॥ ७९॥ पुरुषस्वेच्छया कर्तुमकर्तुं कर्तुमन्यथा । शक्योपास्तिरतो नित्यं कुर्यात्प्रत्ययसन्ततिम् ॥ ८०॥ वेदाध्यायी ह्यप्रमत्तोऽधीते स्वप्नेऽपि वासितः । जपिता तु जपत्येव तथा ध्यातापि वासयेत् ॥ ८१॥ विरोधिप्रत्ययं त्यक्त्वा नैरन्तर्येण भावयन् । लभते वासनावेशात्स्वप्नादावपि भावनाम् ॥ ८२॥ भुञ्जानोऽपि निज आरब्धमास्थातिशयतोऽनिशम् । ध्यातुं शक्तो न सन्देहो विषयव्यसनी यथा ॥ ८३॥ परव्यसनिनी नारी व्यग्रापि गृहकर्मणि । तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ ८४॥ परसङ्गं स्वादयन्त्या अपि नो गृहकर्म तत् । कुण्ठी भवेदपि त्वेतदापातेनैव वर्तते ॥ ८५॥ गृहकृत्यव्यसनिनी यथा सम्यक्करोति तत् । परव्यसनिनी तद्वन्न करोत्येव सर्वथा ॥ ८६॥ एवं ध्यानैकनिष्ठोऽपि लेशाल्लौकिकमाचरेत् । तत्त्ववित्त्वविरोधित्वाल्लौकिकं सम्यगाचरेत् ॥ ८७॥ मायामयः प्रपञ्चोऽयमात्मा चैतन्यरूपधृक् । इति बोधे विरोधः को लौकिकव्यवहारिणः ॥ ८८॥ अपेक्षते व्यवहृतिर्न प्रपञ्चस्य वस्तुताम् । नाप्यात्मजाड्यं किंत्वेषा साधनान्येव काङ्क्षति ॥ ८९॥ मनोवाक्कायतद्बाह्यपदार्थाः साधनानि तान् । तत्त्वविन्नोपमृद्नाति व्यवहारोऽस्य नो कुतः ॥ ९०॥ उपमृद्नाति चित्तं चेद्ध्यातासौ न तु तत्त्ववित् । न बुद्धिं मर्द्दयन्दृष्टो घटतत्त्वस्य वेदिता ॥ ९१॥ सकृत्प्रत्ययमात्रेण घटश्चेद्भासते तदा । स्वप्रकाशोऽयमात्मा किं घटवच्च न भासते ॥ ९२॥ स्वप्रकाशतया किं ते तद्बुद्धिस्तत्त्ववेदनम् । बुद्धिश्च क्षणनाश्येति चोद्यं तुल्यं घटादिषु ॥ ९३॥ घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः । इष्टो नेतुं तदा शक्य इति चेत्सममात्मनि ॥ ९४॥ निश्चित्य सकृदात्मानं यदापेक्षा तदैव तत् । वक्तुं मन्तुं तथा ध्यातुं शक्नोत्येव हि तत्त्ववित् ॥ ९५॥ उपासक इव ध्यायं लौकिकं विस्मरेत् यदि । विस्मरत्येव सा ध्यानाद्विस्मृतिर्न तु वेदनात् ॥ ९६॥ ध्यानं त्वैच्छिकमेतस्य वेदनान्मुक्तिसिद्धितः । ज्ञानादेव तु कैवल्यमिति शास्त्रेषु डिण्डिमः ॥ ९७॥ तत्त्वविद्यदि न ध्यायेत्प्रवर्तेत तदा बहिः । प्रवर्ततां सुखेनायं को बाधोऽस्य प्रवर्तने ॥ ९८॥ अतिप्रसङ्ग इति चेत्प्रसङ्गं तावदीरय । प्रसङ्गो विधिशास्त्रं चेन्न तत्तत्त्वविदं प्रति ॥ ९९॥ वर्णाश्रमवयोवस्थाभिमानो यस्य विद्यते । तस्यैव हि निषेधाश्च विधयः सकला अपि ॥ १००॥ वर्णाश्रमादयो देहे मायया परिकल्पिताः । नात्मनो बोधरूपस्येत्येवं तस्य विनिश्चयः ॥ १०१॥ समाधिमथ कर्माणि मा करोतु करोतु वा । हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ॥ १०२॥ नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । न समाधानजप्याभ्यां यस्य निर्वासनं मनः ॥ १०३॥ आत्मासङ्गस्ततोऽन्यत्स्यादिन्द्रजालं हि मायिकम् । इत्यचञ्चलनिर्णिते कुतो मनसि वासना ॥ १०४॥ एवं नास्ति प्रसङ्गोऽपि कुतोऽस्यातिप्रसञ्जनम् । प्रसङ्गो यस्य तस्यैव शङ्क्येतातिप्रसञ्जनम् ॥ १०५॥ विध्यभावान्न बालस्य दृश्यतेऽतिप्रसञ्जनम् । स्यात्कुतोऽतिप्रसङ्गोऽस्य विध्यभावे समे सति ॥ १०६॥ न किंचिद्वेत्ति बालश्चेत्सर्वं वेत्त्येव तत्त्ववित् । अल्पज्ञस्यैव विधयः सर्वे स्युर्नान्ययोर्द्वयोः ॥ १०७॥ शापानुग्रहसामर्थ्यं यस्यासौ तत्त्वविद्यदि । न तत् शापादिसामर्थ्यं फलं स्यात्तपसो यतः ॥ १०८॥ व्यासादेरपि सामर्थ्यं दृश्यते तपसो बलात् । शापादिकारणादन्यत्तपोज्ञानस्य कारणम् ॥। १०९॥ द्वयं यस्यास्ति तस्यैव सामर्थ्यज्ञानयोर्जनिः । एकैकं तु तपः कुर्वन्नेकैकं लभते फलम् ॥ ११०॥ सामर्थ्यहीनो निन्द्यश्चेद्यतिभिर्विधिवर्जितः । निन्द्यन्ते यतयोऽप्यन्यैरनिशं भोगलंपटैः ॥ १११॥ भिक्षावस्त्रादि रक्षेयुर्यद्येते भोगतुष्टये । अहो यतित्वमेतेषां वैराग्यभरमन्थरम् ॥ ११२॥ वर्णाश्रमपरान्मूर्खा निन्दन्त्वित्युच्यते यदि । देहात्ममतयो बुद्धं निन्दन्त्वाश्रममानिनः ॥ ११३॥ तदित्थं तत्त्वविज्ञाने साधनानुपमर्दनात् । ज्ञानिनाचरितुं शक्यं सम्यग्राज्यादि लौकिकम् ॥ ११४॥ मिथ्यात्वबुद्ध्या तत्रेच्छा नास्ति चेत्तर्हि मास्तु तत् । ध्यायन्वाथ व्यवहरन्यथारब्धं वसत्वयम् ॥ ११५॥ उपासकस्तु सततं ध्यायन्नेव वसेदिति । ध्यानेनैव कृतं तस्य ब्रह्मत्वं विष्णुतादिवत् ॥ ११६॥ ध्यानोपादानकं यत्तद्ध्यानाभावे विलीयते । वास्तवी ब्रह्मता नैव ज्ञानाभावे विलीयते ॥ ११७॥ ततोऽभिज्ञापकं ज्ञानं न नित्यं जनयत्यदः । ज्ञापकाभावमात्रेण न हि सत्यं विलीयते ॥ ११८॥ अस्त्येव उपासकस्यापि वास्तवी ब्रह्मतेति चेत् । पामराणां तिरश्चां च वास्तवी ब्रह्मता न किम् ॥ ११९॥ अज्ञानादपुमर्थत्वमुभयत्रापि तत्समम् । उपवासाद्यथा भिक्षा वरं ध्यानं तथान्यथः ॥ १२०॥ पामराणां व्यवहृतेर्वरं कर्माद्यनुष्ठितिः । ततोऽपि सगुणोपास्तिर्निर्गुणोपासनं ततः ॥ १२१॥ यावद्विज्ञानसामीप्यं तावच्छ्रैष्ठ्यं विवर्धते । ब्रह्मज्ञानाय ते साक्षान्निर्गुणोपासनं शनैः ॥ १२२॥ यथा संवादिविभ्रान्तिः फलकाले प्रमायते । विद्यायते तथोपास्तिर्मुक्तिकालेऽतिपाकतः ॥ १२३॥ संवादिभ्रमतः पुंसः प्रवृत्तस्यान्यमानतः । प्रमेति चेत्तथोपास्तिर्मान्तरे कारणायताम् ॥ १२४॥ मूर्तिध्यानस्य मन्त्रादेरपि कारणता यदि । अस्तु नाम तथाप्यत्र प्रत्यासत्तिर्विशिष्यते ॥ १२५॥ निर्गुणोपासनं पक्वं समाधिः स्याच्छनैस्ततः । यः समाधिर्निरोधाख्यः सोऽनायासेन लभ्यते ॥ १२६॥ निरोधलाभे पुंसोऽन्तरसङ्गं वस्तु शिष्यते । पुनः पुनर्वासितेऽस्मिन्वाक्याज्जायेत तत्त्वधीः ॥ १२७॥ निर्विकारासङ्गनित्यस्वप्रकाशैकपूर्णताः । बुद्धौ झटिति शास्त्रोक्ता आरोहन्त्यविवादतः ॥ १२८॥ योगाभ्यासस्त्वेतदर्थोऽमृतबिन्द्वादिषु श्रुतः । एवं च दृष्टद्वारापि हेतुत्वादन्यतो वरम् ॥ १२९॥ उपेक्ष्य तत्तीर्थयात्रां जपादीनेव कुर्वताम् । पिण्डं समुत्सृज्य करं लेढीति न्याय आपतेत् ॥ १३०॥ उपासकानामप्येवं विचारत्यागतो यदि । बाधं तस्माद्विचारस्यासम्भवे योग ईरितः ॥ १३१॥ बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि । योगो मुख्यस्ततस्तेषां धीदर्पस्तेन नश्यति ॥ १३२॥ अव्याकुलधियां मोहमात्रेणाच्छादितात्मनाम् । साङ्ख्यनामा विचाराः स्यान्मुख्यो झटिति सिद्धितः ॥ १३३॥ यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ १३४॥ तत्कारणं साङ्ख्ययोगाधिगम्यमिति हि श्रुतिः । यस्तु श्रुतेर्विरुद्धः स आभासः साङ्ख्ययोगयोः ॥ १३५॥ उपासनं नातिपक्वमिह यस्य परत्र सः । मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते ॥ १३६॥ यं यं चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तेवैति यच्चित्तस्तेन यातीति शास्त्रतः ॥ १३७॥ अन्त्यप्रत्ययतो नूनं भाविजन्म तथा सति । निर्गुणप्रत्ययोऽपि स्यात्सगुणोपासने यथा ॥ १३८॥ नित्यं निर्गुणरूपं तन्नाममात्रेण गीयताम् । अर्थतोमोक्ष एवैष संवादि भ्रमवन्मतः ॥ १३९॥ तत्सामर्थ्याज्जायते धीर्मूलाविद्यानिवर्तिका । अविमुक्तोपासनेन तारकब्रह्म बुद्धिवत् ॥ १४०॥ सकामो निष्काम इति ह्यशरीरो निरिन्द्रियः । अभयं हीति मुक्तत्वं तापनीये फलं श्रुतम् ॥ १४१॥ उपासनस्य सामर्थ्याद्विद्योत्पत्तिर्भवेत्ततः । नान्यः पन्था इति ह्येतच्छास्त्रं नैव विरुध्यते ॥ १४२॥ निष्कामोपासनान्मुक्तिस्तापनीये समीरिता । ब्रह्मलोकः सकामस्य शैब्यप्रश्ने समीरितः ॥ १४३॥ य उपास्ते त्रिमात्रेण ब्रह्मलोके स नीयते । स एतस्माज्जीवघनात्परं पुरुषमीक्षते ॥ १४४॥ अप्रतीकाधिकरणे तत्क्रतुर्न्याय ईरितः । ब्रह्मलोकफलं तस्मात्सकामस्येति वर्णितम् ॥ १४५॥ निर्गुणोपास्तिसामर्थ्यात्तत्र तत्त्वमवेक्षणत् । पुनरावर्तते नायं कल्पान्ते तु विमुच्यते ॥ १४६॥ प्रणवोपास्तयः प्रायो निर्गुणा एव वेदगाः । क्वचित्सगुणता प्रोक्ता प्रणवोपासनस्य हि ॥ १४७॥ परापरब्रह्मरूप ओङ्कार उपवर्णितः । पिप्पलादेन मुनिना सत्यकामाय पृच्छते ॥ १४८॥ एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् । इति प्रोक्तं यमेनापि पृच्छते नचिकेतसे ॥ १४९॥ इह वा मरणे वास्य ब्रह्मलोकेऽथवा भवेत् । ब्रह्मसाक्षात्कृतिः सम्यगुपासीनस्य निर्गुणम् ॥ १५०॥ अर्थोऽयमात्मगीतायामपि स्पष्टमुदीरितः । विचाराक्षम आत्मानमुपासीतेति सन्ततम् ॥ १५१॥ साक्षात्कर्तुमशक्तोऽपि चिन्तयेन्मामशङ्कितः । कालेनानुभवारूढो भवेयं फलतो ध्रुवम् ॥ १५२॥ यथागाधनिधेःलब्धौ नोपायः खननं विना । मल्लभेऽपि तथा स्वात्मचिन्तां मुक्ता न चापरः ॥ १५३॥ देहोपलमपाकृत्य बुद्धिकुद्दलकात्पुनः । खात्वा मनोभुवं भूयो गृह्णीयान्मां निधिं पुमान् ॥ १५४॥ अनुभूतेरभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम् । अप्यसत् प्राप्यते ध्यानान्नित्याप्तं ब्रह्म किं पुनः ॥ १५५॥ अनात्मबुद्धिशैथिल्यं फलं ध्यानाद्दिने दिने । पश्यन्नपि न चेद्ध्यायेत्कोऽपरोऽस्मात् पशुर्वद ॥ १५६॥ देहाभिमानं विध्वस्य ध्यानादात्मानमद्वयम् । पश्यन्मर्त्यो मृतो भूत्वा ह्यत्र ब्रह्म समश्नुते ॥ १५७॥ ध्यानदीपमिमं सम्यक्परामृषति यो नरः । मुक्तसंशय एवायं ध्यायति ब्रह्म सन्ततम् ॥ १५८॥ इति ध्यानदीपो नाम नवमः परिच्छेदः ॥ ९॥
नाटकदीपोनाम - दशमः परिच्छेदः । परमात्माद्वयानन्दपूर्णः पूर्वं स्वमायया । स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः ॥ १॥ देवाद्युत्तमदेहेषु प्रविष्टो देवताभवत् । मर्त्याद्यधमदेहेषु स्थितो भजति देवताम् ॥ २॥ अनेकजन्मभजनात्स्वविचारं चिकीर्षति । विचारेण विनष्टायां मायायां शिष्यते स्वयम् ॥ ३॥ अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते ॥ ४॥ अविचारकृतो बन्धो विचारेण निवर्तते । तस्माज्जीवपरात्मानौ सर्वदैव विचारयेत् ॥ ५॥ अहमित्यभिमन्ता यः कर्तासौ तस्य साधनम् । मनस्तस्य क्रिये अन्तर्बहिर्वृत्ति क्रमोत्थिते ॥ ६॥ अन्तर्मुखाहमित्येषा वृत्तिः कर्तारमुल्लिखेत् । बहिर्मुखेदमित्येषा बाह्यं वस्त्विदमुल्लिखेत् ॥ ७॥ इदमो ये विशेषाः स्युर्गन्धरूपरसादयः । असाङ्कर्येण तान्भिद्याद्घ्राणादीन्द्रियपञ्चकम् ॥ ८॥ कर्तारं च क्रियां तद्वद्व्यावृत्तविषयानपि । स्फोरयेदेकयत्नेन योऽसौ साक्ष्यत्र चिद्वपुः ॥ ९॥ ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशाम्यहम् । इति भासयते सर्वं नृत्यशालास्थदीपवत् ॥ १०॥ नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् । दीपयेदविशेषेण तदभावेऽपि दीप्यते ॥ ११॥ अहङ्कारं धियं साक्षी विषयानपि भासयेत् । अहङ्काराद्यभावेऽपि स्वयं भात्येव पूर्ववत् ॥ १२॥ निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः । तद्भासा भास्यमानेयं बुद्धिर्नृत्यत्यनेकधा ॥ १३॥ अहङ्कारः प्रभुः सभ्या विषया नर्तकी मतिः । तालादिधारिण्यक्षाणि दीपः साक्ष्यवभासकः ॥ १४॥ स्वस्थानसंस्थितो दीपः सर्वतो भासयेद्यथा । स्थिरस्थायी तथा साक्षी बहिरन्तः प्रकाशयेत् ॥ १५॥ बहिरन्तर्विभागोऽयं देहापेक्षो न साक्षिणि । विषया बाह्यदेशस्था देहस्यान्तरहङ्कृतिः ॥ १६॥ अन्तस्था धीः सहैवाक्षैर्बहिर्याति पुनः पुनः । भास्यबुद्धिस्थचाञ्चल्यं साक्षिण्यारोप्यते वृथा ॥ १७॥ गृहान्तरगतः स्वल्पो गवाक्षादातपोऽचलः । तत्र हस्ते नर्त्यमाने नृत्यतीवातपो यथा ॥ १८॥ निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ । अकुर्वन्बुद्धिचाञ्चल्यात्करोतीव तथा तथा ॥ १९॥ न बाह्यो नान्तरः साक्षी बुद्धेर्देशौ हि तावुभौ । बुद्ध्याद्यशेषसंशान्तौ यत्र भात्यस्ति तत्र सः ॥ २०॥ देशः कोऽपि न भासेत यदि तर्ह्यस्त्वदेशभाक् । सर्वदेशप्रक्लृप्त्यैव सर्वगत्वं न तु स्वतः ॥ २१॥ अन्तर्बहिर्वा सर्वं वा यं देशं परिकल्पयेत् । बुद्धिस्तद्देशगः साक्षी तथा वस्तुषु योजयेत् ॥ २२॥ यद्यद्रूप आदि कल्प्येत बुद्ध्या तत्तत्प्रकाशयन् । तस्य तस्य भवेत्साक्षी स्वतो वाग्बुद्ध्यगोचरः ॥ २३॥ कथं तादृङ्मया ग्राह्यमिति चेन्मैव गृह्यताम् । सर्वग्रहोपसंशान्तौ स्वयमेवावशिष्यते ॥ २४॥ न तत्र मानापेक्षास्ति स्वप्रकाशस्वरूपतः । तादृग्व्युत्पत्त्यपेक्षा चेच्छ्रुतिं पठ गुरोर्मुखात् ॥ २५॥ यदि सर्वगृहत्यागोऽशक्यस्तर्हि धियं व्रज । शरणं तदधीनोऽन्तर्बहिर्वैषोऽनुभूयताम् ॥ २६॥ इति नाटकदीपोनाम दशमः परिच्छेदः ॥ १०॥
ब्रह्मानन्दे योगानन्दोनाम - एकादशः परिच्छेदः । ब्रह्मानन्दं प्रवक्ष्यामि ज्ञाते तस्मिन्नशेषतः । ऐहिकामुष्मिकानर्थव्रातं हित्वा सुखायते ॥ १॥ ब्रह्मवित्परमाप्नोति शोकं तरति चात्मवित् । रसो ब्रह्मरसं लब्ध्वानन्दी भवति नान्यथा ॥ २॥ प्रतिष्ठां विन्दते स्वस्मिन्यदा स्यादथ सोऽभयः । कुरुतेऽस्मिन्नन्तरं चेदथ तस्य भयं भवेत् ॥ ३॥ वायुः सूर्यो वह्निरिन्द्रो मृत्युर्जन्मान्तरेऽन्तरम् । कृत्वा धर्मं विजानन्तोऽप्यस्माद्भीत्या चरन्ति हि ॥ ४॥ आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन । एतमेव तपेन्नैषा चिन्ता कर्माग्निसम्भृता ॥ ५॥ एवं विद्वान्कर्मणि द्वे हित्वात्मानं स्मरेत्सदा । कृते च कर्मणि स्वात्मरूपेणैवैष पश्यति ॥ ६॥ भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ७॥ तमेव विद्वानत्येति मृत्युं पन्था न चेतरः । ज्ञात्वा देवं पाशहानिः क्षीणैः क्लेशैर्न जन्मभाक् ॥ ८॥ देवं मत्वा हर्षशोकौ जहात्यत्रैव धैर्यवान् । नैनं कृताकृते पुण्यपापे तापयतः क्वचित् ॥ ९॥ इत्यादिश्रुतयो बह्व्यः पुराणैः स्मृतिभिः सह । ब्रह्मज्ञानेऽनर्थहानिमानन्दं चाप्यघोषयन् ॥ १०॥ आनन्दस्त्रिविधो ब्रह्मानन्दो विद्यासुखं तथा । विषयानन्द इत्यादौ ब्रह्मानन्दो विविच्यते ॥ ११॥ भृगुः पुत्रः पितुः श्रुत्वा वरुणाद्ब्रह्मलक्षणम् । अन्नप्राणमनोबुद्धिस्त्यक्त्वानन्दं विजज्ञीवान् ॥ १२॥ आनन्दादेव भूतानि जायन्ते तेन जीवनम् । तेषां लयश्च तत्रातो ब्रह्मानन्दो न संशयः ॥ १३॥ भूतोत्पत्तेः पुरा भूमा त्रिपुटीद्वैतवर्जनात् । ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी प्रलये हि न ॥ १४॥ विज्ञानमय उत्पन्नो ज्ञाता ज्ञानं मनोमयः । ज्ञेयाः शब्दादयो नैतत्त्रयमुत्पत्तितः पुरा ॥ १५॥ त्रयाभावे तु निर्द्वैतः पूर्ण एवानुभूयते । समाधिसुप्तिमूर्च्छासु पूर्णः सृष्टेः पुरा तथा ॥ १६॥ यो भूमा तत्सुखं नाल्पे सुखं त्रेधा विभेदिनि । सनत्कुमारः प्राहैवं नारदायातिशोकिने ॥ १७॥ सपुराणान्पञ्च वेदान् शास्त्राणि विविधानि च । ज्ञात्वाप्यनात्मवित्त्वेन नारदोऽतिशुशोच ह ॥ १८॥ वेदाभ्यासात्पुरा तापत्रयमात्रेण शोकिता । पश्चात्त्वभ्यासविस्मारभङ्गगर्वैश्च शोकिता ॥ १९॥ सोऽहं विद्वान्प्रशोचामि शोकपारं नयस्व माम् । इत्युक्तः सुखमेवास्य पारमित्यभ्यधादृषिः ॥ २०॥ सुखं वैषयिकं शोकसहस्रेणावृतत्वतः । दुःखमेवेति मत्वाह नाल्पेऽस्ति सुखमित्यसौ ॥ २१॥ ननु द्वैते सुखं माभूदद्वैतेऽप्यस्ति नो सुखम् । अस्ति चेदुपलभ्येत तथा च त्रिपुटी भवेत् ॥ २२॥ मास्त्वद्वैते सुखं किन्तु सुखमद्वैतमेव हि । किं मानमिति चेन्नास्ति मानाकाङ्क्षा स्वयं प्रभे ॥ २३॥ स्वप्रभत्वे भवद्वाक्यं मानं यस्माद्भवानिदम् । अद्वैतमभ्युपेत्यास्मिन्सुखं नास्तीति भाषते ॥ २४॥ नाभ्युपैम्यहमद्वैतं त्वद्वचोऽनूद्य दूषणम् । वच्मीति चेत्तदा ब्रूहि किमासीद्द्वैततः पुरा ॥ २५॥ किमद्वैतमुत द्वैतमन्यो वा कोटिरन्तिमः । अप्रसिद्धो न द्वितीयोऽनुत्पत्तेः शिष्यतेऽग्रिमः ॥ २६॥ अद्वैतसिद्धिर्युक्त्यैव नानुभूत्येति चेद्वद । निर्दृष्टान्ता सदृष्टान्ता वा कोट्यन्तरमत्र नो ॥ २७। नानुभूतिःर्न दृष्टान्त इति युक्तिस्तु शोभते । सदृष्टान्तत्वपक्षे तु दृष्टान्तं वद मे मतम् ॥ २८॥ अद्वैतः प्रलयो द्वैतानुपलम्भेन सुप्तिवत् । इति चेत्सुप्तिरद्वैतेत्यत्र दृष्टान्तमीरय ॥ २९॥ दृष्टान्तः परसुप्तिश्चेदहो ते कौशलं महत् । यः स्वसुप्तिं न वेत्त्यस्य परसुप्तौ तु का कथा ॥ ३०॥ निश्चेष्टत्वात्परः सुप्तो यथाहमिति चेत्तदा । उदाहर्तुः सुषुप्तेस्ते स्वप्रभत्वं बलाद्भवेत् ॥ ३१॥ नेन्द्रियाणि न दृष्टान्तस्तथाप्यङ्गीकरोषि ताम् । इदमेव स्वप्रभत्वं यद्भानं साधनैर्विना ॥ ३२॥ स्तामद्वैतस्वप्रभत्वे वद सुप्तौ सुखं कथम् । शृणु दुःखं तदा नास्ति ततस्ते शिष्यते सुखम् ॥ ३३॥ अन्धः सन्नप्यनन्धः स्याद्विद्धोऽविद्धोऽथ रोग्यपि । अरोगीति श्रुतिः प्राह तच्च सर्वे जना विदुः ॥ ३४॥ न दुःखाभावमात्रेण सुखं लोष्टशिलादिषु । द्वयाभावस्य दृष्टत्वादिति चेद्विषमं वचः ॥ ३५॥ मुखदैन्यप्रकाशाभ्यां परदुःखसुखोहनम् । दैन्याद्यभावतो लोष्टे दुःखाद्यूहो न सम्भवेत् ॥ ३६॥ स्वकीयसुखदुःखे तु नोहनीये ततस्तयोः । भावो वेद्योऽनुभूत्यैव तदभावोऽपि नान्यतः ॥ ३७॥ तथा सति सुषुप्तौ च दुःखाभावोऽनुभूतितः । विरोधिदुःखराहित्यात्सुखं निर्विघ्नमिष्यताम् ॥ ३८॥ महत्तरप्रयासेन मृदुशय्यादिसाधनम् । कुतः सम्पाद्यते सुप्तौ सुखं चेत्तत्र नो भवेत् ॥ ३९॥ दुःखनाशार्थमेवैतदिति चेद्रोगिणस्तथा । भवत्वरोगिणस्ते तत्सुखायैवेति निश्चिनु ॥ ४०॥ तर्हि साधनजन्यत्वात्सुखं वैषयिकं भवेत् । भवत्येवात्र निद्रायाः पूर्वं शय्यासनादिजम् ॥ ४१॥ निद्रायां तु सुखं यत्तज्जन्यते केन हेतुना । सुखाभिमुखधीरादौ पश्चान्मज्जेत्परे सुखे ॥ ४२॥ जाग्रद्व्यापृतिभिः श्रान्तो विश्रम्याथ विरोधिनि । अपनीते स्वस्थचितोऽनुभवेद्विषये सुखम् ॥ ४३॥ आत्माभिमुखधीवृत्तौ स्वानन्दः प्रतिबिम्बति । अनुभूयैनमत्रापि त्रिपुट्या श्रान्तिमाप्नुयात् ॥ ४४॥ तत्श्रमस्यापनुत्यर्थं जीवो धावेत्परात्मनि । तेनैक्यं प्राप्य तत्रत्यो ब्रह्मानन्दः स्वयं भवेत् ॥ ४५॥ दृष्टान्ताः शकुनिः श्येनः कुमारश्च महानृपः । महाब्राह्मण इत्येते सुप्त्यानन्दे श्रुतीरिताः ॥ ४६॥ शकुनिः सूत्रबद्धः सन्दिक्षु व्यापृत्य विश्रमम् । अलब्ध्वा बन्धनस्थानं हस्तस्तम्भाद्युपाश्रयेत् ॥ ४७॥ जीवोपाधिर्मनस्तद्वद्धर्माधर्मफलाप्तये । स्वप्ने जाग्रति च भ्रान्त्वा क्षीणे कर्मणि लीयते ॥ ४८॥ श्येनो वेगेन नीडैकलम्पटः शयितुं व्रजेत् । जीवः सुप्त्यै तथा धावेद्ब्रह्मानन्दैकलम्पटः ॥ ४९॥ अतिबालस्तनं पीत्वा मृदुशय्यागतो हसन् । रागद्वेषाद्यनुत्पत्तेरानन्दैकस्वभावभाक् ॥ ५०॥ महाराजः सार्वभौमः सुतृप्तः सर्वभोगतः । मानुषानन्दसीमानं प्राप्यानन्दैकमूर्तिभाक् ॥ ५१॥ महाविप्रो ब्रह्मवेदी कृतकृत्यत्वलक्षणाम् । विद्यानन्दस्य परमां काष्ठां प्राप्यावतिष्ठते ॥ ५२॥ मुग्धबुद्धातिबुद्धानां लोके सिद्धा सुखात्मता । उदाहृतानामन्ये तु दुःखिनो न सुखात्मकाः ॥ ५३॥ कुमारादिवदेवायं ब्रह्मानन्दैकतत्परः । स्त्रीपरिष्वक्तवद्वेद न बाह्यं नापि चान्तरम् ॥ ५४॥ बाह्यं रथ्यादिकं वृत्तं गृहकृत्यं यथान्तरम् । तथा जागरणं बाह्यं नाडीस्थः स्वप्न आन्तरः ॥ ५५॥ पितापि सुप्तावपितेत्यादौ जीवत्ववारणात् । सुप्तौ ब्रह्मैव नो जीव संसारित्वासमीक्षणात् ॥ ५६॥ पितृत्वाद्यभिमानो यः सुखदुःखाकरः स हि । तस्मिन्नपगते तीर्णः सर्वान् शोकान्भवत्ययम् ॥ ५७॥ सुषुप्तिकाले सकले विलीने तमसावृतः । सुखरूपमुपैतीति ब्रूते ह्याथर्वणी श्रुतिः ॥ ५८॥ सुखमस्वाप्समत्राहं नैव किंचिदवेदिषम् । इति द्वे तु सुखाज्ञाने परामृशति चोत्तितः ॥ ५९॥ परामर्शोऽनुभूतेऽस्तीत्यासीदनुभवस्तदा । चिदात्मत्वत्स्वतो भाति सुखमज्ञानधीस्ततः ॥ ६०॥ ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः । पठन्त्यतः स्वप्रकाशं सुखं ब्रह्मैव नेतरत् ॥ ६१॥ यदज्ञानं तत्र लीनौ तौ विज्ञानमनोमयौ । तयोर्हि विलयावस्था निद्राज्ञानं च सैव हि ॥ ६२॥ विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः । विलीनावस्थ आनन्दमयशब्देन कथ्यते ॥ ६३॥ सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिम्बिता । सैव तद्बिम्बसहिता लीनानन्दमयस्ततः ॥ ६४॥ अन्तर्मुखोऽयमानन्दमयो ब्रह्मसुखं तदा । भुङ्क्ते चिद्बिम्बयुक्ताभिरज्ञानोत्पन्नवृत्तिभिः ॥ ६५॥ अज्ञानवृत्तयः सूक्ष्मा विस्पष्टा बुद्धिवृत्तयः । इति वेदान्तसिद्धान्तपारगाः प्रवदन्ति हि ॥ ६६॥ माण्डुक्यतापनीयादिश्रुतिष्वेतदतिस्फुटम् । आनन्दमयभोक्तृत्वं ब्रह्मानन्दे च भोग्यता ॥ ६७॥ एकीभूतः सुषुप्तस्थः प्रज्ञानघनतां गतः । आनन्दमय आनन्दभुक्चेतोमयवृत्तिभिः ॥ ६८॥ विज्ञानमयमुख्यैर्यो रूपैर्युक्तः पुराधुना । स लयेनैकतां प्राप्तो बहुतण्डुलपिष्टवत् ॥ ६९॥ प्रज्ञानानि पुरा बुद्धिवृत्तयोऽथ घनोऽभवत् । घनत्वं हिमबिन्दूनामुदग्देशे यथा तथा ॥ ७०॥ तद्घनत्वं साक्षिभावं दुःखाभावं प्रचक्षते । लौकिकास्तार्किका यावद्दुःखवृत्तिविलोपनात् ॥ ७१॥ अज्ञानबिम्बिता चित्स्यान्मुखमानन्दभोजने । भुक्तं ब्रह्मसुखं त्यक्त्वा बहिर्यात्यथ कर्मणा ॥ ७२॥ कर्म जन्मान्तरेऽभूद्यत्तद्योगाद्बुद्ध्यते पुनः । इति कैवल्यशाखायां कर्मजो बोध ईरितः ॥ ७३॥ कंचित्कालं प्रबुद्धस्य ब्रह्मानन्दस्य वासना । अनुगच्छेद्यतस्तूष्णीमास्ते निर्विषयः सुखी ॥ ७४॥ कर्मभिः प्रेरितः पश्चान्नाना दुःखानि भावयन् । शनैर्विस्मरति ब्रह्मानन्दमेषोऽखिलो जनः ॥ ७५॥ प्रागूर्ध्वमपि निद्रायाः पक्षपातो दिने दिने । ब्रह्मानन्दे नृणां तेन प्राज्ञोऽस्मिन्विवदेत कः ॥ ७६॥ ननु तूष्णीं स्थितौ ब्रह्मानन्दश्चेद्भाति लौकिकाः । अलसाश्चरितार्थाः स्युः शास्त्रेण गुरुणात्र किम् ॥ ७७॥ बाढं ब्रह्मेति विद्युश्चेत्कृतार्थास्तावतैव ते । गुरुशास्त्रे विनात्यन्तं गम्भीरं ब्रह्म वेत्ति कः ॥ ७८॥ जानाम्यहं त्वदुक्त्याद्य कुतो मे न कृतार्थता । शृण्वत्र त्वादृशं वृत्तं प्राज्ञं मन्यस्य कस्यचित् ॥ ७९॥ चतुर्वेदविदे देयमिति शृण्वन्नवोचत । वेदाश्चत्वार इत्येवं वेद्मि मे दीयतां धनम् ॥ ८०॥ साङ्ख्यमेवैष जानाति न तु वेदानशेषतः । यदि तर्हि तमप्येवं नाशेषं ब्रह्म वेत्सि हि ॥ ८१॥ अखण्डैकरसानन्दे मायातत्कार्यवर्जिते । अशेषत्वसशेषत्ववार्तावसर एव कः ॥ ८२॥ शब्दानेव पठस्याहो तेषामर्थं च पश्यसि । शब्दपाठेऽर्थबोधस्ते सम्पाद्यत्वेन शिष्यते ॥ ८३॥ अर्थे व्याकरणाद्बुद्धे साक्षात्कारोऽवशिष्यते । स्यात्कृतार्थत्वधीर्यावत्तावद्गुरुमुपास्व भोः ॥ ८४॥ आस्तामेतद्यत्र यत्र सुखं स्याद्विषयैर्विना । तत्र सर्वत्र विद्ध्येतां ब्रह्मानन्दस्य वासनाम् ॥ ८५॥ विषयेष्वपि लब्धेषु तदिच्छोपरमे सति । अन्तर्मुखमनोवृत्तावानन्दः प्रतिबिम्बति ॥ ८६॥ ब्रह्मानन्दो वासना च प्रतिबिम्ब इति त्रयम् । अन्तरेण जगत्यस्मिन्नानन्दो नास्ति कश्चन ॥ ८७॥ तथा च विषयानन्दो वासनानन्द इत्यमू । आनन्दौ जनयन्नास्ते ब्रह्मानन्दः स्वयंप्रभः ॥ ८८॥ श्रुतियुक्त्यनुभूतिभ्यः स्वप्रकाशचिदात्मके । ब्रह्मानन्दे सुप्तिकाले सिद्धे सत्यन्यदा शृणु ॥ ८९॥ य आनन्दमयः सुप्तौ स विज्ञानमयात्मताम् । गत्वा स्वप्नं प्रबोधं वा प्राप्नोति स्थानभेदतः ॥ ९०॥ नेत्रे जागरणं कण्ठे स्वप्नः सुप्तिर्हृदम्बुजे । आपादमस्तकं देहं व्याप्य जागर्ति चेतनः ॥ ९१॥ देहतादात्म्यमापन्नस्तप्तायः पिण्डवत्ततः । अहं मनुष्य इत्येवं निश्चित्यैवावतिष्ठते ॥ ९२॥ उदासीनः सुखी दुःखीत्यवस्थात्रयमेत्यसौ । सुखदुःखे कर्मकार्ये त्वौदासीन्यं स्वभावतः ॥ ९३॥ बाह्यभोगान्मनोराज्यात्सुखदुःखे द्विधा मते । सुखदुःखान्तरालेषु भवेत्तूष्णीमवस्थितिः ॥ ९४॥ न कापि चिन्ता मेऽस्त्यद्य सुखमास इति ब्रुवन् । औदासीन्ये निजानन्दभानं वक्त्यखिलः जनः ॥ ९५॥ अहमस्मीत्यहङ्कारसामान्येनावृतत्वतः । निजानन्दो न मुख्योऽयं किन्त्वसौ तस्य वासना ॥ ९६॥ नीरपूरितभाण्डस्य बाह्ये शैत्यं न तज्जलम् । किन्तु नीरगुणस्तेन नीरसत्तानुमीयते ॥ ९७॥ यावद्यावदहङ्कारो विस्मृतोऽभ्यासयोगतः । तावत्तावत्सूक्ष्मदृष्टेर्निजानन्दोऽनुमीयते ॥ ९८॥ सर्वात्मना विस्मृतः सन्सूक्ष्मतां परमां व्रजेत् । अलीनत्वान्न निद्रैषा ततो देहोऽपि नो पतेत् ॥ ९९॥ न द्वैतं भासते नापि निद्रा तत्रास्ति यत्सुखम् । स ब्रह्मानन्द इत्याह भगवानर्जुनं प्रति ॥ १००॥ शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ १०१॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १०२॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ १०३॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ १०४॥ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ १०५॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ १०६॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ १०७॥ युञ्जन्नेवं सदात्मानं योगि विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ १०८॥ उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ १०९॥ बृहद्रथस्य राजर्षेः शाकायन्यो मुनिः सुखम् । प्राह मैत्राख्यशाखायां समाध्युक्तिपुरःसरम् ॥ ११०॥ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ १११॥ स्वयोनावुपशान्तस्य मनसः सत्यकामिनः । इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ११२॥ चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो मर्त्यो गुह्यमेतत्सनातनम् ॥ ११३॥ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ११४॥ समासक्तं यथा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ११५॥ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसम्पर्काच्छुद्धं कामविवर्जितम् ॥ ११६॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ ११७॥ समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ ११८॥ यद्यप्यसौ चिरं कालं समाधिर्दुर्लभो नृणाम् । तथापि क्षणिको ब्रह्मानन्दं निश्चाययत्यसौ ॥ ११९॥ श्रद्धालुर्व्यसनी योऽत्र निश्चिनोत्येव सर्वथा । निश्चिते तु सकृत्तस्मिन्विश्वसित्यन्यदाप्ययम् ॥ १२०॥ तादृक्पुमानुदासीनकालेऽप्यानन्दवासनाम् । उपेक्ष्य मुख्यमानन्दं भावयत्येव तत्परः ॥ १२१॥ परव्यसनिनी नारी व्यग्रापि गृहकर्मणि । तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ १२२॥ एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः । तदेवास्वादयत्यन्तर्बहिर्व्यवहारन्नपि ॥ १२३॥ धीरत्वमक्षप्राबल्येऽप्यानन्दास्वादवाञ्छया । तिरस्कृत्याखिलाक्षाणि तच्चिन्तायां प्रवर्तनम् ॥ १२४॥ भारवाही शिरोभारं मुक्त्वास्ते विश्रमं गतः । संसारव्यापृतित्यागे तादृग्बुद्धिस्तु विश्रमः ॥ १२५॥ विश्रान्तिम्ं परमां प्राप्तस्त्वौदासीन्ये यथा तथा । सुखदुःखदशायां च तदानन्दैकतत्परः ॥ १२६॥ अग्निप्रवेशहेतौ धीः शृङ्गारे यादृशी तथा । धीरस्योदेति विषयेऽनुसन्धानविरोधिनी ॥ १२७॥ अविरोधिसुखे बुद्धिः स्वानन्दे च गमागमौ । कुर्वन्त्यास्ते क्रमादेषा काकाक्षिवदितस्ततः ॥ १२८॥ एकैव दृष्टिः काकस्य वामदक्षिणनेत्रयोः । यात्यायात्येवमानन्दद्वये तत्त्वविदो मतिः ॥ १२९॥ भुञ्जानो विषयानन्दं ब्रह्मानन्दं च तत्त्ववित् । द्विभाषाभिज्ञवद्विद्यादुभौ लौकिकवैदिकौ ॥ १३०॥ दुःखप्राप्तौ न चोद्वेगो यथा पूर्वं यतो द्विदृक् । गङ्गामग्नार्धकायस्य पुंसः शीतोष्णधीर्यथा ॥ १३१॥ इत्थं जागरणे तत्त्वविदो ब्रह्मसुखं सदा । भाति तद्वासनाजन्ये स्वप्ने तद्भासते तथा ॥ १३२॥ अविद्यावासनाप्यस्तीत्यतस्तद्वासनोत्थिते । स्वप्ने पूर्ववदेवैष सुखं दुःखं च वीक्षते ॥ १३३॥ ब्रह्मानन्दाभिधे ग्रन्थे ब्रह्मानन्दप्रकाशकम् । योगिप्रत्यक्षमध्याये प्रथमेऽस्मिन्नुदीरितम् ॥ १३४॥ इति ब्रह्मानन्दे योगानन्दः समाप्तः ॥ ११॥
ब्रह्मानन्दे आत्मानन्दोनाम - द्वादशः परिच्छेदः । नन्वेवं वासनानन्दाद्ब्रह्मानन्दादपीतरम् । वेत्तु योगी निजानन्दं मूढस्यात्रास्ति का गतिः ॥ १॥ धर्माधर्मवशादेष जायतां म्रियतामपि । पुनः पुनर्देहलक्षैः किं नो दाक्षिण्यतो वद ॥ २॥ अस्ति वोऽनुजिघृक्षुवाद्दाक्षिण्येन प्रयोजनम् । तर्हि ब्रूहि स मूढः किं जिज्ञासुर्वा पराङ्मुखः ॥ ३॥ उपास्तिं कर्म वा ब्रूयाद्विमुखाय यथोचितम् । मन्दप्रज्ञं तु जिज्ञासुमात्मानन्देन बोधयेत् ॥ ४॥ बोधयामास मैत्रेयीं याज्ञवल्क्यो निजप्रियाम् । न वा अरे पत्युरर्थे पतिः प्रिय इतीरयन् ॥ ५॥ पतिर्जाया पुत्रवित्ते पशुब्राह्मणबाहुजाः । लोका देवा वेदभूते सर्वं चात्मार्थतः प्रियम् ॥ ६॥ पत्याविच्छा यदा पत्न्यास्तदा प्रीतिं करोति सा । क्षुदनुष्ठानरोगाद्यैस्तदा नेच्छति तत्पतिः ॥ ७॥ न पत्युरर्थे सा प्रीतिः स्वार्थ एव करोति ताम् । पतिश्चात्मन एवार्थे न जायार्थे कदाचन । अन्योऽन्यप्रेरणेऽप्येवं स्वेच्छयैव प्रवर्तनम् ॥ ८॥ श्मश्रुकण्टकवेधेन बालो रुदति तत्पिता । चुम्बत्येव न सा प्रीतिर्बालार्थे स्वार्थ एव सा ॥ ९॥ निरिच्छमपि रत्नादि वित्तं यत्नेन पालयन् । प्रीतिं करोति सा स्वार्थे वित्तार्थत्वं न शङ्कितम् ॥ १०॥ अनिच्छति बलीवर्दे विवाहयिषते बलात् । प्रीतिः सा वणिगर्थैव बलीवर्दार्थता कुतः ॥ ११॥ ब्राह्मण्यं मेऽस्ति पूज्योऽहमिति तुष्यति पूजया । अचेतनाया जातेर्नो सन्तुष्टिः पुंस एव सा ॥ १२॥ क्षत्रियोऽहं तेन राज्यं करोमीत्यत्र राजता । न जातेर्वैश्यजात्यादौ योजनायेदमीरितम् ॥ १३॥ स्वर्गलोकब्रह्मलोकौ स्तां ममेत्यभिवाञ्छनम् । लोकयोर्नोपकाराय स्वभोगायैव केवलम् ॥ १४॥ ईशविष्ण्वादयो देवाः पूज्यन्ते पापनष्टये । न तन्निष्पापदेवार्थं स्वार्थं तत्तूपयुज्यते ॥ १५॥ ऋगादयो ह्यधीयन्ते दुर्ब्राह्मण्यानवाप्तये । न तत् प्रसक्तं वेदेषु मनुष्येषु प्रसज्यते ॥ १६॥ भूम्यादिपञ्चभूतानि स्थानतृट्पाकशोषणैः । हेतुभिश्चावकाशेन वाञ्छन्त्येषां न हेतवे ॥ १७॥ स्वामिभृत्यादिकं सर्वं स्वोपकाराया वाञ्छति । तत्तत्कृतोपकारस्तु तस्य तस्य न विद्यते ॥ १८॥ सर्वव्यवहृतिष्वेवमनुसन्धातुमीदृशम् । उदाहरणबाहुल्यं तेन स्वां वासयेन्मतिम् ॥ १९॥ अथ केयं भवेत्प्रीतिः श्रूयते या निजात्मनि । रागो वध्वादि विषये श्रद्धा यागादि कर्मणि । भक्तिः स्याद्गुरुदेवादाविच्छा त्वप्राप्तवस्तुनि ॥ २०॥ तर्ह्यस्तु सात्विकी वृत्तिः सुखमात्रानुवर्तिनी । प्राप्ते नष्टेऽपि सद्भावादिच्छतो व्यतिरिच्यते ॥ २१॥ सुखसाधनतोपाधेरन्नपानादयः प्रियाः । आत्मानुकुल्यादन्नादिसमश्चेदमुनात्र कः । अनुकुलयितव्यः स्यान्नैकस्मिन्कर्मकर्तृता ॥ २२॥ सुखे वैषयिके प्रीतिमात्रमात्मा त्वतिप्रियः । सुखे व्यभिचरत्येषा नात्मनि व्यभिचारिणी ॥ २३॥ एकं त्यक्त्वान्यदादत्ते सुखं वैषयिकं सदा । नात्मा त्याज्यो न चादेयस्तस्मिन्व्यभिचरेत्कथम् ॥ २४॥ हानादानविहीनोऽस्मिन्नुपेक्षा चेत्तृणादिवत् । उपेक्षितुः स्वरूपत्वान्नोपेक्ष्यत्वं निजात्मनः ॥ २५॥ रोगक्रोधाभिभूतानां मुमूर्षा वीक्ष्यते क्वचित् । ततो द्वेषाद्भवेत्त्याज्य आत्मेति यदि तन्न हि । त्यक्तुं योग्यस्य देहस्य नात्मता त्यक्तुरेव सा । न त्यक्तर्यस्ति स द्वेषस्त्याज्ये द्वेषे तु का क्षतिः ॥ २६॥ आत्मार्थत्वेन सर्वस्य प्रीतेश्चात्मा ह्यतिप्रियः । यथा पितुः पुत्रमित्रात्पुत्रः प्रियतरस्तथा ॥ २७॥ मा न भूवमहं किन्तु भूयासं सर्वदेत्यसौ । आशीः सर्वस्य दृस्तेति प्रत्यक्षा प्रीतिरात्मनि ॥ २८॥ इत्यादिभिस्त्रिभिः प्रीतौ सिद्धायामेवमात्मनि । पुत्रभार्यादिशेषत्वमात्मनः कैश्चिदिर्रितम् ॥ २९॥ एतद्विवक्षया पुत्रे मुख्यात्मत्वं श्रुतीरितम् । आत्मा वै पुत्रनामेति तच्चोपनिषदि स्फुटम् ॥ ३०॥ सोऽस्यायमात्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते । अथास्येतर आत्मायं कृतकृत्यः प्रमीयते ॥ ३१॥ सत्यप्यात्मनि लोकोऽस्ति नापुत्रस्यात एव हि । अनुशिष्टं पुत्रमेव लोक्यमाहुर्मनीषिणः ॥ ३२॥ मनुष्यलोको जय्यः स्यात्पुत्रेणैवेतरेण नो । मुमूर्षुर्मन्त्रयेत्पुत्रं त्वं ब्रह्मेत्यादिमन्त्रकैः ॥ ३३॥ इत्यादिश्रुतयः प्राहुः पुत्रभार्यादिशेषताम् । लौकिका अपि पुत्रस्य प्राधान्यमनुमन्यते ॥ ३४॥ स्वस्मिन्मृतेऽपि पुत्रादिर्जीवेद्वित्तादिना यथा । तथैव यत्नं कुरुते मुख्याः पुत्रादयस्ततः ॥ ३५॥ बाधमेतावता नात्मा शेषो भवति कस्य चित् । गौणमिथ्यामुख्यभेदैरात्मायं भवति त्रिधा ॥ ३६॥ देवदत्तस्तु सिंहोऽयमित्यैक्यं गौणमेतयोः । भेदस्य भासमानत्वात्पुत्रादेरात्मता तथा ॥ ३७॥ भेदोऽस्ति पञ्चकोषेषु साक्षिणो न तु भात्यसौ । मिथ्यात्मतातः कोषाणां स्थाणोर्चौरात्मता यथा ॥ ३८॥ न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः । सर्वान्तरत्वात् तस्यैव मुख्यमात्मत्वमिष्यते ॥ ३९॥ सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता । तेषु तस्यैव शेषित्वं सर्वस्यान्यस्य शेषता ॥ ४०॥ मुमूर्षोर्गृहरक्षादौ गौणात्मैवोपयुज्यते । न मुख्यात्मा न मिथ्यात्मा पुत्रः शेषी भवत्यतः ॥ ४१॥ अध्येता वह्निरित्यत्र सन्नप्यग्निर्न गृह्यते । अयोग्यत्वेन योग्यत्वाद्बटुरेवात्र गृह्यते ॥ ४२॥ कृशोऽहं पुष्टिमाप्स्यामीत्यादौ देहात्मतोचिता । न पुत्रं विनियुङ्क्तेऽत्र पुष्टिहेत्वन्नभक्षणे ॥ ४३॥ तपसा स्वर्गमेष्यामीत्यादौ कर्त्रात्मतोचिता । अनपेक्ष्य वपुर्भोगं चरेत्कृच्छ्रादिकं ततः ॥ ४४॥ मोक्ष्येऽहमित्यत्र युक्तं चिदात्मत्वं तदा पुमान् । तद्वेत्ति गुरुशास्त्राभ्यां न तु किंचिच्चिकीर्षति ॥ ४५॥ विप्रक्षत्रादयो यद्वद्बृहस्पतिसवादिषु । व्यवस्थितास्तथा गौणमिथ्यामुख्या यथोचितम् ॥ ४६॥ तत्र तत्रोचिते प्रीतिरात्मन्येवातिशायिनी । अनात्मनि तु तच्छेषे प्रीतिरन्यत्र नोभयम् ॥ ४७॥ उपेक्ष्यं द्वेष्यमित्यन्यत् द्वेधा मार्गतृणादिकम् । उपेक्ष्यं व्याघ्रसर्पादि द्वेष्यमेवं चतुर्विधम् ॥ ४८॥ आत्मा शेष उपेक्ष्यं च द्वेष्यं चेति चतुर्ष्वपि । न व्यक्तिनियमः किन्तु तत्तत्कार्यात्तथा तथा ॥ ४९॥ स्याद्व्याघ्रः संमुखो द्वेष्यो ह्युपेक्ष्यस्तु पराङ्मुखः । लालनादनुकूलश्चेद्विनोदायेति शेषताम् ॥ ५०॥ व्यक्तीनां नियमो मा भूल्लक्षणात्तुव्यवस्थितिः । आनुकूल्यं प्रातिकूल्यं द्वयाभावश्च लक्षणम् ॥ ५१॥ आत्मा प्रेयान्प्रियः शेषो द्वेष्योपेक्ष्ये तदन्ययोः । इति व्यवस्थितो लोको याज्ञवल्क्यमतं च तत् ॥ ५२॥ अन्यत्रापि श्रुतिः प्राह पुत्राद्वित्तात्तथान्यतः । सर्वस्मादान्तरं तत्त्वं तदेतत्प्रेय ईक्षताम् ॥ ५३॥ श्रौत्या विचारदृष्ट्यायं साक्ष्येवात्मा न चेतरः । कोषान्पञ्च विविच्यान्तर्वस्तुदृष्टिर्विचारणा ॥ ५४॥ जागरस्वप्नसुप्तीनामागमापायभासनम् । यतो भवत्यसावात्मा स्वप्रकाशचिदात्मकः ॥ ५५॥ शेषाः प्राणादिवित्तान्ता आसन्नास्तारतम्यतः । प्रीतिस्तथा तारतम्यात्तेषु सर्वेषु वीक्ष्यते ॥ ५६॥ वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् । इन्द्रियाच्च प्रियः प्राणः प्राणादात्मा परः प्रियः ॥ ५७॥ एवं स्थिते विवादोऽत्र प्रतिबुद्धविमूढयोः । श्रुत्योदाहारि तत्रात्मा प्रेयानित्येव निर्णयः ॥ ५८॥ साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् । प्रेयान्पुत्रादिरेवेमं भोक्तुं साक्षीति मूढधीः ॥ ५९॥ आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि । तस्योत्तरं वाचो बोधशापौ कुर्यात्तयोः क्रमात् ॥ ६०॥ प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् । स्वोक्तप्रियस्य दुष्टत्वं शिष्यो वेत्ति विवेकतः ॥ ६१॥ अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । लब्धोऽपि गर्भपातेन प्रसवेन च बाधते ॥ ६२॥ जातस्य ग्रहरोगादि कुमारस्य च मूकता । उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ ६३॥ पुनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । पित्रोः दुःखस्य न अस्त्यनतो धनी चेन्म्रियते तदा ॥ ६४॥ एवं विविच्य पुत्रादौ प्रीतिं त्यक्त्वा निजात्मनि । निश्चित्य परमां प्रीतिं वीक्षते तमहर्निशम् ॥ ६५॥ आग्रहाद्ब्रह्मविद्द्वेषादपि पक्षममुञ्चतः । वादिनो नरकः प्रोक्तो दोषश्च बहुयोनिषु ॥ ६६॥ ब्रह्मविद्ब्रह्मरूपत्वादीश्वरस्तेन वर्णितम् । यद्यत्तत्तत्तथैव स्यात्तच्छिष्यप्रतिवादिनोः ॥ ६७॥ यस्तु साक्षिणमात्मानं सेवते प्रियमुत्तमम् । तस्य प्रेयानसावात्मा न नश्यति कदाचन ॥ ६८॥ परप्रेमास्पदत्वेन परमानन्दरूपता । सुखवृद्धिः प्रीतिवृद्धौ सार्वभौमादिषु श्रुता ॥ ६९॥ चैतन्यवत्सुखं चास्य स्वभावश्चेच्चिदात्मनः । धीवृत्तिष्वनुवर्तेत सर्वास्वपि चितिर्यथा ॥ ७०॥ मैवमुष्णप्रकाशात्मा दीपस्तस्य प्रभा गृहे । व्याप्नोति नोष्णता तद्वच्चितेरेवानुवर्तनम् ॥ ७१॥ गन्धरूपरसस्पर्शेष्वपि सत्सु यथा पृथक् । एकाक्षेणैक एवार्थो गृह्यते नेतरस्तथा ॥ ७२॥ चिदानन्दौ नैव भिन्नौ गन्धाद्यास्तु विलक्षणाः । इति चेत् तदभेदोऽपि साक्षिण्यन्यत्र वा वद ॥ ७३॥ आद्ये गन्धादयोऽप्येवमभिन्नाः पुष्पवर्तिनः । अक्षभेदेन तद्भेदे वृत्तिभेदात्तयोर्भिदा ॥ ७४॥ सत्ववृत्तौ चित्सुखैक्यं तद्वृत्तेर्निर्मलत्वतः । रजोवृत्तेस्तु मालिन्यात्सुखांशोऽत्र तिरस्कृतः ॥ ७५॥ तिन्तिणीफलमत्यम्लं लवणेन युतं यदा । तदाम्लस्य तिरस्कारादीषदग्नं यथा तथा ॥ ७६॥ ननु प्रियतमत्वेन परमानन्दतात्मनि । विवेक्तुं शक्यतामेवं विना योगेन किं भवेत् ॥ ७७॥ यद्योगेन तदेवैति वदामो ज्ञानसिद्धये । योगः प्रोक्तो विवेकेन ज्ञानं किं नोपजायते ॥ ७८॥ यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । इति स्मृतं फलैकत्वं योगिनां च विवेकिनाम् ॥ ७९॥ असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । इत्थं विचार्यमार्गौ द्वौ जगाद परमेश्वरः ॥ ८०॥ योगे कोऽतिशयस्तेऽत्र ज्ञानमुक्तं समं द्वयोः । रागद्वेषाद्यभावश्च तुल्यो योगिविवेकिनोः ॥ ८१॥ न प्रीतिर्विषयेष्वस्ति प्रेयानात्मेति जानतः । कुतो रागः कुतो द्वेषः प्रातिकूल्यमपश्यतः ॥ ८२॥ देहादेः प्रतिकूलेषु द्वेषस्तुल्योद्वयोरपि । द्वेषं कुर्वन्न योगी चेदविवेक्यपि तादृशः ॥ ८३॥ द्वैतस्य प्रतिभानं तु व्यवहारे द्वयोः समम् । समाधौ नेति चेत्तद्वन्नाद्वैतत्वविवेकिनः ॥ ८४॥ विवक्ष्यते तदस्माभिरद्वैतानन्दनामके । अध्याये हि तृतीये तत्सर्वमप्यतिमङ्गलम् ॥ ८५॥ सदा पश्यन्निजानन्दमपश्यन्नखिलं जगत् । अर्थाद्योगीति चेत्तर्हि सन्तुष्टो वर्धतां भवान् ॥ ८६॥ ब्रह्मानन्दभिधे ग्रन्थे मन्दानुग्रहसिद्धये । द्वितीयेऽध्याय एतस्मिन्नात्मानन्दो विवेचितः ॥ ८७॥ इति ब्रह्मानन्दे आत्मानन्दः समाप्तः ॥ १२॥
ब्रह्मानन्देऽद्वैतानन्दोनाम - त्रयोदशः परिच्छेदः । योगानन्दः पुरोक्तो यः स आत्मानन्द इष्यताम् । कथं ब्रह्मत्वमेतस्य सद्वयस्येति चेच्छृणु ॥ १॥ आकाशादि स्वदेहान्तं तैत्तिरीयश्रुतीरितम् । जगन्नास्त्यन्यदानन्दात्दद्वैतब्रह्मता ततः ॥ २॥ आनन्दाद्ध्येव तज्जातं तिष्ठत्यानन्द एव तत् । आनन्द एव लीनं चेत्युक्तानन्दात्कथं पृथक् ॥ ३॥ कुलालाद्घट उत्पन्नो भिन्नश्चेति न शङ्क्यताम् । मृद्वदेषः उपादानं न निमित्तं कुलालवत् ॥ ४॥ स्थितिर्लयश्च कुम्भस्य कुलाले स्तो न हि क्वचित् । दृष्टौ तौ मृदि तद्वत्स्यादुपादानं तयोः श्रुतेः ॥ ५॥ उपादानं त्रिधा भिन्नं विवर्ति परिणामि च । आरम्भकं च तत्रान्त्यौ न निरंशेऽवकाशिनौ ॥ ६॥ आरम्भवादिनोऽन्यस्मादन्यस्योत्पत्तिमूचिरे । तन्तोः पटस्य निष्पत्तेर्भिन्नौ तन्तुपटौ खलु ॥ ७॥ अवस्थान्तरतापत्तिरेकस्य परिणामिता । स्यात् क्षीरं दधि मृत्कुम्भः सुवर्णं कुण्डलं यथा ॥ ८॥ अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् । निरंशेऽप्यस्त्यसौ व्योम्नि तलमालिन्यकल्पनात् ॥ ९॥ ततो निरंश आनन्दे विवर्तो जगदिष्यताम् । मायाशक्तिः कल्पिका स्यादैन्द्र जालिकशक्तिवत् ॥ १०॥ शक्तिः शक्तात्पृथङ्नास्ति तद्वद्दृष्टेर्न चाभिदा । प्रतिबन्धस्य दृष्टत्वाच्छक्त्यभावे तु कस्य सः ॥ ११॥ शक्तेः कार्यानुमेयत्वादकार्ये प्रतिबन्धनम् । ज्वलतोऽग्नेरदाहे स्यान्मन्त्रादि प्रतिबन्धता ॥ १२॥ देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविदन् । परास्य शक्तिर्विविधा क्रियाज्ञानबलात्मिका ॥ १३॥ इति वेदवचः प्राह वसिष्ठश्च तथाब्रवीत् । सर्वशक्तिपरं ब्रह्म नित्यमापूर्णमद्वयम् ॥ १४॥ यथोल्लसति शक्त्यासौ प्रकाशमधिगच्छति । चिच्छक्तिर्ब्रह्मणो राम! शरीरेषूपलभ्यते ॥ १५॥ स्पन्दशक्तिश्च वातेषु दार्ढ्यशक्तिस्तथोपले । द्रवशक्तिस्तथाम्भःसु दाहशक्तिस्तथानले । शून्यशक्तिस्तथाकाशे नाशशक्तिर्विनाशिनि ॥ १६॥ यथाण्डान्तर्महासर्पो जगदस्ति तथात्मनि । फलपत्रलतापुष्पशाखाविटपमूलवान् । वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥ १७॥ क्वचित्कश्चित्कदाचिच्च तस्मादुद्यन्ति शक्तयः । देशकालविचित्रत्वात्क्ष्मातलादिव शालयः ॥ १८॥ स आत्मा सर्वगो राम! नित्योदितमहावपुः । यन्मनाङ्मननीं शक्तिं धत्ते तन्मन उच्यते ॥ १९॥ आदौ मनस्तदनुबन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना । इत्यादिका स्थितिरियं हि गता प्रतिष्ठा- माख्यायिका सुभगबालजनोदितेव ॥ २०॥ बालस्य हि विनोदाय धात्री शक्ति शुभां कथाम् । क्वचित्सन्ति महाबाहो! राजपुत्रास्त्रयः शुभाः ॥ २१॥ द्वौ न जातौ तथैकस्तु गर्भ एव हि न स्थितः । वसन्ति ते धर्मयुता अत्यन्तासति पत्तने ॥ २२॥ स्वकीयाच्छून्यनगरान्निर्गत्य विमलाशयाः । गच्छन्तो गगने वृक्षान्ददृशुः फलशालिनः ॥ २३॥ भविष्यन्नगरे तत्र राजपुत्रास्त्रयोऽपि ते । सुखमद्य स्थिता पुत्र! मृगयाव्यवहारिणः ॥ २४॥ धात्र्यैवं कथिता राम! बालकाख्यायिका शुभा । निश्चयं स ययौ बालो निर्विचारणया धिया ॥ २५॥ इयं संसार रचना विचारोज्झितचेतसाम् । बालकाख्यायिकेवेत्थमवस्थितिमुपागता ॥ २६॥ इत्यादिभिरुपाख्यानैर्मायाशक्तेस्तु विस्तरम् । वसिष्ठः कथयामास सैव शक्तिर्निरूप्यते ॥ २७॥ कार्यादाश्रयतः सैषा भवेच्छक्तिर्विलक्षणा । स्फोटाङ्गारौ दृश्यमानौ शक्तिस्तत्रानुमीयते ॥ २८॥ पृथुबुध्नोदराअकारो घटः कार्योऽत्र मृत्तिका । शब्दादिभिः पञ्चगुणैर्युक्ता शक्तिस्त्वतद्विधा ॥ २९॥ न पृथ्वादिर्न शब्दादिः शक्तावस्तु यथा तथा । अत एव ह्यचिन्त्यैषा न निर्वचनमर्हति ॥ ३०॥ कार्योत्पत्तेः पुरा शक्तिर्निगूढा मृद्यवस्थिता । कुलालादिसहायेन विकाराकारतां व्रजेत् ॥ ३१॥ पृथ्व्यादि विकारान्तं स्पर्शादिगुणमृत्तिकाम् । एकीकृत्य घटं प्राहुर्विचारविकला जनाः ॥ ३२॥ कुलालव्यापृतेः पूर्वो यावानंश स नो घटः । पश्चात्तु पृथुबुध्नादिमत्त्वे युक्ता हि कुम्भता ॥ ३३॥ स घटो न मृदो भिन्नो वियोगे सत्यनीक्षणात् । नाप्यभिन्नः पुरा पिण्डदशायामनवेक्षणात् ॥ ३४॥ अतोऽनिर्वचनीयोऽयं शक्तिवत्तेन शक्तिजः । अव्यक्तव्ये शक्तिरुक्ता व्यक्तत्ये घटनामभृत् ॥ ३५॥ ऐन्द्रजालिकनिष्ठापि माया न व्यज्यते पुरा । पश्चाद्गन्धर्वसेनादिरूपेण व्यक्तिमाप्नुयात् ॥ ३६॥ एवं मायामयत्वेन विकारस्यानृतात्मताम् । विकाराधारमृद्वस्तुसत्यत्वं चाब्रवीच्छ्रुतिः ॥ ३७॥ वाङ्निष्पाद्यं नाममात्रं विकारो नास्य सत्यता । स्पर्शादि गुणयुक्ता तु सत्या केवलमृत्तिका ॥ ३८॥ व्यक्ताव्यक्ते तदाधार इति त्रिष्वाद्ययोर्द्वयोः । पर्यायः कालभेदेन तृतीयस्त्वनुगच्छति ॥ ३९॥ निस्तत्त्वं भासमानं च व्यक्तमुत्पत्तिनाशभाक् । तदुत्पत्तौ तस्य नाम वाचा निष्पाद्यते नृभिः ॥ ४०॥ व्यक्ते नष्टेऽपि नामैतन्नृवक्त्रेष्वनुवर्तते । तेन नाम्ना निरूप्यत्वाद्व्यक्तं तद्रूपमुच्यते ॥ ४१॥ निस्तत्त्वत्वाद्विनाशित्वाद्वाचारम्भणनामतः । व्यक्तस्य न तु तद्रूपं सत्यं किञ्चिन्मृदादिवत् ॥ ४२॥ व्यक्तकाले ततः पूर्वमूर्ध्वमप्येकरूपभाक् । सतत्त्वमविनाशं च सत्यं मृद्वस्तु कथ्यते ॥ ४३॥ व्यक्तं घटो विकारश्चेत्येतैर्नामभिरीरितः । अर्थश्चेदनृतः कस्मान्न मृद्बोधे निवर्तते ॥ ४४॥ निवृत्त एव यस्मात्ते तत्सत्यत्वमतिर्गता । ईदृङ्निवृत्तिरेवात्र बोधजा न त्वभासनम् ॥ ४५॥ पुमानधोमुखः नीरे भातोऽप्यस्ति न वस्तुतः । तटस्थमर्त्यवत्तस्मिन्नैवास्था कस्यचित्क्वचित् । ईदृग्बोधे पुमर्थत्वं मतमद्वैतवादिनाम् ॥ ४६ मृद्रूपस्यापरित्यागाद्विवर्तत्वं घटे स्थितम् । परिणामे पूर्वरूपं त्यजेत्तत्क्षीररूपवत् । मृत्सुवर्णे निवर्तेते घटकुण्डलयोर्न हि ॥ ४७॥ घटे नष्टे न मृद्भावः कपालानामवेक्षणात् । मैवं चूर्णेऽस्ति मृद्रूपं स्वर्णरूपं त्वतिस्फुटम् ॥ ४८॥ क्षीरादौ परिणामोऽस्तु पुनस्तद्भाववर्जनात् । एतावता मृदादीनां दृष्टान्तत्वं न हीयते ॥ ४९॥ आरम्भवादिनः कार्ये मृदो द्वैगुण्यमापतेत् । रूपस्पर्शादयः प्रोक्ताः कार्य कारणयोः पृथक् ॥ ५०॥ मृत्सुवर्णमयश्चेति दृष्टान्तत्रयमारूणिः । प्राहातो वासयेत्कार्यानृतत्वं सर्ववस्तुषु ॥ ५१॥ कारणज्ञानतः कार्यविज्ञानं चापि सोऽवदत् । सत्यज्ञानेऽनृतज्ञां कथमत्रोपपद्यते ॥ ५२॥ समृत्कस्य विकारस्य कार्यता लोकदृष्टितः । वास्तवोऽत्र मृदंशोऽस्य बोधः कारणबोधतः ॥ ५३॥ अनृतांशो न बोद्धव्यस्तद्बोधानुपयोगतः । तत्त्वज्ञानं पुमर्थं स्यान्नानृत अंशावबोधनम् ॥ ५४॥ तर्हि कारणविज्ञानात्कर्यज्ञामितीरिते । मृद्बोधान्मृत्तिका बुद्धेत्युक्तं स्यात्कोऽत्र विस्मयः ॥ ५५॥ सत्यं कार्येषु वस्त्वंशः कारणात्मेति जानतः । विस्मयो मास्त्विहाज्ञस्य विस्मयः केन वार्यते ॥ ५६॥ आरम्भी परिणामी च लौकिकश्चैककारणे । ज्ञाते सर्वमतं श्रुत्वा प्राप्नुवन्त्येव विस्मयम् ॥ ५७॥ अद्वैतेऽभिमुखीकर्तुमेवात्रैकस्य बोधतः । सर्वबोधः श्रुतौ नैव नानात्वस्य विवक्षया ॥ ५८॥ एकमृत्पिण्डविज्ञानात्सर्वमृण्मयधीर्यथा । तथैकब्रह्मबोधेन जगद्बुद्धिर्विभाव्यताम् ॥ ५९॥ सच्चित्सुखात्मकं ब्रह्म नामरूपात्मकं जगत् । तापनीये श्रुतं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ६०॥ सद्रूपमारुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचाः । सनत्कुमार आनन्दमेवमन्यत्र गम्यताम् ॥ ६१॥ विचिन्त्य सर्वरूपाणि कृत्वा नामानि तिष्ठति । अहं व्याकरवाणीमे नामरूपे इति श्रुतिः ॥ ६२॥ अव्याकृतं पुरा सृष्टेरूर्ध्वं व्याक्रीयते द्विधा । अचिन्त्यशक्तिर्मायैषा ब्रह्मण्यव्याकृताभिधा ॥ ६३॥ अविक्रियब्रह्मनिष्ठा विकारं यात्यनेकधा । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ६४॥ आद्यो विकार आकाशः सोऽस्ति भात्यपि च प्रियः । अवकाशस्तस्य रूपं तन्मिथ्या न तु तत्त्रयम् ॥ ६५॥ न व्यक्तेः पूर्वमस्त्येव न पश्चाच्च विनाशतः । आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ ६६॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनानीवेत्याह कृष्णोऽर्जुनं प्रति ॥ ६७॥ मृद्वत्ते सच्चिदानन्दा अनुगच्छन्ति सर्वद । निराकाशे सदादीनामनुभूतिर्निजात्मनि ॥ ६८॥ अवकाशे विस्मृतेऽथ तत्र किं भाति ते वद । शून्यमेवेति चेदस्तु नाम तादृग्विभाति हि ॥ ६९॥ तादृक्त्वादेव तत्सत्त्वमौदासीन्येन तत्सुखम् । आनुकूल्यप्रातिकूल्यहीनं यत्तन्निजं सुखम् ॥ ७०॥ आनुकूल्ये हर्षधीः स्यात्प्रातिकूल्ये तु दुःखधीः । द्वयाभावे निजानन्दो निजं दुःखं तु न क्वचित् ॥ ७१॥ निजानन्दे स्थिते हर्षशोकयोर्व्यत्ययः क्षणात् । मनसः क्षणिकत्वेन तयोर्मानसतेष्यताम् ॥ ७२॥ आकाशेऽप्येवमानन्दः सत्ताभाने तु संमते । वाय्वादिदेहपर्यन्तवस्तुष्वेवं विभाव्यताम् ॥ ७३॥ गतिस्पर्शौ वायुरूपं वह्नेर्दाहप्रकाशने । जलस्य द्रवता भूमेः काठिन्यं चेति निर्णयः ॥ ७४॥ असाधारण आकाशे ओषध्यन्नवपुःष्वपि । एवं विभाव्य मनसा तत्तद्रूपं यथोचितम् ॥ ७५॥ अनेकधा विभिन्नेषु नामरूपेषु चैकधा । तिष्ठन्ति सच्चिदानन्दाविसंवादः न कस्यचित् ॥ ७६॥ निस्तत्त्वे नामरूपे द्वे जन्मनाशयुते च ते । बुद्ध्या ब्रह्मणि वीक्षस्व समुद्रे बुद्बुदादिवत् ॥ ७७॥ सच्चिदानन्दरूपेऽस्मिन् पूर्णे ब्रह्मणि वीक्षिते । स्वयमेवावजानाति नामरूपे शनैः शनैः ॥ ७८॥ यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् । यावद्यावद्वीक्ष्यते तत्तावत्तावदुभे त्यजेत् ॥ ७९॥ तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् । जीवन्नेव भवेन्मुक्तो वपुरस्तु यथा तथा ॥ ८०॥ तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥ ८१॥ वासनानेककालिना दीर्घकालं निरन्तरम् । सादरं चाभ्यस्यमाने सर्वथैव निवर्तते ॥ ८२॥ मृच्छक्तिवद्ब्रह्मशक्तिरनेकाननृतान्सृजेत् । यद्वा जीवगता निद्रा स्वप्नश्चात्र निदर्शनम् ॥ ८३॥ निद्राशक्तिर्यथा जीवे दुर्घटस्वप्नकारिणी । ब्रह्मण्येषा तथा माया सृष्टिस्थित्यन्तकारिणी ॥ ८४॥ स्वप्ने वियद्गतिं पश्येत्स्वमूर्धच्छेदनं यथा । मुहूर्ते वत्सरौघं च मृतं पुत्रादिकं पुनः ॥ ८५॥ इदं युक्तमिदं नेति व्यवस्था तत्र दुर्लभा । यथा यथेक्ष्यते यद्यत्तत्तद्युक्तं तथा तथा ॥ ८६॥ ईदृशो महिमा दृष्टो निद्राशक्तेर्यदा तदा । मायाशक्तेरचिन्त्योऽयं महिमेति किमद्भुतम् ॥ ८७॥ शयाने पुरुषे निद्रा स्वप्नं बहुविधं सृजेत् । ब्रह्मण्येवं निर्विकारे विकारान्कल्पयत्यसौ ॥ ८८॥ खानिलाग्निजलोर्व्यण्डलोकप्राणिशिलादिकाः । विकाराः प्राणिधीष्वन्तश्चिच्छाया प्रतिबिम्बति ॥ ८९॥ चेतनाचेतनेष्वेषु सच्चिदानन्दलक्षणम् । समानं ब्रह्म भिद्येते नामरूपे पृथक्पृथक् ॥ ९०॥ ब्रह्मण्येते नामरूपे पटे चित्रमिव स्थिते । उपेक्ष्य नामरूपे द्वे सच्चिदानन्दधीर्भवेत् ॥ ९१॥ जलस्थेऽधोमुखे स्वस्य देहे दृष्टेऽप्युपेक्ष्य तम् । तीरस्थ एव देहे स्वे तात्पर्यं स्याद्यथा तथा ॥ ९२॥ सहस्रशो मनोराज्ये वर्तमाने सदैव तत् । सर्वैरूपेक्ष्यते तद्वदुपेक्षा नामरूपयोः ॥ ९३॥ क्षणे क्षणे मनोराज्यं भवत्येवान्यथान्यथा । गतं गतं पुनर्नास्ति व्यवहारो बहिस्तथा ॥ ९४॥ न बाल्यं यौवने लभ्यं यौवनं स्थविरे तथा । मृतः पिता पुनर्नास्ति नायात्येव गतं दिनम् ॥ ९५॥ मनोराज्याद्विशेषः कः क्षणध्वंसिनि लौकिके । अतोऽस्मिन्भासमानेऽपि तत्सत्यत्वधियं त्यजेत् ॥ ९६॥ उपेक्षिते लौकिके धीर्निर्विघ्ना ब्रह्मचिन्तने । नटवत्कृत्रिमास्थायां निर्वहत्येव लौकिकम् ॥ ९७॥ प्रवहत्यपि नीरेऽधः स्थिरा प्रौढ शिला यथा । नामरूपान्यथात्वेऽपि कूटस्थं ब्रह्म नान्यथा ॥ ९८॥ निष्छिद्रे दर्पणे भाति वस्तुगर्भं बृहद्वियत् । सच्चित्घने तथा नानाजगद्गर्भमिदं वियत् ॥ ९९॥ अदृष्ट्वा दर्पणं नैव तदन्तस्थे क्षणं यथा । अमत्वा सच्चिदानन्दं नामरूपमतिः कुतः ॥ १००॥ प्रथमं सच्चिदानन्दे भासमानेऽथ तावता । बुद्धिं नियम्य नैवोर्ध्वं धारयेन्नामरूपयोः ॥ १०१॥ एवं च निर्जगद्ब्रह्म सच्चिदानन्दलक्षणम् । अद्वैतानन्द एतस्मिन्विश्राम्यन्तु जनाश्चिरम् ॥ १०२॥ ब्रह्मानन्दाभिधे ग्रन्थे तृतीयेऽध्याय ईरितः । अद्वैतानन्द एव स्याज्जगन्मिथ्यात्वचिन्तया ॥ १०३॥ इति ब्रह्मानन्देऽद्वैतानन्दः समाप्तः ॥ १३॥
ब्रह्मानन्दे विद्यानन्दोनाम - चतुर्दशः परिच्छेदः । योगेनात्मविवेकेन द्वैतमिथ्यात्वचिन्तया । ब्रह्मानन्दं पश्यतोऽथ विद्यानन्दो निरूप्यते ॥ १॥ विषयानन्दवद्विद्यानन्दोधीवृत्तिरूप्कः । दुःखाभावादिरूपेण प्रोक्त एष चतुर्विधः ॥ २॥ दुःखाभावश्च कामाप्तिः कृतकृत्योऽहमित्यसौ । प्राप्तप्राप्योऽहमित्येवं चातुर्विध्यमुदाहृतम् ॥ ३॥ ऐहिकं च आमुष्मिकं चेत्येवं दुःखं द्विधेरितम् । निवृत्तिमैहिकस्याह बृहदारण्यकं वचः ॥ ४॥ आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ ५॥ जीवात्मा परमात्मा चेत्यात्मा द्विविध ईरितः । चित्तादात्म्यात्त्रिभिर्देहैर्जीवः सन्भोक्तृतां व्रजेत् ॥ ६॥ परमात्मा सच्चिदानन्दस्तादात्म्यं नामरूपयोः । गत्वा भोग्यत्वमापन्नस्तद्विवेके तु नोभयम् ॥ ७॥ भोग्यमिच्छन्भोक्तुरर्थे शरीरमनुसंज्वरेत् । ज्वरास्त्रिषु शरीरेषु स्थिता न त्वात्मनो ज्वराः ॥ ८॥ व्याधयो धातुवैषम्ये स्थूलदेहे स्थिता ज्वराः । कामक्रोधादयः सूक्ष्मे द्वयोर्बीजं तु कारणे ॥ ९॥ अद्वैतानन्दमार्गेण परात्मनि विवेचिते । अपश्यन्वास्तवं भोग्यं किं नामेच्छेत्परात्मवित् ॥ १०॥ आत्मानन्दोक्तरीत्यास्मिन्जीवात्मन्यवधारिते । भोक्ता नैवास्ति कोऽप्यत्र शरीरानुज्वरः कुतः ॥ ११॥ पुण्यपापद्वये चिन्ता दुःखमामुष्मिकं भवेत् । प्रथमाध्याय एवोक्तं चिन्ता नैनं तपेदिति ॥ १२॥ यथा पुष्करपर्णेऽस्मिन्नपामश्लेषणं तथा । वेदनादूर्ध्वमागामिकर्मणोऽश्लेषणं बुधे ॥ १३॥ इषीकातृणतूलस्य वह्निदाहः क्षणाद्यथा । तथा सञ्चितकर्मास्य दग्धं भवति वेदनात् ॥ १४॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ १५॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमां लोकान्न हन्ति न निबध्यते ॥ १६॥ मातापित्रोर्वधः स्तेयं भ्रूणहत्यान्यदीदृशम् । न मुक्तिं नाशयेत्पापं मुखकान्तिर्न नश्यति ॥ १७॥ दुःखाभाववदेवास्य सर्वकामाप्तिरीरिता । सर्वान्कामानसावाप्य ह्यमृतो भवदित्यतः ॥ १८॥ जक्षन्क्रीडन्रतिं प्राप्तः स्त्रीभिर्यानैस्तथेतरैः । शरीरं न स्मरेत्प्राणं कर्मणा जीवयेदमुम् ॥ १९॥ सर्वान्कामान्सहाप्नोति नान्यवज्जन्मकर्मभिः । वर्तन्ते श्रोत्रिये भोगा युगपत्क्रमवर्जिताः ॥ २०॥ युवा रूपी च विद्यावान्नीरोगो दृढचित्तवान् । सैन्योपेतः सर्वपृथ्वीं वित्तपूर्णां प्रपालयन् ॥ २१॥ सर्वैर्मानुष्यकैर्भोगैः सम्पन्नस्तृप्तभूमिपः । यमानन्दमवाप्नोति ब्रह्मविच्च तमश्नुते ॥ २२॥ मर्त्येभोगे द्वयोर्नास्ति कामस्तृप्तिरतः समा । भोगान्निष्कामतैकस्य परस्यापि विवेकतः ॥ २३॥ श्रोत्रियत्वाद्वेदशास्त्रैर्भोग्यदोषानवेक्षते । राजा बृहद्रथो दोषांस्तान्गाथाभिरुदाहरत् ॥ २४॥ देहदोषाश्चित्तदोषा भोग्यदोषा अनेकशः । शुना वान्ते पायसे नो कामस्तद्वद्विवेकिनः ॥ २५॥ निष्कामत्वे समेऽप्यत्र राज्ञः साधन सञ्चये । दुःखमासीद्भाविनाशादितिभीरनुवर्तते ॥ २६॥ नोभयं श्रोत्रियस्यातस्तदानन्दोऽधिकोऽन्यतः । गन्धर्वानन्द आशास्ति राज्ञो नास्ति विवेकिनः ॥ २७॥ अस्मिन्कल्पे मनुष्यः सन्पुण्यपापविशेषतः । गन्धर्वत्वं समापन्नो मर्त्यो गन्धर्व उच्यते ॥ २८॥ पूर्वकल्पे कृतात्पुण्यात्कल्पादावेव चेद्भवेत् । गन्धर्वत्वं तादृषोऽत्र देवगन्धर्व उच्यते ॥ २९॥ अग्निष्वात्तादयो लोके पितरश्चिरवासिनः । कल्पादावेव देवत्वं गता आजानदेवताः ॥ ३०॥ अस्मिन्कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम् । अवाप्याजानदेवैर्याः पूज्यास्ताः कर्मदेवताः ॥ ३१॥ यमाग्निमुख्याः देवाः स्युर्जाताविन्द्रबृहस्पती । प्रजापतिर्विराट् प्रोक्तो ब्रह्मा सूत्रात्मनामकः ॥ ३२॥ सार्वभौमादिसूत्रान्ता उत्तरोत्तरकामिनः । अवाङ्मनसगम्योऽयमात्मानन्दस्ततः परः ॥ ३३॥ तैःस्तैः काम्येषु सर्वेषु सुखेषु श्रोत्रियो यतः । निस्पृहस्तेन सर्वेषामानन्दाः सन्ति तस्य ते ॥ ३४॥ सर्वकामाप्तिरेषोक्ता यद्वा साक्षि चिदात्मता । स्वदेहवत्सर्वदेहेष्वपि भोगानवेक्षते ॥ ३५॥ अज्ञस्याप्येतदस्त्येव न तु तृप्तिरबोधतः । यो वेद सोऽश्नुते सर्वान्कामानितियब्रवीच्छ्रुतिः ॥ ३६॥ यद्वा सर्वात्मता स्वस्य साम्ना गायति सर्वदा । अहमन्नं तथान्नादश्चेति सामस्वधीयते ॥ ३७॥ दुःखाभावश्च कामाप्तिरुभे ह्येवं निरूपिते । कृतकृत्यत्वमन्यच्च प्राप्तप्राप्यत्वमीक्ष्यताम् ॥ ३८॥ उभयं तृप्तिदीपे हि सम्यगस्माभिरीरितम् । त एवात्रानुसन्धेयाः श्लोका बुद्धिविशुद्धये ॥ ३९॥ ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये । बहु कृत्यं पुरास्याभूत्तत्सर्वमधुना कृतम् ॥ ४०॥ तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् । अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ ४१॥ दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ४२॥ अनुतिष्ठन्तु कर्माणि परलोकयियासवः । सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ ४३॥ व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ ४४॥ निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् ॥ ४५॥ गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना । नान्यारोपितसंसारधर्मानेवमहं भजे ॥ ४६॥ शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम् । मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ ४७॥ विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्ययात् । देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ ४८॥ अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् । विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ ४९॥ प्रारब्धकर्मणि क्षीणे व्यवहारो निवर्तते । कर्माक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः ॥ ५०॥ विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते । अबाधिकां व्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥ ५१॥ विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ॥ ५२॥ नित्यानुभवरूपस्य को मे वाऽनुभवः पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः ॥ ५३॥ व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथाऽपि वा । ममाकर्तुरलेपस्य यथाऽऽरब्धं प्रवर्तताम् ॥ ५४॥ अथवा कृतकृत्योऽपि लोकानुग्रहकामया । शास्त्रीयेणैव मार्गेण वर्तेऽहं का मम क्षतिः ॥ ५५॥ देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः । तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ ५६॥ विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किञ्चिदप्यत्र न कुर्वे नापि कारये ॥ ५७॥ कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः । तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ॥ ५८॥ धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ ५९॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ ६०॥ धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किञ्चित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य सम्पन्नम् ॥ ६१॥ धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥ ६२॥ अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥ ६३॥ अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः । अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ॥ ६४॥ ब्रह्मानन्दाभिधे ग्रन्थे चतुर्थोऽध्याय ईरितः । विद्यानन्दस्तदुत्पत्तिपर्यन्तोऽभ्यास इष्यताम् ॥ ६५॥ इति ब्रह्मानन्दे विद्यानन्दः समाप्तः ॥ १४॥
ब्रह्मानन्दे विषयानन्दो नाम पञ्चदशः परिच्छेदः । अथात्र विषयानन्दो ब्रह्मानन्दांशरूपभाक् । निरूप्यते द्वारभूतस्तदंशत्वं श्रुतिर्जगौ ॥ १॥ एषोऽस्य परमानन्दो योऽखण्डैकरसात्मकः । अन्यानि भूतान्येतस्य मात्रामेवोपभुञ्जते ॥ २॥ शान्ता घोरास्तथा मूढा मनसो वृत्तयस्त्रिधा । वैराग्यं क्षान्तिरौदार्यमित्याद्याः शान्तवृत्तयः ॥ ३॥ तृष्णा स्नेहो रागलोभावित्याद्या घोरवृत्तयः । संमोहोभयमित्याद्याः कथिता मूढवृत्तयः ॥ ४॥ वृत्तिष्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता । प्रतिबिम्बति शान्तासु सुखं च प्रतिबिम्बति ॥ ५॥ रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः । उपमा सूर्यकेत्वादि सूत्रयामास सूत्रकृत् ॥ ६॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ७॥ जले प्रविष्टश्चन्द्रोऽयमस्पष्टः कलुषे जले । विस्पष्टो निर्मले तद्वद्द्वेधा ब्रह्मापि वृत्तिषु ॥ ८॥ घोरमूढासु मालिन्यात्सुखांशस्य तिरस्कृतिः । ईषन्नैर्मल्यतस्तत्र चिदंशप्रतिबिम्बनम् ॥ ९॥ यद्वापि निर्मले नीरे वह्नेरौष्ण्यस्य संक्रमः । न प्रकाशस्य तद्वत्स्याच्चिन्मात्रोद्भूतिरत्र च ॥ १०॥ काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा । शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुतः ॥ ११॥ वस्तुस्वरूपमाश्रित्य व्यवस्था तूभयोः समा । अनुभूत्यनुसारेण कल्प्यते हि नियामकम् ॥ १२॥ न घोरासु न मूढासु सुखानुभव ईक्ष्यते । शान्तास्वपि क्वचित्कश्चित्सुखातिशय ईश्यताम् ॥ १३॥ गृहक्षेत्रादिविषये यदा कामो भवेत्तदा । राजसस्यास्य कामस्य घोरत्वात्तत्र नो सुखम् ॥ १४॥ सिद्ध्येन्न वेत्यस्ति दुःखमसिद्धौ तद्विवर्धते । प्रतिबन्धे भवेत्क्रोधो द्वेषो वा प्रतिबन्धकः ॥ १५॥ अशक्यश्चेत्प्रतीकारो विषदः स्यात्स तानसः । क्रोधादिषु महादुःखं सुखशङ्कापि दूरतः ॥ १६॥ काम्यलाभे हर्षवृत्तिः शान्ता तत्र महत्सुखम् । भोगे महत्तरं लाभप्रसक्तावीषदेव हि ॥ १७॥ महत्तमं विरक्तौ तु विद्यानन्दे तदीरितम् । एवं क्षान्तौ तथौदार्ये क्रोधलोभनिवारणात् ॥ १८॥ यद्यत्सुखं भवेत्तत्तद्ब्रह्मैव प्रतिबिम्बनात् । वृत्तिष्वन्तर्मुखा स्वस्य निर्विघ्नं प्रतिबिम्बनम् ॥ १९॥ सत्ता चितिः सुखं चेति स्वभावा ब्रह्मणस्त्रयः । मृच्छिलादिषु सत्तैव व्यज्यते नेतरद्द्वयम् ॥ २०॥ सत्ता चितिर्द्वयं व्यक्तं धीवृत्त्योर्घोरमूढयोः । शान्तवृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्मेत्थमीरितम् ॥ २१॥ अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ । आद्येऽध्याये योगचिन्ता ज्ञानमध्यायोर्द्वयोः ॥ २२॥ असत्ता जाड्यदुःखे द्वे मायारूपं त्रयं त्विदम् । असत्ता नरशृङ्गादौ जाड्यं काष्ठशिलादिषु ॥ २३॥ घोरमूढधियोर्दुःखमेवं माया विजृम्भिता । शान्तादि बुद्धिवृत्त्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् ॥ २४॥ एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत्पुमानसौ । नृशृङ्गादिमुपेक्षेत शिष्टं ध्यायेद्यथायथम् ॥ २५॥ शिलादौ नामरूपे द्वे त्यक्त्वा सन्मात्रचिन्तनम् । त्यक्त्वा दुःखं घोरमूढधियोः सच्चिद्विचिन्तनम् ॥ २६॥ शान्तासु सच्चिदानन्दांस्त्रीनप्येवं विचिन्तयेत् । कनिष्ठमध्यमोत्कृष्टास्तिस्रश्चिन्ताः क्रमादिमाः ॥ २७॥ मन्दस्य व्यवहारेऽपि मिश्रब्रह्मणि चिन्तनम् । उत्कृष्टं व्यक्तुमेवात्र विषयानन्द ईरितः ॥ २८॥ औदासीन्ये तु धीवृत्तेः शैथिल्यादुत्तमोत्तमम् । चिन्तनं वासनानन्दे ध्यानमुक्तं चतुर्विधम् ॥ २९॥ न ध्यानं ज्ञानयोगाभ्यां ब्रह्मविद्यैव सा खलु । ध्यानेनैकाग्र्यमापन्ने चित्ते विद्या स्थिरीभवेत् ॥ ३०॥ विद्यायां सच्चिदानन्दा अखण्डैकरसात्मताम् । प्राप्य भान्ति न भेदेन भेदकोपाधिवर्जनात् ॥ ३१॥ शान्ता घोराः शिलाद्याश्च भेदकोपाधयो मताः । योगाद् विवेकतो वैषमुपाधीनामपाकृतिः ॥ ३२॥ निरुपाधिब्रह्मतत्त्वे भासमाने स्वयंप्रभे । अद्वैते त्रिपुटी नास्ति भूमानन्दोऽत उच्यते ॥ ३३॥ ब्रह्मानन्द अभिधे ग्रन्थे पञ्चमोऽध्याय ईरितः । विषयानन्द एतेन द्वारेणान्तः प्रवेश्यताम् ॥ ३४॥ प्रीयाद्धरिहरोऽनेन ब्रह्मानन्देन सर्वदा । पायाच्च प्राणिनः सर्वान्स्वाश्रितां शुद्धमानसान् ॥ ३५॥ इति ब्रह्मानन्दे विषयानन्दः समाप्तः ॥ १५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री विद्यारण्यमुनिविरचितः पञ्चदशी ग्रन्थः समाप्तः । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Panchadashi
% File name             : panchadashi.itx
% itxtitle              : panchadashI
% engtitle              : Panchadashi
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Swami Vidyaranya [circa 1350 A.D.]
% Language              : Sanskrit
% Subject               : philosophy
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi, v.subrahmanian at gmail.com
% Description-comments  : A treatise on Advaita Vedanta of Shankara
% Indexextra            : Lectures/Translation
% Latest update         : August 5, 2011, November 20, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP