वेदान्त परिभाषा
by Dharmaraja Adhvarindra
१ प्रत्यक्ष प्रमाणम् ।
२ अनुमानम् ।
३ उपमानम् ।
४ आगमः ।
५ अर्थापत्तिः ।
६ अनुपलब्धि ।
७ प्रामाण्यम् ।
८ प्रयोजनम् ।
१ प्रत्यक्ष प्रमाणम् ।
यदविद्याविलासेन भूतभौतिकसृष्टयः ।
तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् ॥ १॥
यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः ।
तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम् ॥ २॥
श्रीमद्वेङ्कटनाथाख्यान् वेलाङ्गुडिनिवासिनः ।
जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान् ॥ ३॥
येन चिन्तामणौ टीका दशटीकाविभञ्जिनी ।
तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा ॥ ४॥
टीका शशधरस्यापि बालव्युत्पत्तिदायिनी ।
पदयोजनया पञ्चपादिका व्याकृता तथा ॥ ५॥
तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी ।
धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥ ६॥
इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु
मोक्ष एव परमपुरुषार्थः, ᳚न स पुनरावर्तते᳚
इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात्, इतरेषां त्रयाणां प्रत्यक्षेण,
᳚तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः क्षीयते᳚
इत्यादिश्रुत्या च अनित्यत्वावगमाच्च । स च ब्रह्माज्ञानादिति
ब्रह्म तज्ज्ञानं तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते ।
तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृतिव्यावृत्तं
प्रमात्वमनधिगतावाधितार्थविषयकज्ञानत्वम् ।
स्मृतिसाधारणन्तु अवाधितार्थविषयकज्ञानत्वम् ।
नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि
पूर्वपूर्वज्ञानाविषय-तत्तत्क्षणविशेषविषयकत्वेन न
तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न
ज्ञानभेदः, किन्तु यावद्घटस्फुरणं
तावद्घटाकारान्तःकरणवृत्तिरेकैव,
न तु नाना, वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं
स्थायित्वाभ्युपगमात्; तथा च तत्प्रतिफलितचैतन्यरूपं
घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि ।
ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात् कथं तज्ज्ञानं प्रमाणम् ?
उच्यते । ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः, ᳚यत्र
त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्᳚
इति श्रुतेः । न तु संसारदशायां बाधः, ᳚यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति᳚ इति श्रुतेः । तथा च 'अबाधित' - पदेन
संसारदशायामबाधितत्वं
विवक्षितम्, इति न घटादिप्रमायमव्याप्तिः । तदुक्तम् -
᳚देहात्मप्रत्ययो यद्वत् प्रमाणत्नेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणान्त्वाऽऽत्मनिश्चयात् ॥᳚ इति ।
'आ आत्मनिश्चयात्'-ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः।
'लौकिकम्' इति घटादिज्ञानमित्यर्थः ।
तानि च प्रमाणानि षट् - प्रत्यक्षानुमानौपमानागम-
अर्थापत्तिअनुपलब्धिभेदात् । तत्र प्रत्यक्षप्रमायाः करणं
प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमा चात्र चैतन्यमेव,
᳚यत् साक्षादपरोक्षाद् ब्रह्म᳚ इति श्रुतेः ।
'अपरोक्षादि'त्यस्य अपरोक्षमित्यर्थः ।
ननु चैतन्यमनादि तत् कथं चक्षुरादेस्तत्करणत्वेन
प्रमाणत्वमिति । उच्यते । चैतन्यस्यानादित्वेऽपि
तदभिव्यञ्जक- अन्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना
जायते इति वृत्तिविशिष्टं चैतन्यमादिमदित्युच्यते
ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः ।
तदुक्तं विवरणे ᳚अन्तःकरणवृत्तौ ज्ञानत्वोपचारात्᳚।
ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्? इत्थम् ।
न तावदन्तःकरणम् निरवयवम्, सादिद्रव्यत्वेन सावयवत्वात् ।
सादित्वञ्च ᳚तन्मनोऽसृजत᳚ इत्यादिश्रुतेः । वृत्तिरूपज्ञानस्य
मनोधर्मत्वे च ᳚कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्र्भीरित्येतत्
सर्वं मन एव ᳚ इति श्रुतिर्मानम् , 'धी' -शब्देन
वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि
मनोधर्मत्वम् ॥
ननु कामादेरन्तःकरणधर्मत्वे, ᳚अहमिच्छामि, अहं
जानामि, अहं बिभेमि᳚इत्याद्यनुभव आत्मधर्मत्वमवगाहमानः
कथमुपपद्यते ? उच्यते । अयःपिण्डस्य दग्धृत्वाभावेऽपि
दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद्
यथा ᳚अयो दहति᳚ इति व्यवहारः तथा
सुखाद्याकारपरिणाम्यन्तः- करणैक्याध्यासात्
᳚अहं सुखी, अहं दुःखी᳚ इत्यादि व्यवहारः ।
ननु अन्तःकरणस्येन्द्रियतयाऽतीन्द्रियत्वात् कथं
प्रत्यक्षविषयतेति । उच्यते । न तावदन्तःकरणमिन्द्रियमित्यत्र
मानमस्ति । ᳚मनःषष्ठानीन्द्रियाणि᳚ इति भगवद्गीतावचनं प्रमाणमिति
चेत् न अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणाविरोधात् ।
नहीन्द्रियगतसंख्यापूरणमिन्द्रियेनैवेति नियमः
᳚यजमानपञ्चमा इडां भक्षयन्ति᳚ इत्यत्र
ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजाऽपि
यजमानेन ᳚वेदानध्यापयामास महाभारतपञ्चमान्᳚
इत्यादौ च वेदगतपञ्चत्वसंख्याया अवेदेनापि भारतेन
पूरणदर्शनात् ᳚इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च
परं मनः᳚ इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च ।
न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य
साक्षात्त्वं न स्यात् इन्द्रियाजन्यत्वादिति वाच्यम् ।
नहीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम्
अनुमित्यादेरपिमनोजन्यतया साक्षात्त्वापत्तेः
ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च ।
सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत् किं ज्ञानगतस्य
प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किंवा विषयगतस्य ।
आद्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इति ब्रूमः ।
तथाहि त्रिविधं चैतन्यम् -
विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं
चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्
अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्
अन्तःकरणवच्छिन्नं चैतन्यं प्रमातृचैतन्यम् ।
तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना
केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा
तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य
घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स
एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु अन्तःकरणस्य
न वह्न्यादिदेशगमनम् वह्न्यादेश्चक्षुराद्यसन्निकर्षात् ।
तथा च ᳚अयं घटः᳚
इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च
बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव
विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोः एकदेशस्थत्वेन
भेदाजनकत्वात् । अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो
न मठावच्छिन्नाकाशाद्भिद्यते । तथा च ᳚अयं घटः
᳚ इति घटप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया
घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य
चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षत्वम् ।
सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य
च नियमेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात्
नियमेन ᳚अहं सुखी᳚ इत्यादिज्ञानस्य प्रत्यक्षत्वम् ।
नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे
प्रत्यक्षत्वापत्तिरिति चेत् न तत्र स्मर्यमाणसुखस्यातीतत्वेन
स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालीनतया
तत्तदवच्छिन्नचैतन्ययोर्भेदात् । उपाध्योरेकदेशस्थत्वे सति
एककालीनत्वस्यैवोपाधेयाभेदप्रयोजकत्वात् । यदि
चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकम् तदा ᳚अहं
पूर्वं सुखी᳚ इत्यादिस्मृतावतिव्याप्तिवारणाय
वर्तमातत्वं विषय-विशेषणं देयम् ।
नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा
शब्दादिना ज्ञायते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः तत्र
धर्माद्यवच्छिन्न-तद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति
चेत् न । योग्यत्वस्यापि विषयविशेषणत्वात् ।
अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिदयोग्यमित्यत्र
फलवलकल्प्यः स्वभाव एव शरणम् ।
अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात्
सुखादिवत् धर्मादेरपि प्रत्यक्षत्वापत्तिर्दुर्वारा ।
न चैवमपि सुखस्य वर्तमानतादशायां ᳚त्वं
सुखी ᳚ इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम्
इष्टत्वात् । ᳚ दशमस्त्वमसि ᳚ इत्यादौ
सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात् ।
अत एव ᳚ पर्वतो वह्निमान् ᳚इत्यादिज्ञानमपि बह्वंशे
परोक्षम् पर्वतांशेऽपरोक्षम् पर्वताद्यवच्छिन्नचैतन्यस्य
बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात् ।
वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्न-
चैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात् ।
तथाचानुभवः ᳚पर्वतं पश्यामि᳚ ᳚वह्निमनुमिनोमि ᳚
इति । न्यायमते तु ᳚ पर्वतमनुमिनोमि ᳚ इत्युनुव्यवसायापत्तिः ।
असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं
परोक्षम् । ᳚सुरभि चन्दनम्᳚ इत्यादिज्ञानमपि
चन्दनखण्डांशेऽपरोक्षम्
सौरभांशे च परोक्षम् सौरभस्य
चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् ।
न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे
तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात् ।
जातित्वोपाधित्वपरिभाषायाः
सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात् ।
᳚घटोऽयम्᳚ इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे
मानम् न तु तस्य जातित्वेपि जातित्वरूपसाध्यप्रसिद्धौ
तत्साधकानुमानस्याप्यनवकाशात् । समवायासिद्धया
ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य
घटत्वादावसिद्धेश्च । एवमेवोपाधित्वं निरसनीयम् ।
᳚पर्वतो वह्निमान्᳚ इत्यादौ च पर्वतांशे वह्न्यंशे
चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन
परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित् विरोधः । तथा
च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यभिन्नत्वं
तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ।
घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम् ।
ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्यभेदः ᳚अहमिदं
पश्यामि᳚ इति भेदानुभवविरोधादिति चेत् उच्यते । प्रमात्रभेदो
नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा
च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव
घटादिसत्ता अधिष्ठानसत्तातिरिक्तया
आरोपितसत्तायानङ्गीकारात् । विषयचैतन्यं च
पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यैस्यैव
घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति
सिद्धं घटादेरपरोक्षत्वम् अनुमित्यादिस्थले त्वन्तःकरणस्य
वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य
प्रमातृचैतन्यात्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः ।
नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले
धर्माधर्मयोः प्रत्यक्षत्वापत्तिः
धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया
धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति चेत्
न योग्यत्वस्यापि विशेषविशेषणत्वात् ।
नन्वेवमपि ᳚रूपी घटः᳚ इति प्रत्यक्षस्थले
घटगतपरिमाणादेः प्रत्यक्षत्वापत्तिः
रूपावच्छिन्नचैतन्यस्य परिमाणाद्यवच्छिन्नचैतन्यस्य
चैकतया रूपावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदे
परिमाणाद्यवच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया
परिमाणादिमत्तायाः प्रमातृसत्तातिरिक्त्तत्वाभावात्
इति चेत् न तत्तदाकारवृत्त्युपहितत्वस्यापि
प्रमातृविशेषणत्वात् ।
रूपाकारवृत्तिदशायां परिमाणाद्याकारवृत्त्यभावेन अतिव्याप्त्यभावात् ।
नन्वेवं वृत्तावव्याप्तिः अनवस्थाभिया वृत्तिगोचरवृत्त्यनङ्गीकारेण
तत्र स्वाकारवृत्त्युपहितत्वघटितोक्तलक्षणाभावात् इति चेत् न ।
अनवस्थाभिया वृत्तेर्वृत्त्यन्तराविषयत्वेऽपि स्वविषयत्वाभ्युपगमेन
स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावात् ।
एवाञ्चान्तःकरणतद्धर्मादीनां केवलसाक्षिविषयत्वेऽपि
तत्तदाकारवृत्त्यभ्युपगमेन उक्तलक्षणस्य तत्रापि सत्तान्नाव्याप्तिः ।
न चान्तःकरणतद्धर्मादीनं
वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोध
इति वाच्यम् । न हि वृत्तिं विना साक्षिविषयत्वं
केवलसाक्षिवेद्यत्वम् किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण
साक्षिविषयत्वम् अत
एवाहङ्कारटीकायामाचार्यैरहमाकारान्तः-
करणवृत्तिरङ्गीकृता । अत एव च प्रातिभासिकरजतस्थले
रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता । तथाचान्तःकरणतद्धर्मादिषु
केवलसाक्षिवेद्येषु वृत्त्युपहितत्वघटितलक्षणस्य
सत्त्वान्नाव्याप्तिः । तदयं निर्गलितार्थः -
᳚स्वाकारवृत्त्युपहित-
प्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य
प्रत्यक्षत्वम् ।᳚
तत्र संयोग- संयुक्ततादात्म्यादीनां सन्निकार्षाणां
चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः ।
सा च वृत्तिश्चतुर्विधा - संशयो निश्चयो गर्वः स्मरणमिति ।
एवंविधवृत्तिभेदेन एवमप्यन्तःकरणं मन
इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते । तदुक्तम् -
᳚मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम् ।
संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥᳚
तच्च प्रत्यक्षं द्विविधम् सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं
वैशिष्ट्यावगाहि ज्ञानम् । यथा
᳚घटमहं जानामि᳚ इत्यादिज्ञानम् ।
निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम् । यथा
᳚सोऽयं देवदत्तः᳚ ᳚तत्त्वमसि᳚ इत्यादिवाक्यजन्यं ज्ञानम् ।
ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम्
इन्द्रियाजन्यत्वात्
इति चेत् न । नहि इन्द्रियजन्यत्वं
प्रत्यक्षत्वे तन्त्रम् दूषितत्वात् किन्तु योग्यवर्तमानविषयकत्वे
सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम् ।
तथाच ᳚सोऽयं देवदत्तः᳚ इति वाक्यजन्यज्ञानस्य
सन्निकृष्टविषयतया बहिर्निःसृतान्तःकरणवृत्त्य- भ्युपगमेन
देवदत्तवच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नतया
᳚सोऽयं देवदत्तः᳚ इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम् ।
एवं ᳚तत्त्वमसि᳚ इत्यादिवाक्यजन्यज्ञानस्यापि
तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात् ।
ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया
कथं निर्विकल्पकत्वम् ? उच्यते । वाक्यजन्यज्ञानविषयत्वे
हि न पदार्थसंसर्गत्वं तन्त्रम् अनभिमतसंसर्गस्यापि
वाक्यजन्यज्ञानविषयत्वापत्तेः किन्तु तात्पर्यविषयत्वम् ।
प्रकृते च ᳚सदेव सोम्येदमग्र आसीत्᳚ इत्युपक्रम्य
᳚तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो᳚
इत्युपसंहारेण विशुद्धेब्रह्मणि वेदान्तानां तात्पर्यमवसितम्
इति कथं तात्पर्याविषयं संसर्गमवबोधयेत् । इदमेव
᳚तत्त्वमसि᳚ इत्यादिवाक्यानामखण्डार्थत्वं यत्
संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम् ।
᳚संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥᳚
प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वम् इति चतुर्थपादार्थः ।
तच्च प्रत्यक्षं पुनर्द्विविधम् - जीवसाक्षि ईश्वरसाक्षि
चेति । तत्र जीवो नाम अन्तःकरणावच्छिन्नं चैतन्यम्
तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम् ।
अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः ।
विशेषणञ्च कार्यान्वयि वर्तमानं
व्यावर्तकम् उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च ।
᳚रूपविशिष्टोघटोऽनित्यः᳚इत्यत्र
रूपं विशेषणम् ᳚कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्᳚
इत्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक
इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन
विषयभासकचैतन्योपाधित्वम् । अयञ्च जीवसाक्षी प्रत्यात्मं
नाना एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः ।
ईश्वरसाक्षी तु मायोपहितं चैतन्यम् । तच्चैकम्
तदुपाधिभूतमायाया एकत्वात् । ᳚इन्द्रो मायाभिः पुरुरूप
ईयते᳚ इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागत-
शक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभि-
प्रायतया वोपपत्तिः ।
᳚मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।᳚
᳚तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाम तस्मै विद्यात्मने नमः ॥᳚
᳚अजामेकां लोहितशुक्लकृष्णां
वह्नीः प्रजा सृजमानां सरूपाः ।
अजो ह्येको जुषमानोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ ᳚
इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया
एकत्वं निश्चीयते ।
ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्चानादि
तदुपाधेर्मायाया अनादित्वात् । मायावच्छिन्नं चैतन्यं च परमेश्वरः ।
मायाया विशेषणत्वे ईश्वरत्वं उपाधित्वे साक्षित्वं
इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरीश्वरतत्साक्षिणोः ।
स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन
ब्रह्माविष्णुमहेश्वरादिशब्दवाच्यतां भजते ।
ननु ईश्वरसाक्षिणोऽनादित्वे ᳚तदैक्षत बहुस्यां प्रजायेय᳚
इत्यादौ सृष्टिपूर्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं
कथमुपपद्यते उच्यते । यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन
जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते तथा सृज्यमान-
प्राणिकर्मवशेन परमेश्वरोपाधिभूतमायाया वृत्तिविशेषाः
᳚इदमिदानीं स्रष्टव्यम्᳚ ᳚इदमिदानीं पालयितव्यम्᳚
᳚ इदमिदानीं संहर्तव्यम् ᳚ इत्याद्याकारा जायन्ते । तासां च
वृत्तीनां सादित्वात्तत्प्रतिबिम्बितचैतन्यमपि सादीत्युच्यते ।
एवं साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् । प्रत्यक्षत्वं
च ज्ञेयगतं झप्तिगतं च निरूपितम् । तत्र ज्ञप्तिगतप्रत्यक्षत्वस्य
सामान्यलक्षणं चित्त्वमेव ᳚ पर्वतो वह्निमान् ᳚ इत्यादावपि
वह्न्यद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया
प्रत्यक्षत्वात् । तत्तद्विषयाशप्रत्यक्षत्वन्तु पूर्वोक्तमेव । तस्य च
भ्रान्तिरूपप्रत्यक्षे नातिव्यापित्ः भ्रमप्रमासाधारणप्रत्यक्षत्व-
सामान्यनिर्वचनेन तस्यापि लक्ष्यत्वात् । यदा तु प्रत्यक्षप्रमाया
एव लक्षणं वक्तव्यं तदा पूर्वोक्तलक्षणेऽबाधितत्वं विषयविशेषणं
देयम् । शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिक-
रजतादिविषयकत्वेनोक्तलक्षणाभावात् नातिव्याप्तिः ।
ननु विसंवादिप्रवृत्त्या भ्रान्तिज्ञातसिद्धावपि तस्य
प्रातिभासिकतत्कालोत्पन्नरजतादिविषयकत्वे न प्रमाणम्
देशान्तरीयरजतस्य क्लृप्तस्यैव तद्विषयत्वसम्भवादिति चेत्
न तस्यासन्निकृष्टतया प्रत्यक्षविषयत्वायोगात् । न च ज्ञानं
तत्र प्रत्यासत्तिः ज्ञानस्य प्रत्यासत्तित्वे तत एव वह्न्यादेः
प्रत्यक्षत्वापत्तौ अनुमानाद्युच्छेदापत्तेः ।
ननु रजतोत्पादकानां रजतावयवादीनामभावे शुक्तौ
कथं तवापि रजतमुत्पद्यते इति चेत् उच्यते । न हि
लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किन्तु
विलक्षणैव । तथा हि काचादिदिषदूषितलोचनस्य पुरोवर्ति-
द्रव्यसंयोगादिदमाकारा चाकचिक्याकारा च काचिदन्तःकरण-
वृत्तिरुदेति । तस्यां च वृत्तौ इदमवच्छिन्नचैतन्यं प्रतिबिम्बते ।
तत्र पूर्वोक्यरीत्या वृत्तेर्निर्गमनेन इदमवच्छिन्नचैतन्यवृत्तवच्छिन्न-
चैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति । ततश्च प्रमातृचैतन्या-
भिन्नविषयचैतन्यनिष्ठा शुक्तित्व प्रकारिकाऽविद्या चाकचिक्यादि-
सादृश्यसन्दर्शनसमुद्बोधितरजतसंस्कारसध्रीचीना काचादिदोष-
समवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते ।
परिणामो नाम उपादानसमसत्ताककार्यापत्तिः ।
विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः ।
प्रातिभासिकरजतञ्चाविद्यापेक्षया परिणाम इति
चैतन्यापेक्षयाविवर्त इति चोच्यते ।
अविद्यापरिणामरूपञ्च तद्रजतमविद्याधिष्ठाने
इदमवच्छिन्नचैतन्ये वर्तते अस्मन्मते सर्वस्यापि
कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् ।
ननु चैतन्यनिष्ठरजतस्य कथमिदं रजतमितिपुरवर्तिना
तादात्म्यम् । उच्यते - यथा न्यायमते आत्मनिष्ठस्य
सुखादेः शरीरनिष्ठत्वेनोपलम्भः शरीरस्य
सुखाद्यधिकरणतावच्छेदकत्वात् तथा चैतन्यमात्रस्य
रजतं प्रत्यनधिष्ठानतया इदमवच्छिन्नचैतन्यस्य
तदधिष्ठानत्वेन इदमोऽवच्छेदकतया रजतस्य
पुरोवर्तिसंसर्गप्रत्यय उपपद्यते । तस्य च
विषयचैतन्यस्य तदन्तःकरणोपहित चैतन्याभिन्नतया
विषयचैतन्येऽध्यस्तमपि रजतं साक्षिण्यध्यस्तं
केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति चोच्यते ।
ननु साक्षिण्यध्यस्तत्वे ᳚ अहं रजतम् ᳚ इति ᳚ तद्वान् ᳚
इति वा प्रत्ययः स्यात् ᳚ अहं सुखी ᳚ इतिवत् इति चेत्
उच्यते । न हि सुखादीनामन्तःकरणावच्छिन्नचैतन्यनिष्ठा-
विद्याकार्यत्वप्रयुक्तम् ᳚ अहं सुखी ᳚ इति ज्ञानम् सुखादीनां
घटादिवच्छुद्धचैतन्य एवाध्यासात् । किन्तु यस्य यदाकारा-
नुभवाहितसंस्कारसहकृताविद्याकार्यत्वं तस्य तदाकारा-
नुभवविषयत्वम् इत्येवानुगतं नियामकम् । तथा च
इदमाकारानुभवाहितसंस्कारसहिताविद्याकार्यत्वाद् घटादे-
रिदमाकारानुभवविषयत्वम् अहमाकारानुभवाहितसंकार-
सहकृताविद्याकार्यत्वादन्तःकरणादेरहमाकारानुभवविषयत्वम्
शरीरेन्द्रियादेरुभयविधानुभवसंस्कारसहिताविद्याकार्यत्वा-
दुभयविधानुभवविषयत्वम् । तथाचोभयविधानुभवः - इदं
शरीरम् अहं देहः अहं मनुष्यः अहं ब्राह्मणः इदं चक्षुः
अहं काणः इदं श्रोत्रम् अहं बधिर इति । प्रकृते
प्रातिभासिकरजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्य-
निष्ठाविद्याकार्यत्वेऽपि इदं रजतमिति सत्यस्थलीयेदमाकारा-
नुभवाहितसंस्कारजन्यत्वाद्दिदमाकारानुभवविषयता न तु
᳚ अहं रजतम् ᳚ इत्यहमाकारानुभवविषयता इत्यनुसन्धेयम् ।
नन्वेवमपि मिथ्यारजतस्य साक्षात् साक्षिसम्बन्धितया भानसम्भवे
रजतगोचरज्ञानाभासरूपाया अविद्यावृत्तेरभ्युपगमः किमर्थमिति चेत्
उच्यते । स्वगोचरवृत्त्युपहितप्रमातृचैतन्यभिन्नसत्ताकत्वाभावस्य
विषयापरोक्षत्वरूपतया रजतस्यापरोक्षसिद्धये तदभ्युपगमात् ।
नन्विदंवृत्ते रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्ट-
ज्ञानानप्युपगमे कुतो भ्रमज्ञानासिद्धिरिति चेत् न वृत्तिद्वय-
प्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन
भ्रमत्वस्वीकारात् । अत एव साक्षिज्ञानस्य सत्यासत्यविषयतया
प्रामाण्यानियमादप्रामाण्योक्तिः साम्प्रदायिकानाम् ।
ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्यमध्यस्तञ्चेति
कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम् इति चेत् न । त्वन्मते
सत्यत्वाविशेषेऽपि केषाञ्चित् क्षणिकत्वं केषाञ्चित् स्थायित्वम्
इत्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि । यद्वा
घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः शुक्तिरूपाद्यध्यासे तु
काचादयोऽपि दोषाः । तथाचागन्तुकदोषजन्यत्वं प्रातिभासिकत्वे
प्रयोजकम् । अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात् ।
प्रातिभासिकत्वम् ।
ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपत्तौ
न रथादिसृष्टिकल्पनम् गौरवात् इति चेत् न रथादेः
स्मृतिमात्राभ्युपगमे ᳚ रथं पश्यामि ᳚ ᳚ स्वप्ने रथ-
मद्राक्ष्यम् ᳚ इत्याद्यनुभवविरोधापत्तेः । ᳚ अथ रथान्
रथयोगान् पथः सृजते ᳚ इति रथादिसृष्टिप्रतिपादकश्रुति-
विरोधापत्तेश्च । तस्मात् शुक्तिरूप्यवत् स्वप्नोपलब्धरथादयोऽपि
प्रातिभासिका यावत्प्रतिभासमवतिष्ठन्ते ।
ननु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि
तदाऽसन्निकृष्टतया अनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्यव्यः
तथा च रथाद्यध्यासः कुत्र इति चेत् न चैतन्यस्य स्वयंप्रकाशस्य
रथाद्यधिष्ठानत्वात् । प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति
सद्रूपेन प्रकाशमानं चैतन्यमेवाधिष्ठानम् । देशविशेषोऽपि
चिदध्यस्तः प्रातिभासिकः रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम्
तदा सर्वेन्द्रियाणामुपरमात् । ᳚ अहं रथः ᳚ इत्यादिप्रतीत्यापादनन्तु
पूर्ववन्निरसनीयम् । स्वप्नरथदयः साक्षान्मायापरिणामा इति
केचित् । अन्तःकरणद्वारा तत्परिणामा इत्यन्ये ।
ननु रथादेः शुद्धचैतन्याध्यस्तत्वे इदानीं तत्साक्षा-
त्काराभावेनजागरणेऽपि स्वप्नोपलब्धरथादयोऽनुवर्तेरन् ।
उच्यते । कार्यविनाशो हि द्विविधः कश्चिदुपादानेन सह कश्चित्तु
विद्यमानएवोपादाने । आद्यो बाधः द्वितीयस्तु निवृत्तिः । आद्यस्य
कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन विनोपादानभूताया
अविद्याया अनिवृत्तेः । द्वितीयस्य कारणं विरोधिवृत्त्युत्पत्ति-
र्दोषनिवृत्तिर्वा । तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चो मा
बाधिष्ठ मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन
स्वजनकीभूतनिद्रादिदोषनाशेन वा रथादिनिवृत्तौ को विरोधः ।
एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्या-
कार्यत्वपक्षे शुक्तिरितिज्ञानेन तदज्ञानेन सह रजतस्य बाधः ।
मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्र-
निवर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रम् मुसल-
प्रहारेण घटस्येव ।
ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकसत्ताभ्युपगमे
᳚ नेदं रजतम् ᳚ इति त्रैकालिकनिषेधज्ञानं न स्यात् किन्तु
᳚ इदानीमिदं न रजतम् ᳚ इति स्यात् ᳚ इदानीं घटः
श्यामो न ᳚ इतिवत् इति चेत् न नहि तत्र
रजतत्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः किन्तु
लौकिकपारमार्थिकत्वावच्छिन्न- प्रातिभासिकरजतप्रतियोगिताकः
व्यधिकरणधर्मावच्छिन्नप्र्तैयोगिताकाभावाभ्युपगमात् ।
ननु प्रातिभासिके रजते पारमार्थिकत्वमवगतं न वा । अनवगमे
प्रतियोगितावच्छेदकावच्छिन्नरजतस्त्त्वज्ञानाभावादभाव-
प्रत्यक्षानुपपत्तिः । अवगमेऽपरोक्षावभासस्य तत्कालीनविषय-
सत्तानियतत्वाद् रजते पारमार्थिकत्वमप्यनिर्वचनीयं
रजतदेवोत्पन्नमिति तदवच्छिन्नरजतसत्त्वे तदवच्छिन्नाभावस्तत्र
कथं वर्तत इति चेत् न पारमार्थिकत्वस्याधिष्ठाननिष्ठस्य रजते
प्रतिभाससम्भवेन रजतनिष्ठपारमार्थिकत्वोत्पत्त्यनभ्युपगमात् ।
यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात् ।
अत एव इन्द्रियसन्निकृष्टतया जवाकुसुमगतलौहित्यस्य स्फटिके
भानसम्भवात् न स्फटिकेऽनिर्वचनीयलौहित्योत्पत्तिः । नन्वेवं
यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र
लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत्
न इष्टत्वात् ।
एवं प्रत्यक्षभ्रमान्तरेष्वपिप्रत्यक्षसामान्यलक्षणानुगमो
यथार्थप्रत्यक्षलक्षणासद्भावश्च दर्शनीयः ।
उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् - इन्द्रियजन्यं तदजन्यं चेति ।
तत्रेन्द्रियाजन्यं सुखादित्रत्यक्षम् मनस इन्द्रियत्वनिराकरणात् ।
इन्द्रियाणि पञ्च घ्राणरसनचक्षुःश्रोत्रत्वगात्मकानि । सर्वाणि
चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति ।
तत्र घ्राणरसनत्वगिन्द्रियाणि स्वस्थानस्थितान्येव गन्धरस-
स्पर्शोपलम्भान् जनयन्ति चक्षुःश्रोत्रे तु स्वत एव विषयदेशं
गत्वा स्वस्वविषयं गृह्णीतः श्रोत्रस्यापि चक्षुरादिवत्
परिच्छिन्नतयाभेर्यादिदेशगमनसम्भवात् । अत एवानुभवो
᳚भेरीशब्दो मया श्रुतः ᳚ इति । वीचितरङ्गादिन्यायेन
कर्णशष्कुलीप्रदेशेऽनन्तशब्दोत्पत्तिकल्पनायां गौरवम्
᳚भेरीशब्दो मया श्रुतः᳚ इति प्रत्यक्षस्य भ्रमत्वकल्पनायां
गौरवं च स्यात् ।
तदेवं व्याख्यातं प्रत्यक्षम् ।
इति वेदान्तपरिभषायां प्रत्यक्षपरिच्छेदः ।
२ ॥ अनुमानम् ॥
अथानुमानं निरूप्यते । अनुमितिकरणमनुमानम् । अनुमितिश्च
व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन
तज्जन्यत्वाभावान्नानुमितित्वम् ।
अनुमितिकरणं च व्याप्तिज्ञानम् । तत्संस्कारोऽवान्तरव्यापारः ।
न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणम् तस्यानुमितिहेतुत्वासिद्ध्या
तत्करणत्वस्य दूरनिरस्तत्वात् । न च संस्कारजन्यत्वेनानुमितेः
स्मृतित्वापत्तिः स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्रजन्यत्वस्य
वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य
तदप्रयोजकत्वात् ।
न च यत्र व्याप्तिस्मरणादनुमितिस्तत्र कथं संस्कारोहेतुरिति
वाच्यम् व्याप्तिस्मृतिस्थलेऽपि तत्संस्कारस्यैवानिमितिहेतुत्वात् ।
नहि स्मृतेः संस्कारनाशकत्वनियमः स्मृतिधारादर्शनात् । न
चानुबुद्धसंस्कारादप्यनुमित्यापत्तिः तदुद्बोधस्यापि सहकारित्वात् ।
एवं च ᳚ अयं धूमवान् ᳚ इति पक्षधर्मताज्ञाने ᳚ धूमो
वह्निव्याप्यः ᳚ इत्यनुभवाहितसंस्कारोद्बोधे च सति ᳚ वह्निमान् ᳚
इत्यनुमितिर्भवति । न तु मध्ये व्याप्तिस्मरणम् तज्जन्यं
᳚ वह्निव्याप्यधूमवानयम् ᳚ इत्यादि विशिष्टज्ञानं वा
हेतुत्वेन कल्पनीयम् गौरवान्मानाभावाच्च । तच्च व्याप्तिज्ञानं
वह्निविषयकज्ञानांश एव करणम् न तु पर्वतविषयकज्ञानांश
इति ᳚ पर्वतो वह्निमान् ᳚ इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम्
न पर्वतांशे तदंशे प्रत्यक्षत्वस्योपपादितत्वात् ।
व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपा ।
सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते । तच्च
सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः
सहचारदर्शनस्यैव प्रयोजकत्वात् ।
तच्चानुमानमन्वयिरूपमेकमेव । न तु केवलान्वयि सर्वस्यापि
धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन
अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः ।
नाप्यनुमानस्य व्यतिरेकिरूपत्वम् साध्याभावे साधनाभाव-
निरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् ।
कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्ति-
ज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत
एवानुमानस्य नान्वयव्यतिरेकिरूपत्वम् व्यतिरेकव्याप्तिरूपत्वम्
व्यतिरेकव्याप्तिज्ञानस्य अनुमित्यहेतुत्वात् ।
तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थन्तूक्तमेव
परार्थन्तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवश्च त्रय एव -
प्रतिज्ञाहेतूदाहरणरूपाः उदाहरणोपनयनिगमनरूपा वा । न तु
पञ्च अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकवयव-
द्वयस्य व्यर्थत्वात् ।
एवमनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य
मिथ्यात्वसिद्धिः । तथाहि - ब्रह्मभिन्नं सर्वं मिथ्या ब्रह्मभिन्नत्वात्
यदेवं तदेवम् यथा शुक्तिरूप्यम् । न च दृष्टान्तसिद्धिः तस्य
साधितत्वात् । न चाप्रयोजकत्वम् शुक्तिरूप्यरज्जुसर्पादीनां
मिथ्यात्वे ब्रह्मभिन्नत्वस्यै लाघवेन प्रयोजकत्वात् । मिथ्यात्वं च
स्वाश्रयत्वेनाभिमत-यावन्निष्ठात्यन्ताभावप्रतियोगित्वम् ।
' अभिमत '-पदं वस्तुतः स्वाश्रयाप्रसिद्ध्याऽसम्भववारणाय
' यावत् ' - पदमर्थान्तरवारणाय । तदुक्तम् -
᳚ सर्वेषामपि भावाना स्वाश्रयत्वेन सम्मते ।
प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥ ᳚ इति ।
यद्वा अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात्
पटान्तरवत् - इत्याद्यनुमानं मिथ्यात्वे प्रमाणम् । तदुक्तम् -
᳚ अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः ।
अंशित्वादितरांशीव दिगेषैव गुणादिषु ॥ ᳚ इति ।
न च घटादेर्मिथ्यात्वे ᳚ सन् घटः ᳚ इति प्र्त्यक्षेण
बाधः अधिष्ठानब्रह्मसत्तयास्तत्र विषयतया घटादेः
सत्यत्वासिद्धेः ।
न च नीरूपस्य ब्रह्मणः कथं चाक्ष्षादिज्ञान्विषयतेति
वाच्यम् नीरूपस्यापि रूपादेः प्रत्यक्षविषयत्वात् । न च
नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः मन्मते
ब्रह्मणो द्रव्यत्यासिद्धेः । गुणाश्रयत्वं समवायिकारणत्वं
वा द्रव्यत्वम् इति तेऽभिमतम् । न हि निर्गुणस्य ब्रह्मणो
गुणाश्रयता नापि समवायिकारणता समवायासिद्धेः । अस्तु
वा द्रव्यत्वं ब्रह्मणः तथापि नीरूपस्य कालस्येव चाक्षुषादि -
ज्ञानविषयत्वे न विरोधः ।
यद्वा त्रिविधं सत्त्वम् - पारमार्थिकं व्यावहारिकं
प्रातिभासिकं चेति । पारमार्थिकं सत्त्वं ब्रह्मणः व्यावहारिकं
सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्तिरजतादेः । तथा च
᳚ घटः सन् ᳚ इति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन
प्रामाण्यम् । अस्मिन् पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण
किन्तु पारमार्थिकत्वेनैवेति न विरोधः । अस्मिन् पक्षे च
मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्व -
मत्यन्ताभावविशेषणं द्रष्टव्यम् । तस्मादुपपन्नं
मिथ्यात्वानुमानमिति ।
इति वेदान्तपरिभाषायामनुमानपरिच्छेदः ।
३ उपमानम् ।
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानम् ।
तथा हि - नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य
गवेयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः ᳚अयं पिण्डो गोसदृशः ᳚
इति । तदनन्तरं च भवति निश्चयः ᳚अनेन सदृशी मदीया
᳚ गौः ᳚ इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं
करणम् गोनिष्ठगवयसादृश्यज्ञानं फलम् ।
न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् ।
नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात् । नापि
मदीया गौरेतद्गवयसदृशी
एनन्निष्ठसादृश्यप्रतियोगित्वात्
यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः
यथा मैत्रनिष्ठसादृश्यप्रतियोगी चत्रो मैत्रसदृशः -
इत्यनुमानात् तत्सम्भवैति वाच्यम् । एवंविधानुमानानवतारेऽपि
᳚ अनेन सदृशी मदीया गौः ᳚ इति प्रतीतेरनुभवसिद्धत्वात्
᳚ उपमिनोमि ᳚ इत्यनुव्यवसायाच्च । तस्मादुपमानं मानान्तरम् ।
इति वेदान्तपरिभाषायामुपमानपरिच्छेदः ।
४ आगमः ।
अथागमो निरूप्यते । यस्य वाक्यस्य तात्पर्य विषयीभूतसंसर्गो
मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् । वाक्यजन्यज्ञाने च
आकांक्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं च इति चत्वारि कारणानि ।
तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकांक्षा ।
क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे
इतिकर्तव्यतायाश्च जिज्ञासाविषयत्वात् ऽजिज्ञासोरपि वाक्यार्थबोधात्
' योग्यत्व ᳚ मुपात्तम् । तदवच्छेदकं च क्रियात्वकारकत्वा-
दिकमितिनातिव्याप्तिः गौरश्व इत्यादौ । अभेदान्वये च समानविभक्तिकपद-
प्रतिपाद्यत्वं तदवच्छेदकमिति ᳚ तत्त्वमस्या ᳚ दिवाक्येषु नाव्याप्तिः ।
एतादृशाकांक्षाभिप्रायेणैव बलाबलाधिकरणे ᳚ सा
वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ᳚ इत्यत्र वैश्वदेव -
यागस्यामिक्षान्वितत्वेन न वाजिनाकांक्षा इत्यादिव्यवहारः ।
ननु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव
प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वादिति
चेत् न स्वसमानजातीयपदार्थावयबोधविरहसहकृतप्रदेय -
द्रव्यत्यस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमान -
जातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात् ।
आमिक्षायान्तु नैवम् वाजिनान्वयस्य तदानुपस्थित्वात् ।
उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजक आकांक्षाविरह एव द्रष्टव्यः ।
योग्यता तात्पर्यविषयसंसर्गाबाधः । ᳚ वह्निना सिञ्चति ᳚
इत्यादौ तादृशसंसर्गबाधान्न योग्यता । ᳚ स प्रजापतिरात्मनो
वपामुदखिदत् ᳚ इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्याबाधात्
योग्यता । ᳚ तत्त्वमस्या ᳚ - दिवाक्येष्वपि वाच्याभेदबाधेऽपि
लक्ष्यस्वरूपाभेदे बाधाभावात् योग्यता ।
आसत्तिश्चाव्यवधानेन पदजन्यपदार्थोपस्थितिः ।
मानान्तरोपस्थापितपदार्थस्यान्वयबोधाभावात्
' पदजन्या ' इति । अत एवाश्रुतस्थले तत्तत्पदाध्याहारः ।
' द्वारम् ' इत्यादौ ' पिधेहि ' इति । अत एव ' इषे त्वा '
इत्यादिमन्त्रे ' छिनद्मि ' इति पदाध्याहारः । अत एव
विकृतिषु ᳚ सूर्याय जुष्टं निर्वपामि ᳚ इति पदप्रयोगः ।
पदार्थश्च द्विविधः - शक्यो लक्ष्यश्चेति । तत्र शक्तिर्नाम
पदानामर्थेषु मुख्या वृत्तिः । यथा ' घट ' - पदस्य
पृथुबुध्नोदराद्याकृतिविशिष्टे वस्तुविशेषे वृत्तिः । सा च
शक्तिः पदार्थान्तरम् सिद्धान्ते कारणेषु कार्यानुकूलशक्तिमात्रस्य
पदार्थान्तरत्वात् । सा च तत्तत्पदजन्यपदार्थज्ञानरूपकार्यानुमेया ।
तादृशशक्तिविषयत्वं शक्यत्वम् ।
तच्च जातेरेव न व्यक्तेः व्यक्तीनामानन्त्येन गुरुत्वात् ।
कथं तर्हि गवादिपदाद्व्यक्तिमानमिति चेत् जातेर्व्यक्ति -
समानसंवित्संवेद्यत्वादिति ब्रूमः । यद्वा गवादिपदानां
व्यक्तौ शक्तिः स्वरूपसती न तु ज्ञाता हेतुः जातौ तु सा
ज्ञाता हेतुः । न च व्यक्त्यंशे शक्तिज्ञानमपि कारणम्
गुअरवात् । जातिशक्तिमत्त्वज्ञाने सति व्यक्तिशक्तिमत्त्वज्ञानं
विना व्यक्तिधीविलम्बाभावाच्च । अत एव न्यायमतेऽप्यन्वये
शक्तिः स्वरूपसतीति सिद्धान्तः ।
ज्ञायमानशक्तिविषयत्वमेव वाच्यत्वमिति जातिरेव वाच्या ।
अथवा व्यक्तर्लक्षणयाऽवगमः । यथा ᳚ नीलो घटः ᳚ इत्यत्र
' नील ' - शब्दस्य नीलगुणविशिष्टे लक्षणा तथा
जातिवाचकस्य तद्विशिष्टे लक्षणा । तदुक्तम् ᳚ अनन्यलभ्यः
शब्दार्थः ᳚इति । एवं शक्यो निरूपितः ।
अथ ' लक्ष्य ' - पदार्थो निरूप्यते । तत्र लक्षणाविषयो
लक्ष्यः । लक्षणा च द्विविधा - केवललक्षणा लक्षितलक्षणा
चेति । तत्र शक्यसाक्षात्सम्बन्धः केवलक्षणा । यथा
᳚ गङ्गायां घोषः ᳚ इत्यत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे
' गङ्गा ' - पदस्य केवललक्षणा । यत्र शक्यपरम्परा -
सम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा यथा
' द्विरेफ ' - पदस्य रेफद्वये शक्तस्य ' भ्रमर ' -
पदघटित - परम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव ।
यथा ᳚ सिंहो मानवकः ᳚ इत्यत्र ' सिंह ' - शब्दवाच्य
सम्बन्दिक्रौर्यादिसम्बन्धेन मानवकस्य प्रतीतिः ।
प्रकारान्तरेण लक्षणा त्रिविधा - जहल्लक्षणा अजहल्लक्षणा
जहदजहल्लक्षणा । तत्र शक्यमनन्तर्भाव्य यत्रार्थान्तर -
प्रतीतिस्तत्र जहल्लक्षणा । यथा ᳚ विषं भुंक्ष्व ᳚ इत्यत्र स्वार्थं
विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थ -
मन्तर्भाव्यैवार्थान्तरप्रतीतिः तत्राजहल्ल्क्षणा यथा
᳚ शुक्लो घटः ᳚ इति । अत्र हि ' शुक्ल ' - शब्दः स्वार्थं
शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते ।
यत्र हि विशिष्टवाचकः शब्द एकदेशं विहाय एकदेशे
वर्तते तत्र जहदजहल्लक्षणा यया ᳚ सोऽयं
देवदत्तः ᳚ इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्या -
नुपपत्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा वा
᳚ तत्त्वमसि ᳚ इत्यादौ ' तत् ' - पद्वाच्यस्य
सर्वज्ञत्वादिविशिष्टस्य ' त्वं ' - पदवाच्येनान्तःकरण -
विशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति
साम्प्रदायिकाः ।
वयन्तु ब्रूमः - ᳚ सोऽयं देवदत्तः ,' ᳚ तत्त्वमसि ᳚ इत्यादौ
विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा
शक्त्युपस्थितविशिष्टयोः अभेदान्वयानुपपत्तौ विशेष्ययोः
शक्त्युपस्थितयोरेव अभेदान्वयाविरोधात् । यथा
᳚ घटोऽनित्यः ᳚ इत्यत्र ' घट ' - पदवाच्यैकदेशघटत्वस्य -
अयोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः ।
यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव
स्वातन्त्र्येणौपस्थितये लक्षणभ्युपगमः । यथा
᳚ नित्यो घटः ᳚ इत्यत्र ' घट ᳚ - पदात् घटत्वस्य शक्त्या
स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं
' घट-पदस्य घटत्वे लक्षणा । एवमेव ᳚ तत्त्वमसि ᳚
इत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोः
' तत्त्वं ' - पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा
᳚ गेहे घटः ᳚ ᳚ घटे रूपम् ᳚ ᳚ घटमानय ᳚
इत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया
तत्रापि ' घटा ' - दिपदानां विशेष्यमात्रपरत्वं लक्षणयैव
स्यात् । तस्मात् ᳚ तत्त्वमसि ᳚ इत्यादिवाक्येषु
आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या ।
जहदजहल्लक्षणोदाहरणन्तु ᳚ काकेभ्यो दधि रक्ष्यताम् ᳚
इत्याद्येव तत्र शक्यकाकत्वपरित्यागेन अशक्यदध्युपधातकत्व-
पुरस्कारेणाकाकेऽपि ' काक ' - शब्दप्रवृत्तेः ।
लक्षणाबीजन्तु तात्पर्यानुपपत्तिरेव न तु अन्वयानुपपत्तिः
᳚ काकेभ्यो दधि रक्ष्यताम् ᳚ इत्यत्र अन्वयानुपपत्त्यभावात्
᳚ गङ्गायां घोषः ᳚ इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् ।
लक्षणा च न पदमात्रवृत्तिः किन्तु वाक्यवृत्तिरपि । यथा
᳚ गम्भीरायां नद्यां घोषः ᳚ इत्यत्र ᳚ गम्भीरायां नद्याम् ᳚
इति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यस्याशक्ततया
कथं शक्यसम्बन्धरूपा लक्षणा उच्यते । शक्त्या यत्
पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च
यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः ।
एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा
᳚ सोऽरोदीत् ᳚ इत्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा ।
अर्थवादगतपदानां प्राशत्यादिलक्षणाभ्युपगमे एकेन पदेन
लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयथ्य स्यात् । एवं च
विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य
पदस्थानीयतया विधिवाक्येनैकवाक्यत्वं भवति इत्यर्थवादवाक्यानां
पदैकवाक्यता । क्व तर्हि वाक्यैकवाक्यता । यत्र प्रत्येकं
भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकांक्षावशेन
महावाक्यार्थबोधकत्वम् । यथा ᳚ दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत ᳚ इत्यादिवाक्यानां ᳚ समिधो यजति ᳚
इत्यादिवाक्यानां च परस्परोपेक्षिताङ्गाङ्गिभावबोधकतया
एकवाक्यता । तदुक्तं भट्टपादैः -
᳚ स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ ᳚ इति ।
एवं द्विविधोऽपि पदार्थो निरूपितः । तदुपस्थितिश्चासत्तिः ।
सा च शाब्दबोधे हेतुः तथैवान्वयव्यतिरेकदर्शनात् । एवं
महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः तथैवान्वया -
द्यवधारणात् ।
क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्रतीतीच्छयोच्चरितत्वं
न तात्पर्यम् अर्थज्ञानशून्येन पुरूषेणोच्चरिताद्वेदादर्थप्रत्याया-
भावप्रसङ्गात् ᳚ अयमध्यापकोऽव्युत्पन्नः ᳚ इति विशेषदर्शनेन
तात्पर्यभ्रमस्याप्यभावात् । न चेश्वरीयतात्पर्यज्ञानात्
तत्र शाब्दबोध इति वाच्यम् ईश्वरानङ्गीकर्तृरपि तद्वाक्यार्थ-
प्रतिपत्तिदर्शनात् उच्यते । तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् ।
᳚ गेहे घटः ᳚ इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यम्
न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरम्
न तु पटसंसर्गपरमित्युच्यते ।
ननु ᳚ सैन्धवमानय ᳚ इत्यादिवाक्यं यदा लवणानयन -
प्रतीतीच्छया प्रयुक्तं तदापि अश्वसंसर्गप्रतीतिजनने
स्वरूपयोग्यतासत्त्वात् लवणपरत्वज्ञानदशायामश्वादि -
संसर्गज्ञानापत्तिरिति चेत् न तदितरपरतीतीच्छया -
नुच्चरितत्वस्यापितात्पर्यं प्रति विशेषणत्वात् । तथा च
यद्वाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति
यदन्यप्रतीतीच्छया नोच्चरितम् तद्वाक्यं तत्संसर्ग -
परमित्युच्यते । शुकादिवाक्ये अव्युत्पन्नोच्चरितवेदवाक्यादो
च प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयो -
च्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः । न
चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः तदन्यमात्र -
प्रतीतीच्छयाऽनुच्चरितत्वस्य विवक्षितत्वात् ।
उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः ।
अस्माकं मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न
कोऽपि दोषः ।
एवं तात्पर्यस्य तत्प्रत्तितिजनकत्वरूपस्य शाब्दज्ञानजनकत्वे
सिद्धे चतुर्थवर्णके तात्पर्यस्य शाब्दज्ञानहेतुत्वेनिराकरणवाक्यं
तत्प्रतीतीच्छयोच्चरितत्वरूपतातात्पर्यनिराकरणपरम् अन्यथा
तात्पर्यनिश्चयफलकवेदान्तविचारवैयर्थ्यप्रसङ्गात् । केचित्तु -
शाब्दज्ञात्वावच्छेदेन न तात्पर्यज्ञानं हेतुरित्येवंपरम्
चतुर्थवर्णकवाक्यम् तात्पर्यसंशयविपर्ययोत्तरशाब्दज्ञानविशेषे
च तात्पर्यज्ञानं हेतुरेव इदं वाक्यमेतत्परमुतान्यपरमिति संशये
तद्विपर्यये च तदुत्तरवाक्यार्थविशेषनिश्चयस्य तात्पर्यनिश्चयं
विनाऽनुपपत्तेरित्याहुः ।
तच्च तात्पर्यं वेदे मीमांसापरिशोधितन्यायादेवावधर्यते
लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां मानान्तरा -
वगतार्थतयाऽनुवादकत्वम् वेदे तु वाक्यार्थस्यापूर्वतया
नानुवादकत्वम् । तत्र लोके वेदे च कार्यपराणामिव सिद्धर्थानामपि
प्रामाण्यम् ᳚ पुत्रस्ते जातः ᳚ इत्यादिषुअ सिद्धार्थेऽपि पदानां
सामर्थ्यावधारणात् । अत एव वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यम् ।
यथ चैतत् तथा विषयपरिच्छेदे वक्ष्यते ।
तत्र वेदानां नित्यसर्वज्ञपरमेश्वरप्रणीतत्वेन प्रामाण्यमिति -
नैयायिकाः । वेदानां नित्यत्वेन निरस्तसमस्तपुंदूषणतया
प्रामाण्यमिथ्यध्वरमीमांसकाः । अस्माकं तु मते वेदो न नित्यः
उत्पत्तिमत्त्वात् । उत्पत्तिमत्त्वं च ᳚ अस्य महतो भूतस्य
निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ᳚ इत्यादिश्रुतेः ।
नापि वेदानां त्रिक्षणवस्थायित्वम् ᳚ य एव वेदो
देवदत्तेनाधीतः सः एव मयामि ᳚ इत्यादिप्रत्यभिज्ञाविरोधात् ।
अत एव गकारादिवर्णानामपि न क्षणिकत्वम् ᳚ सोऽयं गकारः ᳚
इत्यादिप्रत्यभिज्ञाविरोधात् । तथा च वर्णपदवाक्यसमुदायस्य
वेदस्य वियदादिवत् सृष्टिकालीनोत्पत्तिकत्वं प्रलयकालीन -
ध्वंसप्रतियोगित्वं च न तु मध्ये वर्णानामुत्पत्तिविनाशौ
अनन्तगकारादिकल्पनायां गौरवात् । अनुच्चारणदशायां
वर्णानामनभिव्यक्तिस्तदुच्चारणरूपव्यञ्जकाभावात् न
विरुध्यते अन्धकारस्थघटानुपलम्भवत् । ᳚ उत्पन्नो
गकारः ᳚ इत्यादिप्रत्ययस्तु ᳚ सोऽयं गकारः ᳚
इत्यादिप्रत्यभिज्ञाविरोधादप्रमाणम् । वर्णाभिव्यञ्जक -
ध्वनिगतोत्पत्तिनिरूपितपरम्परासम्बन्धविषयत्वेन
प्रमाणं वा । तस्मान्न वेदानां क्षणिकत्वम् ।
ननु क्षणिकत्वाभावेऽपि वियदादिप्रपञ्चवदुत्पत्तिमत्वेन
परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव
सिद्धान्तो भज्येत इति चेत् न । न हि तावत् पुरुषेण
उच्चार्यमाणत्वं पौरुषेयत्वम् गुरुमतेऽप्यध्यापकपरम्परया
पौरुषेयत्वापत्तेः । नापि पुरुषाधीनोत्पत्तिकत्वं पौरुषेयत्वम्
नैयायिकाभिमतपौरुषेयत्वानुमानेऽस्मदादिना सिद्धसाधनापत्तेः ।
किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् । तथा च
सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं
वेदं विरचितवान् न तु तद्विजातीयं वेदमिति न सजातीयोच्चारण -
अनपेक्षोच्चारणविषयत्वं पौरुषेयत्वं वेदस्य । भारतादीनान्तु
सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमिति तेषां पौरुषेयत्वम् ।
एवं पौरुषेयापौरुषेयभेदेन द्विविध आगमो निरूपितः ।
इति वेदान्तपरिभाषायामागमपरिच्छेदः ।
५ अर्थापत्तिः ।
इदानीमर्थापत्तिर्निरूप्यते । तत्रोपपाद्यज्ञानेनोपपादककल्पन -
मर्थर्थाप्त्तिः । तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं
फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे
यस्यानुपपत्तिः तत् तत्रोपपादकम् । यथा रात्रिभोजनेन
विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं
पीनत्वमुपपाद्यम् यथा वा रात्रिभोजनस्याभावे तादृश -
पीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम् ।
सा चार्थापत्तिर्द्विविधा - दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति ।
तत्र दृष्टार्थापत्तिर्यथा ᳚ इदं रजतम् ᳚ इति पुरोवर्तिनि
प्रतिपन्नस्य रजतस्य ᳚ नेदं रजतम् ᳚ इति तत्रैव
निषिध्यमानत्वं सत्यत्वऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं
सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति ।
श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन
अर्थान्तरकल्पनम् । यथा ᳚ तरति शोकमात्मवित् ᳚ इत्यत्र
श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथा -
नुपपत्या बन्धस्य मिथ्यात्वं कल्पते । यथा वा ᳚ जीवी
देवदत्तो ᳚ गृहे न ᳚ इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं
बहिःसत्त्वं कल्पयति ।
श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च ।
तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि
पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा ' द्वारम् ' इत्यत्र
' पिधेहि ' इति पदाध्याहारः यथा वा ᳚ विश्वजिता विजेत ᳚
इत्यत्र ' स्वर्गकाम ' - पदाध्याहारः ।
ननु ' द्वारम् ' इत्यादावन्वयाभिधानात् पूर्वम् इदमन्वयाभिधानं
पिधानापस्थापकपदं विनाऽनुपापन्नमिति कथं ज्ञानमिति चेत् न
' अभिधान ' - पदेन करणव्युत्पत्या तात्पर्यस्य विवक्षितत्वात् ।
तथा च द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं
विनाऽनुपपन्नमिति ज्ञानं तत्रापि सम्भाव्यते ।
अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः
सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । तथा ᳚ स्वर्गकामो ज्योतिष्टोमेन
यजेत ᳚ इत्यत्र स्वर्गसाधनत्वस्य क्षणिकयागगततयाऽवगतस्या -
नुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते ।
न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति अन्वयव्यप्त्य -
ज्ञानेनान्वयिन्यनन्तर्भावात् । व्यतिरेकिणश्चानुमानत्वं प्रागेव
निरस्तम् । अत एवार्थापत्तिस्थले ' अनुमिनोमि ' इति नानुव्यवसायः
किन्तु ᳚ अनेन इदं कल्पयामि ᳚ इति ।
ननु अर्थापत्तिस्थले ᳚ इदमनेन विनाऽनुपपन्नमिति ज्ञानकरणम् ᳚
इत्युक्तम् तत्र किमिदं ᳚ तेन विनाऽनुपपन्नत्वम् ᳚ ।
तदभावव्यपकाभावप्रतियोगित्वमिति ब्रूमः ।
एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम्
᳚ पृथिवीतरेभ्यो भिद्यते ᳚ इअत्यादौ गन्धवत्त्वमितरभेदं
विनाऽनुपपन्नमित्यादिज्ञानस्य करणत्वात् । अत
एवानुव्यवसायः ᳚ पृथिव्यामितरभेदं कल्पयामि ᳚ इति ।
इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः ।
६ अनुपलब्धि ।
इदानीं षष्ठं प्रमाणं निरूप्यते । ज्ञानकरणाजन्याभावानुभवा -
साधारणकारणमनुपलब्धिरूपं प्रमाणम् । अनुमानादिजन्या -
तीन्द्रियाभावानुभवहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तं
पदम् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासधारणेति ।
अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति
विशेषणम् । न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो
गृह्यताम् विशेषाभावादिति वाच्यम् । धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि
तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावाग्राहकत्वात् ।
ननु केयं योग्यानुपलब्धिः । किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः ।
उत योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः । नाद्यः स्तम्भे
पिशाचादिभेदस्याप्रत्यक्षत्वापत्तेः । नान्त्यः आत्मनि धर्माद्य -
भावस्यापि प्रत्यक्षत्वापत्तेरिति चेत् न ᳚ योग्या चासावनुप -
लब्धिश्चेति ᳚ कर्मधारयाश्रयणात् । अनुपलब्धेर्योग्यता च
तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । यस्याभावो
गृह्यते तस्य यः प्रतियोगी तस्य सत्त्वेनाधिकरणे तर्कितेन
प्रसञ्जनयोग्यमापादनयोग्यं प्रतियोग्युपलब्धिस्वरूपं यस्य
अनुपलम्भस्य तत्त्वं तदनुपलब्धेर्योग्यत्वमित्यर्थः । तथाहि -
स्फीतालोकवति भूतले यदि घटः स्यात् तदा घटोपलम्भः
स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावोऽनुपलब्धिगम्यः ।
अन्धकारे तु तादृशापादनासम्भवान्नानुपलब्धिगम्यता । अत
एवस्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत् प्रत्यक्षत्वापत्त्या
तदभावोऽनुपलब्धिगम्यः । आत्मनि धर्मादिसत्त्वेऽप्यस्यातीन्द्रियतया
निरुक्तोपलम्बापादनासम्भवात् न धर्माद्यभावस्यानुपलब्धिगम्यत्वम्।
ननूक्तरीत्याऽधिकरणेन्द्रियसन्निकर्षस्थले अभावस्याउपलब्धिगम्यत्वं
त्वदनुमतम् । तत्र क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि करणम्
इन्द्रियान्वयव्यतिरेकानुविधानादिति चेत् न । तत्प्रतियोग्यनुपलब्धे -
रप्यभावग्रहे हेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात् ।
इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावग्रहाहेतुत्वात्
इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानाद्युपक्षीणत्वेनान्यथासिद्धेः ।
ननु ᳚ भूतले घटो न ᳚ इत्याद्यभावानुभवस्थले भूतलांशे
प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्यावश्यकत्वेन
भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि
प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपि इति
चेत् सत्यम् अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्कारणस्यानुप -
लब्धेर्मानान्तरत्वात् । न हि फलीभूतज्ञानस्य प्रत्र्यक्षत्वे
तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति । ᳚ दशमस्त्वमसि ᳚
इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य
वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युपगमात् ।
फलवैजात्यं विना कथं प्रमाणभेद इति चेत् न वृत्तिवैजात्यमात्रेण
प्रमाणवैजात्योपपत्तेः । थथा च घटाद्यभावाकारवृत्तिर्नेन्द्रियजन्या
इन्द्रियस्य विषयेणासन्निकर्षात् किन्तु घटाद्यनुपलब्धिरूप -
मानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम् ।
ननु अनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे
घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीय -
घटाभावोऽभ्युपगम्येत । न चेष्टापत्तिः तस्य मायोपादानक -
त्वेऽभावत्वानुपपत्तेः मायोपादानकत्वाभावे मायायाः
सफलकार्योपादानत्वानुपपत्तिरिति चेत् न । घटवति
घटाभावभ्रमोन तत्कालोत्पन्नघटाभावविषयकः किन्तु
भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते
इत्यन्यथाख्यातिरेव आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव
व्यवस्थापनात् ।
अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वम्
तथापि तदुपादानं मायैव । नह्युपादानोपादेययोरत्यन्तसाजात्यम्
तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात् यत्किञ्चित्साजात्यस्य
मायया अनिर्वचनीयघटाभावस्य च मिथ्यात्वधर्मस्य विद्यमानत्वात् ।
अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो
नाशङ्कथाः । न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव
जगदुपादानं स्यादिति वाच्यम् प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य
तस्येष्टत्वात् परिणामित्वरूपस्योपादानत्वस्य निरवयवे
ब्रह्मण्यनुपपत्तेः । तथा च प्रपञ्चस्य परिणाम्युपादानं माया
न ब्रह्म इति सिद्धान्त इत्यलमतिप्रसङ्गेन ।
स चाभावश्चतुर्विधः - प्रागभावः प्रध्वंसाभावोऽत्यन्त
अभावोऽन्योन्याभावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य
घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति
प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स
प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव ।
न च घटोन्मज्जनापत्तिः घटध्वंसध्वंसस्यापि घटप्रतियोगिक -
ध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे
प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं
तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशमधिकरणं यदि
चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् ब्रह्मव्यतिरिक्तस्य
सर्वस्य ब्रह्मज्ञाननिवर्त्यताया वक्ष्यमाणत्वात् । यदि च
ध्वंसाधिकरणं चैतन्यं तदाऽसिद्धिः आरोपितप्रतियोगिक -
ध्वंसस्याधिष्ठाने प्रतीयमानस्याधिष्ठानमात्रत्वात् ।
तदुक्तम् - ᳚ अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः ᳚ इति
एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव ।
यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा
वायौरूपात्यन्ताभावः । सोऽपि वियदादिवत् ध्वंसप्रतियोग्येव ।
᳚ इदमिदं न ᳚ इति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो
भेदः पृथक्त्वं चेति व्यवह्रियते भेदातिरिक्तपृथक्त्वादौ प्रमाणाभावात् ।
अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः यथ घटे पटभेदः
अधिकरणस्यानादित्वेऽनादिरेव यथा जीवे ब्रह्मभेदः ब्रह्मणि वा
जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव अविद्यानिवृत्तौ
तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् ।
पुनरपि भेदो द्विविधः - सोपाधिको निरुपाधिकश्चेति । तत्रोपाधि -
सत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम् । तच्छून्यत्वं निरुपाधिकत्वम् ।
तत्राद्यो तथा एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः । यथा वा
एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च ब्रह्मणोऽन्तःकरण -
भेदाद्भेदः । निरुपाधिकभेदो यथा घटे पटभेदः ।
न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः तात्त्विक -
भेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात् । प्रपञ्चस्याद्वैते
ब्रह्मणि कल्पितत्वाङ्गीकारात् ।तदुक्तं सुरेश्वराचार्यैः -
᳚ अक्षमा भवतः केयं साधकत्वप्रकल्पने ।
किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥ ᳚
इति । अत एव विवरणेऽविद्यानुमाने प्रागभावव्यतिरिक्तत्वविशेषणम्
तत्त्वप्रदीपिकायामविद्यालक्षणे भावत्व-विशेषणं च सङ्गच्छते ।
एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिः ।
तत्रानुपलब्धिर्मानान्तरम् ।
एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च ।
तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति
तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं
न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि
प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः रूपादिप्रत्यक्षे
आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन् ᳚ पीतः शङ्खः ᳚
इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्षादिक -
मप्यनुमित्यादिप्रमायां गुणः असल्लिङ्गपरामर्षादिस्थलेऽपि
विषयाबाधेनानुमित्यादेः प्रमात्वात् । न चैवमप्रमाप प्रमा स्यात्
ज्ञासामान्यसामग्र्या अविशेषादिति वाच्यम् । दोषाभावस्यापि
हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वम् आगन्तुकभाकारणापेक्षायामेव
परतस्त्वात् ।
ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति
यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानम्
तद्ग्राहकं साक्षिज्ञानम् । तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं
प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्यसंशयानुपपत्तिः
तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटित -
स्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद्वा
यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले
प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः ।
अप्रामाण्यन्तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् प्रमाया -
मप्यप्रामाण्यापत्तेः किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं
यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्यघटकतदभाववत्त्वादे -
र्वृत्तिज्ञानानुपनीतत्वेन साक्षिणाग्रहीतुमशक्यत्वात् । किन्तु
विसंवादिप्रवृत्त्यादिकिङ्गकानुमित्यादिविषय इति परत
एवाप्रामाण्यमुत्पद्यते ज्ञायते च ।
इति वेदान्तपरिभाषायामनुपलब्धिपरिच्छेदः ।
७ प्रामाण्यम् ।
एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम् -
व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति । तत्र
ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं
प्रामाण्यम् तद्विषयाणां व्यवहारदशायां बाधाभावात् ।
द्वितीयन्तु जीवब्रह्मैक्यपराणां ᳚ सदेव सोम्येदमग्र आसीत् ᳚
इत्यादिनां ᳚ तत्त्वमसि ᳚ इत्यन्तानाम् तद्विषयस्य जीवपरैक्यस्य
कालत्रयांबाध्यत्वात् । तच्चैक्यं ' तत्त्वं ' - पदार्थज्ञानाधीन-
ज्ञानमिति प्रथमं ' तत् ' - पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।
तत्र लक्षणं द्विविधम् - स्वरूपलक्षणं तटस्थलक्षणं चेति ।
तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं
ब्रह्मस्वरूपलक्षणम् ᳚ सत्यं ज्ञानमनन्तं ब्रह्म ,᳚ ᳚ आनन्दो
ब्रह्मेति व्यजानात् ᳚ इत्यादिश्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे
कथं लक्षणत्वमिति चेत् न स्वस्यैव स्वापेक्षया धर्मिधर्म -
भावल्पनया लक्ष्यलक्षणत्वसम्भवात् । तदुक्तम् - ᳚ आनन्दो
विषयानुभवओ नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि
चैतन्यात् पृथगिवावभासन्ते ᳚ इति ।
तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकं
तदेव । यथा गन्धवत्वं पृथिवीलक्षणम् महाप्रलये परमाणुषु
उत्पत्तिकाले घटादिषु च गन्धाभावात् । प्रकृते च जगज्जन्मादिकारणत्वम् ।
अत्र ' जगत् ' - पदेन कार्यजातं विवक्षितम् । कारणत्वं च
कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादान -
गोचरापरोक्षज्ञानचिकिर्षाकृतिमत्वम् । ईश्वरस्य तावदुपादानगोचरा -
परोक्षज्ञानसद्भावे - ᳚ यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते । ᳚ इत्यादिश्रुतिर्मानम् ।
तादृशचिकीर्षासद्भावे च ᳚ सोऽकामयत बहु स्यां प्रजायेय
᳚ इत्यादिश्रुतिर्मानम् । तादृशकृतौ च ᳚ तन्मनोऽकुरुत
᳚ इत्यादिवाक्यम् ।
ज्ञानेच्छाद्यन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा
व्यर्थविशेषणापत्तेः । अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव
लक्षणे प्रवेशः । एवं च लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो
जगज्जन्मादिकरणत्वे च ' यतो वा इमानि भूतानि जायन्ते
येन जातानि जीवन्ति यत् प्रय्न्त्यभिसंविशन्ति ᳚ इत्यादिश्रुतिर्मानम् ।
यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च
जगदध्यासाधिष्ठानत्वम् जगदाकारेण परिणममानमायाधिष्ठानत्वं
वा । एतादृशमेवोपादानत्वमभिप्रेत्य ᳚ इदं सर्वं यदयमात्मा ᳚
᳚ सच्च त्यच्चाभवत् ᳚ ᳚ बहु स्यां प्रजायेय ᳚ इत्यादिश्रुतिषु
ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । ᳚ घटः सन् ᳚ ᳚ घटो भाति ᳚
᳚ घत इष्टः ᳚ इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूप-
ब्रह्मैक्याध्यासात् ।
नन्वानन्दात्मकचिदध्यासाद्घटादेरिष्टत्वव्यवहारे दुःखस्यापि
तत्राध्यासात् तस्यापीष्टत्वव्यवहारापत्तिरिति चेत् न ᳚ आरोपे
सति निमित्तानुसरणम् न तु निमित्तमस्तीत्यारोपः ᳚ इत्यभ्युपगमेन
दुःखादौ सच्चिदंशाध्यासेऽपि आनन्दांशाध्यासाभावात् । जगति
नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् ।
तदुक्तम् -
᳚ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ ᳚ इति ॥
अथ जगतो जन्मक्रमो निरूपते । तत्र सर्गाद्यकाले परमेश्वरः
सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपित -
शक्तिविशेषविशिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपञ्चं
प्रथं बुद्धावाकलय्य ᳚ इदं करिष्यामि ᳚ इति सङ्कल्पयति ᳚ तदैक्षत
बहु स्यां प्रजायेय ᳚ ᳚ सोऽकामयत बहु स्यां प्रजायेय ᳚ इत्यादि श्रुतेः ।
तत आकाशादीनि पञ्चभूतान्यपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते ।
तत्राकाशस्य शब्दो गुणः वायोस्तु शब्दस्पर्शौ तेजसस्तु
शब्दस्पर्शरूपाणि अपां
तु शब्दस्पर्शरूपरसाः पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः ।
न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि
तदुपलम्भात् । न चासौ भ्रमः बाधकाभावात् ।
इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि । गुणाः सत्त्वरजस्तमांसि ।
एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं श्रोत्रत्वक्चक्षू -
रसनघ्राणानि प्ञ्चज्ञानेन्द्रियाणि जायन्ते । एतैरेव सत्त्वगुणोपेतैः पञ्च -
भूतैर्मिलितैर्मनोबुद्ध्याहङ्कारचित्तनि जायन्ते । श्रोत्रादीनां पञ्चानां
क्रमेण दिग्वातार्कवरुणाश्विनोधिष्टातृदेवताः । मन
आदीनां चतुर्णा क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः ।
एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि
कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण
वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृ -
देवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापनव्यानोदान -
समानाख्या जायन्ते । तत्र प्राग्गमनवान् वायुः प्राणो नासादिस्थानवर्ती ।
अर्वाग्गमनवानपानः पाय्वादिस्थानवर्ती । विष्वगमनवान् व्यानः
अखिलशरीरवर्ती । ऊर्ध्वगमनवानुत्क्रमणवायुरुदानः कण्ठस्थानवर्ती ।
अशितपीतान्नादिसमीकरणकरः समानः नाभिस्थानवर्ती ।
तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते ।
᳚ तासां त्रिवृतं त्रिवृतमेकैकां
करवाणि ᳚ इति श्रुतेः पञ्चीकरणोपलक्षणर्थत्वात् ।
पञ्चीकरणप्रकारश्चेत्थम् - आकाशमादौ द्विधा विभज्य
तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां
वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य
तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामांशानामाकाशादिषु
संयोजनम् । एवं तेज आदीनामपि । तदेवमेकैकभूतस्यार्धं
स्वांशात्मकम् अर्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु
स्वांशाधिक्यात् पृथिव्यादिव्यवहारः । तदुक्तम् - ᳚ वैशेष्यात्तु
तद्वादस्तद्वादः ᳚ इति ।
पूर्वोक्तैरपञ्चीकृतभूतैत्लिङ्गशरीरं परलोकयात्रानिर्वाहकं
मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चक -
कर्मेन्द्रियपञ्चक - प्राणदिपञ्चकसंयुक्तं जायते । तदुक्तम् -
᳚ पञ्चप्राणमनोबुद्धिदशेन्द्रिय्समन्वितम् ।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ ᳚ इति ।
तच्च द्विविधम् - परमपरं च । परं हिरण्यगर्भलिङ्गशरीरम्
अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरम्
महत्तत्त्वम् अस्मदादिलिङ्गशरीरं चाहङ्कार इत्याख्यायते ।
एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्मह -
र्जनतपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतल-
तलातलरसातलमहातलपातालाख्यस्य अधोलोकसप्तकस्य ब्रह्माण्डस्य
जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणां चोत्पत्तिः ।
तत्र जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादिशरीराणि ।
अण्डजान्यण्डेभ्योजातानि पक्षिपन्नगादिशरीराणि । स्वेदजानि
स्वेदाज्जातानि यूकमशकादिशरीराणि । उद्भिज्जानि भूमिनुद्भिद्य
जातानि वृक्षादीनि । वृक्षादीनामपि पापफलभोगायतनत्वेन
शरीरत्वम् ।
तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेत -
लिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्
कर्तृत्वम् इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भादिद्वारा
᳚ हन्ताहमिमास्तिस्रौ देवता अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणि ᳚ इति श्रुतेः ।
हिरण्यगर्भो नाम मूर्तित्रयादन्यः प्रथमो जीवः ।
᳚ स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ᳚
᳚ हिरण्यगर्भः समवर्तताग्रे ᳚ इत्यादिश्रुतेः ।
एवं भूतभौतिकसृष्टिर्निरूपिता ।
इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यविनाशः । स च
चतुर्विधः - नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः
प्रलयः सुषुप्तिः तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्म -
पूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् । तेन सुप्तोत्थितस्य
न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः । न च सुषुप्तौ
अन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियानुपपत्तिः वस्तुतः
श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात्
सुप्तशरीरोपलम्भवत् । न च एवं सुप्तस्य परेतादविशेषः सुप्तस्य
हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते परेतस्य तु लोकान्तरे
इति वैलक्षण्यात् ।
यद्वा अन्तःकरणस्य द्वे शक्ति - ज्ञानशक्तिः क्रियाशक्तिश्चेति ।
तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तऊ विनाशः न तु
क्रियाशक्तिविशिष्टस्य इति प्राणद्यवस्थानमविरुद्धम् । ᳚ यदा
सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति
अथैनं वाक् सर्वैर्नामभिः सहाप्येति ᳚ ᳚ सता सोम्य तदा सम्पन्नो
भवति स्वमपीतो भवति ᳚ इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् ।
प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः ।
यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्य ब्रह्मणो ब्रह्माण्डाधिकार -
लक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा
तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् ।
᳚ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ ᳚ इति स्मृतेः ।
एवं स्वलोकवासिभिः सह कार्यब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्ड
तदन्तर्वर्तिनिखिललोक तदन्तर्वर्तिस्थावरादीनां भौतिकानां
भूतानां च प्रकृतौ मायायां लयः न तु ब्रह्मणि बाधरूपविनाशस्यैव
ब्रह्मनिष्ठत्वात् अतः प्राकृत इत्युच्यते ।
कार्यब्रह्मणो दिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयः
नैमित्तिकप्रलयः । ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः
᳚ चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ᳚ इत्यादिवचनात् ।
प्रलयकालोऽपि दिवसकालपरिमितः रात्रिकालस्य
दिवसकालतुल्यत्वात् ।
प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि ।
᳚ द्विपरार्धे त्वतिक्रान्ते ब्रह्मणह् परमेष्ठिनः ।
तदा प्रकृतयः सप्त कल्यन्ते प्रलयाय हि ॥
एष प्राकृतिको राजन् प्रलयो यत्र लीयते । ᳚
इति वचनं प्राकृतप्रलये मानम् ।
᳚ एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।
शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् । ᳚
इति वचनं नैमित्तिकः प्रलये मानम् ।
तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः ।
स चैकजीववादे युगपदे नानाजीववादे तु क्रमेण । ᳚ सर्व
एकीभवन्ति ᳚ इत्यादिश्रुतेः ।
तत्राद्यास्त्रयोऽपि लयाः कर्मोपरमनिमित्ताः तुरीयस्तु
ज्ञानोद्यनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः ।
एवं चतुर्विधप्रलयो निरूपितः । तस्यदानीं क्रमो निरूप्यते । भूतानां
भौतिकानां च न कारणलयक्रमेण लयः कारणलयसमये
कार्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीतक्रमेण ।
तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया
उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये
पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः । तथा च पृथिव्या
अप्सु अपां तेजसि तेजसो वायौ वायोराकाशे आकाशस्य जीवाहङ्कारे
तस्य हिरण्यगर्भाहङ्कारे तस्य चाविद्यायाम् - इत्येवंरूप एव प्रलयः ।
तदुक्तं विष्णुपुराणे -
᳚ जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते ॥
वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते ।
अव्यक्तं पुरुषे ब्रह्मनिष्कले सम्प्रलीयते ᳚ इति ।
एवंविधप्रलयकारणत्वं ॑ तत् ॑ - पदार्थस्य
ब्रह्मणस्तटस्थलक्षणम् ।
ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति सप्रप्ञ्चं
स्यात् अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तिरिति चेत् न । न हि
सृष्टिवाक्यानां सृष्टौ तात्पर्यम् किन्तु अद्वये ब्रह्मण्येव । तत्प्रतिपत्तौ
कथं सृष्टेरुपयोगः । इत्थम् - यदि सृष्टिमनुपन्यस्य प्रपञ्चस्य
वायौ प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कायां
न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् । ततः
सृष्टिवाक्याद्ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना
कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां ᳚ नेति नेति ᳚
इत्यादिना ब्रह्मण्यपि तस्यासत्त्वोपपादनेन प्रपञ्चस्य
तुच्छत्वावगमे निरस्तनिखिलद्वैतविभ्रममखण्डं सच्चिदानन्दैकरस्ं
ब्रह्म सिद्धतीति परम्परया सृष्टिवाक्यानामपि अद्वितीये
ब्रह्मण्येव तात्पर्यम् । उपासनाप्रकरणपठितसगुणब्रह्मवाक्यानां
च उपासनाविध्यपेक्षितगुणारोपमात्रपरत्वम् न गुणपरत्वम् ।
निर्गुणप्रकरणपठितानां सगुणवाक्यानान्तु निषेधवाक्या -
पेक्षितनिषेध्यसमर्पकत्वेन विनियोग इति न किञ्चिदपि
वाक्यमद्वितीयब्रह्मप्रतिपादनेन विरुध्यते ।
तदेवं स्वरूपतटस्थलक्षणलक्षितं ॑ तत् ॑ पदवाच्यमीश्वरचैतन्यं
मायाप्रतिबिम्बरूपमिति केचित् । तेषामयमाशयः - जीवपरमेश्वर -
साधारणं चैतन्यमात्रं बिम्बम् तस्यैव बिम्बस्याविद्यात्मिकायां
मायायां प्रतिबिम्बमीश्वरचैतन्यम् अन्तःकरणेषु प्रतिबिम्बं
जीवचैतन्यम् ᳚ कार्योपाधिरयं जीवः कारणोपदिरीश्वरः ᳚ इति
श्रुतेः । एतन्मते जलाशयगतशरावजलगतसूर्यप्रतिबिम्बयोरिव
जीवपरमेश्वरयोर्भेदः । अविद्यात्मकोपाधेर्व्यापकतया
तदुपाधिकेश्वरस्यापि व्यापकत्वम् । अन्तःकरणस्य परिच्छिन्नतया
तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् ।
एतन्मतेऽविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युः उपाधेः
प्रतिबिम्बपक्षपातित्वात् इत्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यमित्यपरे ।
तेषामयमाशयः - एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यम्
प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैक -
जीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तः -
करणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे
जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे उपाधेः प्रतिबिम्बपक्षपातित्वात् ।
एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव
जीवपरयोर्भेदः ।
ननु ग्रीवस्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य
जीवप्रदेशेऽभावात् तस्य सर्वान्तर्यामित्वं
न स्यादिति चेत् , न । साभ्रनक्षत्र-
स्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि जलादिप्रदेश-
सम्बन्धदर्शनेन परिच्छिन्नाबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्य-
परिच्छिन्नब्रह्मबिम्बस्य प्रतिबिम्बदेशसम्बन्धाविरोधात् ।
न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः, रूपवत एव
तथात्वदर्शनात्, इति वाच्यम् ; नीरूपस्यापि रूपस्य प्रतिबिम्ब-
दर्शनात् । न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः,
आत्मनो द्रव्यत्वाभावस्य उक्तत्वात् ।
᳚ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।᳚
᳚यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् ।᳚
इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च ।
तदेवं ᳚तत्᳚ - पदार्थो निरूपितः ।
इदानीं ᳚त्वम्᳚-पदार्थो निरूप्यते । एकजीववादेऽविद्याप्रतिबिम्बो
जीवः , अनेकजीववादे तु अन्तःकरणप्रतिबिम्बः । स च जाग्रत्स्वप्न-
सुषुप्तिरूपावस्थात्रयवान् । तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था,
अवस्थान्तरे इन्द्रियाभावात् नातिव्याप्तिः । इन्द्रियजन्यज्ञानं च
अन्तःकरणवृत्तिः , स्वरूपज्ञानस्यानादित्वात् ।
सा चान्तःकरणवृत्तिरावरणाभिभवार्था इत्येकं मतम् ।
तथा हि- अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठान-
चैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ
घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थ-
पदवाच्यमभ्युपगन्तव्यम् । एवं सति न सर्वदा घटादेर्भानप्रसङ्गः,
अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् । तस्य
चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति
तद्भङ्गे वक्तव्ये, तद्भङ्गजनकं न चैतन्यमात्रम् , तद्भासकस्य
तदनिवर्तकत्वात् , नापि वृत्त्युपहितं चैतन्यम् , परोक्षस्थलेऽपि
तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य, तदुपहितचैतन्यस्य
वा, आवरणभञ्जकत्वम् , इति आवरणाभिभवार्था वृत्तिरुच्यते ।
सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्राविद्योपाधिकोऽपरिच्छिन्नो जीवः ।
स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न
घटादिकमवभासयति, घटादीना समं सम्बन्धाभावात् ,
तत्तदाकारवृत्तिदशायां तु भासयति, तदा सम्बन्धसत्त्वात् ।
ननु अविद्योपाधिकस्यापरिच्छिन्नस्य जीवस्य स्वत एव
समस्तवस्तुसम्बधस्य वृत्तिविरहदशायां सम्बन्धाभावाभि-
धानमसङ्गतम् , असङ्गत्वदृष्ट्या सम्बन्धाभावाभिधाने च
वृत्त्यनन्तरमपि सम्बन्धो न स्यात् , इति चेत् , उच्यते ।
न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं
निषेधामः । किन्तर्हि ? घटादिभानप्रयोजकं सम्बन्धविशेषम् ।
स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य-
व्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः ।
तथा हि - तैजसमन्तःकरणं स्वच्छद्रव्यत्वात् स्वत एव
जीवचैतन्याभिव्यञ्जनसमर्थम् । घटादिकस्तु न तथा, अस्वच्छ-
द्रव्यत्वात् । स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्य-
धर्मकतया वृत्त्युत्पादितचैतन्याभिव्य्ञ्जनयोग्यतश्रयतया च
वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति । तदुक्तं विवरणे - ᳚अन्तःकरणं
हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति ᳚
इति । दृष्टं चास्वच्छद्रव्यस्यपि स्वच्छद्रव्यसम्बन्धदशायां
प्रतिबिम्बग्राहित्वम् । तथा कुड्यादेर्जलादिसंयोगदशायां मुखादि-
प्रतिबिम्बग्राहिता । घटादेरभिव्यञ्जात्वं च तत्प्रतिबिम्बग्राहित्वम् ,
चैतन्यस्याभिव्यक्तत्वं च तत्र प्रतिबिम्बितत्वम् ।
एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेववृत्तेरपरोक्षस्थले
बहिर्निर्गमनाङ्गीकार । परोक्षस्थले तु वह्न्यादेर्वृत्तिसंसर्गाभावेन
चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम् । एतन्मते च
विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् ।
एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् ।
इदानीं परिच्छिन्नत्वपक्षे सम्बधार्थत्वं निरूप्यते । तथा हि -
अन्तःकरणोपाधिको जीवः । तस्य न घटाद्युपादानता, घटादिदेशसम्बन्धात् ।
किन्तु ब्रह्मैव घटाद्युपादानम् , तस्य मायोपहितस्य सकलघटाद्यन्वयित्वात् ।
अत एव ब्रह्मणः सर्वज़्`नता । तथा च जीवस्य घटाद्यधिष्ठानब्रह्मचैतन्या-
भेदमन्तरेण घटाद्यवभासासम्भवे प्राप्ते ,
तदवभासाय घटाद्यधिष्ठानब्रह्म-
चैतन्याभेदसिद्ध्यर्थं घटाद्याकारवृत्तिरिष्यते ।
ननु वृत्त्यापि कथं प्रमातृचैतन्यविषयचैतन्ययोरभेदः
सम्पाद्यते, घटानःकरणरूपोपाधिभेदेन तदवच्छिन्नचैतन्ययो -
रभेदासम्भवात् , इति चेत् , ने । वृत्तेर्बहिर्देशनिर्गमनाङ्गीकारेण
वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन तदुपधेयभेदाभावस्य
उक्तत्वात् । एवमपरोक्षस्तहले वृत्तेर्मतभेदेन विनियोग उपपादितः ।
इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था ।
जाग्रदवस्थाव्यावृत्त्यर्थम् ᳚ इन्द्रियाजन्ये ᳚ ति । अविद्यावृत्तिमत्यां
सुषुप्तावतिव्याप्तिवारणाय ᳚ अन्तःकरणे ᳚ ति । सुषुप्तिर्नाम अविद्या -
गोचराविद्यावृत्त्यवस्था । जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न
तत्रातिव्याप्तिः । अत्र केचिन्मरणभूर्छयोरवस्थान्तरत्वमाहुः, अपरे
तु सुषुप्तावेव तयोरन्तर्भावमाहुः । तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोः
᳚ त्वं ᳚ - पदार्थनिरूपणे उपयोगाभावात् न तत्र प्रयत्यते ।
तस्य मायोपाध्यपेक्षया एकत्वम् , अन्तःकरणोपाध्यपेक्षया च
नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् ,
᳚ बुद्धेर्गुणेन चैवं ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः । ᳚
इत्यादौ जीवस्य ᳚ बुद्धि ᳚ - शब्दवाच्यान्तःकरणपरिणामोपाधिकस्य
परमाणुत्वश्रवणात् ।
स च जीवः स्वयंप्रकाशः , स्वप्नावस्थामधिकृत्य ᳚ अत्रायं पुरुषः
स्वयं ज्योतिः ᳚ इति श्रुतेः । अनुभवरूपश्च , ᳚ प्रज्ञानघन एव ᳚
इत्यादिश्रुतेः । ᳚ अनुभवामि ᳚ इति व्यवहारस्तु वृत्ति प्रतिबिम्बित-
चैतन्यमादाय उपपद्यते ।
एवं ᳚ त्वं ᳚ - पदार्थो निरूपितः ।
अधुना ' तत् - त्वम् ᳚ - पदार्थयोरैक्यं महावाक्यप्रतिपाद्य -
मभिधीयते । ननु ᳚ नाहमीश्वरः ᳚ इत्यादिप्रत्यक्षेण ,
किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वादिलिङ्गेन ,
᳚ द्वा सुपर्णा ᳚ इत्यादिश्रुत्या -
᳚ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ᳚
इत्यादिस्मृत्या च जीवपरभेदस्यावगतत्वेन ᳚ तत्त्वमस्या ᳚ -
दिवाक्यम् ᳚ आदित्यो यूपः , ᳚ ᳚ यजमानः प्रस्तरः ᳚
इत्यादिवाक्यवदुपचरितार्थमेव, इति चेत् , न । भेदप्रत्यक्षस्य
सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन
बाध्यमानत्वात् । अन्यथा चन्द्रगताधिकपरिमाणग्राहिज्योतिः -
शास्त्रस्य चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः । पाकरक्ते
घटे ᳚ रक्तोऽयम् , न श्यामः ᳚ इतिवत् ᳚ सविशेषणे हि ᳚
इति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य विशेषणीभूतधर्म -
भेदविषयत्वाच्च । अत एव नानुमानमपि प्रमाणम् ,
आगमविरोधात् , मेरुपाषाणमयत्वानुमानवत् ।
नाप्यागमान्तरविरोधः । तत्परातत्परवाक्ययोस्तत्परवाक्यस्य
बलवत्वेन लोकसिद्धभेदानुवादि - ᳚ द्वा सुपर्णौ ᳚ त्यादि -
वाक्यापेक्षया उपक्रमोपसंहाराद्यवगताद्वैततात्पर्यविशिष्टस्य
᳚ तत्त्वमस्या ᳚ दिवाक्यस्य प्रबलत्वात् । न च जीवपरैक्ये
विरुद्धधर्माश्रयत्वानुपपत्तिः , शीतस्यैव जलस्यौपाधिकौष्ण्याश्रयत्ववत्
स्वभावतो निर्गुणस्यैव जीवस्यान्तःकरणाद्युपाधिक -
कर्तृत्वाद्याश्रयत्वप्रतिभासोपपत्तेः । यदि च जलादावौष्ण्यमारोपितम् ,
तदा प्रकृतेऽपि तुल्यम् । न च सिद्धान्ते कर्तृत्वस्य क्वचिदप्यभावा -
दारोप्यप्रमाहितसंस्काराभावे कथमारोपः , इति वाच्यम् ,
लाघवेनारोप्यविषयकसंकारत्वेनैव तस्य हेतुत्वात् । न च
प्राथमिकारोपे का गतिः , कर्तृत्वाद्यध्यासप्रवाहस्यानादित्वात् ।
तत्र ' तत्त्वम् ' - पदवाच्ययोर्विशिष्टयोरैक्यायोगेऽपि
लक्ष्यस्वरूपयोरैक्यमुपपादितमेव । अत एव तत्प्रतिपादक -
᳚ तत्त्वमस्या ᳚ दिवाक्यानामखण्डार्थत्वम् , ᳚ सोऽयम् ᳚
इत्यादिवाक्यवत् । न च कार्यपराणामेव प्रामाण्यम् , ᳚ चैत्र ,
पुत्रस्ते जातः ᳚ इत्यादौ सिद्धेऽपि सङ्गतिग्रहात् ।
एवं सर्वप्रमाणाविरुद्धं श्रुतिस्मृतीतिहासपुराणप्रतिपाद्यं
जीवपरैक्यं वेदान्तशास्त्रस्य विषय इति सिद्धम् ।
इति वेदान्तपरिभाषायां विषयपरिच्छेदः ।
८ प्रयोजनम् ।
इदानीं प्रयोजनं निरूप्यते । यदवगतं सत् स्ववृत्तितया इष्यते
तत्प्रयोजनम् । तच्च द्विविधम् - मुख्यं गौणं चेति । तत्र
सुखदुःखाभावौ मुख्ये प्रयोजने , तदन्यतरसाधनं गौणं प्रयोजनम् ।
सुखं च द्विविधम् - सातिशयं निततिशयं च । तत्र सातिशयं सुखं
विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः ,
᳚ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ᳚ इत्यादि श्रुतेः ।
निरतिशयं सुखं च ब्रह्मैव , ᳚ आनन्दो ब्रह्मेति व्यजानात् , ᳚
᳚ विज्ञानमानन्दं ब्रह्म ᳚ इत्यादि श्रुतेः ।
आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः , शोकनिवृत्तिश्च ,
᳚ ब्रह्म वेद ब्रह्मैव भवति , ᳚ ᳚ तरति शोकमात्मवित् ᳚
इत्यादि श्रुतेः । न तु लोकान्तरावाप्तिः , तज्जन्यवैषयिकानन्दो
वा मोक्षः , तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः ।
ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो
दोषः , अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति
चेत् , न , सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण
तत्साधने प्रवृत्त्युपपत्तेः । अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्म -
स्वरूपतया सिद्धैव । लोकेऽपि प्राप्तप्राप्ति - परिहृतपरिहारयोः
प्रयोजनत्वं दृष्टमेव । यथा हस्तगत्विस्मृतसुवर्णादौ ᳚ तव
हस्ते सुवर्णम् ᳚ इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति । यथा वा
वलयितचरणायां स्रजि सर्पत्वभ्रमवतः ᳚ नायं सर्पः ᳚
इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं
प्राप्तस्याप्यानन्दस्य प्राप्तिः , परिहृतस्याप्यनर्थस्य
निवृत्तिर्मोक्षः प्रयोजनं च ।
स च ज्ञानैकसाध्यः , ᳚ तमेव विदित्वाऽतिमृत्युमेति , नान्यः
पन्था विद्यतेऽयनाय ᳚ इति श्रुतेः , अज्ञान्ननिवृत्तेः ज्ञानैकसाध्यत्व -
नियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् , ᳚ अभयं
वै जनक प्राप्तोऽसि , ᳚ ᳚ तदात्मानमेवावेत् - अहं ब्रह्मास्मि ᳚
इत्यादि श्रुतेः , ᳚ तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य
साधनम् ᳚ इति नारदीयवचनाच्च ।
तच्च ज्ञानमपरोक्षरूपम् , परोक्षत्वेऽपरोक्षभ्रमनिवर्तक -
त्वानुपपत्तेः । तच्चापरोक्षज्ञानं ᳚ तत्त्वमस्या ᳚ दिवाक्यादिति केचित् ,
मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्येपरे ।
तत्र पूर्वाचार्याणामाशयः - संविदापरोक्ष्यं न करणविशेषोत्पत्ति -
निबन्धनम् , किन्तु प्रमेयविशेषनिबन्धनम् इत्युपादितम् । तथा च
ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यमपि ज्ञानमपरोक्षम् ।
अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति ᳚ प्राणोऽस्मि प्रज्ञात्मा , तं
मामायुरमृतमुपास्व ᳚ इति
इन्द्रप्रोक्तवाक्ये ' प्राण ' - शब्दस्य ब्रह्मपरत्वे
निश्चिते सति ᳚ मामुपास्व ᳚ इत्यशच्छाब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन
प्रवृत्ते ᳚ शास्त्रदृष्ट्या तूपदेशो
वामदेववत् ᳚ इत्यत्र सूत्रे शास्त्रीया दृष्टिः
शास्त्रदृष्टिः , ᳚ तत्त्वमस्या ᳚ दिवाक्यजन्यम् ᳚ अहं ब्रह्म ᳚
इति ज्ञानं ' शास्त्रदृष्टि ' - शब्देनोक्तमिति ।
अन्येषां त्वेवमाशयः - करणविशेषनिबन्धनमेवज्ञानानां
प्रत्यक्षत्वम् , न विषयविशेषनिबन्धनम् , एकस्मिन्नेव सूक्ष्मवस्तुनि
पटुकरणापटुकरणयोः प्रत्यक्षत्वाप्रत्यक्षत्वव्यवहारदर्शनात् ।
तथ च संवित्साक्षात्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न
शब्दजन्यज्ञानस्यापरोक्षत्वम् । ब्रह्मसाक्षात्कारेऽपि मनन -
निदिध्यासनसंस्कृतं मन एव करणम् , ᳚ मनसैवानुद्रष्टव्यम् ᳚
इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया ।
न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः , अस्मदुक्तमनसो
वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् ;
वेदानुपजीविमानान्तरगम्यत्वस्यैव विरोधित्वात् ।
' शास्त्रदृष्टि ' - सूत्रमपि ब्रह्मविषयकमानसप्रत्यक्षस्य
शास्त्र[रयोज्यत्वादुपपद्यते । तदुक्तम् -
᳚ ' अपि संराधने ' सूत्रात् शास्त्रार्थ ध्यानजा प्रमा ।
शास्त्रदृष्तिर्मता , तान्तु वेत्ति वाचस्पतिः परम् ॥ ᳚
तच्च ज्ञानं पापक्षयात् , स च कर्मानुष्ठानादिति
परम्परया
कर्मणां विनियोगः । अत एव ᳚ तमेतं वेदानुवचनेन
ब्राह्मणा
विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ᳚ इत्यादि
श्रुतिः ,
᳚ कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ᳚ इत्यादि
स्मृतिश्च सङ्गच्छते ।
एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि ,
मैत्रेयीब्राह्मणे ᳚ आत्मा वा अरे द्रष्टव्यः ᳚ इति
दर्शनमनूद्य
तत्साधनत्वेन ᳚ श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ᳚ इति
श्रवणमनननिदिध्यासनानां विधानात् । श्रवणं नाम
वेदान्तानामद्वितीये ब्रह्मणि त्तत्पर्यावधारणानुकूला
मानसी
क्रिया । मननं नाम शब्दावधारितेऽर्थे
मानान्तरविरोधशङ्कायां
तन्निराकरणानुकूलतर्कात्मकज्ञानजनको मानसो व्यापारः ।
निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य
चित्तस्य विषयेभ्योऽपकृष्य आत्मविषयकस्थैर्यानुकूलो
मानसो व्यापारः ।
तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्
कारणम् , ᳚ ते
ध्यानयोगानुगता अपश्यन् , देवात्मशक्तिं
स्वगुणैर्निगूढाम् ᳚
इत्यादि श्रुतेः । निदिध्यासने च मननं हेतुः ,
अकृतमननस्यार्थ -
दार्ढ्याभावेन तद्विषयकनिदिध्यासनायोगात् । मनने च
श्रवणं
हेतुः , श्रवणाभावे तात्पर्यानिश्चयेन
शाब्दज्ञानाभावेन
श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्च्यानुकूलमननायोगात् ।
एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या
ऊचिरे ।
अपरे तु श्रवणं प्रधानम् , मनननिदिध्यासनयोस्तु
श्रवणात्
पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया
आरादुपकारक -
तयाऽङ्गत्वमित्याहुः । तदप्यङ्गत्वं न
तार्तीयशेषत्वरूपम् ,
तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते
श्रुत्याद्यभावेऽसम्भवात् ।
तथा हि ᳚ ब्रीहिभिर्यजेत , ᳚ ᳚ दध्ना जुहोति ᳚
इत्यादाविव
मनननिदिध्यासनयोरङ्गत्वे न काचित् तृतीया श्रुतिरस्ति ।
नापि ᳚ बर्हिर्देवसदनं दामि ᳚ इत्यादि मन्त्राणां
बर्हिःखण्डन -
प्रकाशनसामर्थ्यवत् किञ्च्ल्लिङ्गमस्ति । नापि
प्रदेशान्तरपठितस्य
प्रव्र्गस्य ᳚ अग्निष्टोमे प्रवृणक्ति ᳚ इति वाक्यवत्
श्रवणानुवादेन
मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति । नापि
᳚ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ᳚ इति
वाक्यावगतफल -
साधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव
फलसाधनत्वे -
नावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम्
।
ननु ' द्रष्टव्यः ' इति दर्शनानुवादेन श्रवणे विहिते सति
फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः
प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् , न , ᳚ ते ध्यानयोगानुगता
अपश्यन् ᳚ इतादि श्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य
अङ्गाकाङ्क्ष्यायां प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः ।
क्रमसमाख्ये च दूरनिरस्ते ।
किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे
विकृतिषु न प्रयाजाद्यनुष्ठानम् ; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति ।
प्रकृते तु श्रवणं न कस्यचित् प्रकृतिः , येन मनननिदिध्यासनयो -
स्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत् । तस्मान्न तार्तीयशेषत्वं
मनननिदिध्यासनयोः , किन्तु तथा घटादिकार्ये मृत्पिण्डादीनां
सहकारिकारणतेति प्राधान्याप्राधान्यव्यपदेशः , तथा श्रवण -
मनननिदिध्यासनानामपीति मन्तव्यम् ।
सूचितं चैतद्विवरणाचार्यैः - ᳚ शक्तितात्पर्यविशिष्तशब्दावधारणं
प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति , प्रमाणस्य प्रमेयावगमं
प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्यप्रत्यगात्मप्रवणता -
संस्कारपरिनिष्पन्न - तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां
प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य शक्तितात्पर्यविशिष्ट -
शब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियते ।
श्रवणादिषु च मुमुक्षूणामधिकारः , काम्ये कर्मणि फलकामस्याधिकारित्वात् ।
मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य
शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः
शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादि -
द्वन्द्वशनं तितिक्षा । चित्तैकाग्रं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः
श्रद्धा ।
अत्र ' उपरम ' - शब्देन संन्यासोऽभिधीयते ;
तथा च संन्यासिनामेव
श्रवणादावधिकारः , इति केचित् । अपरे तु ' उपरम ' - शब्दस्य
संन्यासवाचकत्वाभावात् , विक्षेपाभावमात्रस्य गृहस्थेष्वपि
सम्भवात् , जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् ,
सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः ।
सगुणोपासनमपि चित्तैकाग्र्यद्वारानिर्विशेषब्रह्मसाक्षात्कारहेतुः ।
तदुक्तम् -
᳚ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः ।
ये मन्दास्तेऽनुकम्प्यन्तेसविशेषनिरूपणैः ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ॥ ᳚ इति ।
सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकगतानां तत्रैव
श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः ।
कर्मिणान्तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये
सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्य्हावरान्तेषु
पुनरुत्पत्तिः । तथा च श्रुतिः - ᳚ रमणीयचरणा रमणीयां
योनिमापद्यन्ते , कपूयचरणाः कपूयां योनिमापद्यन्ते ᳚ इति ।
प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोचित -
तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु
चोत्पत्तिः , इत्यलं प्रसङ्गागतप्रपञ्चेन ।
निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् , ᳚ न
तस्य प्राणा उत्क्रामन्ति ᳚ इति श्रुतेः , किन्तु यावत्प्रारब्धकर्मक्षयं
सुखदुःखे अनुभूय पश्चादपवृज्यते ।
ननु ᳚ क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ᳚
इत्यादि श्रुत्या , ᳚ ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते
तथा ᳚ इत्यादि स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये
सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत् , न । ᳚ तस्य
तावदेव चिरं यावन्न विमोक्ष्ये , अथ सम्पत्स्ये ᳚ इत्यादि श्रुत्या ,
᳚ नाभुक्तं क्षीयते कर्म ᳚ इत्यादि स्मृत्या चोत्पादितकार्यकर्म -
व्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात् ।
सञ्चितं द्विविधम् - सुकृतं दुष्कृतं च । तथा च श्रुतिः -
᳚ तस्य पुत्रा दायमुपयन्ति , सुहृदः साधुकृत्याम् , द्विषन्तः
पापकृत्याम् ᳚ इति ।
ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि
निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यते इति चेत् , न ,
अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप-
प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् ।
नन्वेवमपि तत्त्वज्ञानादादेकस्य मुक्तौ सर्वमुक्तिः स्यात् ,
अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति
चेत् , न , इष्टापत्तेरित्येके । अपरे तु एतद्दोषपरिहारायैव
᳚ इन्द्रो मायाभिः ᳚ इति बहुवचनश्रुत्यनुगृहीतमविद्यायानानात्व -
मङ्गीकर्तव्यमित्याहुः । अन्ये तु एकैवाविद्या , तस्याश्चाविद्याया
जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना ; तथा च यस्य
ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः ,
न त्वन्यं प्रति , इत्युपगमात् नैकमुक्तौ सर्वमुक्तिः । अत एव
᳚ यावदधिकारमवस्थितिराधिकारिकाणाम् ᳚ इत्यस्मिन्नधिकरणे
अधिकारिपुरूषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणा -
नुपपत्तिमाशङ्क्य अधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं
विदेहकैवल्यमिति सिद्धान्तितम् । तदुक्तमाचार्यवाचस्पतिमिश्रैः -
᳚ उपसनादिसंसिद्धितोषितेश्वरचोदितम् ।
अधिकारं समाप्यैते प्रविशन्ति परं पदम् ॥ ᳚ इति ।
एतच्चैकमुक्तो सर्वमुक्तिरिति पक्षे नोपपद्यते । तस्मादेकाविद्यापक्षेऽपि
प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया ।
तदेवं ब्रह्मज्ञानान्मोक्षः । स चानर्थनिवृत्तिर्निरतिशय -
ब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् ।
इति वेदान्तपरिभाषायां प्रयोजनपरिच्छेदः ।
इति धर्मराज अध्वरीन्द्र विरचिता
वेदान्त परिभाषा समाप्ता ॥