प्राणाभरणं पण्डितराजश्रीजगन्नाथविरचितम्
अथ पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणम् ।
तत्कृतयैव टिप्पण्या समेतम् ।
विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये घास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन्वाचां विलासो मम ॥ १॥
विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् । तेन सहृदयैर्न मनागपि
विमनायितव्यम् । भावध्वनिश्चायम् । उत्तरार्धप्रतिपाद्यार्थालम्बनाया
एतत्पद्यप्रयोगानुभावायाः कविगतचिन्तायाः प्राधान्येनाभिव्यक्तेः ।
अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । कामालसत्वं
वामाविशेषमधरमाधुरीप्रकर्षकम् ॥
विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः
कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः ।
एवं भावनया मदीयकविते मौनं किमालम्बसे
जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २॥
कविगतराजविषयकरतिभावध्वनिश्चायम् । इत ऊर्ध्वमयमेव आ
चरमपद्यमनुवर्तयिष्यते । अस्य चात्र मौनानुभावितो वर्णनीयालम्बनो
निर्वेदो गुण इति प्रेयोलंकारास्पदम् । अत्र चाचेतनायां कवितायां
चेतनत्वाध्यवसायमूलासंबन्धे संबन्धात्मिकातिशयोक्तिर्विवक्षिता ।
तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपत्तिः ॥
पारीन्द्राणां घुरीणैरवनितलगुहागर्भतः सम्पतद्भिः
स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो
घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३॥
अत्र राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य
नयनप्रचलनानुभावितस्य गिरिगुहागर्भोत्पतनाभिव्यक्तेनामर्षेण
संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो
राजविषयकरतिभावाङ्गत्वाद्रसालंकारत्वम् । यदाहुः - 'प्रधानेऽन्यत्र
वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे
मतिः ॥' इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयौ ।
घृष्टाशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादग्रे न गतः ।
अन्यथा लोकालोकाचलमपि स्पृशेदिति गम्यते । एव मृष्टेति नोक्तम् ।
तथा सति शैथिल्यप्रत्ययापत्तेः ॥
किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्रु शोणनयनं दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ ४॥
अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां
गुहागृहाणामरण्यगतानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन
त्वदरिनारीणां स्वनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च
विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण
तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत
इत्यप्रस्तुतप्रशंसा । कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु
पर्यायोक्तमलंकारः ॥
माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता
रत्नानामहमेक एव भुवने को वापरो मादृशः ।
इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो
दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५॥
अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं
परिहर्तुं वर्ण्यमानसादृश्यात्मकः प्रतीपालंकारभेदः । स चोपमाविशेष
इत्येके । विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे ॥
तत्त्वो जन्म सितांशुशेखरतनुज्योत्स्नानिमग्नात्मनो
दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् ।
संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
कस्मान्नोज्ज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६॥
अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित
इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति
भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः
प्रतीयत इति सारविषयः ॥
आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाङ्क्षया
लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् ।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमद्भुतम् ॥ ७॥
अत्र प्रकृतिधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव वा
वृत्तान्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिबन्धनो
द्वयोश्चार्थनानात्वनिबन्धनः । द्वावप्येतौ शब्दालंकाराविति
प्राञ्चः । आद्यो जतुकाष्ठन्यायेन शब्दश्लेषणाच्छब्दालंकारः,
द्वितीयस्त्वेकवृन्तगतफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति
नव्याः ॥
देव त्वां परितः स्तवन्तु कवयो लोभेन किं तावता
स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम् ।
क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८॥
अत्र प्रतापगतः पृथिव्यादिसंबन्धो
लिङ्गविशेषावच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्तकामुकवृत्तान्ताभिन्नतया
स्थित इति समासोक्तिः कार्यरूपधर्मप्रयुक्तशुद्धसाधारण्येन
विशेषणसाम्यमालम्ब्य प्रवृत्ता । सा च निन्दोत्थापकत्वादद्व्याजस्तुतौ
गुणः ॥
लोकानां विपदं धुनोषि कुरुषे सम्पत्तिमत्युत्कटा-
मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् ।
यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डभाण्डोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ९॥
अत्रापि प्राग्वत् । परं
त्वाधाराधेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पनात्साधिकालंकारोऽपि
तस्यां गुणः ॥
क्षोणीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा
यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १०॥
इह त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥
आस्वादेन रसो रसेन कविता काव्येन वणी तया
लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना ।
दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
क्षोणीनाथ तथा भवांश्च भवता भूमण्डलं भासते ॥ ११॥
मालादीपकमेतदिति प्राञ्चः । दीपकस्य सादृश्यमूलकतानियमान्न
मालादीपकमपि त्वेकावलीभेद इति तु वयम् ॥
अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ १२॥
इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया
अयोगाद्वाचकमनुमितिपरम् ॥
उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरूहाः ॥ १३॥
अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा
संकीर्णशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥
दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः ।
क्रोधस्तेऽशनिमूरुदारधिषण स्वान्तं तु सोमास्पदं
राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥ १४॥
अत्रोत्प्रेक्ष्यमानसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु
तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह
विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां
श्लेषेणाभेदसम्पादनद्वारा तादृशधर्मसाधारणतासम्पत्तौ
तन्निमित्तकोत्प्रेक्षासिद्धिः ॥
सृष्टिः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं
त्वं चण्डातपनिर्दयं तपसि यज्ज्वालाजटालैः करैः ।
संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना
जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥ १५॥
अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते
साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं
रिपुकर्तृकं सूर्यमण्डलभेदनं कार्यं गम्यते ॥
आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं
गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्सम्प्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ १६॥
अत्रैकस्याधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र
प्रथमचरणगतमधिकरणमार्थविश्लेषावधिकपञ्चम्या
विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् ।
सत्यधामनीति श्लेषभित्तिकाभेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ
सुखवर्तनसिद्धिः ॥
विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-
दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७॥
अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य
तथात्वात् । कवाविव कविनिबद्धप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात् ॥
नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः ।
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥ १८॥
अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपकारकस्य यदैव तव
कोपोदयस्तदैव तव रिपूणां सम्पदो भस्मसाद्भविष्यन्तीति वस्तुन
उपकारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा ॥
मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्जनयतो विधेर्मानसे
पदं न विदधेतरां तव समो द्वितीयो नरः ॥ १९॥
अत्र त्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्ग्येति प्राञ्चः ।
सर्वथैव साम्यस्याप्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि
तत्त्वापत्तेः । 'ढुंढोल्लन्तो मरिससि कंटककलिआइं केऐवणाइम् ।
माल.इकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥' इत्यत्र तु न
प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः
सादृश्यप्रतिष्ठानाल्लुप्तोपमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः ॥
भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः संगरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो
न कस्य हृदयं झटित्यधिरुरोह जम्भाहितः ॥ २०॥
अत्र स्मरणालंकारः परंतु लक्ष्यः ॥
यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१॥
अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण
विपक्षभूपालादीनामेतस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाद्भ्रान्तिमता
तैरेवानेकैर्ग्रहीतृभिरनेकैर्धर्मैरुल्लेखनादुल्लेखविशेषेण च सह
संकीर्णोऽपि संबन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥
द्विनेत्र इव वासवो मितकरो विवस्वानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कामरूपेश्वरः ॥ २२॥
अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय
विषयिषु वासवादिष्वारोपेण साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा ।
सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा ।
द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादकं तेषां
साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः ।
असुन्दरत्वेनोपमानिष्पादकतया कवेरनभिप्रेतत्वाच्च । एवं द्वितीयादीनां
चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् ॥
दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी
काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका
राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३॥
अत्र विषयानेकत्वप्रयुक्तचित्तवृत्तेरनेकविधत्वमित्युल्लेखः । तत्र
च तदीयचित्तवृत्तित्वेनैकत्वाध्यवसानं तन्त्रम् ॥
देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-
देव जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः ।
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते-
र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४॥
अत्र शुद्धपरम्परितरूपकम् ॥
प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-
र्ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा
सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः ॥ २५॥
अत्रापि तदेव परंतु मालात्मकम् ॥
त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-
निर्वासनैकरसिकं समरे निरीक्ष्य ।
का वा रिपुक्षितिभृतां बत राजलक्ष्मीः
स्वामिव्रतत्वमपरिस्खलितं बभार ॥ २६॥
अत्र शत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितोऽर्थः
पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् । तच्च राज्यलक्ष्म्या
नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥
नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः ।
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ॥ २७॥
अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां
राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां
चासत्याभावशुक्लगुनपुण्यपरमेश्वराणामभेदसम्पादनद्वारा
विषयसाधारणीकृतः ॥
मन्थाचलभ्रमणवेघवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभि-
र्धाता ससर्ज तव देव दयादृगन्तान् ॥ २८॥
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव
कवेर्बुबोधयिषिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति
सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥
केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन ॥ २९॥
अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां
पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः ॥
महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः ।
भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३०॥
अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपात्तोभयनिमित्तकः ॥
स तु वर्षतु वारि वारिदस्त्वमुदाराशय रत्नवर्षणः ।
स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१॥
अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निषिध्यमानं साम्यं च न
शाब्दमिति विशेषः ॥
मकरप्रतिमैर्महाभटैः कविभी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम् ॥ ३३॥
अत्र राज्ञो जलध्युपमायाः
शब्देनाभिधानेऽप्यङ्गोपमाभिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध
उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्
॥
पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भ्रुकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४॥
अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः ।
कार्यकारणपौर्वापर्यविपर्ययरूपा चेयमतिशयोक्तिः ॥
भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलास्पदम् ॥ ३५॥
अत्रोपमानलुप्तोपमेति प्राञ्चः । असमाख्यमलंकारान्तरमिति तु वयम् ॥
पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥ ३६॥
अत्र संबन्धेऽप्यसंबन्ध इत्यतिशयोक्तिभेदः ।
उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रिक्तत्वाभ्यामल्पयापि सह भूयानपि
मधुरिमा साम्यं कर्तुं यत्रानीशस्तत्र किं वाच्यं भूयस्येति वैलक्षण्यात्मा
व्यतिरेकश्च ॥
भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥ ३७॥
अत्र व्यजमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥
भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कृधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ३८॥
'केशैर्वधूनाम्' इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ॥
त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९॥
अत्र वर्षवदाचरन्तीत्याचारक्विबन्तेन श्लेषाच्छ्लेषमूलिका तुल्ययोगिता ।
रिपुकामिनीवर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ॥
अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥ ४०॥
अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य
राजनि भेषजतादात्म्यारोपस्याप्युपपादकतया स्थितं राजसंबन्धिनि
द्विषदपकरणरूपे धर्मे श्लेषनिवेदितसर्पतापकरणतादात्म्यमिति
प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव ।
कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम् ।
यस्मान्निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान् ॥ ४१॥
अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकसंसर्गानुरूपः समालंकारविशेषः ।
श्लेषश्चास्मिन्गुणः ॥
दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२॥
अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्, अथ त्वं संगर
इत्यत्र च त्वमित्यस्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः
पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धात्तुल्ययोगिता ।
उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य
तद्विरुद्धगुणकल्पनात्मकेनालंकारान्तरेण शबलिता ॥
अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ४३॥
इह श्लेषमूलो व्यतिरेकः ॥
दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥ ४४॥
अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ॥
शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्त्रयोः ॥ ४५॥
इहापि तुल्ययोगिता मित्त्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥
भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः ।
प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम् ॥ ४६॥
इह तु संशय उल्लेखालिङ्गितः ॥
कमलावासकासारः क्षमाधृतिफणीश्वरः ।
भवान्कुवलयस्येन्दुरानन्दयति मानवान् ॥ ४७॥
इह श्लिष्टपरम्परितं रूपकं मालारूपम् ॥
गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले ।
पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ ४८॥
इह मालोपमालिङ्गित उल्लेखः ॥
मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९॥
इह शुद्धपरम्परिता मालारूपोपमा । आचारक्विबन्ताच्छतरि रूपाणि ।
तिङि चैकम् [इन्दवसि] ॥
मध्ये सुधासम्दुरस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५०॥
अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि
परां काष्ठामधिरूढे त्वदीयोक्तिपदसंबन्धो युक्तो न तु विशकलित
इत्यतिशायकासद्विशेषणनिबन्धनः प्रौढोक्तिः ॥
अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-
न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः ।
उभयवदयं देव त्वत्तः कथं परमोल्बणः
प्रलयदहनज्वालाजालाकुलो महसां गणः ॥ ५१॥
अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पत्तेर्विषमालंकारः ।
अमृतलहर्यादीनां त्रयाणामधरीकरणात्मना व्यतिरेकेण
संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते ।
एवमेषु पद्येषु संभवन्तोऽप्यन्येऽलंकाराः स्फुटत्वान्न विवेचिताः ।
सहृदयानां प्रीत्यावश्यकं किंचिद्व्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं
पल्लवितेन ॥
तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः
श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटंतपः ।
संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं
श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ॥ ५२॥
दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डाचण्डाशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ ५३॥
अत्र स्मरणालंकारः । भाव इति तु न भ्रामितव्यम् ।
सादृश्यमूलकत्वातन्मूलकत्वाभ्यां भावत्वालंकारत्वयोरिह व्यवस्थितेः
शब्दवेद्यत्वाच्च ॥
इति पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या
समेतं समाप्तम् ।
The text is written by Jagannatha Pandita
in honour of king Prananarayana of Kamarupa.
https://bsvprasad.wordpress.com/2013/09/23/jagannatha-pandita-raya/
Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com