प्रस्थानभेदः
॥ ॐ तत्सद्ब्रह्मणे नमः ॥
॥ अथ मधुसूदनसरस्वतीकृतौ प्रस्थानभेदः ॥
अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति
समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथा हि-ऋग्वेदो
यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः । शिक्षा
कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदाङ्गानि षट् ।
पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गानि ।
अत्रोपपुराणानामपि पुराणेऽन्तर्भावः । वैशेषिकशास्त्रस्य
न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः
सांख्यपातञ्जलपाशुपतवैष्णवादीनां धर्मशास्त्रे, मिलित्वा
चतुर्दश विद्याः । तथाचोक्तं याज्ञवल्क्येन (१।३)
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।
एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति ।
आयुर्वेदो धनुर्वेदो गन्धर्ववेदोऽर्थशास्त्रं चेति चत्वार
उपवेदाः । सर्वेषां चाऽऽस्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि ।
अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् ।
ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति
तान्येतेष्वनन्तर्भावात्पृथग्गणयितुमुचितानि ।
तथा हि-शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् ।
क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् ।
ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादेनापरं सौत्रान्तिकानाम् ।
प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं
वैभाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् ।
तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं
देहातिरिक्तदेहपरिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् ।
एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते ।
सत्यम् । वेदबाह्यत्वात्तेषां म्लेच्छादिप्रस्थानवत्परम्परयाऽपि
पुरुषार्थानुपयोगित्वादुपेक्षणीयमेव । इह च साक्षाद्वा परम्परया वा
पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितः । ततो
न न्यूनत्वशङ्कावकाशः । अथ संक्षेपेणैपां (संक्षेपेणैयां?)
प्रस्थानानां स्वरूपभेदहेतुप्रयोजनभेद उच्यते बालानां व्युत्पत्तये ।
तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं
वेदः स च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा
अनुष्ठानकारकभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधाः ।
ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छन्दोविशिष्टा
ऋचः ``अग्निमीळे पुरोहितम्” इत्याद्याः । ता एव गीतिविशिष्टाः सामानि ।
तदुभयविलक्षणानि यजूंषि । अग्नीदग्नीन्विहरेत्यादिसंबोधनरूपा
निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ।
ब्राह्मणमपि त्रिविधम्, विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं
च । तत्र शब्दभावनाविधिरिति भट्टाः । नियोगो विधिरिति
प्राभाकाराः । इष्टसाधनताविधिरिति तार्किकादयः सर्वे ।
विधिरपि चतुर्विधः । उत्पत्त्यधिकारविनियोगप्रयोगभेदात् । तत्र
कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिराग्नेयोऽष्टाकपालो भवतीत्यादिः ।
सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको
विधिरधिकारविधिर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिः ।
अङ्गसम्बन्धबोधको विधिर्विनियोगविधिर्व्रीहिभिर्यजेत
समिधो यजतीत्यादिः । साङ्गप्रधानकर्मप्रयोगैक्यबोधकः
पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके
कल्प्य इत्यपरे । कर्मस्वरूपं च द्विविधम्-गुणकर्मार्थकर्म
च, तत्र क्रतुकर्मकारकाण्याश्रित्य विहितं गुणकर्म । तदपि
चतुर्विधम् । उत्पत्त्याप्यविकृतिसंस्कृतिभेदात् । तत्र वसन्ते
ब्राह्मणोऽग्नीनादधीत यूपं तक्षतीत्यादावाधानतक्षणादिना
संस्कारविशेषविशिष्टाऽग्नियूपादेरुत्पत्तिः । स्वाध्यायोऽध्येतव्यो
गां पयो दोग्धीत्यादावध्ययनदोहनादिना विद्यमानस्यैव
स्वाध्यायपयः प्रभृतेः प्राप्तिः । सोममभिषुणोति
व्रीहीनवहन्त्याज्यं विलापयतीत्यादावभिपवावघातविलापनैः
सोमादीनां विकारः । व्रीहीन्प्रोक्षति पत्न्यवेक्षत इत्यादौ
प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कारः । एतच्चतुष्टयं
चाङ्गमेव । तथा क्रतुकारकाण्याश्रित्य विहितमर्थकर्म च
द्विविधम्-अङ्गं प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थं
प्रधानम् । अङ्गमपि द्विविधम्-संनिपत्योपकारकमारादुपकारकं च ।
तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फलोपकारि द्वितीयम् । एवं
सम्पूर्णाङ्गसहितो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिर्विकृतिः ।
तदुभयविलक्षणो विधिर्दर्विहोमः । एवमन्यदप्यूह्यम् । तदेवं
निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिविशेषभूत
वाक्यमर्थवादः । स च त्रिविधः-गुणवादोऽनुवादो भूतार्थवादश्चेति ।
तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवाद आदित्यो यूप इत्यादिः ।
प्रमाणान्तरप्राप्त्यर्थबोधकोऽनुवादोऽग्निर्हिमस्य भेषजमित्यादिः ।
प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थवाद इन्द्रो
वृत्राय वज्रमुद्यच्छदित्यादिः । तदुक्तं--
विरोधे गुणवादः स्यादनुवादोऽवधारिते,
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ।
तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे
समानेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं
देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् ।
तच्चाबाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः ।
भूतार्थस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिकं
प्रामाण्यं विहन्यते । तदेवं निरूपितोऽर्थवादभागः ।
विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् ।
तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न
विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि
स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया
स्वतः प्रमाणभूतं सर्वानपि विधीनन्तःकरणशुद्धिद्वारा
स्वविशेषतामापादयदन्यशेषत्वाभावाच्च । तस्मादुभयविलक्षणमेव
वेदान्तवाक्यम् । तच्च क्वचिदज्ञातज्ञापकत्वमात्रेण विधिरिति
व्यपदिष्यते विधिपदरहितप्रमाणवाक्यत्वेन क्वचिद्भूतार्थवाद इति
व्यवह्रियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् ।
एवं च कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः ।
सः च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन
भिन्नः । तत्र होत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो
यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मयाजमानप्रयोगौ
त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः
शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं
प्रवचनभेदात्प्रतिवेदं भिन्ना भूयस्यः शाखाः । एवं च कर्मकाण्डे
व्यापारभेदेऽपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे ।
इति चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः । अथाङ्गानामुच्यते ।
तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्ट-
स्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् ।
तदभावे मन्त्राणामनर्थकत्वात् । तथाचोक्तम् (शि- ५२)
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ इति ।
तत्र सर्व वेदसाधारणी शिक्षा । अथ शिक्षां
प्रवक्ष्यामीत्यादिपङ्चखण्डात्मिका पाणिनिना प्रकाशिता । प्रतिवेदशाखं
च भिन्नरूपा प्रातिशाख्यसंज्ञिताऽन्यैरेव मुनिभिः प्रदर्शिता ।
एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च
वृद्धिरादैजित्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता
पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु
वार्तिकं विरचितम् । तद्वार्तिकस्योपरि च भगवता मुनिना
पतञ्जलिना महाभाष्यमारचितम् । तदेतत्त्रिमुनि व्याकरणं वेदाङ्गं
माहेश्वरमित्याख्यायते कौमारादिव्याकरणानि तु न वेदाङ्गानि किंतु
लौकिकप्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम् ।
एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वे ज्ञाते
वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्षायां तदर्थ भगवता यास्केन
समाम्नायः समाम्नातः स व्याख्यातव्य इत्यादित्रयोदशाध्यायकं
निरुक्तमाराचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं
पदजातं निरूप्य वैदिकमन्त्रपदानामर्थः प्रकाशितः । मन्त्राणां
चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्पदार्थज्ञानाधीनत्वाच्च
वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञानाय
निरुक्तमवश्यमपेक्षितमन्यथाऽनुष्ठानासंभवात् ।
सृण्येव जर्भरी तुर्फरी तू इत्यादि दुरूहाणां (निरु.१३-५)
प्रकारान्तरेणार्थज्ञानस्यासंभवनीयत्वाच्च । एवं निघण्टवोऽपि
वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता
एव । तत्रापि निघण्टुसंज्ञकः पञ्चाध्यायात्मको ग्रन्थो भगवता
यास्केनैव कृतः ।
एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च
निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च ।
छन्दोज्ञानाकाङ्क्षायां तत्प्रकाशनाय धीः श्रीः
स्त्रीमित्याद्यष्टाध्यायात्मिका छन्दोविवृतिर्भगवता पिङ्गलेन विरचिता ।
तत्राप्यलौकिकमित्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहती
पङ्क्तिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि ।
अथ लौकिकमित्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि
लौकिकानि च्छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे
लौकिकपदनिरूपणवत् ।
एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवताऽऽदित्येन
गर्गादिभिश्च प्रणीतं बहुविधमेव ।
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय
कल्पसूत्राणि तानि च प्रयोगत्रयभेदात्त्रिविधानि । तत्र
हौत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्खायनादिप्रणीतानि ।
आध्वर्यवप्रयोगप्रतिपादकानि बौधायनापस्तम्बकात्यायनादिप्रणीतानि ।
औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राह्व्यायणादिप्रणीतानि ।
एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः ।
चतुर्णामुपाङ्गानामधुनोच्यते । तत्र
सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि
भगवता बादरायणेन कृतानि पुराणानि तानि च ब्राह्मं पाद्मं वैष्णवं
शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं ब्रह्मवैवर्तं
लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं
चेत्यष्टादश ।
आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ।
द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥
चतुर्थं शिवधर्याख्यं दौर्वासं पञ्चमं विदुः ।
षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः ॥
अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् ।
ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ॥
ततः कालीपुराणाख्यं वाशिष्ठं मुनिपुङ्गवाः ।
ततो वाशिष्ठं लैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ॥
ततः साम्बपुराणाख्यं ततः सौरं महाद्भुतम् ।
पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥
भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् ।
एवमुपपुराणान्येकप्रकाराणि द्रष्टव्यानि ।
न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता ।
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद-
जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां
षोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः
प्रयोजनम् । एवं दशाध्यायं वैशेषिकं शास्त्रं कणादेन
प्रणीतम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां
पदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य
प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ।
एवं मीमांसाऽपि द्विविधा, कर्ममीमांसा शारीरकमीमांसा च ।
तत्र द्वादशाध्यायी कर्ममीमांसा ᳚अथातो धर्मजिज्ञासा᳚
इत्याद्यन्वाहार्ये च (१६) दर्शनादित्यन्ता भगवता
जैमिनिना प्रणीता । तत्र धर्मप्रमाणम् । धर्मभेदाभेदौ ।
शेषशेषिभावः । क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ।
श्रुत्यर्थपठनादिभिः क्रमभेदः । अधिकारविशेषः
सामान्यातिदेशः । विशेषातिदेशः । ऊहः । बाधः । तन्त्रम् ।
प्रसङ्गश्चेति क्रमेण द्वादशाध्यायानामर्थः ।
तथा संकर्षणकाण्डमप्यध्यायचतुष्टयात्मकं
जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया
प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।
तथा चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा'
इत्यादिरनावृत्तिः शब्दादित्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुः
श्रवणाख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बादरायणेन
कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्पराया वा
प्रत्यगभिन्नाऽद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन
प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्तानि
वाक्यानि विचारितानि । द्वितीये त्वस्पष्टलिङ्गान्युपास्यब्रह्मविषयाणि ।
तृतीये पादेऽस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि ।
एवं पादत्रयेणं वाक्यविचारः समापितः । चतुर्थपादे तु
प्रधानविषयत्वेन संदिह्यमानान्यव्यक्ताजादिपदानि चिन्तितानि ।
एवं वेदान्तानामद्वये ब्रह्मणि सिद्धे समन्वये तत्र
संभावितस्मृतितर्कादिप्रयुक्तैस्तर्कैर्विरोधमाशङ्क्य
तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः ।
तत्राऽऽद्यपादे साङ्ख्ययोगकाणादादिस्मृतिभिः
सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसमन्वयस्य
परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपादितम् ।
स्वपक्षस्थापनपरपक्षनिवारणरूपपर्वद्वयात्मकत्वाद्विचारस्य ।
तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्पर विरोधः
पूर्वभागेण परिहृतः । उत्तरभागेण तु जीवविषयाणाम् ।
चतुर्थपादे, इन्द्रियविषयश्रुतीनां विरोधः परिहृतः ।
तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे
पादे जीवस्य परलोकगमनागमननिरूपणेण वैराग्यं
निरूपितम् । द्वितीये पादे पूर्वभागेण त्वंपदार्थः शोधितः ।
उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि
नानाशाखापठितपुनरुक्तपदोपसंहारः कृतः । प्रसङ्गाच्च
सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहारानुपसंहारौ
निरूपितौ । चतुर्थे पादे निर्गुणब्रह्मविद्याया
बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि
शमदमनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये
सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र
प्रथमे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य
जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीये
पादे म्रियमाणस्योत्क्रान्तिप्रकारश्चिन्तितः । तृतीये पादे
सगुणब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे
पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता । उत्तरभागेण
सगुणब्रह्मविदो ब्रह्मलोकस्थितिरुक्तेति । इदमेव सर्वशास्त्राणां
मूर्धन्यम् । शास्त्रान्तरं सर्वमस्यैव शेषभूतमितीदमेव
मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारेणेति रहस्यम् ।
एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठ-
दक्षसंवर्तशातातपपराशरगौतमशङ्खलिखित-
हारीतापस्तम्बोशनोव्यासकात्यायनबृहस्पति-
देवलनारदपैठीनसिप्रभृतिभिः
कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं
व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्रं
एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । सांख्यादीनां
धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव
संगतिर्वाच्या ।
अथ वेद चतुष्टयस्य क्रमेण चत्वार उपवेदाः ।
तत्राऽऽयुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं
शारीरमैन्द्रियं चिकित्सा निदानं विमानं विकल्पः सिद्धिश्चेति ।
ब्रह्मप्रजापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण
संक्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्तानान्तरं
कृतम् । एवं वाग्भटादिनाऽपि बहुधेति न शास्त्रभेदः ।
कामशास्त्रमप्यायुर्वेदान्तर्गतमेव । तत्रैव सुश्रुतेन
वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्यायनेन पञ्चाध्यायात्मकं
कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम् ।
शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसानात् ।
चिकित्साशास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं
प्रयोजनम् ।
एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र
प्रथमो दीक्षापादः । द्वितीयाः संग्रहपादः । तृतीयः
सिद्धिपादः । चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे
धनुर्लक्षणमधिकारिनिरूपणं च कृतम् । अत्र धनुःशब्दश्चापे
रूढोऽपि धनुर्विधायुधे प्रवर्तते । तच्चतुर्विधम्-मुक्तममुक्तं
मुक्तामुक्तं यन्त्रमुक्तम् । मुक्तं चक्रादि । अमुक्तं खड्गादि ।
मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र
मुक्तमस्त्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि
ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवम्
साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः
क्षत्रियकुमाराणां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथ
गजतुरुगारूढाः । दीक्षाभिषेकशकुनमङ्गलकरणादिकं च
सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य
च लक्षणपूर्वकं संग्रहणप्रकारो दर्शितो द्वितीयपादे
गुरुसम्प्रदायसिद्धानां शस्त्रविशेषाणां पुनः पुनरभ्यासो
मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं
देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे
निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टस्य
दण्डश्चोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च
ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ।
एवं गान्धर्ववेदशास्त्रं भगवता भरतेन
प्रणीतम् । गीतवाद्यनृत्यभेदेन बहुविधोऽर्थः ।
देवताराधननिर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य
प्रयोजनम् ।
एवमर्थशास्त्रं च बहुविधम् । नीतिशास्त्रमश्वशास्त्रं
शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति
नानामुनिभिः प्रणीतं तत्सर्वमस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो
द्रष्टव्यः ।
एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः । अन्यथा न्यूनताप्रसङ्गात् ।
तथा सांख्यशास्त्रं भगवता कपिलेन प्रणीतम् । अथ
त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ इत्यादि षडध्यायम् ।
तत्र प्रथमेऽध्याये विषया निरूपिताः । द्वितीयेऽध्याये
प्रधानकार्याणि । तृतीयेऽध्याये विषयेभ्यो वैराग्यम् ।
चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्यायिकाः ।
पञ्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सर्वार्थसंक्षेपः ।
प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् ।
तथा योग शास्त्रं भगवता पतञ्जलिना प्रणीतम् । अथ
योगानुशासनमित्यादि पादचतुष्टयात्मकम् । तत्र प्रथमपादे
चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं
च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्त
चित्तस्यापि समाधिसिद्ध्यर्थं चित्तवृत्तिनिरोधात्मकः
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि
निरूपितानि । तृतीये पादे योगिविभूतयः । चतुर्थे पादे कैवल्यमिति ।
तस्य च विजातीयप्रत्ययनिरोधद्वारेण निदिध्यासनसिद्धिः
प्रयोजनम् ।
तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना
पशुपाशविमोक्षणाय - अथातः पाशुपतं योगविधिं व्याख्यास्याम
इत्यादि पञ्चाध्यायं विरचितम्।तत्राध्यायपञ्चकेनापि कार्यरूपो
जीवः पशुः कारणं पतिरीश्वरः । योगः पशुपतौ चित्तसमाधानम् ।
विधिर्भस्मना त्रिषवणस्नानादिर्निरूपितः दुःखान्तसंज्ञो मोक्षश्च
प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ।
एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र
वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः ।
भगवान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते
संकर्षणाख्यो जीवः । तस्मान्मनः प्रद्युम्नस्तस्मादनिरुद्धोऽहंकारः ।
सर्वे चैते भगवतो वासुदेवस्यैवांशभूताः । तदभिन्ना
एवेति भगवतो वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा
कृतकृत्यो भवतीत्यादि च निरूपितम् ।
तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध
एव प्रस्थानभेदः । तत्राऽऽरम्भवादः एकः । परिणामवादो द्वितीयः ।
विवर्तवादस्तृतीयः । पार्थिवाप्यतैजसवायवीयाश्चतुर्विधाः
परमाणवो द्व्यणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते ।
असदेव कार्यं कारकव्यापारादुत्पद्यत इति प्रथमस्तार्किकाणां,
मीमांसकानां च सत्त्वरजस्तमोगुणात्मकं प्रधानमेव
महदहंकारादिक्रमेण जगदाकारेण परिणमते । पूर्वमपि
सूक्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति
द्वितीयः पक्षः सांख्ययोगपातञ्जलपाशुपतानाम् । ब्रह्मणः
परिणामो जगदिति वैष्णवानाम् । स्वप्रकाशपरमानन्दाद्वितीयं
ब्रह्म स्वमायावशन्मिथ्यैव जगदाकारेण कल्पत इति तृतीयः
पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानकर्तॄणां मुनीनां
विवर्तवादपर्यवसानेनाद्वितीये परमेश्वर एव प्रतिपाद्ये
तात्पर्यम् । न हि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषां ।
किं तु बहिर्विषयप्रवणानापाततः पुरुषार्थे प्रवेषो न
संभवतीति नास्तिक्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः ।
तत्र तेषां तात्पर्यमबुद्ध्वा वेदविरुद्धेऽप्यर्थे
तात्पर्यमुत्प्रेक्ष्यमाणास्तन्मतमेवोपादेयत्वेन गृह्णन्तो जना
नानापथजुषो भवन्तीति सर्वमनवद्यम् ॥
इति श्रीमधुसूदनसरस्वतीविरचितः प्रस्थानभेदः समाप्तः ॥
Encoded by Br. Pranipata Chaitanya pranipatachaitanya@yahoo.co.in
Proofread by Sunder Hattangadi