॥ रघुवंशं सर्ग १३ कालिदासकृतम् ॥

अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥ १३-१॥ वैदेहि पश्यऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ १३-२॥ गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थमुर्वीमवधारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ १३-३॥ गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ १३-४॥ तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप दिशो महिम्ना । विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्ताया वा ॥ १३-५॥ नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ १३-६॥ पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ १३-७॥ रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥ १३-८॥ मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धुः ॥ १३-९॥ ससत्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी तिरोभिस्तिमयः सरन्ध्रैरूध्वं वितन्वन्ति जलप्रवाहान् ॥ १३-१०॥ मातंगनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ १३-११॥ वेलानिलाय प्रसृता भुजंगा वहोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कविवृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ १३-१२॥ तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ १३-१३॥ प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन । आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ १३-१४॥ दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥ १३-१५॥ वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि । मामक्षमं मण्डलकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १३-१६॥ एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १३-१७॥ कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् । एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ १३-१८॥ क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च । यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ १३-१९॥ असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ १३-२०॥ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ १३-२१॥ अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ १३-२२॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृष्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ १३-२३॥ त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ १३-२४॥ मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्षराजीनि विलोचनानि ॥ १३-२५॥ एतद्गिरेर्माल्यवतः पुरस्तादाविर्भत्यम्बरलेखि शृङ्गम् । नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ १३-२६॥ गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च । स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥ १३-२७॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् । गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि ॥ १३-२८॥ आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ १३-२९॥ उपान्तवानीरवनोपगूढान्यालक्षपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ १३-३०॥ अत्रावियुक्तानि रथङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्मितमीक्षितानि ॥ १३-३१॥ इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥ १३-३२॥ अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ १३-३३॥ एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ १३-३४॥ अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ १३-३५॥ भ्रूभेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भःपरिशुद्धिहेतोर्भौमो मुनेः स्थानपरिग्रहोऽयम् ॥ १३-३६॥ त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ १३-३७॥ एतन्मुमुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ १३-३८॥ पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ १३-३९॥ तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ १३-४०॥ हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ १३-४१॥ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ १३-४२॥ एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ १३-४३॥ वाचंयमत्वात्प्रणतिं ममैष कम्पेन किञ्चित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥ १३-४४॥ अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः । चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ १३-४५॥ छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु । तस्यातिथीनामधुनासपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ १३-४६॥ धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाङ्गलग्नाम्बुजवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ १३-४७॥ एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ १३-४८॥ अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ १३-४९॥ अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् । वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ १३-५०॥ अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ १३-५१॥ वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ १३-५२॥ त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥ १३-५३॥ क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ १३-५४॥ क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः । अन्यत्र कालागुरुदतापत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ १३-५५॥ क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा ॥ १३-५६॥ क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य । पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ १३-५७॥ समुद्रपत्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ १३-५८॥ पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति ॥ १३-५९॥ पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ १३-६०॥ जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् । तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ १३-६१॥ यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् । सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ १३-६२॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता । दूरे वसन्तं शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ १३-६३॥ विरक्तसंध्याकपिशं परस्ताद्यतो रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ १३-६४॥ अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः । हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ १३-६५॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः । वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽप्युपैति ॥ १३-६६॥ पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता । इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ १३-६७॥ एतावदुक्तवति दाशरथौ तदीया- मिच्छां विमानमधिदेवतया विदित्वा । ज्योतिष्पथादवतार सविस्मयाभि- रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ १३-६८॥ तस्मात्पुरःसरबिभीषणदर्शनेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ १३-६९॥ इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतमर्घ्यपरिग्रहान्ते । पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ १३-७०॥ श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् । अन्वग्रहीत्प्रणवतः शुभदृष्टिपातै- र्वातानुयोगमधुराक्षरया च वाचा ॥ १३-७१॥ दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरःप्रहर्ता । इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ १३-७२॥ सौमित्रिणा तदनु संससृजे स चैन- मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग । रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यमुरस्थलेन ॥ १३-७३॥ रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरेमे ॥ १३-७४॥ सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः । मायाविकल्परचितैरपि ये तदीयै- र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ १३-७५॥ भूयस्ततो रघुपतिर्विलसत्पताक- मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य- स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥ १३-७६॥ तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचमभ्रघनादिवेन्दोः। रामेण मैथिलसुतां दशकण्ठकृच्छ्रा- त्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ १३-७७॥ लङ्केश्वरप्रणतिभङ्गदृढव्रतं त- द्वन्द्यं युगं चरणयोर्जनकात्मजायाः । जेष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो- रन्योन्यपावनमभूदुभयं समेत्य ॥ १३-७८॥ क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यमार्यः साकेतोपवनमुदारमध्युवास ॥ १३-७९॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ॥
Encoded and Proofread by Arvind Kolhatkar akolhatkar at rogers.com

% Text title            : raghuvansha sarga 13
% File name             : raghuvansha13.itx
% itxtitle              : raghuva.nsham sargaH 13 (kAlidAsakRitam)
% engtitle              : Raghuvansha 13 by Kalidas
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : September 09, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP