॥ रघुवंशं सर्ग १७ कालिदासकृतम् ॥

अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना॥ १७-१॥ स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः । अपुनात्सेवितेवोभौ मार्गावुत्तरदक्षिणौ॥ १७-२॥ तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता॥ १७-३॥ जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यैतकमात्मानमनेकं वशिना वशी॥ १७-४॥ स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन चावधि॥ १७-५॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी॥ १७-६॥ तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥ १७-७॥ तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः॥ १७-८॥ ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्॥ १७-९॥ तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम्॥ १७-१०॥ नदद्भिः स्निग्धगंभीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥ १७-११॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥ १७-१२॥ पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः॥ १७-१३॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥ १७-१४॥ स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः॥ १७-१५॥ तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः । ववृधे वैद्युतश्चाग्नेर्वृष्टिसेकादिव द्युतिः॥ १७-१६॥ स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥ १७-१७॥ ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् । सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥ १७-१८॥ बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् । धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम्॥ १७-१९॥ क्रीडापतत्रिणोप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥ १७-२०॥ ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि । सूत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥ १७-२१॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ १७-२२॥ तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥ १७-२३॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम्॥ १७-२४॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥ १७-२५॥ नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मरौ कल्पतरोरिव॥ १७-२६॥ स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः । ययावुदीरितालोकः सुधर्मानवमां सभाम्॥ १७-२७॥ वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्धृष्टं पादपीठं महीक्षिताम्॥ १७-२८॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम्॥ १७-२९॥ बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः॥ १७-३०॥ प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥ १७-३१॥ स पुरं पुरहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश्चकार द्यां नागेनैरावतौजसा॥ १७-३२॥ तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्॥ १७-३३॥ धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः । सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः॥ १७-३४॥ तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः । शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम्॥ १७-३५॥ अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः । अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥ १७-३६॥ यावन्नाश्यायते वेदिरभिषेकजलाप्लुता । तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ १७-३७॥ वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः । किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ १७-३८॥ स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥ १७-३९॥ ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ १७-४०॥ प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः । तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥ १७-४१॥ यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् । सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥ १७-४२॥ वयोरूपविभूतीनामेकैकं मदकारणम् । तानि तस्मिन्समस्तानि न तस्योत्सिचिषे मनः॥ १७-४३॥ इत्थं जनितरागासु प्रकृतिष्वनुवासरम् । अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥ १७-४४॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः । अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून्॥ १७-४५॥ प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । निकषे हेमरेखेव श्रीरासीदनपायिनी॥ १७-४६॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥ १७-४७॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥ १७-४८॥ रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥ १७-४९॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥ १७-५०॥ परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ १७-५१॥ दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ १७-५२॥ भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः । गर्भशलिसधर्माणस्तस्य गूढं विपेचिरे॥ १७-५३॥ अपथेन प्रववृते न जातूपचितोऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥ १७-५४॥ कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥ १७-५५॥ शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः । समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ १७-५६॥ न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं व सोऽर्थेन सदृशस्त्रिषु॥ १७-५७॥ हीनान्यनृपकर्तॄणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ १७-५८॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥ १७-५९॥ कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥ १७-६०॥ परकर्मापहः सोऽभूदुद्युतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥ १७-६१॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥ १७-६२॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात्तदयस्कान्त इवायसम्॥ १७-६३॥ वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥ १७-६४॥ तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः । यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक्॥ १७-६५॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् । दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥ १७-६६॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥ १७-६७॥ इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् । आ तीर्थादप्रतीघातं स तस्याः फलमानशे॥ १७-६८॥ कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि । भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥ १७-६९॥ प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः । रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः॥ १७-७०॥ प्रवृद्धौ ह्रीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी॥ १७-७१॥ सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः॥ १७-७२॥ स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः॥ १७-७३॥ दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः । प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः॥ १७-७४॥ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम्॥ १७-७५॥ पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् । जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत्॥ १७-७६॥ एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः॥ १७-७७॥ पञ्चमं लोकपालानां तमूचुः साम्ययोगतः । भूतानां महतां षष्ठमष्टमं कुलभूभृताम्॥ १७-७८॥ दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिव॥ १७-७९॥ ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च॥ १७-८०॥ इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू- द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर- स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ १७-८१॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावतिथिवर्णनं नाम सप्तदशः सर्गः ॥ Encoded and proofread by Arvind Kolhatkar akolhatkar at rogers.com

% Text title            : raghuvansha17
% File name             : raghuvansha17.itx
% itxtitle              : raghuva.nsham sargaH 17 (kAlidAsakRitam)
% engtitle              : Raghuvansha 17 by Kalidas
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : November 11, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP