॥ रघुवंशं सर्ग ४ कालिदासकृतम् ॥

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ ४-१॥ दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ ४-२॥ पुरुहूतध्वजस्येव तस्यून्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ४-३॥ सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४-४॥ छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ४-५॥ परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ४-६॥ मनुप्रभुतिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा ॥ ४-७॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ४-८॥ मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ४-९॥ नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् । पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ ४-१०॥ पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ४-११॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ ४-१२॥ कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ ४-१३॥ लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ ४-१४॥ निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः । प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥ ४-१५॥ वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ ४-१६॥ पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ ४-१७॥ प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ ४-१८॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ ४-१९॥ इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः ॥ ४-२०॥ प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः॥ ४-२१॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्॥ ४-२२॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ ४-२३॥ सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत्॥ ४-२४॥ तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ॥ ४-२५॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया॥ ४-२६॥ अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम्॥ ४-२७॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः॥ ४-२८॥ रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥ ४-२९॥ प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ४-३०॥ मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ४-३१॥ स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः॥ ४-३२॥ त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः॥ ४-३३॥ पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी । प्राप तालीवनश्याममुपकण्ठं महोदधेः॥ ४-३४॥ अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम्॥ ४-३५॥ वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् । निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः॥ ४-३६॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥ ४-३७॥ स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ॥ ४-३८॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः॥ ४-३९॥ प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४-४०॥ द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४-४१॥ ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥ ४-४२॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ ४-४३॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥ ४-४४॥ स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४-४५॥ बलैरध्युषितास्तस्य विजिगीषोर्गतध्वनः । मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥ ४-४६॥ ससञ्जुरश्वक्षुण्णानमेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ ४-४७॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ ४-४८॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४-४९॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस्तस्मै यशः स्वमिव संचितम् ॥ ४-५०॥ स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ४-५१॥ असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ४-५२॥ तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥ ४-५३॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥ ४-५४॥ मुरलामारुतोद्धूतमगमत्कैतकं रजः । तद्योधवारबाणानामयत्नपटवासताम् ॥ ४-५५॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्मभिः पवनोद्धूतराजतालीवनध्वनिः ॥ ४-५६॥ खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ ४-५७॥ अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ ४-५८॥ मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ४-५९॥ पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ४-६०॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥ ४-६१॥ सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ४-६२॥ भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ४-६३॥ अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ४-६४॥ विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ ४-६५॥ ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ ४-६६॥ विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धाꣳल्लग्नकुङ्कुमकेसरान् ॥ ४-६७॥ तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ४-६८॥ काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ ४-६९॥ तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥ ४-७०॥ ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः । वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥ ४-७१॥ शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ ४-७२॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ ४-७३॥ विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ ४-७४॥ सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ ४-७५॥ तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ ४-७६॥ तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ४-७७॥ शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् । जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥ ४-७८॥ परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ४-७९॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः । पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ४-८०॥ चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः । तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥ ४-८१॥ न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् । रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ४-८२॥ तमीशः कामरूपाणामत्याखण्डलविक्रमम् । भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ ४-८३॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण छायमानर्च पादयोः ॥ ४-८४॥ इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् । रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥ ४-८५॥ स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ४-८६॥ सत्रान्ते सचिवसखः पुरस्क्रियाभि- र्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ४-८७॥ ते रेखाकुलिशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु- र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ ४-८८॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रघुदिग्विजयो नाम चतुर्थः सर्गः ॥
Encoded and proofread by Arvind Kolhatkar akolhatkar at rogers.com

% Text title            : raghuvansha 4
% File name             : raghuvansha4.itx
% itxtitle              : raghuva.nsham sargaH 04 (kAlidAsakRitam)
% engtitle              : Raghuvansha by Kalidas Chapter 4
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : svara
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : May 11, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP